०९ सप्तमीविभक्तिः

(अ) कारकसप्तमी

कारक-सप्तमी, उपपद-सप्तमी, कर्म-प्रवचनीय-सप्तमी चेति सप्तमी त्रिधा ।
अधिकरण-संज्ञां पुरस्कृत्य प्रवर्तमानां सप्तमी कारक-सप्तमी ।
अधिकरण-संज्ञा च एकेनैव सूत्रेण विहिता ।
यदा अधिकरण-संज्ञा प्रवृत्ता भवति तदा ‘सप्तम्यधिकरणे च – २.३.३६’ (अधिकरणे सप्तमी स्यात् ।
चकाराद् दूरान्तिकार्थेभ्यः ।) इति सूत्रेण सप्तमी प्रवर्तते ।
बहुभिः सूत्रैः वार्तिकैः च उपपद-सप्तमी विहिता ।
कर्म-प्रवचनीय-संज्ञां पुरस्कृत्य सप्तमी तु एकेनैव सूत्रेण विहिता ।

१. बालः कटे उपविशति ।
पाचकः स्थाल्याम् ओदनं पचति ।
तस्य पठने इच्छा अस्ति ।
तिलेषु तैलम् अस्ति ।

आधारो ऽधिकरणम् – १.४.४५ कर्तृ-कर्म-द्वारा तन्-निष्ठा-क्रियायाः आधारः कारकम् अधिकरण-संज्ञः स्यात् ।
(अष्टमं (८) पृष्ठं पश्यन्तु ।)

आधारस् त्रिधा – १. औपश्लेषिकः २. वैषयिकः ३. अभिव्यापकश् चेति ।

i. एक-देश-व्याप्ति-रूपः आधारः औपश्लेषिकः ।
सः च संयोग-मूलकः समवाय-मूलको वा भवति ।
अयम् आधारः स्वस्य एक-देश-व्याप्ति-रूपो भवति, न तु सकलावयव-व्याप्ति-रूपः ।
यथा – कटे उपविशति ।
अत्र कटः उपवेशन-क्रियायाः आधारः ।
किन्तु उपवेशन-क्रिया कटस्य एक-देशे भवति, न तु कृत्स्ने कटे ।
अत्र सम्बन्धः संयोगः ।
अतः अयम् औपश्लेषिकः आधारः ।
‘पाचकः स्थाल्याम् ओदनं पचति’ इत्यत्र तु ओदनं कर्म ।
तत्-कर्म-निष्ठ-क्रियायाः आधारः स्थाली ।
एषो ऽपि औपश्लेषिकः एव ।

ii. विषयतादि-सम्बन्ध-मूलकः आधारः वैषयिकः ।
अत्र संयोगः समवायो वा न भवति ।
अतः औपश्लेषिकाभिव्यापकातिरिक्तः सर्वः अपि आधारः वैषयिकः इति ज्ञेयम् ।
यथा – पठने इच्छा अस्ति ।
पठन-विषयीणी इच्छा इत्यर्थः ।
अत्र पठनम् आधारः ।
सम्बन्धश् च विषयता,

[[P58]]


न संयोगः समवायो वा ।
इदं ज्ञेयम् – ‘पक्षिणः आकाशे डयन्ते ।’
‘शिष्यः गुरौ वसति ।’
इत्यादीनि वैषयिकस्यैव उदाहरणानि ।
न हि अत्र संयोगः समवायो वा सम्बन्धः ।
अतो यत्र संयोग-समवाय-सम्बन्धौ न भवतः तत्र सर्वत्रापि वैषयिकः आधारः इति निश्वेतव्यम् ।

iii. संयोग-समवाय-मूलकः सकलावयव-व्यापित-रूपः अभिव्यापकः ।
यथा – तिलेषु तैलम् अस्ति ।
अत्र आधारः तिलानि ।
तिलानां सकलावयवेषु तैलम् (तैलस्य सत्ता) अस्ति ।
सम्बन्धश् च समवायः ।
अतः अयम् अभिव्यापकः आधारः ।
एवं ‘सर्वस्मिन् आत्मा अस्ति ।’
‘दध्नि सर्पिः अस्ति ।’
इत्यादीनि ।

