०३ प्रथमाविभक्तिः

१. गौः गोष्ठम् आगच्छति । छात्रेण श्लोकः पठ्यते ।

प्रातिपदिकार्थ-लिङ्ग-परिमाण-वचन-मात्रे प्रथमा – २.३.४६ नियतोपस्थितिकः प्रातिपदिकार्थः । मात्र-शब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थ-मात्रे, लिङ्ग-मात्राद्याधिक्ये, सङ्ख्या-मात्रे च प्रथमा स्यात् ।

प्रवृत्ति-निमित्तं व्यक्तिश् च प्रातिपदिकार्थः । यथा – ‘वृक्ष’ इति प्रातिपदिकस्य वृक्षत्व-विशिष्टः वृक्षः इत्यर्थः । अत्र वृक्षत्वं प्रवृत्ति-निमित्तम् । वृक्षः व्यक्तिः । एतादृशे प्रातिपदिकार्थे प्रथमा स्यात् ।

i. गौः गोष्ठम् आगच्छति । (गौः गोष्ठम् आगच्छति)
कर्म | कर्ता

अत्र ‘गो’ इति प्रातिपदिकस्य अर्थः गोत्व-विशिष्ट-गौः इति । अत्र गो-शब्दात् प्रथमा ।

ii. छात्रेण श्लोकः पठ्यते । (छात्रेण श्लोकः पठ्यते)
कर्ता | कर्म

अत्र ‘श्लोक’ इति प्रातिपदिकस्य अर्थः श्लोकत्व-विशिष्ट-श्लोकः इति । अतः श्लोक-शब्दात् प्रथमा ।

इदम् अत्र अवधेयम् – ‘गौः गोष्ठम् आगच्छति’ इत्यत्र गौः कर्ता । तथापि कर्तृ-करणयोस् तृतीया – २.३.१८ इति सूत्रेण तृतीया न प्रवर्तते । कुतः ? कर्तरि अनभिहिते एव (अनुक्ते) तृतीयायाः विधानात्, न तु अभिहिते । यथा – गवा गोष्ठं गम्यते इति । ‘गौः गोष्ठम् आगच्छति’ इत्यत्र तु ‘ति’-प्रत्ययेन (आगच्छति) कर्तुः अभिहितत्वात् (उक्तत्वात्) न तृतीया । किन्तु प्रथमा प्रवर्तते । कुतः ? कर्तुः अभिहितत्वे ऽपि प्रातिपदिकार्थस्य सद्भावात् । प्रथमायाः निमित्तं प्रातिपदिकार्थो ननु ।

एवं ‘छात्रेण श्लोकः पठ्यते’ इत्यत्रापि । अत्र श्लोकः कर्म । तथापि कर्मणि द्वितीया – २.३.२ इति सूत्रेण द्वितीया न प्रवर्तते । कुतः ? कर्मणि अनभिहिते (अनुक्ते) एव द्वितीयायाः विधानात्, न तु अभिहिते । यथा – ‘छात्रः श्लोकं पठति’ इति । ‘छात्रेण श्लोकः पठ्यते’ इत्यत्र तु

[[P20]]


‘ते’ इति प्रत्ययेन (पठ्य् + ते = कर्म) कर्मणः अभिहितत्वात् (उक्तत्वात्) न द्वितीया । किन्तु प्रथमा प्रवर्तते । कुतः ? कर्मणः अभिहितत्वे ऽपि प्रातिपदिकार्थस्य सद्भावात् । प्रातिपदिकार्थो हि प्रथमायाः प्रवृत्तौ निमित्तम् ।

‘उच्चैर् गृहम्’ इत्यादौ अव्ययाद् अपि अनेनैव सूत्रेण प्रथमा भवति ।

लिङ्गं, परिमाणं, वचनं चेति त्रीणि पदानि पुनः सन्ति । तानि न इह व्याख्यायन्ते ।

२. हे राम ! मां पाहि ।

सम्बोधने च – २.३.४७ इह प्रथमा स्यात् ।

सम्बोधनम् = अभिमुखी-कृत्य ज्ञापनम् । प्रातिपदिकार्थेन सह सम्बोधनेऽधिके गम्यमाने अपि प्रथमा स्याद् इति सूत्रस्य फलितोऽर्थः ।

“हे राम ! मां पाहि ।”

‘राम’ इति प्रातिपदिकम् । अत्र प्रातिपदिकार्थेन सह सम्बोधनार्थः अधिकतया गम्यते । तथापि राम-शब्दात् प्रथमा स्यात् प्रकृत-सूत्रेण ।


[[P21]]