०७ पञ्चमीविभक्तिः

कारक-पञ्चमी ‘उपपद-पञ्चमी’ कर्म-प्रवचनीय-पञ्चमी चेति पञ्चमी त्रिविधा । यत् अपादानं भवति, तस्मात् अपादानात् पञ्चमी भवति । अपादाने पञ्चमी-विधायकं सूत्रम् एकम् एव अपादाने पञ्चमी – २.३.१८ इति । अपादान-संज्ञा-विधायक-सूत्राणि बहूनि सन्ति । उपपद-पञ्चमी-विधायकानि सूत्राण्यपि सन्ति अनेकानि । कर्म-प्रवचनीय-संज्ञां पुरस्कृत्य पञ्चमी-विधायके द्वे सूत्रे स्तः ।

(अ) कारकपञ्चमी

१. वृक्षात् पर्णं पतति ।

ध्रुवम् अपाये ऽपादानम् – १.४.२४ विश्लेषे साध्ये अवधि-भूतं कारकम् अपादानं स्यात् । विभागाश्रयो ऽपादानम् इति फलितार्थः ।

वृक्षात् पर्णं पतति । अत्र पत्-धातोर् अर्थः अधो-देश-संयोग-रूपं फलं, तद्-अनुकूल-क्रिया च । पतन-क्रियाश्रयः पर्णं कर्तृ । विभागाश्रयः वृक्षः । अतो वृक्षो ऽपादानम् । अपादान-भूतात् वृक्षात् पञ्चमी ‘अपादाने पञ्चमी’ इति सूत्रेण । (सप्तमं (७) पृष्ठं पश्यन्तु ।)

२. पापात् जुगुप्सते । अधर्मात् विरमति । धर्मात् प्रमाद्यति ।

जुगुप्सा-विराम-प्रमादार्थानाम् उपसंख्यानम् (वा) जुगुप्सा-विराम-प्रमादार्थक-धातुभिः योगे, जुगुप्सा-विषयस्य, विराम-विषयस्य, प्रमाद-विषयस्य च अपादान-संज्ञा भवति ।

i. पापात् जुगुप्सते । अत्र जुगुप्सायाः विषयः पापम् । तस्य अपादान-संज्ञा प्रकृत-वार्तिकेन । अपादान-भूतात् पापात् पञ्चमी ‘अपादाने पञ्चमी’ इति सूत्रेण । पापात् जुगुप्सते = पाप-विषये न रमते ।

ii. अधर्मात् विरमति । अत्र विरामस्य विषयो ऽधर्मः । तस्य अपादान-संज्ञा भवति । अपादान-भूतात् अधर्मात् पञ्चमी ‘अपादाने पञ्चमी’ इति सूत्रेण । अधर्माद् विरमति = अधर्म-विषये न प्रवर्तते इत्यर्थः ।

iii. धर्मात् प्रमाद्यति । अत्र प्रमादस्य विषयः धर्मः । तस्य अपादान-संज्ञा । अपादान-भूतात् धर्मात् पञ्चमी ‘अपादाने पञ्चमी’ इति सूत्रेण । धर्मात् प्रमाद्यति = धर्म-विषये मुह्यति इत्यर्थः ।

[[P45]]


३. चोरात् बिभेति । व्याघ्रात् रक्षति ।

भीत्रार्थानां भय-हेतुः – १.४.२५ भयार्थानां त्राणार्थानां च प्रयोगे भय-हेतुः अपादानं स्यात् ।

i. चोरात् बिभेति । अत्र भय-हेतुः चोरः । अतः चोरः अपादानम् । चोरात् पञ्चमी ।

ii. व्याघ्रात् रक्षति । अत्र भय-हेतुः व्याघ्रः । अतः व्याघ्रः अपादानम् । व्याघ्रात् पञ्चमी । चोराद् बिभेति = चोरेण हेतुना भीतिम् आप्नोति इत्यर्थः । व्याघ्रात् त्रायते = व्याघ्रेण हेतुना तत्-कृत-वध-निवृत्त्यै आत्मानं रक्षति इत्यर्थः ।