(आ) उपपदसप्तमी

२. बालेषु अधीयानेषु गतः ।
गोषु दुह्यमानासु गतः ।

यस्य च भावेन भाव-लक्षणम् – २.३.३७ यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् ।
ज्ञापक-क्रियाश्रयात् सप्तमीति फलितार्थः ।
अत्र द्वे क्रिये भवतः ।
तयोः एकस्याः क्रियायाः कालः निर्ज्ञातः भवति ।
अपरस्याः क्रियायाः कालः अनिर्ज्ञातः भवति ।
तयोः निर्ज्ञात-काल-क्रिया ज्ञापिका भवति ।
अनिर्ज्ञात-काल-क्रिया ज्ञाप्या भवति ।
तत्र निर्ज्ञात-काल-क्रियाश्रयात् सप्तमी भवति ।
निर्ज्ञात-काल-क्रियाश्रयः कर्ता अपि भवति कर्म अपि ।

i. बालेषु अधीयानेषु गतः इत्यत्र अध्ययनं गमनं चेति द्वे क्रिये ।
कदा गतः इति प्रश्ने ‘अधीयानेषु बालेषु’ इत्य् उत्तरम् ।
अत्र अध्ययनम् अपि ज्ञातम् ।
तस्य कालो ऽपि ज्ञातः ।
तथैव गमनं ज्ञातम् ।
किन्तु तस्य कालः न ज्ञातः ।
अतः अध्ययन-क्रियायाः कालः निर्ज्ञातः ।
गमन-क्रियायाः कालः अनिर्ज्ञातः ।
अतः अनिर्ज्ञात-काल-गमन-क्रिया ज्ञाप्या ।
निर्ज्ञात-काल-अध्ययन-क्रिया ज्ञापिका ।
‘बालेषु अधीयानेषु गतः’ इत्यत्र बालाः निर्ज्ञात-काल-ज्ञापक-क्रियाश्रयः ।
अतः बाल-शब्दात् सप्तमी ।
अधीयानेषु इत्यत्र तु ‘बालेषु’ इत्यस्य विशेषणत्वात् सप्तमी ।
अस्मिन् वाक्ये कर्तृ-गता ज्ञापक-क्रिया ।
अध्ययन-क्रियायाः आश्रयः बालाः कर्तारः खलु ।

ii. गोषु दुह्यमानासु गतः इत्यत्रापि दोहनं गमनं चेति द्वे क्रिये ।
कदा गतः इति प्रश्ने ‘दुह्यमानासु गोषु’ इत्य् उत्तरम् ।
अत्र दोहनं ज्ञातम् ।
तस्य कालो ऽपि ज्ञातः ।
गमनं ज्ञातम् ।
तस्य कालः न ज्ञातः ।
अतः दोहन-क्रियायाः कालः निर्ज्ञातः ।
गमन-क्रियायाः कालः अनिर्ज्ञातः ।
अतः

[[P59]]


अनिर्ज्ञात-काल-गमन-क्रिया ज्ञाप्या ।
निर्ज्ञात-दोहन-क्रिया ज्ञापिका ।
‘गोषु दुह्यमानासु गतः’ इत्यत्र गावः निर्ज्ञात-काल-ज्ञापक-क्रियाश्रयः ।
अतः गो-शब्दात् सप्तमी ।
‘दुह्यमानासु’ इत्यत्र तु ‘गोषु’ इत्यस्य विशेषणत्वात् सप्तमी ।
अस्मिन् वाक्ये ज्ञापक-क्रिया कर्म-गता ।
दोहन-क्रियायाः कर्म-भूताः गावः ननु ।

iii. अधीती व्याकरणे ।

क्तस्येन्-विषयस्य कर्मण्युपसङ्ख्यानम् (वा) इन्-प्रत्ययान्तो यः क्त-प्रत्ययान्तः तस्य कर्मणि सप्तमी स्यात् इत्यर्थः ।
अधीती व्याकरणे ।
अधीतम् अनेन – इति विग्रहे तद्धितः इन्-प्रत्ययः (अधीत + इन्) भवति ।
अतः अधीती इति इन्-प्रत्ययान्तः क्त-प्रत्ययान्तः ।
अधीती = अधीतवान् इत्यर्थः ।
किम् अधीतवान् इति जिज्ञासायां व्याकरणं कर्मत्वेन अन्वेति ।
अतः द्वितीयायाः प्राप्तौ सप्तमी विधीयते ।
व्याकरण-कर्मक-अध्ययन-कर्ता इत्यर्थः ।


[[P60]]