०६ चतुर्थीविभक्तिः

कारक-चतुर्थी उपपद-चतुर्थी चेति चतुर्थी द्विविधा । यत् सम्प्रदानं भवति, तस्मात् सम्प्रदानात् चतुर्थी भवति । अनुक्ते सम्प्रदाने चतुर्थी-विधायकं सूत्रम् एकम् एव ‘चतुर्थी सम्प्रदाने’ – २.३.१३ इति । सम्प्रदान-संज्ञा-विधायकानि सूत्राणि तु बहूनि सन्ति । उपपद-चतुर्थी-विधायक-सूत्राणि अपि अनेकानि सन्ति ।

(अ) कारकचतुर्थी

१. पिता पुत्राय फलं ददाति ।

कर्मणा यमभिप्रैति स सम्प्रदानम् – १.४.३२ दानस्य कर्मणा यम् अभिप्रैति स सम्प्रदान-संज्ञः स्यात् ।

पिता पुत्राय फलं ददाति । अत्र पिता कर्ता । फलं कर्म । कर्मणा सम्बन्धुं पुत्रम् अभिप्रैति । अतः पुत्रः सम्प्रदानम् । तस्मात् सम्प्रदान-वाचकात् शब्दात् ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण चतुर्थी भवति । (षष्ठं (६) पृष्ठं पश्यन्तु ।)

२. राजा युद्धाय संनह्यते ।

‘क्रियया यमभिप्रैति स सम्प्रदानम्’ (वा) अकर्मक-क्रियोद्देश्यम् अपि सम्प्रदान-संज्ञं स्याद् इति वार्तिकस्य अर्थः ।

राजा युद्धाय संनह्यते । अत्र सन्नहनम् एव क्रिया । तस्याः क्रियायाः उद्देश्यं युद्धम् । अतो युद्धं सम्प्रदानं प्रकृत-वार्तिकेन । तस्मात् सम्प्रदान-भूतात् युद्धात् ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण चतुर्थी भवति ।

३. बालकाय खण्ड-शर्करा रोचते ।

रुच्यर्थानां प्रीयमाणः – १.४.३३ रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो ऽर्थः सम्प्रदानं स्यात् । प्रीयमाणः = प्रीत्याश्रयः ।

बालकाय खण्ड-शर्करा रोचते । अत्र खण्ड-शर्करया प्रीतिः बालके समुत्पन्ना । अतः प्रीत्याश्रयः बालः । स बालः सम्प्रदान-संज्ञां प्राप्नोति । रोचतेश् च प्रयोगः कृतः । अतः बालात् चतुर्थी – ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण ।

इदं विज्ञेयम् – अभिलषतेः रोचतेश् च अर्थ-भेदो ऽस्ति ।

i. प्रीत्याश्रय-कर्तृकः किञ्चिद्-विषयकः इच्छा-विशेषः अभिलाषः । यथा – बालकः खण्ड-शर्कराम् अभिलषति । खण्ड-शर्करया समुत्पाद्यमाना प्रीतिः

[[P41]]


बाले ऽस्ति । अतः प्रीत्याश्रयः बालकः । स एव अस्मिन् वाक्ये कर्ता । अतः तस्य सम्प्रदान-संज्ञा न भवति । चतुर्थी अपि न भवति ।

ii. प्रीत्यश्रयापेक्षया यद् अन्यत्, तत्-कर्तृकाभिलाषः रुचिः । यथा – बालकाय खण्ड-शर्करा रोचते । अत्र प्रीत्याश्रयः बालः । तद्-अपेक्षया अन्यत् खण्ड-शर्करा । खण्ड-शर्करा एव अस्मिन् वाक्ये कर्त्री, न तु बालः । अतः अत्र प्रीत्याश्रयस्य सम्प्रदान-संज्ञा । ततः चतुर्थी । एवं च अभिलषतेः प्रयोगे प्रीत्याश्रयः एव कर्ता भवति, रोचतेः प्रयोगे प्रीत्याश्रयः कर्ता न भवति, किन्तु अन्यः एव कर्ता भवति ।

४. बालिका पुष्पेभ्यः स्पृहयति ।

स्पृहेर् ईप्सितः – १.४.३६ स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् ।

बालिका पुष्पेभ्यः स्पृहयति । अत्र स्पृहयतेः प्रयोगः अस्ति । पुष्पाणि च इष्टानि । अतः पुष्पाणां सम्प्रदान-संज्ञा । ततश् चतुर्थीः भवति – ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण । इदं विज्ञेयम् – केवलम् इष्टत्वे सम्प्रदान-संज्ञा । तदा ‘पुष्पेभ्यः स्पृहयति’ इति प्रयोगः । इष्टतमत्वे तु सम्प्रदान-संज्ञा न भवति, किन्तु कर्म-संज्ञैव । तदा ‘पुष्पाणि स्पृहयति’ इत्यपि प्रयोगः सम्भवति ।

