०५ तृतीयाविभक्तिः

कारक-तृतीया उपपद-तृतीया इति तृतीया द्विविधा । कर्तृ-कारके करण-कारके च तृतीया-विधानात् कर्तृ-तृतीया करण-तृतीया चेति कारक-तृतीया द्विविधा । एवं च कर्तृ-कारक-तृतीया, करण-कारक-तृतीया, उपपद-तृतीया चेति तृतीया अपि त्रिविधा भवति ।

यः कर्ता, यच् च करणं, तस्मात् कर्तृ-वाचकात् करण-वाचकात् च तृतीया भवति । अनुक्ते कर्तरि करणे च तृतीया-विधायकं सूत्रम् एकम् एव – ‘कर्तृ-करणयोस् तृतीया – २.३.१८’ (अनभिहिते कर्तरि करणे च तृतीया स्यात्) इति । उपपद-तृतीया-विधायक-सूत्राणि बहूनि सन्ति ।

(अ) कारकतृतीया

I. कर्तरि

१. अध्यापकेन विद्यालयः गम्यते ।

स्वतन्त्रः कर्ता – १.४.५४ क्रियायां स्वातन्त्र्येण विवक्षितो ऽर्थः कर्ता स्यात् स्वातन्त्र्यं नाम क्रियाश्रयत्वम् । एवं च क्रियाश्रयः कर्ता इति फलितो ऽर्थः ।

अध्यापकेन विद्यालयः गम्यते । अत्र गम्-धातोर् अर्थः संयोग-रूपं फलं, तद्-अनुकूल-क्रिया च । गमन-क्रियाश्रयः अध्यापकः । अतः अध्यापकः कर्ता । गम्यते इत्यत्र ‘ते’ इति प्रत्ययस्य अर्थः कर्म, न तु कर्ता । अतः ‘ते’ इति प्रत्ययेन कर्ता न उक्तः (अनभिहितः इत्यर्थः) । तस्मात् कर्तृ-वाचकान् अध्यापक-शब्दात् ‘कर्तृ-करणयोस् तृतीया – २.३.१८’ इति सूत्रेण तृतीया भवति ।

इदम् अवधेयम् – कर्मणि-प्रयोगेषु (कर्म-वाच्येषु) भावे-प्रयोगेषु (भाव-वाच्येषु) च कर्तृ-पदं तृतीयान्तम् एव भवति ।
यथा – सूदेन तण्डुलः पच्यते । पुष्पेण विकस्यते ।

‘पच्यते’ इत्यत्र ‘ते’ इत्यस्य अर्थः कर्म, न तु कर्ता । ‘विकस्यते’ इत्यत्र ‘ते’ इत्यस्य अर्थः भावः, न तु कर्ता । एवं च उभयत्रापि कर्ता न उक्तः (अनभिहितः) । कर्तुः अनभिहितत्वात् उभयत्रापि ‘कर्तृ-करणयोः तृतीया’ इति तृतीया एव भवति ।

[[P37]]


II. करणे

२. रामः बाणेन रावणं हन्ति ।

साधकतमं करणम् – १.४.४२ क्रिया-सिद्धौ प्रकृष्टोपकारकं कारकं करण-संज्ञं स्यात् ।

रामः बाणेन रावणं हन्ति । अत्र हन्-धातोर् अर्थः – प्राण-वियोग-रूपं फलं, तद्-अनुकूल-व्यापारश् च । अत्र रामः कर्ता । प्राण-वियोग-रूप-फलाश्रयत्वात् रावणः कर्म । प्राण-वियोग-रूपं फलं बाण-प्रवेश-समनन्तरम् एव भवति इति बाणः करणम् । तस्मात् करण-वाचकात् ‘कर्तृ-करणयोः तृतीया’ इति तृतीया भवति । (षष्ठं (६) पृष्ठम् अपि पश्यन्तु ।)

३. अक्षैः दीव्यति । (अक्षान् दीव्यति)

दिवः कर्म च – १.४.४३ दिवः साधकतमं कारकं कर्म-संज्ञं स्यात्, चात् करण-संज्ञम् ।

अक्षैर् दीव्यति । अक्षाणां करण-संज्ञायां ‘कर्तृ-करणयोस् तृतीया’ इति तृतीया भवति । अक्षाणां कर्म-संज्ञायां तु ‘कर्मणि द्वितीया’ इति द्वितीया भवति ।

