०४ द्वितीयाविभक्तिः

कारक-द्वितीया, उपपद-द्वितीया, कर्म-प्रवचनीय-द्वितीया चेति द्वितीया त्रिविधा । कर्म-संज्ञां पुरस्कृत्य प्रवर्तमाना द्वितीया कारक-द्वितीया । ‘परिगणित-पदानां योग-मात्रेण प्रवर्तमाना द्वितीया उपपद-द्वितीया । कर्म-प्रवचनीय-संज्ञां पुरस्कृत्य प्रवर्तमाना द्वितीया कर्म-प्रवचनीय-द्वितीया ।

कर्मणि द्वितीया – २.३.२ अनुक्ते कर्मणि द्वितीया स्यात् । द्वितीया-विभक्ति-विधायकं सूत्रम् इदम् । कर्मणि द्वितीया भवति इति अनेन सूत्रेण उच्यते । किं तर्हि कर्म ? इत्याकांक्षायाम् अष्टभिः सूत्रैः कैश्चित् वार्तिकैश् च कर्म-संज्ञा अभिधीयते । एतैः सूत्रैः इदं कर्म इति निर्णये जाते प्रकृत-सूत्रेणैव द्वितीया प्रवर्तनीया । अतः कर्म-संज्ञा-विधायकानि सूत्राणि बहूनि, कर्म-संज्ञाम् अवलम्ब्य द्वितीया-विधायकं तु एकम् एव सूत्रम् । (उपपद-द्वितीया-विधायकानि सूत्राणि वार्तिकानि च अन्यानि सन्ति ।) अतः येन येन सूत्रेण कर्म-संज्ञा विधीयते तत्र तत्र कर्मणि द्वितीयेति एकेनैव सूत्रेण द्वितीया प्रवर्तते इति ज्ञेयम् । सर्वासु कारक-विभक्तिषु एषैव सरणिः आदृता पाणिनिना इति स्मरणीयम् ।

(अ) कारकद्वितीया

१. पाचकः तण्डुलान् पचति ।

कर्तुर् ईप्सिततमं कर्म – १.४.२९ कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्म-संज्ञं स्यात् ।

‘पाचकः तण्डुलान् पचति’ इत्यत्र पाचकः कर्ता । तस्य पाक-क्रियया आप्तुम् इष्टतमः तण्डुलः कर्म । अतः कर्म-भूतात् तण्डुलात् कर्मणि द्वितीयेति द्वितीया भवति । (चतुर्थं (४) पृष्ठं पश्यन्तु)

२. पान्थः ग्रामं गच्छन् तृणं स्पृशति । विषं भुङ्क्ते ।

तथा-युक्तं चानीप्सितम् – १.४.५० ईप्सिततमवत्-क्रियया युक्तम् अनीप्सितम् अपि कारकं कर्म-संज्ञं स्यात् ।1

[[P22]]


ईप्सिततमं कर्म भवति इति पूर्व-सूत्रेण उक्तम् । अनीप्सितम् अपि कर्म भवति । तत् कथम् ? तद् इत्थम् – ‘भक्तः गङ्गां स्पृशति’ इत्यादौ, यथा भक्तस्य स्पर्शन-क्रिया-जन्य-संयोगः गङ्गायां भवति, तथैव ‘पान्थः ग्रामं गच्छन् तृणं स्पृशति’ इत्यादौ अपि पान्थस्य स्पर्शन-क्रिया-जन्य-संयोगः तृणे भवति, किन्तु पूर्वत्र गङ्गां स्पृशामि इति भक्तस्य इच्छा अस्ति, अतो गङ्गा ईप्सिततमा, ‘तृणं स्पृशति’ इत्यत्र तु पान्थस्य तृणं स्पृशामि इति इच्छा नास्ति, तथापि क्रिया-जन्य-संयोग-रूप-फलाश्रयत्वात् तृणं कर्म-संज्ञां प्राप्नोति । ईप्सिततमवत् सर्वम् अत्र भवति इच्छां विना इत्यर्थः । ‘पान्थः ग्रामं गच्छन् तृणं स्पृशति’ इत्यत्र ग्रामः ईप्सिततमः एव इति ‘कर्तुरीप्सिततमं कर्म’ इति सूत्रेणैव कर्म-संज्ञां प्राप्नोति । तृणं तु उदासीनम् यतः तृण-स्पर्शः गमन-समये नान्तरीकतया भवति, न तु पान्थस्य इच्छया । तथापि स्पर्श-जन्य-संयोगः अस्ति इति अनेन सूत्रेण तृणं कर्म-संज्ञां प्राप्नोति । ततो द्वितीया । अत्र तृणस्य उदासीनत्वे ऽपि इच्छां वर्जयित्वा ईप्सिततमवत् सर्वम् अस्ति इति कर्म-संज्ञा भवतीति ज्ञेयम् ।

‘देवदत्तः विषं भुङ्क्ते’ इति तु यदा वैरिणा निगृह्यमाणः अनिच्छन् अपि विषं भुङ्क्ते तदा इदम् उदाहरणम् । ‘देवदत्तः ओदनं भुङ्क्ते’ इत्यत्र भुज्-धातोः अर्थः गल-बिलाधः-संयोग-रूपं फलं, तद्-अनुकूल-व्यापारश् च । गल-बिलाधः-संयोग-रूप-फलाश्रयत्वेन इष्यमाणः ओदनः । अतस् तस्य कर्म-संज्ञा यथा भवति, तथैव ‘विषं भुङ्क्ते’ इत्यत्रापि इच्छायाः अभावे अपि गल-बिलाधः-संयोग-रूप-फलाश्रयत्वात् विषस्य कर्म-संज्ञा अनेन सूत्रेण भवति । ततो द्वितीया । अत्र विषस्य द्वेष्यत्वे अपि इच्छां वर्जयित्वा ईप्सिततमवत् सर्वम् अस्ति इति कर्म-संज्ञा भवतीति ज्ञेयम् ।

३. गोपालः गां दोग्धि पयः । वामनः बलिं याचते वसुधाम् । पान्थः माणवकं पन्थानं पृच्छति । गुरुः बालं धर्मं ब्रूते । कृषीवलः अजां ग्रामं नयति ।

