क्रमवतां वर्णानां समूहः पदम् । पद-समूहः वाक्यम् । वाक्यम् अभीप्सितम् अर्थं बोधयति । अतः शब्द-प्रपञ्चे वाक्यम् एव प्राधान्यम् आवहति । किन्तु पदम् अन्तरा वाक्यं न भवति । ऋते वर्णेभ्यः पदं नास्ति । अतः व्याकरणे वर्ण-निमित्तानि कार्याणि, पद-निमित्तानि कार्याणि च सन्ति । प्रायः सन्धि-कार्याणि वर्ण-निमित्तकानि । समासादीनि पद-निमित्तकानि । वाक्यम् अवलम्ब्य प्रवृत्तानि भवन्ति कारकाणि, कारक-सम्बन्धीनि कार्याणि च । साक्षात् परम्परया वा वाक्यानि संस्कर्तुम् एव व्याकरणं प्रवृत्तम् । सम्प्रति कारकाणि, कारक-सम्बन्धीनि कार्याणि च इह प्रस्तूयन्ते ।
(अ) वाक्यम्
किं नाम वाक्यम् ? कारकान्विता क्रिया वाक्यम् । यथा – १. मृगो धावति, २. छात्रः श्लोकं पठति, ३. सः कटे उपविशति इति । एषु प्रथम-वाक्ये कर्तृ-कारकेण अन्विता धावन-क्रिया । द्वितीये – कर्तृ-कारकेण कर्म-कारकेण चान्विता पठन-क्रिया । तृतीये – कर्तृ-कारकेण अधिकरण-कारकेण चान्विता उपवेशन-क्रिया ।
(आ) कारकम्
किं नाम कारकम् ? क्रियान्वयि कारकम् । क्रियायाः अन्वयः = क्रियान्वयः । अन्वयः = सम्बन्धः । क्रियान्वयः अस्य अस्ति इति क्रियान्वयि । यः क्रियया अन्वेति (सम्बन्धं प्राप्नोति) सः कारकम् इत्य् उच्यते इति फलितार्थः । यथा –
१. पाचकः पचति । अत्र पाचकः पाक-क्रियायाम् अन्वेति । अतः पाचकः कारकम् । तच् च प्रकृते कर्तृ-कारकम् ।
२. गां स्पृशति । अत्र गौः स्पर्शन-क्रियायाम् अन्वेति । अतः सा कारकम् । तच् च प्रकृते कर्म-कारकम् ।
३. परशुना छिनत्ति । अत्र परशुः छेदन-क्रियायाम् अन्वेति । अतः कारकम् । तच् च प्रकृते करण-कारकम् ।
४. बालाय फलं ददाति । अत्र बालः दान-क्रियायाम् अन्वेति । अतः बालः कारकम् । तच् च प्रकृते सम्प्रदान-कारकम् ।
५. प्रासादात् पतति । अत्र प्रासादः पतन-क्रियायाम् अन्वेति । अतः प्रासादः कारकम् । तच् च अपादान-कारकम् ।
[[P6]]
६. पीठे उपविशति । अत्र पीठम् उपवेशन-क्रियायाम् अन्वेति । अतः पीठं कारकम् । तच् च प्रकृते अधिकरण-कारकम् ।
कर्तृ-कारकं क्रियायां साक्षात् अन्वेति । अन्यानि कारकाणि तु परम्परया क्रियायाम् अन्वयं प्राप्नुवन्ति इति ज्ञेयम् ।
इदं परिशील्यताम् –
कः, कां, केन, कस्मै, कस्मात्, कुत्र ददाति इति प्रश्नः (अयोध्यायाः) राजा, गां, हस्तेन, विप्राय, गोष्ठात्, गङ्गा-तीरे ददाति इति वाक्येन समाहितः भवति ।
अतः दान-क्रियायां षड् अपि कारकाणि अन्वितानि भवन्ति इति स्पष्टम् ।
‘कस्य राजा’ इति प्रश्नस् तु ‘अयोध्यायाः राजा’ इत्य् अनेन समाहितः भवति ।