४. शिष्यः उपाध्यायात् अधीते ।

आख्यातोपयोगे – १.४.२९ नियम-पूर्वक-विद्या-स्वीकारे वक्ता अपादानं स्यात् । वक्ता = अध्यापयिता ।

शिष्यः उपाध्यायात् अधीते । नियम-पूर्वक-विद्यायाः स्वीकर्ता शिष्यः । अतः शिष्यः कर्ता । तस्य अध्यापयिता उपाध्यायः । अतः उपाध्यायः अपादानम् । उपाध्यायात् पञ्चमी । शिष्यः उपाध्यायाद् अधीते = नियम-विशेष-पूर्वकम् उपाध्यायस्योच्चारणम् अनुच्चारयति इत्यर्थः ।

५. तन्तुभ्यः पटो भवति ।

जनिकर्तुः प्रकृतिः – १.४.३० जायमानस्य हेतुः अपादानं स्यात् ।

तन्तुभ्यः पटो भवति । अत्र जायमानः पटः । तस्य हेतुः तन्तवः । अतः तन्तवः अपादानम् । ततो पञ्चमी । तन्तुभ्यः पटो भवति = तन्तुभ्यः पटो जायते इत्यर्थः ।

(आ) उपपदपञ्चमी

६. प्राध्यापकात् प्राचार्यः अन्यः । न्यायाधीशात् न्यायवादी भिन्नः । अर्जुनात् कार्तवीर्यार्जुनः इतरः । सर्वेभ्यो विक्षणः एषः । ननु सप्तभ्यः पदार्थेभ्यः तमः अर्थान्तरम् । ग्रामात् आराद् वनम् अस्ति । संस्कृतात् ऋते संस्कृतिः दुर्जेया । ग्रामात् उत्तरो विद्यालयः । वैशाखात् पूर्वः चैत्रः ।

अन्याराद्-इतरर्ते-दिक्-शब्दाञ्चूत्तर-पदाजाहि-युक्ते – २.३.२९ अन्य, आरात्, इतर, ऋते, दिक्-शब्द, अञ्चूत्तर-पद, आच्, आहि इत्येतैर् योगे पञ्चमी-विभक्तिः भवति । अत्र अन्येत्यर्थ-ग्रहणं कर्तव्यम् । तेन तत्-पर्यायाणाम् अपि प्रयोगे पञ्चमी भवति । सूत्रे तदा इतर-ग्रहणं स्पष्टार्थम् इति ज्ञेयम् ।

[[P46]]


i. ‘प्राध्यापकात्….’, ‘….अर्थान्तरम्’ इति पञ्चसु वाक्येषु अन्यार्थक-शब्द-योगात् पञ्चमी श्रूयते ।

ii. ग्रामात् आरात् वनम् अस्ति = ग्रामाद् दूरं समीपं वा वनम् अस्ति इत्यर्थः । आराद् = दूरं समीपं वा ।

iii. संस्कृतात् ऋते संस्कृतिः दुर्जेया = संस्कृतं विना संस्कृतिः दुर्जेया इत्यर्थः । ऋते = विना ।

iv. ग्रामात् उत्तरः विद्यालयः = ग्राम-अवधिकः उत्तर-दिग्-वर्ती विद्यालयः इत्यर्थः । दिक्-शब्दाः नाम = रूढ्या दिग्-विशेष-वाचकाः पूर्वादि-यः, काल-वाचकाः पूर्वादि-यः च ।

v. वैशाखात् पूर्वः चैत्रः = वैशाख-अवधिकः पूर्व-काल-भवः चैत्रः । अवयव-वाचिनां पूर्वादिनां योगे पञ्चमी न भवति । यथा – पूर्वं कायस्य / शरीरस्य पूर्व-अवयवः इत्यर्थः । अत्र पूर्व-शब्दः अवयव-वाची । अतो न पञ्चमी । (अञ्चूत्तर-पदः – ग्रामात् प्राक् । आच्-प्रत्ययान्तः = ग्रामात् दक्षिणा । आहि-प्रत्ययान्तः – नगरात् दक्षिणाहि ।)