अकथितं च – १.४.५१ अपादान-आदि-विशेषैर् अविवक्षितं कारकं कर्म-संज्ञं स्यात् । द्वि-कर्मक-स्थले सूत्रस्य अस्य प्रवृत्तिः । अस्य प्रवृत्तिः यत्र भवति तत्र ‘कर्तुरीप्सिततमं कर्म’ इति सूत्रेण एव सिद्धं प्रधानं कर्म अन्यत् भवत्येव । तादृश-कर्मणा युक्तम् अपादानं, सम्प्रदानम्, अधिकरणं वा भवति । तत्र अपादानत्वेन अविवक्षित्वा कर्मत्वेन विवक्षायां कर्म-संज्ञा भवति । अनेन सूत्रेण यस्य कर्म-संज्ञा तद् गौणं कर्म इति उच्यते ।

i. गोपालः गां दोग्धि पयः ।
दुह्-धातोः अर्थः द्रव-द्रव्य-विभाग-रूपं फलं, तद्-अनुकूल-व्यापारश् च । विभाग-रूप-फलाश्रयत्वात् पयसः ‘कर्तुरीप्सिततमं कर्म’ इत्यनेन कर्मत्वम् । अतः एव

[[P23]]


अस्य मुख्य-कर्मत्वम् । गोस् तु अवधित्वात् अपादानत्वम् । तद्-अपादानत्वस्य अविवक्षायां कर्मत्वम् अनेन विवक्ष्यते । अतः एव गोः अप्रधान-कर्मत्वम् । ततः उभयत्रापि द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण । गोः यदि अपादानत्वेन विवक्षा तदा ‘गोपालः गोः पयः दोग्धि’ इति प्रयोगः सम्भवति ।

ii. वामनः बलिं याचते वसुधाम् ।
याच्-धातोः अर्थः पर-स्वत्त्व-निवृत्ति-पूर्वक-स्व-स्वत्वोत्पत्ति-रूपं फलं, तद्-अनुकूल-व्यापारश् च । स्व-स्वत्वोत्पत्ति-रूप-फलाश्रयत्वात् वसुधायाः ‘कर्तुरीप्सिततमं कर्म’ इत्यनेनैव कर्मत्वम् । अतः वसुधायाः मुख्य-कर्मत्वम् । बलेः तु अवधित्वात् अपादानत्वम् । तद्-अपादानत्वस्य अविवक्षायां कर्मत्वम् अनेन विवक्ष्यते । अतः बलेः अप्रधान-कर्मत्वम् । ततः उभयत्रापि द्वितीया भवति ‘कर्मणि द्वितीया’ इति सूत्रेण । अपादानत्वम् एव यदि विवक्ष्यते तदा ‘वामनः बलेः वसुधां याचते’ इति प्रयोगः सम्भवति ।

iii. पान्थः माणवकं पन्थानं पृच्छति ।
प्रच्छ्-धातोर् अर्थः जिज्ञासितव्य-अर्थ-ज्ञान-रूपं फलम्, तद्-अनुकूलः केन पथा गन्तव्यम् इति अभिलाषादि-रूप-व्यापारश् च । ज्ञान-रूप-फलाश्रयत्वात् (विषयता-सम्बन्धेन) पथः ‘कर्तुरीप्सिततमं कर्म’ इत्यनेनैव कर्मत्वम् । माणवकस्य तु अवधित्वात् अपादानत्वम् । तद्-अपादनत्वस्य अविवक्षायां कर्मत्वम् अनेन विवक्ष्यते । अतः माणवकस्य अप्रधान-कर्मत्वम् । ततः उभयत्रापि द्वितीया । अपादानत्वम् एव यदि विवक्ष्यते तदा ‘माणवकात् पन्थानं पृच्छति’ इति प्रयोगः सम्भवति ।

iv. गुरुः बालं धर्मं ब्रूते ।
ब्रू-धातोः अर्थः ज्ञान-रूपं फलं, तद्-अनुकूलः शब्द-प्रयोग-रूपः व्यापारश् च । (विषयता-सम्बन्धेन) ज्ञान-रूप-फलाश्रयत्वात् धर्मस्य ‘कर्तुरीप्सिततमं कर्म’ इत्यनेनैव कर्मत्वम् । बालस्य तु कर्म-भूत-धर्मेण अभिप्रेयमाणत्वात् सम्प्रदानत्वम् । सम्प्रदानत्वस्य अविवक्षायां बालस्य अनेन कर्मत्वम् । ततः उभयत्रापि द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण । बालस्य यदि सम्प्रदानत्वेन विवक्षा तदा ‘गुरुः बालाय धर्मं ब्रूते’ इति प्रयोगः सम्भवत्येव ।

v. कृषीवलः अजां ग्रामं नयति ।
नी-धातोः अर्थः प्राप्ति-रूपं फलं, तद्-अनुकूल-योग्य-मार्ग-संयोजनादि-रूप-व्यापारश् च । प्राप्ति-रूप-फलाश्रयत्वात् अजायाः ‘कर्तुरीप्सिततमं कर्म’

[[P24]]


इत्यनेनैव कर्मत्वम् । अजायाः आधारत्वात् ग्रामः अधिकरणम् । ग्रामस्य अधिकरणत्वाविवक्षायाम् अनेन कर्मत्वम् । ततः उभयत्रापि द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण । यदि ग्रामस्य अधिकरणत्वं विवक्ष्यते तदा ‘कृषीवलः ग्रामे अजां नयति’ इति प्रयोगः सम्भवति ।

इदम् अवधेयम् –
एते द्वि-कर्मक-धातवः – दोग्धि । याचते । पचति । दण्डयति । रुणद्धि । पृच्छति । चिनोति । ब्रूते । शास्ति । जयति । मथ्नाति । मुष्णाति । नयति । हरति । कर्षति । वहति ।

एतद्-अर्थक-धातवः अपि द्वि-कर्मकाः एव । यथा – भिक्षते । भाषते । वक्ति इत्यादयः । एते धातवः अस्यां कारिकायां सङ्गृहीताः –

दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शास्-जि-मथ्-मुषाम् ।
कर्म-युक् स्याद् अकथितं तथा स्यान्-नी-हृ-कृष्-वहाम् ॥ इति ।

