षष्ठी द्विधा – शेष-षष्ठी कारक-षष्ठी च इति । शेष-षष्ठी एव सम्बन्ध-सामान्ये षष्ठी इति उच्यते । केषाञ्चन कृदन्तानां योगे कर्तरि कर्मणि च षष्ठी विहिता । सा कारक-षष्ठी इति उच्यते । षष्ठ्याः कारकत्वं नास्ति इत्यस्य शेष-षष्ठ्याः कारकत्वं नास्ति इति आशयः । अतः षष्ठ्याः कारकत्वं नास्ति इति प्रायो-वाद-मात्रम् ।
१. राज्ञः पुरुषः । दशरथस्य पुत्रः । वृक्षस्य पर्णम् ।
षष्ठी शेषे – २.३.५० कारक-प्रातिपदिकार्थ-व्यतिरिक्तः स्व-स्वामि-भावादि-सम्बन्धः शेषः । तत्र षष्ठी स्यात् ।
अयं भावः – शेषो नाम उक्ताद् अन्यः शेषः । कानि तर्हि उक्तानि ? कर्म-कर्तृ-करण-सम्प्रदान-अपादान-अधिकरणानि उक्तानि । प्रातिपदिकार्थश् च उक्तः । कथम् एषः अर्थः लब्धः ? ‘षष्ठी शेषे – २.३.५०’ इति सूत्रात् पूर्वं ‘कर्मणि द्वितीया – २.३.२’ इत्यारभ्य, ‘प्रातिपदिकार्थ-लिङ्ग-परिमाण-वचन-मात्रे प्रथमा – २.३.४६’ इत्यन्तं षट् कारकाणि प्रातिपदिकार्थश् च अष्टाध्याय्यां पूर्वम् उक्तः । अतः शेषो नाम उक्तात् अन्यः । कस् तर्हि एतेभ्यः षड्भ्यः कारकेभ्यः प्रातिपदिकार्थाच् च अतिरिक्तः अस्ति ? इति चेत् स्व-स्वामि-भावः, जन्य-जनक-भावः, अवयवावयवि-भावः इत्यादयः । एवं च कर्मादि-कारकेषु द्वितीयादयः प्रवर्तन्ते, प्रातिपदिकार्थे च प्रथमा भवति, स्व-स्वामि-भावादि-सम्बन्धे षष्ठी स्यात् इति पर्यवसन्नः अर्थः । यथा – राज्ञः पुरुषः ।
i. राज्ञः पुरुषः ।
राज-सम्बन्धी पुरुषः इति राज्ञः पुरुषः इत्यस्य अर्थः ।
एतादृशे अर्थे राजा विशेषणम् ।
अतः सः अप्रधानम् ।
पुरुषः विशेष्यः ।
अतः सः प्रधानम् ।
अत्र अप्रधानात् राज्ञः षष्ठी प्रकृत-सूत्रेण ।
‘राज-निरूपित-सेवकत्व-सम्बन्धवान् पुरुषः’ इति शाब्द-बोधः ।
[[P51]]
ii. दशरथस्य पुत्रः ।
अस्यार्थः दशरथ-सम्बन्धी पुत्रः इति ।
एतादृशे अर्थे दशरथः अप्रधानम् ।
पुत्रः प्रधानम् ।
अ प्रधानात् दशरथात् षष्ठी प्रकृत-सूत्रेण ।
‘दशरथ-निरूपित-अपत्यत्व-सम्बन्धवान् पुत्रः’ इति शाब्द-बोधः ।
iii. वृक्षस्य पर्णम् ।
अस्यार्थः वृक्ष-सम्बन्धि पर्णम् इति ।
एतादृशे ऽर्थे वृक्षः अप्रधानम् ।
पर्णं प्रधानम् ।
अ प्रधानात् वृक्षात् षष्ठी प्रकृत-सूत्रेण ।
‘वृक्ष-निरूपित-अवयवत्व-सम्बन्धवत् पर्णम्’ इति शाब्द-बोधः ।
२. देवदत्तः मातुः स्मरति ।