७. बाल्यात् प्रभृति पञ्च-वादने उत्तिष्ठति । मासात् आरभ्य मेघो वर्षति ।

‘कार्तिक्याः प्रभृति’ इति भाष्य-प्रयोगात् प्रभृत्य्-अर्थ-योगे पञ्चमी भवति । प्रभृत्य्-अर्थ-योगे इति कथनात् ‘आरभ्य’ इत्यस्य योगे ऽपि पञ्चमी भवति । बाल्यात् प्रभृति पञ्च-वादने उत्तिष्ठति = बाल्यम् अवधिम् आदाय पञ्च-वादने उत्तिष्ठति इत्यर्थः । मासाद् आरभ्य मेघो वर्षति = मासम् अवधिम् आदाय मेघो वर्षति इत्यर्थः ।

‘आरभ्य’ इत्यस्य योगे द्वितीयापि भवति । ‘अवीचीम् आरभ्य’ इति भाष्य-प्रयोगात् । तेन ‘सूर्योदयम् आरभ्य आस्तमयाज् जपति’ इति सिद्धम् । प्रारम्भं कृत्वा इत्यर्थे ‘आरभ्य’ इत्यस्य योगे सप्तमी अपि । यथा – ‘आरभ्य तस्यां दशमीं तु यावत्’ इति । तस्यां प्रारम्भं कृत्वा दशमी-पर्यन्तं यावत् इत्यर्थः ।

८. गृहाद् बहिः कुतः तिष्ठसि ?

अप-परि-बहिर्-अञ्चवः पञ्चम्याः – २.१.१२ अप, परि, बहिस्, अञ्च् इत्येते पञ्चम्यन्तेन वा समस्यन्ते । यथा – वनाद् बहिः = बहिर्-वनम् । अनेन सूत्रेण पञ्चम्यन्तेन सह ‘बहिः’ इति शब्दस्य समास-विधानात् ज्ञायते यत् बहिर्-योगे पञ्चमी भवति इति । बहिर्-योगे पञ्चम्याः विधायकस्य सूत्रस्य अभावेन पूर्वोक्तात् ज्ञापकात् बहिर्-योगे पञ्चमी भवति । क्वचित् षष्ठी अपि श्रूयते इति व्याख्यानादिषु

[[P47]]


लिख्यते । यथा – ‘करस्य करभो बहिः’ इति । ‘ज्ञापक-सिद्धं न सर्वत्र’ इति परिभाषाम् अवलम्ब्य षष्ठी साधनीया इति तेषाम् आशयः ।

९. शनैः शनैः गच्छति आलस्यात्/आलस्येन वा ।

विभाषा गुणे ऽस्त्रियाम् – २.३.२५ गुणे हेतौ पञ्चमी वा स्यात् । स्त्री-लिङ्गे तु पञ्चमी न भवति । अत्र आलस्यम् इति गुण-वाचकः शब्दः । शनैः गमने आलस्यं हेतुः । अतः आलस्यात् पञ्चमी भवति । पञ्चम्याः विकल्पेन विधानात् पञ्चम्याः अभावे ‘हेतौ – २.३.२३’ इति सूत्रेण तृतीया भवति । अतः हेतु-तृतीयायाः विकल्पेन गुणं प्रति अपवाद-भूता पञ्चमी इति ज्ञेयम् । ‘दण्डाद् घटः’ इति प्रयोगः चिन्त्यः एव । यद्यपि घटस्य दण्डः हेतुः, तथापि गुण-वाचकाद् एव पञ्चमी भवति इत्य् उक्तत्वात् पञ्चमी न । दण्डस् तु न गुणः । अतः दण्डेन घटः इत्येव प्रयोगः । ‘प्रज्ञायाः मुक्तिः’ इत्यपि न भवति । यद्यपि प्रज्ञा गुणः, मुक्तेः हेतुश् च तथापि ‘स्त्री-लिङ्गे न भवति’ इति निषेधात् पञ्चमी न भवति । प्रज्ञायाः स्त्रीत्वात् ।