(आ) उपपदतृतीया

४. बालः मित्रेण सह आगच्छति ।

सह-युक्ते ऽप्रधाने – २.३.१९ सहार्थेन युक्ते ऽप्रधाने तृतीया स्यात् । सहार्थेन इति कथनात् साकं, सार्धं, समम् इति पर्यायाणां योगे अपि तृतीया स्यात् ।

बालः मित्रेण सह आगच्छति । अत्र सहेन युक्तं मित्रम् । ततः तृतीया भवति । अस्मिन् वाक्ये बालः अपि कर्ता, मित्रम् अपि । यतः आगमन-क्रियायाः आश्रयौ उभौ अपि । किन्तु बालः प्रधानं, मित्रम् अप्रधानम् । मित्रस्य अप्राधान्यम् इत्थं निरूपणीयम् – कः आगच्छति ? बालः आगच्छति । केन सह आगच्छति ? मित्रेण सह आगच्छति । अत्र मित्रस्यापि आगमनम् अभवत् इति प्रतीयते, न तु शब्द-मर्यादया उच्यते । एवं च बालस्य आगमनं शब्द-मर्यादया (आगच्छति इति पदेन) उच्यते, मित्रस्य आगमनं ततः प्रतीयते । एतावन्-मात्रेण मित्रस्य अप्राधान्यम् ।

इदं ज्ञेयम् – सहादि-शब्देन विना तद्-अर्थावगमे ऽपि तृतीया स्यात् ।
अध्यापकः शिष्येण आगच्छति । अध्यापकः शिष्येण सह आगच्छति इत्यर्थः । ‘वृद्धो यूना तत्-लक्षणश् चेद् एव विशेषः’ इति सूत्र-निर्देशः अत्र प्रमाणम् । ‘वृद्धो यूना सह’ इति वक्तव्ये केवलं ‘वृद्धो यूना’ इति प्रयोगः पाणिनिना एव कृतः ।

[[P38]]


५. विद्यया ज्ञानं वर्धते । अध्ययनेन वसति ।

हेतौ – २.३.२३ हेत्वर्थे तृतीया स्यात् । हेतुर् नाम = कारणम् ।

i. विद्यया ज्ञानं वर्धते ।
अत्र ज्ञानस्य हेतुः विद्या । अतः हेतु-भूतायाः विद्यायाः तृतीया प्रकृत-सूत्रेण ।

ii. अध्ययनेन वसति ।
अध्ययनं वास-साध्यम् । वासस्य अनन्तरं हि अध्ययन-रूपं फलं सिध्यति । ‘अन्यत्र कारणम् आदौ, कार्यम् अनन्तरम् इति क्रमः । अत्र कथं वास-अनन्तरं सम्पत्स्यमानम् अध्ययनं कारणं भवति’ इति शङ्का उदेति । समाधानम् इत्थं वक्तव्यम् – प्रवृत्तिं प्रति इष्ट-साधनता-ज्ञानं कारणम् । अध्ययनं करणीयम् इति ज्ञानं यदि न स्यात् वासम् अपि न कुर्यात् । अतः अध्ययनस्य स्व-ज्ञान-द्वारा वासं प्रति कारणत्वम् । अतो हेतु-भूतात् अध्ययनात् तृतीया अनेन सूत्रेण ।

६. अक्ष्णा काणः । पादेन खञ्जः ।

येनाङ्ग-विकारः – २.३.२० येनाङ्गेन विकृतेन अङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अङ्गिनो विकृतिः, विकृतेन अङ्गेन यदा लक्षिता भवति तदा विकृतात् अङ्गात् तृतीया भवति इत्यर्थः ।

i. अक्ष्णा काणः ।
अत्र विकृतम् अङ्गम् अक्षि । तादृशेन अक्ष्णा अङ्गिनो देवदत्तस्य काणत्वं (आन्ध्यम्) लक्ष्यते । अतो विकृताङ्गात् अक्ष्णः तृतीया भवति प्रकृत-सूत्रेण ।

ii. पादेन खञ्जः ।
अत्र विकृतम् अङ्गं पादः । तादृशेन पादेन अङ्गिनो यज्ञदत्तस्य खञ्जत्वं (कुण्ठित-पाद-शक्तिः) लक्ष्यते । अतो विकृताङ्गात् पादात् तृतीया भवति प्रकृत-सूत्रेण ।

७. देवेन विना तृणम् अपि न चलति । [/ देवाद् विना तृणम् अपि न चलति । / देवं विना तृणम् अपि न चलति ।]