अयोध्यायाः अन्वयः राज्ञि एव, न तु दान-क्रियायाम् ।
अतः षष्ठी (शेष-षष्ठी) कारकं न इति उद्घोषः ।
इत्थं च क्रियया सह कारकाणां सम्बन्धस्य परिशीलनाय प्रश्नोत्तर-रूपः पन्थाः सुगमः । यथा – ‘कः पचति ?’ = कः पाक-क्रियां निर्वर्तयति ? इति उत्थितायाः आकांक्षायाः (प्रश्नस्य) उपशमनं देवदत्तः पचति = ‘देवदत्तः पाक-क्रियां निर्वर्तयति’ इति वाक्येन (उत्तरेण) भवति । देवदत्तस्य कर्तुः पाक-क्रियया सह सम्बन्धः यदि न अभविष्यत् तर्हि आकांक्षायाः उपशमनम् अपि न अभविष्यत् । जातं चोपशमनम् आकांक्षायाः । अतः क्रियया सह सम्बन्धः अस्ति इति ज्ञायते । एवम् अन्य-कारकादावपि ज्ञेयम् ।
(इ) धात्वर्थः
धातुः : [ फलम् | व्यापारः ]
पचति इत्यादौ तिङन्ते प्रकृतिः पच्-धातुः, प्रत्ययश् च तिङ् । ‘पक्ववान्’, ‘पचन्’ इत्यादौ कृदन्ते ऽपि प्रकृतिः प्रत्ययश् च भवतः । तत्रापि प्रकृतिः धातुः, प्रत्ययश् च कृत् । एवं च धातोः द्वये प्रत्ययाः – तिङः कृतश् चेति । तत्र धातोः अर्थः निरूप्यते । तथाहि –
धातुः फलं व्यापारं च बोधयति । यथा – ‘पचति’ इत्यत्र पच्-धातुः अस्ति । सः पच्-धातुः विक्लित्ति-रूपं फलं (विक्लित्तिः = मृदु-विशदत्वम् । तण्डुलादौ जायमानः विकारः इति यावत्) तद्-अनुकूल-व्यापारं च बोधयति । एवं च पच्-धातोः अर्थः विक्लित्त्य्-अनुकूल-व्यापारः इति । यथा वा –
[[P7]]
१. गच्छति । अत्र गम्-धातुः संयोग-रूपं फलं तद्-अनुकूल-व्यापारं च बोधयति । अतः गम्-धातोः अर्थः – संयोगानुकूल-व्यापारः इति ।
२. वर्धते । अत्र वृध्-धातुः वर्धन-रूपं फलं, तद्-अनुकूल-व्यापारं च बोधयति । अतः वृध्-धातोः अर्थः – वर्धनानुकूल-व्यापारः इति ।
इत्थं च सर्वे धातवः ‘फलं व्यापारश् च’ इत्य् अर्थद्वयं बोधयन्ति इति ज्ञेयम् ।
(ई) तिङर्थः
[ति/ते = कारकं/भावः, कालः, संख्या च]
पचति इत्यादौ [[तिघ्रत्ययः|तिङ्-प्रत्ययः]] श्रूयते । [[तिघ्रत्ययस्य|तिङ्-प्रत्ययस्य]] कारकं/भावः, कालः, सङ्ख्या च अर्थाः । यथा – पचति/ते इत्य् अत्र ‘ति/ते’ प्रत्ययः कर्तृ-कारकं, वर्तमान-कालम्, एकत्व-सङ्ख्यां च बोधयति । पच्यते इत्य् अत्र तु ‘ते’ इति प्रत्ययः कर्म-कारकं, वर्तमान-कालम्, एकत्व-सङ्ख्यां च बोधयति । एवं च [[तिघ्रत्ययः|तिङ्-प्रत्ययः]] कर्तृ-कारकं कर्म-कारकं वा बोधयति, न अन्यानि कारकाणि इति ज्ञेयम् । भूयते इत्य् आदौ ‘ते’ इति प्रत्ययः भावं कालं च बोधयति । अत एव प्रयोगः त्रिधा – १. कर्तरि २. कर्मणि ३. भावे चेति । अथवा – १. कर्तृ-वाच्यः २. कर्म-वाच्यः ३. भाव-वाच्यः च इति त्रिधा ।