अस्मिन् वाक्ये देवदत्तः कर्ता । माता कर्म भवितुं योग्या । यत्र कर्मत्वेन (मातृ-कर्मकं स्मरणम्) अविवक्षित्वा सम्बन्ध-सामान्यं (मातृ-सम्बन्धि-स्मरणम्) विवक्ष्यते तत्र षष्ठी स्यात् । अतः अत्र मातृ-शब्दात् षष्ठी । देवदत्त-कर्तृकं मातृ-सम्बन्धि-स्मरणम् इत्यर्थः उपर्युक्तस्य वाक्यस्य । यदि कर्मत्वेन (मातृ-कर्मकं स्मरणम्) विवक्षा तदा द्वितीया भवेत् एव – ‘देवदत्तः मातरं स्मरति’ इति । एवं ‘भजे शम्भोश् चरणयोः’ इति ।
३. कृष्णस्य गमनम् । श्लोकस्य पाठकः ।
कर्तृ-कर्मणोः कृति – २.३.६५ कृद्-योगे कर्तरि कर्मणि च षष्ठी स्यात् ।
प्रायः भाव-कृत्-प्रत्ययान्तानां (क्त्वा-तुमुनौ विहाय) योगे कर्तुः कर्मणि च षष्ठी स्यात्, ण्वुल् (अक) तृज्-अन्तानां योगे कर्मणि षष्ठी स्याद् इति स्मरणं सुकरम् । केषाञ्चन कृदन्तानां योगे ‘न लोकाव्यय…’ इति निषेधात् केषाञ्चित् तु (स्थायी पिब, दद इत्यादीनां) कर्त्रा वा कर्मणा वा सह प्रयोगस्यैव वैरल्यात् प्रायः इत्य् उक्तम् ।
i. कृष्णस्य गमनम् इत्यत्र गमन-आश्रयत्वात् कृष्णः कर्ता । गमनम् इति कृदन्तः (ल्युट् = अन्) । अतः तद्-योगे कर्तरि षष्ठी । (अन्यथा ‘कर्तृ-करणयोस् तृतीया’ इति तृतीया प्रवर्तेत – ‘कृष्णेन गमनम्’ इति ।)
ii. श्लोकस्य पाठकः इत्यत्र पठन-क्रियायाः कर्म श्लोकः । पाठकः इति कृदन्तः (ण्वुल् = अक) । अतः तद्-योगे कर्मणि षष्ठी । (अन्यथा ‘कर्मणि द्वितीया’ इति द्वितीया प्रवर्तेत – ‘श्लोकं पाठकः’ इति । एवम् ‘ओदनस्य पाकः ।’, ‘धनस्य अपहर्ता’ इत्यादयः ज्ञेयाः ।)
[[P52]]
४. साधु खलु । पयसः पानं बालकेन ।
उभय-प्राप्तौ कर्मणि – २.३.६६ उभयोः प्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् । एकस्मिन् वाक्ये, कृद्-योगे उभयोः कर्तृ-कर्मणोः षष्ठी-प्रसक्तौ कर्मणि एव षष्ठी स्यात्, न तु कर्तरि इति नियमार्थम् इदं सूत्रम् ।
पयसः पानं बालकेन इत्यत्र पान-क्रियाश्रयः बालकः कर्ता । पयः कर्म । पानम् इति कृदन्तं (ल्युट्) पदम् । अत्र ‘कर्तृ-कर्मणोः कृति – २.३.६५’ इति कर्तुः कर्मणश् च षष्ठी प्राप्ता अनेन नियम्यते ‘कर्मणः पयसः एव षष्ठी, न तु कर्तुः बालकात्’ इति । अतः ‘पयसः पानं बालकेन’ इत्यत्र कर्मणः (पयसः) षष्ठी, न तु कर्तुः (बालकेन) ।
५. गद्यस्य पिपठिषा सर्वस्य । बालकस्य खादिका आम्रस्य ।
स्त्री-प्रत्यययोर् अकाकारयोः नायं नियमः (वा) ‘स्त्रियां क्तिन्’ इति अधिकार-विहितयोः अक-प्रत्यय-अकार-प्रत्यययोः कृतोः योगे ‘उभय-प्राप्तौ कर्मणि इति बोधितः कर्मण्येव षष्ठी भवति इति नियमो नास्ति’ इत्यर्थः । एवं च कर्तरि कर्मणि च षष्ठी भवति इति फलितम् ।