पृथग्-विना-नानाभिस् तृतीयान्यतरस्याम् – २.३.३२ एभिर् योगे तृतीया स्यात्, पञ्चमी-द्वितीये च । पृथक्, विना, नाना, इत्येतैः योगे तृतीया भवति, पञ्चमी द्वितीया च ।

अत्र ‘विना’ इत्यनेन योगो देवस्य । अतो देवात् तृतीया भवति प्रकृत-सूत्रेण । तृतीयाभाव-पक्षे ‘देवाद् विना तृणम् अपि न [[चन्ननि|चलति]]’ इति पञ्चमी, तस्याः अपि अभाव-पक्षे ‘देवं विना तृणम् अपि न चलति’ इति द्वितीया अपि भवति ।

[[P39]]


८. प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । द्वि-द्रोणेन धान्यं क्रीणाति । सुखेन याति । दुःखेन याति । नाम्ना सुतीक्ष्णः । नाम्ना चन्द्रकला ।…

प्रकृत्यादिभ्यः उपसंख्यानम् (वा) । प्रकृत्यादिः कश्चन गणः, यस्मिन् गणे प्रथमः शब्दः प्रकृति-शब्दः । प्रकृत्यादि-शब्देभ्यः तृतीया-विभक्तिः भवति । एषा तृतीया सर्व-विभक्त्यपवादः । प्रकृत्या चारुः = स्वभावेनैव अभिरूपः । प्रायेण याज्ञिकः = बहु-आचार-ज्ञाप्य-याज्ञिकत्ववान् । प्रायः = बहुः । गोत्रेण गार्ग्यः = गोत्रम् अस्य गार्ग्यः । सुखेन याति = सुख-जनकं यानं करोति । दुःखेन याति = दुःख-जनकं यानं करोति । नाम्ना सुतीक्ष्णः = नाम-ज्ञाप्य-सुतीक्ष्णत्ववान् । नाम्ना चन्द्रकला = नाम-भूत-चन्द्रकलाभिन्ना ।

९. अलं विस्तरेण ।

‘गम्यमानापि क्रिया कारक-विभक्तौ प्रयोजिका’ यत्र क्रिया-बोधकं पदं न श्रूयते, अपि तु योग्यतया अध्याह्रियते, तत्र अध्याहृत-पद-बोध्य-क्रिया अपि कारक-विभक्तेः प्रवृत्तौ निमित्तं भवति इत्यर्थः । ‘अलं विस्तरेण’ इत्यत्र बोध्यम् इति अध्याहरणीयम् । अलम् इति निषेधात्मकम् अव्ययम् । विस्तरेण बोध्यं किमपि नास्ति इत्यर्थः । अत्र बोधन-क्रियां प्रति विस्तरः करणम् । अतः करणे तृतीया । (यद्यपि ‘अलं श्रमेण, अलं गमनेन, अलं भोजनेन’ इत्यादौ तृतीयायाः प्रवृत्तौ अलम् इति न निमित्तं, तथापि एतादृशेषु वाक्येषु निषेधार्थकस्य ‘अलं’-शब्दस्य प्रयोगे तृतीया भवतीति स्मरणं सुकरम् ।)

१०. अह्ना अनुवाको ऽधीतः । योजनेन श्लोको ऽधीतः ।

अपवर्गे तृतीया – २.३.६ अपवर्गः फल-प्राप्तिः । तस्यां द्योत्यायां काल-अध्वनोः अत्यन्त-संयोगे तृतीया स्यात् ।

i. अह्ना अनुवाको ऽधीतः । अत्र अहन् इति शब्दः काल-वाचकः । ततः तृतीया भवति ।

ii. योजनेन श्लोको ऽधीतः । अत्र योजन-शब्दः अध्व-परिमाण-वाची । ततः तृतीया भवति ।

अयम् अत्र विशेषः – अहनि निरन्तरम् अनुवाकः अधीतः कण्ठ-गतश् च अभवद् इति प्रथम-वाक्यस्य अर्थः । योजनं यावत् श्लोको ऽधीतः कण्ठ-गतश् च अभवद् इति द्वितीय-वाक्यास्य अर्थः । अत एव सूत्रे अपवर्गे (फल-प्राप्तौ) इत्य् उक्तम् । प्रत्युदाहरणं – मासम् अधीतः, न आयातः इति ।


[[P40]]