विभक्तीनां प्रवृत्तौ कारकं प्राधान्यम् आवहति । कारक-संज्ञां पुरस्कृत्य या विभक्तिः प्रवर्तते सा कारक-विभक्तिः इति उच्यते । यथा – ग्रामं गच्छति । अत्र द्वितीया कर्म-कारक-संज्ञां पुरस्कृत्य प्रवृत्ता । अतः एषा कारक-विभक्तिः ।
यत्र कारकत्वस्य न प्रसक्तिः तत्र परिगणितानां केषाञ्चन पदानाम् अर्थेन योगो ऽपि विभक्तेः प्रवृत्तौ निमित्तं भवति । यथा – हरिं विना सुखं नास्ति । अत्र ‘विना’ इत्यस्य अर्थेन युक्तः हरिः । विना इत्यस्य अर्थेन योगाद् एव हरि-शब्दात् द्वितीया प्रवृत्ता । अतः एषा उपपद-विभक्तिः इति उच्यते । प्रथमायाः प्रवृत्तौ निमित्तं प्रातिपदिकार्थः सम्बोधनं च । यथा – उच्चैः गृहम् । हे राम । स्व-स्वामि-भावादि-सम्बन्धो ऽपि विभक्ति-प्रवृत्तौ निमित्तम् । यथा – राज्ञः पुरुषः । अत्र राज-पदात् षष्ठी श्रूयते । सा षष्ठी स्व-स्वामि-भाव-सम्बन्धं पुरस्कृत्य प्रवृत्ता ।
कारक-विभक्तयः द्वितीया, तृतीया, चतुर्थी, पञ्चमी, सप्तमी चेति पञ्च सन्ति । कृद्-योगे कर्तरि कर्मणि च प्रवर्तमाना (न तु सम्बन्धं पुरस्कृत्य प्रवर्तमाना) षष्ठी अपि (श्लोकस्य पठनम् इत्यादौ) कारक-विभक्तिः एव । तृतीया-विभक्तिः कर्तरि, करणे च प्रवर्तते । अतः षट् कारकाणि, कारक-विभक्तयः पञ्च एव इति कथं सङ्गच्छते इति शङ्कया न अवसरः । उपपद-विभक्तयः अपि ताः एव द्वितीया, तृतीया, चतुर्थी, पञ्चमी, सप्तमी चेति पञ्च भवन्ति । यथा – कृष्णम् अभितः गावः । अक्ष्णा काणः । सर्वेभ्यः स्वस्ति । कृष्णात् अन्यः अयम् । मातरि साधुः इति ।
कर्म-प्रवचनीयः इति काचित् संज्ञा । सा संज्ञापि द्वितीयायाः पञ्चम्याः सप्तम्याः च प्रवृत्तौ निमित्तं भवति । यथा – वृक्षं प्रति विद्योतते विद्युत् । आ हिमालयात् । अधि भुवि रामः इति ।
पाणिनेः अयं क्रमः । आदौ अपादान-आदि-कारक-संज्ञां विधत्ते ‘ध्रुवमपायेऽपादानम् – १.४.२४’ इत्यादिना सूत्रेण प्रथम-अध्याये चतुर्थ-पादे । ततो विभक्तिं विधत्ते ‘कर्मणि द्वितीया’ इत्यादिना सूत्रेण द्वितीय-अध्याये तृतीय-पादे । तत्रैव उपपद-विभक्तिं षष्ठी-विभक्तिं च विधत्ते । प्रथमा-विभक्तिं प्रातिपदिकार्थं पुरस्कृत्य विधत्ते, याम् एतां प्रथमां ‘षष्ठी शेषे – २.३.५०’ इति सूत्रात् प्राक् प्राह ।
एवं च ‘आदौ कारकं निश्वेतव्यम् । ततो विभक्तिः विधेया’ इत्येषः क्रमः कारक-विभक्तौ इति ज्ञेयम् ।
[[P18]]
तथा च विभक्तेः प्रवृत्तौ एतानि निमित्तानि –
१. कारकम्
२. पदार्थ-योगः (उपपदम्)
३. प्रातिपदिकार्थः
४. स्व-स्वामि-भावादिः सम्बन्धः
५. कर्म-प्रवचनीयः
→ विभक्तिः
※※※※※
[[P19]]