एष फलितार्थः –
i. पाचकः ओदनं पचति/ते ।
पच् + ति/ते
फलम् व्यापारः कर्ता कालः सङ्ख्या
ii. पाचकेन तण्डुलः पच्यते ।
पच् + य + ते
फलम् व्यापारः कर्म कालः सङ्ख्या
iii. रामेण भूयते ।
भू + य + ते
फलम् व्यापारः भावः कालः
[[P8]]
(उ) कारकाणि
क्रियान्वयि कारकम् इत्य् उक्तम् । तच् च कारकं षोढा । तथाहि –
कर्ता कर्म च करणं सम्प्रदानं तथैव च ।
अपादानाधिकरणम् इत्य् आहुः कारकाणि षट् ॥ इति ।
१. कर्ता
स्वतन्त्रः कर्ता – १.४.५४. क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति सूत्रार्थः । स्वातन्त्र्यं नाम व्यापार-आश्रयत्वम् । एवं च – व्यापाराश्रयः कर्ता इति फलितो ऽर्थः ।
धात्वर्थः – फलं व्यापारः चेत्य् उक्तम् । तत्र व्यापारस्य यः आश्रयः सः कर्ता भवति । यथा – सूदः पचति ।
पच्-धातोर् अर्थः = पाक-क्रिया (पाक-व्यापारः) । सा क्रिया कुत्र अस्ति ? सूदे अस्ति । तथा च पाक-क्रियायाः आश्रयः सूदः । अतः सूदः कर्ता । यथा वा –
१. बालः खादति । खाद्-धातोर् अर्थः भक्षण-क्रिया । सा क्रिया बाले अस्ति । अतः क्रियायाः आश्रयः बालः । अतः बालः कर्ता ।
२. वटुः लिखति । लिख्-धातोर् अर्थः लेखन-क्रिया । सा क्रिया वटौ अस्ति । अतः लेखन-क्रियायाः आश्रयः वटुः । अतः वटुः कर्ता ।
३. सूर्यः प्रकाशते । धात्वर्थः प्रकाशन-क्रिया । सा क्रिया सूर्ये अस्ति । अतः प्रकाशन-क्रियायाः आश्रयः सूर्यः । अतः सूर्यः कर्ता ।
२. कर्म
कर्तुर् ईप्सिततमं कर्म – १.४.४९ कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्म-संज्ञं स्यात् इति सूत्रार्थः । कर्ता काञ्चित् क्रियां निर्वर्तयति । तया क्रियया किञ्चित् फलं जायते । तच् च फलं यत्र सम्बद्धं भवतु इति इच्छति तत् कर्म-संज्ञां प्राप्नोति । तथा च कर्ता स्व-क्रिया (प्रयोज्य)-जन्य-फलेन सम्बन्धुम् इष्यमाणं कारकं कर्म-संज्ञं स्यात् इति फलितो ऽर्थः ।
यथा – सूदः तण्डुलं पचति । अत्र पच्-धातोर् अर्थः विक्लित्ति-रूपं फलं, तद्-अनुकूल-क्रिया च । पाक-क्रियायाः आश्रयः सूदः । अतः सूदः कर्ता । कर्तुः सूदस्य पाक-क्रिया-जन्य-विक्लित्ति-रूप-फलेन सम्बन्धुम् इष्यमाणः तण्डुलः । अतः तण्डुलः कर्म भवति ।
(इदं मनसि आकलनीयम् – ‘अत्र सूदः पाक-क्रियां निर्वर्तयति । तण्डुले विक्लित्ति-रूपः
[[P9]]
विकारः जायते । स्व-पाक-क्रियया तण्डुले विक्लित्ति-रूपः विकारः (विक्लित्ति-रूपं फलं) जायताम् इतीच्छया एव सूदः प्रवर्तते’ इति ।) यथा वा –