पर्वतः वह्निमान् धूमात् । नास्ति घटो ऽनुपलब्धेः ।
अत्र वह्नि-ज्ञानस्य धूमः हेतुः । अतः धूमात् पञ्चमी । घटाभावस्य अनुपलब्धिः हेतुः । अतः अनुपलब्धेः पञ्चमी । ननु धूमः न गुणः, अनुपलब्धिः यद्यपि गुणः तथापि स्त्री-लिङ्गे वर्तते । अतो ‘विभाषा गुणे ऽस्त्रियाम्’ इति सूत्रेण धूमात् अनुलब्धेः इत्यनयोः कथं पञ्चमी ? अगुण-वाचकात् स्त्री-लिङ्गाच् च पञ्चम्याः निषेधात् ? इति चेत् । अत्र इदं समाधानम् – ‘अकर्तर्युणे पञ्चम्याः – २.३.२४’, ‘विभाषा गुणे ऽस्त्रियाम् – २.३.२५’ इति सूत्र-क्रमः अष्टाध्याय्याम् । तत्र ‘विभाषा गुणे ऽस्त्रियाम्’ इति सूत्रं द्विधा विभज्यते । ‘विभाषा’ इति एकं सूत्रम्, ‘गुणे ऽस्त्रियाम्’ इति द्वितीयं सूत्रम् । ‘विभाषा’ इत्यत्र ‘अकर्तृ-ऋणे पञ्चमी’ इति सूत्रात् ‘पञ्चमी’ इत्यनुवर्तते । ‘विभाषा पञ्चमी भवति’ इति ‘विभाषा’ इति सूत्रस्य अर्थः । (‘गुणे ऽस्त्रियाम्’ इति द्वितीय-सूत्रे ‘विभाषा’ इति ‘पञ्चमी’ इति च अनुवर्तते । पूर्वोक्तः अर्थः ।) पूर्वोक्तं वाक्य-द्वयम् अस्य सूत्रस्य उदाहरणम् । इत्थं सूत्रं विभज्य व्याख्यानात् शिष्टानां प्रयोगे सति क्वचित् अगुणाद् अपि स्त्री-लिङ्गाद् अपि पञ्चमी विकल्पेन भवतीति ज्ञेयम् ।

१०. कृष्णाद् विना नान्या गतिः । (कृष्णं / कृष्णेन विना नान्या गतिः)

पृथग्-विना-नानाभिस् तृतीयान्यतरस्याम् – २.३.३२ पृथग्, विना, नाना इत्येतैः योगे तृतीया स्यात् पञ्चमी-द्वितीये च ।

[[P48]]


कृष्णाद् विना नान्या गतिः । अत्र ‘विना’ इति कृष्णेन अन्वितः । अतः कृष्णात् पञ्चमी । पञ्चम्याः अभावे अनेनैव सूत्रेण द्वितीया तृतीया च भवनः । कृष्णाद् विना नान्या गतिः – कृष्णं वर्जयित्वा अन्या गतिः नास्ति इत्यर्थः । (कृष्णात् पृथक् नान्या गतिः । कृष्णात् नाना नान्या गतिः)

११. ग्रामात् दूरं नगरम् । गृहात् अन्तिकं गोष्ठम् ।
(ग्रामस्य दूरं नगरम् ।) (गृहस्य अन्तिकं गोष्ठम् ।)

दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् – २.३.३४ एतैः योगे षष्ठी स्यात् पञ्चमी च । दूरान्तिकार्थैः इति कथनात् दूरार्थकानाम् अन्तिकार्थकानां पर्यायाणामपि ग्रहणम् । अतो दूरान्तिकार्थैः शब्दैः सह योगे षष्ठी भवति पञ्चमी च ।

i. ग्रामात् दूरं नगरम् ।
अत्र दूरेण योगो ग्रामस्य । अतो ग्रामात् पञ्चमी प्रकृत-सूत्रेण ।

ii. गृहात् अन्तिकं गोष्ठम् ।
अत्र अन्तिकेन योगो गृहस्य । अतो गृहात् पञ्चमी प्रकृत-सूत्रेण ।

पर्यायाणाम् अपि ग्रहणात् ‘ग्रामात् विप्रकृष्टं नगरम्’ ‘गृहात् निकटं गोष्ठम्’ इत्यत्रापि पञ्चमी भवति । पञ्चम्याः अभावे अनेनैव सूत्रेण षष्ठी भवति । यथा – ग्रामस्य दूरं नगरम् । गृहस्य अन्तिकं गोष्ठम् ।

