१० कारकसङ्ग्रहः

कारकसूत्राणि अर्थाः च कारकाणि विभक्तयः उदाहरणानि
१. स्वतन्त्रः कर्ता – (१.४.५४) व्यापाराश्रयः कर्ता । कर्ता तृतीया
प्रथमा*
षष्ठी
– कर्मप्र – गुरुणा पाठः क्रियते ।
– कर्तृप्र – छात्राः शालां प्रविशन्ति ।
– कृष्णस्य गमनम् ।
२. कर्तुरीप्सिततमं कर्म – (१.४.४९) फलेन सम्बन्धुम् इष्यमाणं कर्म । कर्म द्वितीया
प्रथमा*
षष्ठी
– कर्तृप्र – धीराः पर्वतान् आरोहन्ति ।
– कर्मप्र – रोगिणा वैद्यः अवलोक्यते ।
– रामायणस्य रचयिता ।
३. साधकतमं करणम् – (१.४.४२) यत् स्वव्यापारसमनन्तरम् एव फलोत्पादकं तत् करणम् । करणम् तृतीया – रामः बाणेन रावणं हन्ति ।
४. कर्मणा यमभिप्रैति स सम्प्रदानम् – (१.४.३२) कर्मणा सम्बन्धुं यम् अभिप्रैति (इच्छति) सः सम्प्रदानम् । सम्प्रदानम् चतुर्थी – विश्वासः मित्राय पुस्तकं ददाति ।

* प्रातिपदिकार्थम् अवलम्ब्य एषा प्रथमा ।

[[P61]]


५. ध्रुवमपायेऽपादानम् – (१.४.२४) विभागाश्रयः अपादानम् । अपादानम् पञ्चमी – बालः वाहनात् पतति ।
६. आधारोऽधिकरणम् – (१.४.४५) कर्तरि विद्यमानक्रियायाः कर्मणि विद्यमानफलस्य वा आधारः अधिकरणम् । अधिकरणम् सप्तमी – षष्ठी राज्ञः पुरुषः ।
– सर्वे कटे उपविशन्ति ।
– मोक्षे इच्छा अस्ति ।
– तिले तैलम् अस्ति ।
विशेषः – \multicolumn{3}{l}{१. यः क्रियया अन्वेति = सम्बन्धं प्राप्नोति सः कारकम् ।
२. कर्तृकारकात् परा प्रथमा, तृतीया, षष्ठी च श्रूयते ।
३. कर्मकारकात् परा द्वितीया, प्रथमा, षष्ठी च श्रूयते ।
४. करणात् तृतीया, सम्प्रदानात् चतुर्थी, अपादानात् पञ्चमी, अधिकरणात् सप्तमी च नियता ।}

[[P62]]