१. बालः ग्रामं गच्छति । गम्-धातोर् अर्थः संयोग-रूपं फलं, तद्-अनुकूल-क्रिया च । गमन-क्रियायाः आश्रयः बालः । अतः बालः कर्ता । कर्तुः बालस्य गमन-क्रिया-जन्य-संयोग-रूप-फलेन सम्बन्धुम् इष्यमाणः ग्रामः । अतः ग्रामः कर्म भवति । (गमनं नाम पूर्व-देशस्य त्यागः, उत्तर-देशस्य प्राप्तिः । बालः स्व-गमनेन ग्रामे स्व-संयोगो भवतु इति इच्छति ।)
२. चैत्रः कूपं खनति । खन्-धातोर् अर्थः अवदारण-रूपं फलं, तद्-अनुकूल-क्रिया च । खनन-क्रियायाः आश्रयः चैत्रः । अतः चैत्रः कर्ता । कर्तुः चैत्रस्य खनन-क्रिया-जन्य्-अवदारण-रूप-फलेन सम्बन्धुम् इष्यमाणः कूपः । अतः कूपः कर्म भवति ।
३. भक्तः हरिं भजति । भज्-धातोर् अर्थः तुष्टि-रूपं फलं, तद्-अनुकूल-क्रिया च । भजन-क्रियायाः आश्रयः भक्तः । अतः भक्तः कर्ता । कर्तुः भक्तस्य भजन-क्रिया-जन्य-तुष्टि-रूप-फलेन सम्बन्धुम् इष्यमाणः हरिः । अतः हरिः कर्म भवति । (भजनं नाम पूजन-आदि-परिचरणात्मिका क्रिया । परिचरणात्मिकां क्रियां भक्तः करोति । तया परिचरणात्मक-क्रियया हरौ तुष्टिः भवति । भक्तः भजन-क्रियया हरौ तुष्टि-रूपं फलं भवतु इति इच्छया खलु प्रवर्तते ।)
इदम् अवधेयम् –
सर्वेषां धातूनाम् अर्थः – फलं क्रिया च । धातवश् च सकर्मकाः अकर्मकाश् चेति द्विधा । तत्र सकर्मक-धातुः यदा प्रयुज्यते तदा फलम् एकत्र भवति, क्रिया अन्यत्र भवति । फलं यत्र भवति सः कर्म । अतः एव फलाश्रयः कर्म इत्य् उच्यते । क्रिया यत्र भवति सः कर्ता । अतः एव क्रियाश्रयः कर्ता इत्य् उच्यते । यथा – सूदः तण्डुलं पचति । पच्-धातोर् अर्थः विक्लित्ति-रूपं फलं तद्-अनुकूल-क्रिया च । विक्लित्तिः तण्डुले । अतः तण्डुलः कर्म । क्रिया सूदे । अतः सूदः कर्ता । अकर्मक-धातुः यदा प्रयुज्यते तदा फलं क्रिया च कर्तरि एव भवतः । यथा – चन्द्रः वर्धते । वृध्-धातोर् अर्थः – वृद्धि-रूपं फलं तद्-अनुकूल-क्रिया च । एतद् उभयम् अपि कर्तरि चन्द्रे एव वर्तते ।
३. करणम्
साधकतमं करणम् – १.४.४२ क्रिया-सिद्धौ प्रकृष्टोपकारकं कारकं करण-संज्ञं स्यात् इति सूत्रार्थः ।
यत् स्व-व्यापार-समनन्तरम् एव फलोत्पादकं तत्-करणम् इति फलितो ऽर्थः ।
[[P10]]
यथा – रामः बाणेन रावणं हन्ति । हन्-धातोर् अर्थः – प्राण-वियोग-रूपं फलं तद्-अनुकूल-क्रिया च । हनन-क्रियाश्रयः रामः । अतः सः कर्ता । प्राण-वियोग-रूपं फलं रावणे अस्ति । फलाश्रयत्वात् रावणः कर्म । धनुषः मुक्तः बाणः गच्छन् रावणं विध्यति (प्रविशति) । समनन्तरम् एव प्राण-वियोगः (फलम्) रावणे भवति । बाणस्य प्रवेशन-व्यापार-समनन्तरम् एव प्राण-वियोग-रूपं फलम् उत्पन्नम् । अतः बाणः स्व-व्यापार-समनन्तरम् एव प्राण-वियोग-रूप-फलोत्पादकः अस्ति इति बाणः करणम् । अतः प्रकृष्टोपकारकं नाम = स्व-व्यापार-समनन्तरं फलोत्पादकम् एव इति ज्ञेयम् । यथा वा –