४. छात्रः सप्ताहं वसति । सः गोदोहं तिष्ठति ।

‘अकर्मक-धातुभिर् योगे देशः कालो भावो गन्तव्यो ऽध्वा च कर्म-संज्ञक इति वाच्यम्’ (वा) । अकर्मक-धातुभिः योगे कुरु-पाञ्चाल-आदि-देश-वाचकः, मास-संवत्सर-आदि-काल-वाचकः, क्रिया-वाचकः, क्रोश-आदि-मार्ग-परिमाण-वाचकश् च कर्म-संज्ञां प्राप्नोति ।

i. छात्रः सप्ताहं वसति ।
वस्-धातुः अकर्मकः । तथापि तद्-योगे सप्ताहस्य कर्मत्वं भवति । ततो द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण । सप्ताह-शब्दः काल-वाचकः ।

ii. सः गोदोहं तिष्ठति ।
स्था-धातुः अकर्मकः । तथापि तद्-योगे गोदोहस्य कर्मत्वम् । ततो द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण । गोदोह-शब्दः क्रिया-वाचकः । प्रकृत-वाक्ये तु गोदोहन-कालः विवक्षितः गोदोह-शब्देन । अतो गोदोहन-कालं तिष्ठति इत्यर्थः गोदोहं तिष्ठति इत्यस्य ।

इदम् अत्र ज्ञेयम् – सप्ताहो ऽपि काल-वाचकः । गोदोहो ऽपि अन्ते काल-वाचकः एव । अतः किमर्थम् उभयोः उपादानम् इति ? अत्र काल-शब्देन अहो-रात्र-समूहस्य सप्ताहादेः एव ग्रहणम् । गोदोहस् तु न तथा ।

५. i. बालः विद्यालयं गच्छति । पिता बालं विद्यालयं गमयति ।
ii. छात्रः श्लोकार्थं बोधति । गुरुः छात्रं श्लोकार्थं बोधयति ।

[[P25]]


iii. शिशुः ओदनं भुङ्क्ते । माता शिशुम् ओदनं भोजयति ।
iv. बालः गद्यं पठति । अध्यापकः बालं गद्यं पाठयति ।
v. वृद्धः उपविशति । तरुणः वृद्धम् उपवेशयति ।

गति-बुद्धि-प्रत्यवसानार्थ-शब्द-कर्माकर्मकाणाम् अणि कर्ता स णौ – १.४.५२
गत्याद्यर्थानां शब्द-कर्मणाम् अकर्मकाणां च अणौ यः कर्ता स णौ कर्म स्यात् । गतिः = गमनम् । बुद्धिः = अवगमनम् । प्रत्यवसानं = भक्षणम् । शब्द-कर्म = यस्य धात्वर्थस्य शब्दः एव (श्लोकः, गद्यं, मन्त्रः इत्येवमादयः) कर्म । अकर्मकः = यस्य धात्वर्थस्य कर्म एव न सम्भवति स इति सूत्र-गत-पदानाम् अर्थः ।

इदम् अत्र अवगन्तव्यम् –
धातु-गणे पठिताः धातवः णिच्-प्रत्यय-रहिताः शुद्ध-धातवः इति उच्यन्ते । यथा – गच्छति, पठति इत्यादौ प्रकृति-भूतो धातुः णिज्-रहितः । अतः अत्र ‘गम्’ इति ‘पठ्’ इति च शुद्धो धातुः इति उच्यते । शुद्ध-धातुः एव अण्यन्तः इत्यपि व्यवह्रियते । शुद्धेभ्यो धातुभ्यः प्रेरणार्थे णिच्-प्रत्ययो विधीयते । तदा ते धातवः ण्यन्ताः (णिच्-प्रत्ययान्ताः) भवन्ति । यथा – गमयति, पाठयति, भोजयति इत्यादौ प्रकृति-भूतो धातुः णिच्-सहितः । अतो ऽत्र ‘गमि’ इति, ‘पाठि’ इति, ‘भोजि’ इति, णिच्-प्रत्ययेन सहिताः इति कृत्वा ण्यन्ताः इति उच्यन्ते ।

अण्यन्तानां धातूनां कर्ता ‘प्रयोज्य-कर्ता’ इति उच्यते । ण्यन्तानां धातूनां कर्ता ‘प्रयोजक-कर्ता’ इति व्यवह्रियते । यथा – ‘बालः विद्यालयं गच्छति’ इत्यत्र बालः प्रयोज्य-कर्ता । ‘पिता बालं विद्यालयं गमयति’ इत्यत्र पिता प्रयोजक-कर्ता ।

एवं च गत्यर्थकानाम्, अवगमनार्थकानां, भक्षणार्थकानां, शब्द-कर्मकाणाम्, अकर्मकाणां च प्रयोज्य-कर्ता, प्रयोजक-कर्तुः क्रियां प्रति कर्म-संज्ञको भवति इति सूत्रस्य फलितो ऽर्थः ।

i. बालः विद्यालयं गच्छति । पिता बालं विद्यालयं गमयति ।
अत्र प्रथम-वाक्ये अण्यन्तस्य (शुद्ध-धातोः) कर्ता बालः । अतः सः प्रयोज्य-कर्ता । द्वितीये वाक्ये ण्यन्तस्य (गमयति) कर्ता पिता । अतः प्रयोजक-कर्ता । गत्यर्थक-धातु-प्रयोगात् प्रयोजक-कर्तुः पितुः गमन-प्रेरण-क्रियां प्रति प्रयोज्य-कर्ता बालः कर्म भवति प्रकृत-सूत्रेण । विद्यालयस्य तु ‘कर्तुरीप्सिततमम् …’ इति सूत्रेणैव कर्म-संज्ञा । उभयत्रापि ‘कर्मणि द्वितीया’ इति सूत्रेण द्वितीया ।

ii. छात्रः श्लोकार्थं बोधति । गुरुः छात्रं श्लोकार्थं बोधयति ।
अत्र प्रथम-वाक्ये छात्रः प्रयोज्य-कर्ता । द्वितीय-वाक्ये गुरुः प्रयोजक-कर्ता ।

[[P26]]