i. गद्यस्य पिपठिषा सर्वस्य इत्यत्र पठन-इच्छायाः कर्म गद्यं, पठन-इच्छायाः कर्ता सर्वः । पिपठिषा इति कृत्-प्रत्ययान्तः शब्दः । पिपठिषा इत्यत्र ‘स्त्रियां क्तिन्’ इत्यधिकारे विहितः ‘अ’ इति प्रत्ययः श्रूयते । अतः कर्तरि कर्मणि च षष्ठी भवति ‘गद्यस्य पिपठिषा सर्वस्य’ इत्यत्र ।
ii. बालस्य खादिका आम्रस्य इत्यत्र बालः कर्ता, आम्रः कर्म, खादिका इति कृदन्तः । खादिका इत्यत्र स्त्रियां क्तिन्-नित्यधिकारे विहितः ‘अक’-प्रत्ययः श्रूयते । अतः कर्तरि कर्मणि च षष्ठी भवति – ‘बालकस्य खादिका आम्रस्य’ इति ।
६. शब्दानाम् अनुशासनम् आचार्यस्य/शब्दानाम् अनुशासनम् आचार्येण ।
शेषे विभाषा (वा) अक-प्रत्ययं अकार-प्रत्ययं च वर्जयित्वा अन्येषां कृदन्तानां योगे ‘उभय-प्राप्तौ कर्मणि – २.३.६६’ इति नियमः विकल्प्यते इति वार्तिकस्यार्थः । तथा च कर्तृ-कर्मणोः उभयोः उपादाने ‘कर्मणि एव षष्ठी स्यात्, कर्तरि न’ इति नियमः ‘उभय-प्राप्तौ कर्मणि’ इति सूत्रेण कृतः, सः विकल्पितः । अतः उभयोः उपादाने कर्तरि विकल्पेन षष्ठी भवतीति पर्यवसन्नम् ।
कर्तरि षष्ठ्याम् – ‘शब्दानाम् अनुशासनम् आचार्यस्य’ इति । कर्तरि षष्ठ्यभावे – ‘शब्दानाम् अनुशासनम् आचार्येण’ इति । अनयोः वाक्ययोः शब्दः कर्म, आचार्यः कर्ता इति ज्ञेयम् ।
[[P53]]
इदम् अवधेयम् –
i. कर्तृ-कर्मणोः कृति – २.३.६५ इति सूत्रेण कृदन्तानां योगे कर्तरि कर्मणि च षष्ठी विहिता । इदं सूत्रं यत्र केवलं कर्तुः उपादानं, केवलं कर्मणः उपादानं वा तत्र चरितार्थम् । केवलं कर्तुः उपादानं यथा – ‘कृष्णस्य गमनम्’ इति । केवलं कर्मणः उपादानं यथा – ‘श्लोकस्य पठनम्’ इति । यत्र तु कर्तुः कर्मणश् च उपादानं तत्र उभयोः अपि षष्ठी ‘कर्तृ-कर्मणोः कृति – २.३.६५’ इति सूत्रेण प्राप्ता । तदा ‘कर्मणि षष्ठी भवति, न तु कर्तरि’ इति नियम्यते – ‘उभय-प्राप्तौ कर्मणि – २.३.६६’ इति सूत्रेण । यथा – ‘पयसः पानं बालकेन’ इति । किन्तु ‘शेषे विभाषा’ इति वार्तिकेन कर्तरि अपि षष्ठी विकल्पेन भवति कृद्-योगे, किन्तु अक-प्रत्ययम्, अकार-प्रत्ययं च वर्जयित्वा इति बोधितम् । यथा – ‘शब्दानाम् अनुशासनम् आचार्यस्य’ इति, ‘शब्दानाम् अनुशासनम् आचार्येण’ इति च । एवं च ‘उभय-प्राप्तौ कर्मणि’ इति सूत्रेण कर्मणि षष्ठी, न तु कर्तरि इति यो ऽयं निषेधः कृतः सः विकल्पितः इति पर्यवसन्नम् । अतः एव कृद्-योगे कर्तृ-कर्मणोः उभयोः उपादाने कर्तृ-पदं तृतीयान्तं श्रूयते, षष्ठ्यन्तम् अपि । कर्म-पदं तु षष्ठ्यन्तम् एव । न कर्मणि षष्ठ्याः निषेधो विकल्पो वा उक्तः ।