१. देवदत्तः परशुना वृक्षं छिनत्ति । छिद्-धातोर् अर्थः विदारण-रूप-फलं, तद्-अनुकूल-क्रिया च । क्रियाश्रयो देवदत्तः कर्ता । विदारण-रूपं फलं वृक्षे अस्ति । अतः फलाश्रयत्वात् वृक्षः कर्म । देवदत्तः हस्ताभ्यां परशुम् उपरि नीत्वा अधः पातयति । अनेकशः उपरिनयन-अधः-पातन-व्यापार-समनन्तरम् एव वृक्षे विदारण-रूपं फलम् उत्पन्नम् । अतः परशुः स्व-व्यापार-समनन्तरम् एव विदारण-रूप-फलोत्पादकः अस्ति इति परशुः करणम् ।
२. बालः पादाभ्यां गृहं गच्छति । गम्-धातोर् अर्थः – उत्तर-देश-संयोगः तद्-अनुकूल-क्रिया च । क्रियाश्रयः बालः कर्ता । संयोग-रूपं फलं गृहे अस्ति । अतः फलाश्रयत्वात् गृहं कर्म । बालः पादौ उद्घृत्य निक्षिपति । अनेकशः उद्धरण-निक्षेपण-व्यापार-समनन्तरम् एव गृहे संयोगः उत्पन्नः । अतः पादौ स्व-व्यापार-समनन्तरम् एव संयोग-रूप-फलोत्पादकौ स्तः इति पादौ करणम् ।
४. सम्प्रदानम्
कर्मणा यमभिप्रैति स सम्प्रदानम् – १.४.३२. कर्मणा यमभिप्रैति स सम्प्रदानम् इति सूत्रार्थः ।
कर्मणा सम्बन्धुं यम् अभिप्रैति (इच्छति) सः सम्प्रदानं स्याद् इति फलितार्थः । देय-द्रव्योद्देश्यं सम्प्रदानम् इति तात्पर्यार्थः । यथा – पिता मोदकं बालाय ददाति । दा-धात्वर्थः हस्तादौ स्थापन-रूपं फलं तद्-अनुकूल-क्रिया च । दान-क्रियाश्रयः पिता कर्ता । स्थापन-रूपं फलं मोदके । अतः मोदकः कर्म । कर्म-भूतेन तेन मोदकेन पिता कं सम्बन्धुम् अभिप्रैति ? कर्म-भूतेन मोदकेन बालं सम्बन्धुम् अभिप्रैति । अतः सः बालः सम्प्रदानं भवति । (कर्म-भूतं वस्तु यम् अधिगच्छति सः सम्प्रदानं भवति । अत्र कर्म-भूतं वस्तु मोदकः बालकम् अधिगच्छति । अतः बालः सम्प्रदानम् ।) यथा वा –
१. खण्डिकोपाध्यायः शिष्याय चपेटां ददाति । दा-धात्वर्थः संयोग-रूपं फलं, तद्-अनुकूल-व्यापारश् च । क्रियाश्रयः खण्डिकोपाध्यायः कर्ता । चपेटा
[[P11]]
नाम प्रसृत-करतलम् । संयोग-रूपं फलं चपेटयाम् । अतः चपेटा कर्म भवति । कर्म-भूतया चपेटया कं सम्बन्धुम् अभिप्रैति ? कर्म-भूतया चपेटया शिष्यम् अभिसम्बन्धुम् अभिप्रैति । अतः शिष्यः सम्प्रदानम् । (कर्म-भूता चपेटा शिष्यं खलु अधिगच्छति । अतः सः सम्प्रदानम् ।)