बुद्ध्यर्थक-धातोः (अवगमनार्थक-धातोः) प्रयोगात् प्रयोजक-कर्तुः गुरोः प्रेरण-क्रियां प्रति प्रयोज्य-कर्ता छात्रः कर्म भवति प्रकृत-सूत्रेण । श्लोकार्थस्य तु ‘कर्तुरीप्सिततमं…’ इति सूत्रेणैव कर्म-संज्ञा । उभयत्रापि ततो द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

iii. शिशुः ओदनं भुङ्क्ते । माता शिशुम् ओदनं भोजयति ।
अत्र प्रथम-वाक्ये शिशुः प्रयोज्य-कर्ता । द्वितीय-वाक्ये माता प्रयोजक-कर्त्री । भक्षणार्थक-धातोः प्रयोगात् प्रयोजक-कर्त्र्याः भोजन-प्रेरण-क्रियां प्रति प्रयोज्य-कर्ता शिशुः कर्म भवति प्रकृत-सूत्रेण । ओदनस्य तु ‘कर्तुरीप्सिततमं कर्म’ इति सूत्रेणैव कर्म-संज्ञा । उभयत्रापि ततो द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

iv. बालः गद्यं पठति । अध्यापकः बालं गद्यं पाठयति ।
अत्र प्रथम-वाक्ये बालः प्रयोज्य-कर्ता । द्वितीय-वाक्ये प्रयोजक-कर्ता अध्यापकः । शब्द-कर्मक-धातोः (शब्द-कर्मको नाम कः ? – श्लोकः, गद्यं, मन्त्रः इत्येवमादयः शब्दात्मकाः । श्लोकादिषु शब्द-समूहो ननु भवति ? श्लोकादयः यदि धातोः कर्म भवन्ति तर्हि सः धातुः शब्द-कर्मकः इत्य् उच्यते ।) प्रयोगात् प्रयोजक-कर्तुः अध्यापकस्य प्रेरण-क्रियां प्रति प्रयोज्य-कर्ता बालः कर्म भवति प्रकृत-सूत्रेण । गद्यस्य तु ‘कर्तुरीप्सिततमं कर्म’ इति सूत्रेणैव कर्म-संज्ञा भवति । उभयत्रापि ततो द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

v. वृद्धः उपविशति । तरुणः वृद्धम् उपवेशयति ।
अत्र प्रथम-वाक्ये वृद्धः प्रयोज्य-कर्ता । द्वितीये वाक्ये तरुणः प्रयोजक-कर्ता । अकर्मक-धातोः प्रयोगात् प्रयोजक-कर्तुः तरुणस्य प्रेरण-क्रियां प्रति प्रयोज्य-कर्ता वृद्धः कर्म भवति प्रकृत-सूत्रेण । ततो द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

६. i. विद्यार्थी किमपि जल्पति / विलपति / आभाषते ।
गुरुः विद्यार्थिनं किमपि जल्पयति / विलापयति / आभाषयति ।
ii. शिशुः शुकं पश्यति । पिता शिशुं शुकं दर्शयति ।

‘जल्पति-प्रभृतीनाम् उपसङ्ख्यानम्’ (वा), ‘दृशेश् च’ (वा) जल्पति, विलपति, आभाषते, पश्यति इत्येतेषां प्रयोज्य-कर्ता, प्रयोजक-कर्तुः क्रियां प्रति कर्म भवति इत्यर्थः ।

[[P27]]


i. विद्यार्थी किमपि जल्पति / विलपति / आभाषते ।
गुरुः विद्यार्थिनं किमपि जल्पयति / विलापयति / आभाषयति ।
अत्र प्रथम-वाक्ये प्रयोज्य-कर्ता विद्यार्थी । द्वितीय-वाक्ये प्रयोजक-कर्ता गुरुः । जल्पत्यादीनां प्रयोगात् प्रयोजक-कर्तुः गुरोः प्रेरण-क्रियां प्रति प्रयोजक-कर्ता विद्यार्थी कर्म भवति ‘जल्पति-प्रभृति…’ इति वार्तिकेन । किम् इत्यस्य तु ‘कर्तुरीप्सिततमं कर्म’ इत्यनेनैव कर्मत्वम् । ततः उभयत्रापि द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

ii. शिशुः शुकं पश्यति । पिता शिशुं शुकं दर्शयति ।
अत्र प्रथम-वाक्ये शिशुः प्रयोज्य-कर्ता । द्वितीय-वाक्ये पिता प्रयोजक-कर्ता । दृश्-धातोः प्रयोगात् प्रयोजक-कर्तुः पितुः प्रेरण-क्रियां प्रति, प्रयोज्य-कर्ता शिशुः कर्म भवति ‘दृशेश् च’ इति वार्तिकेन । शुकस्य तु ‘कर्तुरीप्सिततमं कर्म’ इत्यनेनैव कर्मत्वम् । ततः उभयत्रापि द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

७. i. भृत्यः भारं वहति/नयति । स्वामी भृत्येन भारं वाहयति/नाययति ।
ii. बालः अन्नं खादति/अत्ति/भक्षयति । माता बालेन अन्नं खादयति/आदयति/भक्षयति ।
iii. बालः शब्दायते । माता बालेन शब्दापयति ।

नी-वोह्योर् न (वा) आदि-खाद्योर् न (वा) भक्षेर् अहिंसार्थस्य न (वा) शब्दायतेर् न (वा) नियन्तृ-कर्तृक-वह्-धातुं, हिंसार्थक-भक्ष्-धातुं च वर्जयित्वा – नयति, वहति, अत्ति, खादति, भक्षयति इत्येतेषां प्रयोज्य-कर्ता, प्रयोजक-कर्तुः क्रियां प्रति कर्म न भवति इति वार्तिकानाम् अर्थः । नयति, वहति इत्यनयोः गत्यर्थकत्वात्, अत्ति, खादति, भक्षयति इत्येतेषां भक्षणार्थकत्वात् शब्दायते इत्यस्य अकर्मकत्वात् प्रयोज्य-कर्तुः ‘गति-बुद्धि…’ इति सूत्रेण प्राप्तं कर्मत्वम् एतैः वार्तिकैः निषिद्ध्यते ।

i. भृत्यः भारं वहति / नयति । स्वामी भृत्येन भारं वाहयति / नाययति ।
अत्र प्रथम-वाक्ये भृत्यः प्रयोज्य-कर्ता । द्वितीय-वाक्ये स्वामी प्रयोजक-कर्ता । वह्-धातोः नी-धातोः च प्रयोगात् प्रयोजक-कर्तुः स्वामिनः प्रेरण-क्रियां प्रति प्रयोज्य-कर्ता भृत्यः कर्म न भवति ‘नी-वोह्योर् न’ इति वार्तिकेन । कर्मत्वाभावाद् एव प्रयोज्य-कर्तुः द्वितीयापि न । किन्तु प्रयोज्य-कर्तुः कर्तृत्वस्य सद्भावात् ‘कर्तृ-करणयोस् तृतीया – २.३.१८’ इति सूत्रेण तृतीयैव ।