ii. कर्तृ-कर्मणोः कृति इति सूत्रेण सर्वेषां कृदन्तानां योगे कर्तरि कर्मणि च षष्ठी विहिता । किन्तु केषाञ्चन कृदन्तानां योगे षष्ठी न भवति । ते के कृदन्ताः इति अवश्यं ज्ञातव्याः । तत्र इदम् अस्ति सूत्रं – ‘न लोक-अव्यय-निष्ठा-खलर्थ-तृनाम् – २.३.६९’ इति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन् इत्येतेषां प्रयोगे षष्ठी न स्याद् इति सूत्रार्थः । ल = लादेशः = शतृ-शानचौ – ओदनं पचन्/ओदनं पचमानः । उ = उकारान्त-प्रत्ययः – हरिं दिदृक्षुः । कन्याम् अलङ्करिष्णुः । उक = दैत्यान् घातुको हरिः । (तस्याः कामुकः इत्यत्र तु षष्ठी भवति । कामुक-शब्द-प्रयोगे षष्ठ्याः ‘कमेर् अनिषेधः’ इति वार्तिकेन अनिषेधात्) अव्ययम् = क्त्वा-तुमुनौ – कटं कृत्वा । ओदनं कर्तुम् । निष्ठा = क्त-क्तवतू – क्षीरं पीतम् । ओदनं भुक्तवान् । खलर्थः = खल्-युचौ (खलर्थक-युच्) = ईषत्-करः कटः भवता । ईषत्-पानः सोमो भवता । तृन् = शानन्, चानश्, शतृ, तृन् – सोमं पवमानः । आत्मानं मण्डयमानः । वेदम् अधीयन् । कर्ता कटम् ।
विशेषः –
i. ‘कर्ता कटम्’ इत्यत्र कर्ता इति तृन्-नन्तः शब्दः ।
अतः षष्ठ्याः निषेधः ।
‘धनस्य अपहर्ता’ इत्यत्र तु अपहर्ता इति तृज्-अन्तः शब्दः ।
अतो न षष्ठ्याः निषेधः ।
किन्तु कर्तृ-कर्मणोः कृति इति षष्ठी एव ।
[[P54]]
ii. ‘कर्तृ-कर्मणोः कृति – २.३.६५’ इति सूत्रेण यत्र षष्ठी प्रवर्तते तत्र ‘षष्ठी शेषे – २.३.५०’ इति सूत्रेणापि षष्ठ्याः अवसरः अस्ति । यथा – कृष्णस्य गमनम् । ‘कृष्ण-कर्तृकं गमनम्’ इति ‘कृष्ण-सम्बन्धि गमनं वा’ इति अस्य वाक्यस्य अर्थः । तत्र आद्ये अर्थे ‘कर्तृ-कर्मणोः कृति’ इति सूत्रेण षष्ठी, द्वितीयार्थे तु ‘षष्ठी शेषे’ इति सूत्रेण षष्ठी इति विवेकः । यत्र ‘ओदनं पचन्’, ‘हरिं दिदृक्षुः’ इत्यादौ ‘कर्तृ-कर्मणोः कृति’ इति सूत्रेण प्राप्ता षष्ठी ‘न लोक-अव्यय….’ इति सूत्रेण निषिद्धा, तत्रापि ‘षष्ठी शेषे’ इति सूत्रेण षष्ठी प्रवर्तते एव । यथा – ओदनस्य पचन्, हरेः दिदृक्षुः इति । केवलं शाब्द-बोधे भेदः इति ज्ञेयम् ।
७. मम इष्टः । सर्वेषां ज्ञातः ।