१२. ग्रामस्य दूराद् / विप्रकृष्टाद् वनम् अस्ति ।
वृक्षस्य अन्तिकाद् / निकटाद् गौः अस्ति ।

दूरान्तिकार्थेभ्यो द्वितीया – २.३.३५ दूरान्तिकार्थेभ्यः शब्देभ्यः द्वितीया स्यात् पञ्चमी तृतीयापि । दूरान्तिकार्थेभ्यः इति कथनात् दूरार्थकानाम् अन्तिकार्थकानां पर्यायाणाम् अपि ग्रहणम् ।

अयम् अत्र विशेषः – पूर्व-सूत्रेण (दूरान्तिकार्थैः … – २.३.३४) दूरान्तिकार्थैः योगे तद्-अर्थान्विताद् पञ्चमी, षष्ठी च विभक्तिः विहिता । अनेन सूत्रेण तु दूरान्तिकार्थेभ्यः शब्देभ्यः एव विभक्तयः विहिताः । विभक्तीनाम् अर्थो ऽपि प्रातिपदिकार्थः एव । सप्तम्यधिकरणे च – २.३.३६ इति सूत्रेणापि दूरान्तिकार्थेभ्यः सप्तमी विहिता । प्रकृत-सूत्रेण तु द्वितीया, पञ्चमी, तृतीया चेति तिस्त्रो विभक्तयः विहिताः ।

एवं च चतस्रः विभक्तयः भवन्ति । यथा –
१. ग्रामस्य दूरं वनम् अस्ति । २. ग्रामस्य दूरेण वनम् अस्ति ।
३. ग्रामस्य दूरात् वनम् अस्ति । ४. ग्रामस्य दूरे वनम् अस्ति ।

[[P49]]


१. वृक्षस्य अन्तिके गौः अस्ति । २. वृक्षस्य अन्तिकेन गौः अस्ति ।
३. वृक्षस्य अन्तिकात् गौः अस्ति । ४. वृक्षस्य अन्तिके गौः अस्ति ।

अत्र पूर्वोक्तेषु आद्येषु चतुर्षु वाक्येषु ‘ग्रामस्य’ इति, अवशिष्टेषु चतुर्षु वाक्येषु ‘वृक्षस्य’ इति च श्रूयते । तत्र ‘ग्रामात्’ इति ‘वृक्षात्’ इत्यति अपि प्रयोक्तुं शक्यते दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् – २.३.३४ इति सूत्र-बलात् । एवं च पुनः अष्टौ वाक्यानि सम्भवन्ति इति फलितम् ।

इदम् अत्र विज्ञेयम् –
दूरः पन्थाः, निकटो ग्रामः इत्यादौ दूर-शब्दः निकट-शब्दश् च सत्त्व-वाचिनौ अर्थात् द्रव्य-वाचिनौ । असत्त्व-वचने एव पूर्वोक्ताः चतस्रः विभक्तयः । सत्त्व-वचने तु विशेष्यानुसारेण विभक्तयः भवन्ति । यथा दूरः पन्थाः । दूराय पथे । दूरस्य पथः… इत्यादि । सत्त्वं नाम लिङ्ग-संख्यान्वयि ।

(इ) कर्मप्रवचनीयपञ्चमी

१३. आ हिमालयात् चीनादेशः । (आ = तेन विना) आ हिमालयात् भारतदेशः ।
(आ = तेन सह) पञ्चम्यपाङ्परिभिः – २.३.१० अप आङ् परि इत्येतैः कर्म-प्रवचनीयैः योगे पञ्चमी स्यात् । मर्यादा अभिविधिश् चेति द्वौ अर्थौ आङः । तादृशार्थकेन आङः योगे पञ्चमी भवति । मर्यादा नाम = तेन विना । अभिविधिर् नाम = तेन सह ।

आ हिमालयात् चीनादेशः = हिमालयं वर्जयित्वा ततश् चीनादेशः ।
आ हिमालयात् भारतदेशः = हिमालयम् अभिव्याप्य भारतदेशः ।

(अप – अप हरेः संसारः । परि – परि हरेः संसारः । हरिं वर्जयित्वा संसारः इत्यर्थः ।)


[[P50]]