[[P28]]


ii. बालः अन्नं खादति/अत्ति/भक्षयति । माता बालेन अन्नं खादयति/आदयति/भक्षयति ।
iii. बालः शब्दायते । माता बालेन शब्दापयति ।
अत्र उभयत्रापि बालः प्रयोज्य-कर्ता । माता प्रयोजक-कर्त्री । आदि-खाद्योर् न (वा) भक्षेर् अहिंसार्थस्य न (वा) इति वार्तिकाभ्यां प्रयोज्य-कर्तुः बालस्य कर्मत्व-निषेधः । अतो न द्वितीया । प्रयोज्य-कर्तुः कर्तृत्वस्य सद्भावात् ‘कर्तृ-करणयोस् तृतीया’ इति तृतीया एव ।

८. i. कर्म-करः कटं करोति । स्वामी कर्म-करेण कटं कारयति/स्वामी कर्म-करं कटं कारयति ।
ii. देवदत्तः जलं हरति । पिता देवदत्तेन जलं हारयति/पिता देवदत्तं जलं हारयति ।

हृ-क्रोर् अन्यतरस्याम् – १.४.५३ हृ-क्रोर् णौ यः कर्ता स णौ वा कर्म स्यात् । हरति, करोति इत्यनयोः प्रयोज्य-कर्ता, प्रयोजक-कर्तुः क्रियां प्रति विकल्पेन कर्म भवति ।

i. कर्म-करः कटं करोति । स्वामी कर्म-करेण कटं कारयति/स्वामी कर्म-करं कटं कारयति ।
अत्र प्रथम-वाक्ये प्रयोज्य-कर्ता कर्म-करः । द्वितीय-वाक्ये प्रयोजक-कर्ता स्वामी । कृ-धातोः प्रयोगात् प्रयोजक-कर्तुः स्वामिनः प्रेरण-क्रियां प्रति, प्रयोज्य-कर्तुः कर्म-करस्य कर्मत्वाभावे द्वितीया न भवति । अपि तु तस्मिन् कर्तृत्वस्य सद्भावात् ‘कर्तृ-करणयोस् तृतीया – २.३.१८’ इति तृतीया एव । तृतीय-वाक्ये ऽपि प्रयोजक-कर्ता स्वामी एव । कृ-धातोः प्रयोगात् प्रयोजक-कर्तुः स्वामिनः प्रेरण-क्रियां प्रति प्रयोज्य-कर्ता कर्म भवति । कटस् तु ‘कर्तुरीप्सिततमं कर्म’ इत्यनेन एव कर्म-संज्ञां प्राप्नोति । ततः उभयत्रापि द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

ii. देवदत्तः जलं हरति । पिता देवदत्तेन जलं हारयति/पिता देवदत्तं जलं हारयति ।
अत्र प्रथम-वाक्ये देवदत्तः प्रयोज्य-कर्ता । द्वितीय-वाक्ये पिता प्रयोजक-कर्ता । हृ-धातोः प्रयोगात् प्रयोजक-कर्तुः पितुः प्रेरण-क्रियां प्रति प्रयोज्य-कर्तुः देवदत्तस्य कर्मत्वाभावे द्वितीया न भवति, अपि तु तस्मिन् कर्तृत्वस्य सद्भावात् ‘कर्तृ-करणयोस् तृतीया – २.३.१८’ इति तृतीयैव । तृतीय-वाक्ये ऽपि प्रयोजक-कर्ता पिता एव । हृ-धातोः प्रयोगात् प्रयोजक-कर्तुः पितुः प्रेरण-क्रियां प्रति प्रयोज्य-कर्ता कर्म भवति । जलं तु ‘कर्तुरीप्सिततमं

[[P29]]


कर्म’ इत्यनेन एव कर्म-संज्ञां प्राप्नोति । ततः उभयत्रापि द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

९. पाचकः ओदनं पचति । स्वामी पाचकेन ओदनं पाचयति ।
अत्र प्रथम-वाक्ये प्रयोज्य-कर्ता पाचकः । द्वितीय-वाक्ये प्रयोजक-कर्ता स्वामी । प्रयोजक-कर्तुः स्वामिनः प्रेरण-क्रियां प्रति प्रयोज्य-कर्तुः पाचकस्य कर्मत्वं नास्ति । अतः द्वितीयापि नास्ति । किन्तु प्रयोज्य-कर्तुरि पाचके कर्तृत्वस्य सद्भावात् ‘कर्तृ-करणयोस् तृतीया’ इति तृतीया एव ।

इदम् अवधेयम् –
अस्मिन् पुस्तके ‘गति-बुद्धि… – १.४.५२’ इति सूत्रम् आरभ्य, ‘हृ-क्रोर् अन्यतरस्याम् – १.४.५३’ इति सूत्रान्तं ये धातवः परिगणय्य उक्ताः तेषां धातूनां प्रयोगे एव (तेषां धात्वर्थानाम्) प्रयोज्य-कर्ता कर्म-संज्ञां प्राप्नोति, नान्येषां धातूनां प्रयोगे (अन्येषां धात्वर्थानाम्) प्रयोज्य-कर्तुः कर्मत्वम् । ‘स्वामी पाचकेन ओदनं पाचयति’ इत्यत्र प्रयुक्तः पच्-धातुः परिगणितेषु न अन्तर्भूतः । अतः प्रयोज्य-कर्तुः पाचकस्य कर्मत्वं नास्ति । अतो द्वितीया अपि नास्ति । किन्तु कर्तृत्वस्य सद्भावात् तृतीयैव । एवं ‘कर्म-करः कूपं खनति ।’, ‘स्वामी कर्म-करेण कूपं खानयति’ इत्यादावपि प्रयोज्य-कर्तुः कर्म-करस्य कर्मत्वं नास्ति । खन्-धातोर् अपि परिगणितेषु अनन्तर्भूतत्वात् ।

१०. हरिः वैकुण्ठम् अधिशेते । अध्यापकः विद्यालयम् अधितिष्ठति । छात्रः छात्रावासम् अध्यास्ते ।