क्तस्य च वर्तमाने – २.३.६७ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । क्त-प्रत्ययः भूते (श्लोकः पठितः), वर्तमाने (सर्वेषाम् इष्टः), आदि-कर्मणि (कटं कृतः), काल-सामान्ये च (छात्रस्य हसितम्) विहितः । ‘मति-बुद्धि-पूजार्थेभ्यश् च – ३.२.१८८’ इति सूत्रेण इच्छाद्यर्थे, बुद्ध्याद्यर्थे, पूजार्थे च वर्तमाने अपि क्त-प्रत्ययः विहितः । तत्र क्त-प्रत्ययान्तानां योगे ‘न लोक-अव्यय-निष्ठा-खलर्थ-तृनाम् – २.३.६९’ इति षष्ठ्याः निषेधे प्राप्ते, वर्तमानार्थस्य क्तस्य योगे षष्ठी प्रकृत-सूत्रेण विधीयते । मम इष्टः = मत्-कर्तृक-वर्तमान-इच्छा-विषयः । सर्वेषां ज्ञातः = सर्व-कर्तृक-वर्तमान-ज्ञान-विषयः । अत्र इष्ट-ज्ञातौ वर्तमानार्थक-क्त-प्रत्ययान्तौ । भूतार्थक-क्त-प्रत्यय-योगे तु षष्ठी न, अपि तु तृतीया एव । यथा – मया इष्टः, सर्वैः ज्ञातः इति । अत्र इष्ट-ज्ञातौ भूतार्थक-क्त-प्रत्ययान्तौ ।
८. लोक-हितं मम (मया) करणीयम् । मम (मया) हरिः सेव्यः ।
कृत्यानां कर्तरि वा – २.३.७१ कृत्य-प्रत्ययान्तानां योगे कर्तरि षष्ठी वा स्यात् । कृत्-प्रत्ययेषु अन्तर्भूताः सप्त कृत्य-प्रत्ययाः (तव्य, तव्यत्, अनीयर्, यत्, क्यप्, ण्यत्, केलिमर्) सन्ति । एतेषाम् अपि कृत्-संज्ञा अस्ति एव । अतः ‘कर्तृ-कर्मणोः कृति’ इति षष्ठी कर्तुः नित्यं प्राप्ता, अनेन विकल्प्यते । षष्ठी-पक्षे – ‘लोक-हितं मम करणीयम्’, ‘मम हरिः सेव्यः’ इति । षष्ठ्यभाव-पक्षे – ‘कर्तृ-करणयोस् तृतीया – २.३.१८’ इति कर्तरि तृतीया भवति – ‘लोक-हितं मया करणीयम्’, ‘मया हरिः सेव्यः’ इति ।
९. चन्द्रस्य (चन्द्रेण) सदृशं मुखम् । बलरामस्य (बलरामेण) तुल्यः (= सदृशः) भीमः ।
तुल्यार्थैर् अतुलोपमाभ्यां तृतीयान्यतरस्याम् – २.३.७२ तुल्यार्थैः योगे तृतीया
[[P55]]
वा स्यात् पक्षे षष्ठी । षष्ठी-पक्षे – ‘चन्द्रस्य सदृशं मुखम् ।’ षष्ठ्यभावे तृतीया भवति – ‘चन्द्रेण सदृशं मुखम्’ इति ।
१०. गृहस्य (गृहाद्) दूरं विद्यालयः । विद्यालयस्य (विद्यालयात्) निकटम् आपणः ।
दूरान्तिकार्थैः षष्ठी अन्यतरस्याम् – २.३.३४, दूरान्तिकार्थैः शब्दैः योगे षष्ठी स्यात् पञ्चमी च । (पञ्च-चत्वारिंशत्तमं (४५) पृष्ठं परिशील्यताम् ।)
११. प्राणिनां (प्राणिषु) मानवः श्रेष्ठः । गवां (गोषु) कपिला बहु-क्षीरा । अध्वगानां (अध्वगेषु) धावन् शीघ्रतमः । छात्राणां (छात्रेषु) रविः पटुः ।
यतश् च निर्धारणम् – २.३.४१ जाति-गुण-क्रिया-संज्ञाभिः समुदायात् एक-देशस्य पृथक्-करणं निर्धारणं, यतः ततः षष्ठी-सप्तम्यौ स्तः ।
शब्दः चतुर्धा –
१. जाति-वाचकः – (यथा – वृक्षः, गौः) ।