५. कंसः कृष्णाय क्रुध्यति । द्रोणादयः अभिमन्यवे द्रुह्यन्ति । कर्णः अर्जुनाय ईर्ष्यति । मन्द-मतिः बद्धि-मते असूयति ।

क्रुध-द्रुहेर्ष्यासूयार्थानां यं प्रति कोपः – १.४.३७ क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः सः सम्प्रदान-संज्ञः स्यात् । क्रुध्यति, द्रुह्यति, ईर्ष्यति, असूयति इत्येतेषां, तत्-पर्यायाणां च प्रयोगे यं प्रति कोपः सः सम्प्रदान-संज्ञां प्राप्नोति इत्यर्थः । क्रोधः = अमर्षः । द्रोहः = अपकारः । ईर्ष्या = अक्षमा (असहनम्) । असूया = गुणेषु दोष-आविष्करणम् ।

i. कंसः कृष्णाय क्रुध्यति ।
अत्र कृष्णं प्रति कंसस्य कोपः अस्ति । अतः कृष्णः सम्प्रदानम् । ततश् चतुर्थी ।

ii. द्रोणादयः अभिमन्यवे द्रुह्यन्ति ।
अत्र अभिमन्युं प्रति द्रोणादीनां कोपो ऽस्ति । अतो ऽभिमन्युः सम्प्रदानम् । ततश् चतुर्थी ।

iii. कर्णः अर्जुनाय ईर्ष्यति ।
अत्र अर्जुनं प्रति कर्णस्य कोपः अस्ति । अतो ऽर्जुनः सम्प्रदानम् ।

[[P42]]


ततश् चतुर्थी ।

iv. मन्द-मतिः बुद्धि-मते असूयति ।
अत्र बुद्धि-मन्तं प्रति मन्द-मतेः कोपः अस्ति । अतो बुद्धिमान् सम्प्रदानम् । ततश् चतुर्थी ।

(आ) उपपदचतुर्थी

६. अवहनाय उलूखलम् ।

‘तादर्थ्ये चतुर्थी वाच्या’ (वा) तादर्थ्ये उपकार्योपकारक-भाव-सम्बन्धे विवक्षिते उपकार्यात् चतुर्थी भवति ।

अवहनाय उलूखलम् । अत्र उलूखलम् उपकारकम्, अवहननम् उपकार्यम् । उपकार्यात् चतुर्थी । एवं कुण्डलाय हिरण्यम्, यूपाय दारु, रन्धनाय स्थाली इत्यादावपि हिरण्यं, दारु, स्थाली च उपकारकम् । कुण्डलं, यूपः, रन्धनं च उपकार्यम्। उपकार्यात् चतुर्थी इति ज्ञेयम् ।

७. बालः ग्रामाय (ग्रामं) गच्छति ।

गत्यर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायाम् अनध्वनि – २.३.१२ अध्व-भिन्ने गत्यर्थानां कर्मणि एते स्तश् चेष्टायाम् । गत्यर्थक-धातूनां प्रयोगे कर्मणि चतुर्थी भवति द्वितीयापि, शरीर-स्पन्द-रूप-गमन-क्रियायां गम्यमानायाम् । किन्तु गन्त्राधिष्ठितः मार्गः यदि कर्म भवति तदा चतुर्थी न भवति इति तात्पर्यम् ।

अत्र ग्रामः कर्म । ततश् चतुर्थी भवति । द्वितीयायाः अपि अनेनैव विधानात् प्रवर्तते । तदा वाक्यं ‘ग्रामं गच्छति’ इत्यपि भवति ।

इदं विज्ञेयम् –
i. ‘भक्तः मनसा हरिं व्रजति’ इत्यत्र चतुर्थी न भवति ।
भक्तः हरिं मनसा प्राप्नोति – इति वाक्यस्यास्य अर्थः । अत्र यद्यपि गमनार्थः अस्ति, तथापि एतद्-गमनं पादादि-स्पन्द-रूपं न । ‘ग्रामाय गच्छति’ इत्यादौ तु पादादि-स्पन्दन-रूपं गमनम् अस्ति । स्पन्दन-रूप-गमने एव चतुर्थी । अतः एव सूत्रे चेष्टायाम् इत्य् उक्तम् । चेष्टा = शरीर-परिस्पन्दः ।

ii. शिशुः पन्थानं गच्छति – इत्यत्रापि चतुर्थी न भवति । अत्र पन्थाः (मार्गः) कर्म । अतः पथः तत्-पर्यायाद् वा चतुर्थी न भवति । अतः एव सूत्रे ‘अनध्वनि’ इत्य् उक्तम् ।