अधि-शीङ्-स्थासाम् कर्म – १.४.४६ अधि-पूर्वाणाम् एषाम् आधारः कर्म स्यात् । ‘अधि’ इत्युपसर्ग-पूर्वकस्य शीङ्-धातोः, स्था-धातोः, आस्-धातोश् च आधारः कर्म-संज्ञां प्राप्नोति ।

i. हरिः वैकुण्ठम् अधिशेते ।
अत्र ‘अधि’ इत्युपसर्ग-पूर्वकः शीङ्-धातुः प्रयुक्तः अधिशेते इति । शयन-अनुकूल-व्यापारः अधिशेते इत्यस्यार्थः । हरिः अत्र कर्ता । कर्तृ-द्वारा शयन-अनुकूल-व्यापारस्य आधारः वैकुण्ठः । अतो ऽधिकरण-संज्ञा प्राप्ता वैकुण्ठस्य । ताम् अधिकरण-संज्ञां निषिद्ध्य प्रकृत-सूत्रेण कर्म-संज्ञा विधीयते । अतः वैकुण्ठ-शब्दात् द्वितीया ‘कर्मणि द्वितीया – २.३.२’ इति सूत्रेण ।

ii. अध्यापकः विद्यालयम् अधितिष्ठति ।
अत्र ‘अधि’ इत्युपसर्ग-पूर्वकः स्था-धातुः प्रयुक्तः अधितिष्ठति इति ।

[[P30]]


स्थिति-अनुकूल-व्यापारः अधितिष्ठति इत्यस्यार्थः । अध्यापको ऽत्र कर्ता । कर्तृ-द्वारा स्थिति-अनुकूल-व्यापारस्य आधारः विद्यालयः । अतो ऽधिकरण-संज्ञा प्राप्ता विद्यालयस्य । ताम् अधिकरण-संज्ञां निषिद्ध्य प्रकृत-सूत्रेण कर्म-संज्ञा विधीयते । अतो विद्यालय-शब्दात् द्वितीया ‘कर्मणि द्वितीया – २.३.२’ इति सूत्रेण ।

iii. छात्रः छात्रावासम् अध्यास्ते ।
अत्र ‘अधि’ इत्युपसर्ग-पूर्वकः आस्-धातुः प्रयुक्तः अध्यास्ते इति । स्थिति-अनुकूल-व्यापारः अध्यास्ते इत्यस्यार्थः । छात्रो ऽत्र कर्ता । कर्तृ-द्वारा स्थिति-अनुकूल-व्यापारस्य आधारः छात्रावासः । अतः अधिकरण-संज्ञा प्राप्ता छात्रावासस्य । ताम् अधिकरण-संज्ञां निषिद्ध्य प्रकृत-सूत्रेण कर्म-संज्ञा विधीयते । अतः छात्रावास-शब्दात् द्वितीया ‘कर्मणि द्वितीया – २.३.२’ इति सूत्रेण ।

११. बालः सन्मार्गम् अभिनिविशते ।

अभिनिविशश् च – १.४.४७ ‘अभि-नि’ इत्येतत्-सङ्घातस्य विशतेः आधारः कर्म स्यात् ।

‘अभि’ इत्येकः उपसर्गः । ‘नि’ इति अपरः उपसर्गः । ‘अभि-नि’ इति उपसर्ग-द्वय-पूर्वकस्य (अभि + नि इत्येव विवक्षितं, न तु नि + अभि इति) विश्-धातोः आधारः कर्म-संज्ञां प्राप्नोति ।

बालः सन्मार्गम् अभिनिविशते ।
अत्र ‘अभि-नि’ इत्युपसर्ग-द्वय-पूर्वकः विश्-धातुः प्रयुक्तः अभिनिविशते इति । आग्रह-अनुकूल-व्यापारः अभिनिविशते इत्यस्यार्थः । बालो ऽत्र कर्ता । कर्तृ-द्वारा आग्रह-अनुकूल-व्यापारस्य आधारः सन्मार्गः । अतः अधिकरण-संज्ञा प्राप्ता सन्मार्गस्य । ताम् अधिकरण-संज्ञां निषिद्ध्य प्रकृत-सूत्रेण कर्म-संज्ञा विधीयते । अतः सन्मार्ग-शब्दात् द्वितीया ‘कर्मणि द्वितीया – २.३.२’ इति सूत्रेण । ‘पापे अभिनिवेशः’, ‘कल्याणे अभिनिवेशः’ इत्यादि-प्रयोग-दर्शनात् क्वचित् द्वितीया न भवति । तत्रेदं कारणम् । ‘अभिनिविशश् च’ इत्यत्र पूर्व-सूत्रात् ‘अन्यतरस्याम्’ इति अनुवृत्य व्यवस्थित-विभाषां च आश्रित्य क्वचिन् नेति व्यवस्था कृता व्याख्यान-कारैः ।

१२. बहवो नगरम् अधिवसन्ति । बालो गृहम् आवसति ।

उपान्वध्याङ्वसः – १.४.४८ उपादि-पूर्वस्य वसतेः आधारः कर्म स्यात् ।

[[P31]]


उप-उपसर्ग-पूर्वकस्य, अनु-उपसर्ग-पूर्वकस्य, अधि-उपसर्ग-पूर्वकस्य आङ्-उपसर्ग-पूर्वकस्य च वस्-धातोः आधारः कर्म स्यात् ।

i. बहवः नगरम् अधिवसन्ति ।
अत्र ‘अधि’-उपसर्ग-पूर्वकस्य वस्-धातोः प्रयोगः कृतः । वास-अनुकूल-व्यापारः अधिवसति इत्यस्यार्थः । बहवः अत्र वाक्ये कर्तारः । कर्तृ-द्वारा वास-अनुकूल-व्यापारस्य आधारः नगरम् । अतो ऽत्र नगरस्य अधिकरण-संज्ञा प्राप्ता । ताम् अधिकरण-संज्ञां निषिद्ध्य प्रकृत-सूत्रेण कर्म-संज्ञा विधीयते । अतः नगर-शब्दात् द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण ।

ii. बालः गृहम् आवसति ।
अत्र आङ्-उपसर्ग-पूर्वकः वस्-धातुः प्रयुक्तः । वास-अनुकूल-व्यापारः ‘आवसति’ इत्यस्य अर्थः । बालो ऽत्र कर्ता । कर्तृ-द्वारा वास-अनुकूल-व्यापारस्य आधारः गृहम् । अतो ऽत्र गृहस्य अधिकरण-संज्ञा प्राप्ता । ताम् अधिकरण-संज्ञां निषिद्ध्य प्रकृत-सूत्रेण कर्म-संज्ञा विधीयते । अतो गृह-शब्दात् द्वितीया ‘कर्मणि द्वितीया’ इति सूत्रेण । एवं ‘बालः गृहम् अनुवसति’, ‘बालिका गृहम् उपवसति’ इति प्रयोगो ऽपि । उपवसति इत्यस्य वासं करोति, उपवासं करोति इत्य् अर्थद्वयम् अस्ति । तत्र वासं करोति इत्यर्थक-धातोः योगे कर्म-संज्ञा भवति । उपवासं करोति इत्यर्थक-वस्-धातोः प्रयोगे तु कर्म-संज्ञा न । ‘अभुक्त्यर्थस्य न’ (वा) इति वार्तिकम् अत्र प्रमाणम् । अतो ‘वने उपवसति’ इति प्रयोगः । अरण्ये उपवासं करोति इत्यर्थः ।