२. गुण-वाचकः – (यथा – शुक्लः, कपिलः) ।
३. क्रिया-वाचकः – (यथा – गच्छन्, धावन्) ।
४. संज्ञा-वाचकः – (यथा – देवदत्तः, चैत्रः) च इति ।
कश्चित् समुदायो भवति ।
समुदायान्तर्गतः एक-देशः भवति ।
सः च एक-देशः जातिः, गुणः, क्रिया, संज्ञा वा भवति ।
एतादृशस्य एक-देशस्य समुदायात् पृथक्-करणं श्रेष्ठत्वादि-धर्मं पुरस्कृत्य यदा विवक्ष्यते, तदा समुदायात् षष्ठी-सप्तम्यौ भवतः ।
i. प्राणिनां मानवः श्रेष्ठः इत्यत्र समुदायः प्राणिनः, तद्-एक-देशः मानवः । तस्य पृथक्-करणं श्रेष्ठत्वेन धर्मेण विवक्षितः । अतः प्राणि-रूप-समुदायात् षष्ठी भवति । जात्या पृथक्-करणस्य इदम् उदाहरणम् । अत्र एक-देश-भूतः मानवः मनुष्यत्व-जाति-युक्तः (जात्युपसर्जन-व्यक्ति-वाचकः) । षष्ठ्यभावे सप्तमी भवति – ‘प्राणिषु मानवः श्रेष्ठः’ इति ।
ii. गवां कपिला बहु-क्षीरा इत्यत्र समुदाय गावः, तद्-एक-देशः कपिला, तस्याः पृथक्-करणं बहु-क्षीरत्वेन धर्मेण विवक्षितः । अतः गो-रूप-समुदायात् षष्ठी भवति । गुणेन पृथक्-करणस्य इदम् उदाहरणम् । अत्र एक-देश-भूता कपिला कापिल्य-गुण-युक्ता । (गुणोपसर्जन-द्रव्य-वाचिका) षष्ठ्यभावे सप्तमी भवति – ‘गोषु कपिला बहु-क्षीरा’ इति ।
iii. अध्वगानां धावन् शीघ्रतमः इत्यत्र अध्वगाः समुदायः, तद्-एक-देशः धावन् । तस्य पृथक्-करणं शीघ्रतमत्वेन धर्मेण विवक्षितः । अतः अध्वग-रूप-समुदायात् षष्ठी भवति । क्रियया पृथक्-करणस्य इदम् उदाहरणम् । अत्र एक-देश-भूतः धावन् धावन-क्रिया-युक्तः (क्रियोपसर्जन-द्रव्य-वाचकः) ।
[[P56]]
iv. छात्राणां रविः पटुः इत्यत्र छात्राः समुदायः, रविः तद्-एक-देशः । तस्य पृथक्-करणं पटुत्वेन धर्मेण विवक्षितः । अतः छात्र-रूप-समुदायात् षष्ठी । संज्ञया पृथक्-करणस्य इदम् उदाहरणम् । अत्र एक-देश-भूतः रविः रविर् इति संज्ञा-युक्तः । (संज्ञोपसर्जन-द्रव्य-वाचकः)
१२. आयुर् नश्यति पश्यतां (पश्यत्सु) प्रतिदिनम् । धनं जहार पश्यतां (पश्यत्सु) ।
षष्ठी चानादरे – २.३.३८ अनादर-आधिक्ये भाव-लक्षणे षष्ठी-सप्तम्यौ स्तः । अनादरे गम्यमाने ज्ञापक-क्रियाश्रयात् षष्ठी-सप्तम्यौ भवतः । (‘यस्य च भावेन…’ (चतुः-पञ्चाशत्तमे (५४) पृष्ठे) इति सूत्रे यद्-विवरणं दत्तं तत्-सर्वम् अत्रापि अनुसन्धेयम् । अनादरः केवलं प्रतीयते इति विशेषः ।) ‘पश्यतः जनान् अनादृत्य आयुः नष्टं भवत्येव’ इत्यर्थः । ‘पश्यतो जनान् अनादृत्य धनम् अपजहार’ इति द्वितीय-वाक्यस्य अर्थः ।
[[P57]]