८. न त्वां तृणाय (तृणं) मन्ये ।

मन्य-कर्मण्यनादरे विभाषा अप्राणिषु – २.३.१७ प्राणि-वर्जे मन्यतेः कर्मणि

[[P43]]


चतुर्थी वा स्यात् तिरस्कारे । ‘अप्राणिषु इत्यपनीय नौ-काक-अन्न-शुक-शृगाल-वर्जेषु इति वाच्यम्’ (वा) मन्यतेः कर्मणि विकल्पेन चतुर्थी भवति, तच् च कर्म अनादर-द्योतकं भवेत्, तत्-कर्म नौः, काकः, अन्नं, शुकः, शृगालो वा न भवेद् इति सूत्र-वार्तिकयोः तात्पर्यार्थः ।

न त्वां तृणाय मन्ये । अत्र युष्मच्-छब्दार्थः, तृणं च मन्यतेः कर्म । अनादर-द्योतकं कर्म तृणम् एव । अतः तृणाद् एव चतुर्थी, न तु युष्मच्-छब्दात् । तृण-सदृशो ऽपि न, तृणाद् अप्यधमः इत्यर्थः । एवं ‘न त्वां शुनं मन्ये’ इत्यादिः । शुनक-सदृशो ऽपि न, शुनकाद् अप्यधमः इत्यर्थः ।

९. श्री गणेशाय नमः । सर्वेभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । भीमो बकाय अलम् । वषड् इन्द्राय ।

नमः-स्वस्ति-स्वाहा-स्वधालं-वषड्-योगाच् च – २.३.१६ एभिर् योगे चतुर्थी स्यात् ।

श्री-गणेशाय नमः = श्री-गणेशोद्देश्यकं नमनम् इत्यर्थः । सर्वेभ्यः स्वस्ति = सर्व-सम्बन्धि कुशलम् इत्यर्थः । पितृभ्यः स्वाहा = पित्र्युद्देश्यकं द्रव्य-दानम् इत्यर्थः । भीमो बकाय अलम् = भीमः बक-मारण-सम्बन्धि-सामर्थ्यवान् इत्यर्थः । वषड् इन्द्राय = इन्द्रोद्देश्यकं हविर्-दानम् इत्यर्थः ।

इदं विज्ञेयम् – ‘अलम् इति पर्याप्त्यर्थ-ग्रहणम्’ इति वार्तिकम् । अलम् इत्यनेन पर्याप्त्यर्थक-शब्दानां ग्रहणं कर्तव्यम् । तेन अलं, प्रभुः, समर्थः, शक्तः इत्यादीनां योगे ऽपि चतुर्थी भवति इति वार्तिकस्य आशयः । तेन, ‘दैत्येभ्यो हरिः प्रभुः ।’ ‘रामो रावणाय समर्थः ।’ ‘लक्ष्मणः इन्द्रजिते शक्तः’ इत्यादि सिद्धम् । अलम् इति शब्दं विहाय प्रभ्वादि-योगे षष्ठी अपि साधुः । ‘दैत्यानां हरिः प्रभुः’ इत्यादिः ।

१०. भक्तिः ज्ञानाय कल्पते ।

‘क्लृपि सम्पद्यमाने च’ (वा) क्लृपि-धातौ तत्-पर्याये वा प्रयुज्यमाने सति सम्पद्यमाने ऽर्थे वर्तमानात् चतुर्थी स्यात् । सम्पद्यमानं नाम विकार-आत्मना उत्पद्यमानम् ।

भक्तिः ज्ञानाय कल्पते । अत्र भक्तिं संमर्द्य परिणाम-रूपेण उत्पद्यमानं ज्ञानं, क्लृप्-धातुश् च प्रयुक्तः । अतः ज्ञान-शब्दात् चतुर्थी । एवं ‘तण्डुलः ओदनाय सम्पद्यते’ इत्यादयः ।

११. बालाय हितं क्षीरम् ।

हित-योगे च (वा) हित-शब्द-प्रयोगे चतुर्थी भवति । अत्र हित-शब्दस्य प्रयोगः कृतः इति बाल-शब्दात् चतुर्थी । बालस्य सुख-कृत् क्षीरम् इत्यर्थः ।


[[P44]]