(आ) उपपदद्वितीया

१३. मासं मङ्गलोत्सवः । सप्ताहम् अधीते । मासं गुडधानाः । योजनं कुटिला नदी । योजनं पठति । योजनं पर्वतः ।

कालाध्वनोर् अत्यन्त-संयोगे – २.३.५ इह द्वितीया स्यात् ।

अध्वा = मार्गः । कालस्य अध्वनश् च गुणेन क्रियया द्रव्येण च निरन्तर-संयोगे गम्ये कालस्य अध्वनश् च द्वितीया भवति । एवं च गुण-क्रिया-द्रव्यैः कालस्य संयोगे त्रीणि उदाहरणानि, अध्वनः संयोगे त्रीणि उदाहरणानि सम्भवन्ति ।

काल-अत्यन्त-संयोगे उदाहरणानि –
i. मासं मङ्गलोत्सवः ।
माङ्गल्यं गुणः । माङ्गल्येन निरन्तर-संयोगः मासस्य । अतो मासात् द्वितीया प्रकृत-सूत्रेण । मासे एक-दिनम् अपि अनपहाय मङ्गलोत्सवः इत्यर्थः ।

[[P32]]


ii. सप्ताहम् अधीते ।
अध्ययनं क्रिया । अध्ययन-क्रियया निरन्तर-संयोगः सप्ताहस्य । अतः सप्ताहात् प्रकृत-सूत्रेण द्वितीया । सप्ताहे एकम् अपि दिनम् अनपहाय पठति इत्यर्थः ।

iii. मासं गुडधानाः ।
गुडश् च धानाश् च = गुडधानाः । धानाः = भृष्ट-यवाः । गुडधानाः द्रव्यम् । द्रव्य-भूतैः गुडधानैः निरन्तर-संयोगः मासस्य । अतो मासात् द्वितीया प्रकृत-सूत्रेण । मासे एकम् अपि दिनम् अनपहाय गुडधानाः सन्ति इत्यर्थः ।

अध्वात्यन्त-संयोगे उदाहरणानि –
i. योजनं कुटिला नदी ।
कौटिल्यं नाम गुणः । तेन निरन्तरं संयोगः योजनस्य । (सूत्रे अध्व-शब्देन अध्व-परिमाणं विवक्षितम्) अतो योजनात् द्वितीया प्रकृत-सूत्रेण । दीर्घा च नदी योजनम् अभिव्याप्य अविच्छिन्नतया वक्रा इत्यर्थः ।

ii. योजनं पठति ।
पठनं क्रिया । पठन-क्रियया निरन्तर-संयोगः योजनम् । अतो योजनात् द्वितीया प्रकृत-सूत्रेण । कश्चित् गच्छन् योजनम् अभिव्याप्य निरन्तरं पठति इत्यर्थः ।

iii. योजनं पर्वतः ।
पर्वतः द्रव्यम् । द्रव्य-भूतेन पर्वतेन निरन्तर-संयोगः योजनस्य । अतो योजनात् द्वितीया प्रकृत-सूत्रेण । योजनम् अभिव्याप्य अविच्छिन्नतया पर्वतो राजते इत्यर्थः ।

१४. अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ।

अन्तरान्तरेण युक्ते – २.३.४ आभ्यां योगे द्वितीया स्यात् । ‘अन्तरा’ इत्याकारान्तम् अव्ययम् । (अन्तरा = मध्ये) ‘अन्तरेण’ इत्यपि अव्ययम् । (अन्तरेण = वर्जयित्वा) अनयोः अव्यययोः योगे द्वितीया भवति इति सूत्रस्य फलितार्थः ।

i. अन्तरा त्वां मां हरिः ।
अन्तरा इत्यस्य योगः ‘त्वाम्’ इति ‘माम्’ इति च पद-वाच्यस्य । अतः त्वां माम् इत्यत्र द्वितीया श्रूयते । सा च द्वितीया प्रकृत-सूत्रेण । ‘तव च मम च मध्ये हरिः’ इत्यर्थः ।

[[P33]]


ii. अन्तरेण हरिं न सुखम् ।
अन्तरेण इत्यस्य योगः हरेः । अतो हरि-शब्दात् द्वितीया प्रकृत-सूत्रेण । ‘हरिं विना सुखं नास्ति’ इत्यर्थः ।

१५. मार्गम् उभयतः वृक्षाः सन्ति । सर्वतः अध्यापकं शिष्याः सन्ति । धिक् अनृत-वादिनम् । उपर्युपरि भूमिं विमानानि डयन्ते । अधोऽधो भूमिं जलं भवति ।

उभ-सर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाम््रेडितान्तेषु ततो ऽन्यत्रापि दृश्यते ॥ (वा)

उभयतः, सर्वतः, धिक्, उपर्युपरि, अध्यधि, अधोऽधः इत्येतैः योगे द्वितीया स्याद् इति वार्तिकस्य मथितो ऽर्थः ।

i. मार्गम् उभयतः वृक्षाः ।
उभयतः इत्यनेन योगः ‘मार्गस्य’ । अतो मार्गात् द्वितीया प्रकृत-वार्तिकेन । मार्गस्य पार्श्व-द्वये ऽपि वृक्षाः इत्यर्थः ।

ii. सर्वतः अध्यापकं शिष्याः सन्ति ।
सर्वतः इत्यनेन योगः अध्यापकस्य । अतः अध्यापकात् द्वितीया प्रकृत-वार्तिकेन । अध्यापकस्य सर्वेषु पार्श्वेषु शिष्याः स्थिताः इत्यर्थः ।

iii. धिक् अनृत-वादिनम् ।
धिग् इत्यनेन योगः अनृत-वादिनः । अतो अनृत-वादिनो द्वितीया प्रकृत-वार्तिकेन । अनृत-वादी निन्द्यः इत्यर्थः । ‘धिक् मूर्ख !’ इत्यत्र तु ‘निषिद्धाचरणम्’ इति अध्याहार्यम् । तदा ‘मूर्ख ! धिक् निषिद्धाचरणम्’ इति वाक्यं सम्पद्यते । धिग् इत्यनेन योगः निषिद्धाचरणस्य, न तु मूर्खस्य । अतो निषिद्धाचरणात् द्वितीया । ‘हे मूर्ख ! निषिद्धाचरणं निन्द्यम्’ इत्यर्थः ।

iv. उपर्युपरि भूमिं विमानानि डयन्ते ।
उपर्युपरि इत्यनेन योगः भूमेः । अतो भूमेः द्वितीया प्रकृत-वार्तिकेन । (उपर्युपरि = समीप-ऊर्ध्व-भाग-वृत्ति) भूमेः समीपे उपरि विमानानि डयन्ते इत्यर्थः ।

v. अधोऽधो भूमिं जलं भवति ।
अधोऽधो इत्यनेन योगः भूमेः । अतो भूमेः द्वितीया प्रकृत-वार्तिकेन ।2

[[P34]]


(अधोऽध = समीप-अधस्तन-भाग-वृत्ति) भूमेः समीपे अधो जलं भवति इत्यर्थः ।

१६. गृहम् अभितः तृणानि सन्ति । विद्यालयं परितः छात्राः क्रीडन्ति । बुभुक्षितं न प्रतिभाति किञ्चित् ।

अभितः-परितः-समया-निकषा-हा-प्रति-योगे ऽपि (वा) अभितः, परितः, समया, निकषा, हा, प्रति इत्येतैः योगे द्वितीया स्याद् इति वार्तिकार्थः । ‘ततो ऽन्यत्रापि दृश्यते’ इत्यस्यैव विवरणम् अनेन वार्तिकेन कृतम् ।

i. गृहम् अभितः तृणानि सन्ति ।
अभित इत्यनेन योगो गृहस्य । अतो गृहात् द्वितीया प्रकृत-वार्तिकेन ।

ii. विद्यालयं परितः छात्राः क्रीडन्ति ।
परितः इत्यनेन योगो विद्यालयस्य । अतो विद्यालयात् द्वितीया । विद्यालयस्य सर्वेषु पार्श्वेषु छात्राः क्रीडन्ति इत्यर्थः ।

iii. बुभुक्षितं न प्रति भाति किञ्चित् ।
प्रति इत्यनेन योगः बुभुक्षितस्य । अतो बुभुक्षितात् द्वितीया । बुभुक्षितस्य किञ्चिद् अपि न स्फुरति इत्यर्थः ।

iv. ग्रामं समया । निकषा लङ्काम् । हा कृष्ण-भक्तम् ।
इत्यपि अस्यैव वार्तिकस्य उदाहरणानि । ग्रामस्य समीपे, लङ्कायाः समीपे इति आद्ययोः द्वयोः वाक्ययोः अर्थः । कृष्ण-भक्तः शोच्यः इति तृतीयस्य वाक्यस्य अर्थः ।

कर्मप्रवचनीयः

कर्म-प्रवचनीयो नाम काचन संज्ञा । अनु, उप, प्रति, परि, अभि, अधि, सु, अति, अपि, अप, आङ् इत्येतेषां प्रादीनां विशेषार्थे कर्म-प्रवचनीय-संज्ञा विहिता ।

एतेषु (वर्जनार्थे) अप, परि, (प्रतिनिधि-प्रतिदानार्थे) प्रति, (मर्यादाभिविध्यर्थे) आङ् इत्येतैः योगे पञ्चमी भवति । यथा – आ मुक्तेः संसारः ।

(ईश्वरार्थे) अधि (अधिकार्थे) ‘उप’ इत्येताभ्यां योगे सप्तमी भवति । यथा – अधि भुवि रामः ।

अनु, अभि, सु, अति, अपि (लक्षण-आद्यर्थे) प्रति, परि (हीनार्थे) उप इत्येतैः योगे द्वितीया भवति ।

[[P35]]


(इ) कर्मप्रवचनीयद्वितीया

१७. वृक्षं प्रति विद्योतते विद्युत् ।

लक्षणेत्थं-भूताख्यान-भाग-वीप्सासु प्रति-पर्यनवः – १.४.९० एषु अर्थेषु विषय-भूतेषु प्रत्यादयः उक्त-संज्ञाः स्युः । लक्षणं = ज्ञापकम् । इत्थं-भूताख्यानम् = कश्चित्-प्रकारं प्राप्तस्य उपपादकम् । भागः = स्वीकार्यो ऽंशः । वीप्सा = कात्स्न्येन सम्बन्धुम् इच्छा । एषु अर्थेषु प्रति, परि, अनु इत्येते त्रयः कर्म-प्रवचनीय-संज्ञां प्राप्नुवन्ति इति सूत्रस्य फलितो ऽर्थः ।

वृक्षं प्रति विद्योतते विद्युत् ।
‘प्रति’ इत्येषः लक्षणार्थ-द्योतकः । अतः कर्म-प्रवचनीय-संज्ञा प्रकृत-सूत्रेण । प्रति इत्यनेन योगः वृक्षस्य । अतो वृक्ष-शब्दात् द्वितीया ‘कर्म-प्रवचनीय-युक्ते द्वितीया – २.३.८’ इति सूत्रेण । ‘वृक्षेण लक्ष्यमाणा विद्युत् विद्योतते’ इत्यर्थः सम्पन्नो भवति वाक्यस्य । प्रकाशितेन वृक्षेण विद्युज्-ज्ञानात् अत्र वृक्षः लक्षणम् इति ज्ञेयम् । तत् ‘प्रति’ इत्येषः द्योतयति ।

इदं ज्ञेयम् – कर्म-प्रवचनीय-सम्बद्धानि बहूनि उदाहरणानि सन्ति । तेषां प्रयोगाणां वैरल्यात् तानि अत्र न विवृतानि । सिद्धान्त-कौमुदीतः तानि ज्ञातव्यानि ।


[[P36]]



  1. परिगणितानां पदानां यः अर्थः, तेन अर्थेन अन्वितार्थस्य वाचकात् प्रवर्तमाना विभक्तिः उपपद-विभक्तिः । (तद्-अर्थान्वितार्थ-वाचकात् विभक्तिः) यथा – मार्गम् उभयतः वृक्षाः । उभयतः इत्यस्य अर्थेन अन्वितार्थः पन्थाः । तद्-वाचकः मार्गः । तस्मात् द्वितीया । ↩︎

  2. सप्तदशे पृष्ठे स्थितां टिप्पणीं पश्यन्तु । ↩︎