२. चैत्रः रजकाय वस्त्रं ददाति । दा-धात्वर्थः अधीनीकरणं, तद्-अनुकूल-क्रिया च । क्रियाश्रयः चैत्रः कर्ता । अधीनीकरण-रूपं फलं वस्त्रे । अतः वस्त्रं कर्म । कर्म-भूतेन वस्त्रेण कं सम्बन्धुम् अभिप्रैति ? कर्म-भूतेन वस्त्रेण रजकं सम्बन्धुम् अभिप्रैति । अतः रजकः सम्प्रदानम् । (कर्म-भूतं वस्त्रं रजकं खलु अधिगच्छति । अतः रजकः सम्प्रदानम् ।)
३. राजा विप्राय गां ददाति । दा-धात्वर्थः स्व-स्वत्त्व-निवृत्ति-पूर्वक-पर-स्वत्वारोपणं, तद्-अनुकूल-क्रिया च । दान-क्रियाश्रयः राजा कर्ता । स्व-स्वत्त्व-निवृत्ति-पूर्वक-पर-स्वत्वारोपणं गवि । अतः गौः कर्म । कर्म-भूतया गवा राजा कं सम्बन्धुम् अभिप्रैति ? कर्म-भूतया गवा विप्रम् अभिसम्बन्धुम् अभिप्रैति । अतः विप्रः सम्प्रदानम् । (कर्म-भूता गौः विप्रं खलु अधिगच्छति । अतः विप्रः सम्प्रदानम् ।)
५. अपादानम्
ध्रुवमपायेऽपादानम् – १.४.२४ (अपायः = विश्लेषः । ध्रुवम् = अवधि-भूतम्) विश्लेषे साध्ये अवधि-भूतं कारकम् अपादानं स्यात् इति सूत्रार्थः । विभागाश्रयः अपादानं भवति इति फलितार्थः । यथा – पर्णं वृक्षात् पतति । पत्-धातोर् अर्थः अधो-देश-संयोग-रूपं फलं, तद्-अनुकूल-क्रिया च । पतन-क्रियाश्रयः पर्णं कर्तृ । अवधि-भूतः विभागाश्रयः वृक्षः। अतः वृक्षः अपादानम् । (यत्र अपादानस्य प्रसक्तिः तत्र द्वयोः संयुक्तयोः विभागः भवेत् एव । यथात्र संयुक्तयोः वृक्ष-पर्णयोः विभागः जातः अस्ति ।)
विभागः वृक्षे पर्णे च अस्ति, विभागस्य द्वि-निष्ठत्वात् । अतः पर्णम् अपि विभागाश्रयः एव इत्यतः पर्णम् अपि कुतः अपादानं न भवति इति शङ्का जायते । तत्र इदं समाधानम् – पर्णं यथा विभागाश्रयः तथा पतन-क्रियाश्रयः अपि । अतः विभागाश्रयत्वात् पर्णम् अपादान-संज्ञकं, पतन-क्रियाश्रयत्वात् कर्तृ-संज्ञकम् अपि । एकस्य एव द्वयोः प्रसक्तौ पर-संज्ञा एव कर्तव्या । अष्टाध्याय्याम् अपादान-संज्ञायाः (१.४.२४) अपेक्षया कर्तृ-संज्ञा (१.४.५४) एव परा । अतः पर्णस्य कर्तृ-संज्ञा एव, न तु अपादान-संज्ञा । अत्र प्रमाणं – ‘विप्रतिषेधे परं कार्यम्’ इति सूत्रम् । यथा वा –
[[P12]]
१. कृष्णः गोकुलात् आगच्छति । आगमन-क्रियाश्रमः कृष्णः कर्ता । संयुक्तयो कृष्ण-गोकुलयोः कृष्णस्य आगमनेन विभागः जातः । तदा अवधि-भूतः विभागाश्रयः गोकुलम् । अतः गोकुलम् अपादानम् ।
२. पान्थः पर्वतात् अवरोहति । अवरोहण-क्रियाश्रयः पान्थः कर्ता । संयुक्तयोः पान्थ-पर्वतयोः अवरोहणेन विभागः जातः । तदा (अवधि-भूतः) विभागश्रयः पर्वतः । अतः पर्वतः अपादानम् ।
३. खगः वृक्षात् डयते । डयन-क्रियाश्रयः खगः कर्ता । संयुक्तयोः खग-वृक्षयोः डयनेन विभागः जातः । तदा (अवधि-भूतः) विभागाश्रयः वृक्षः । अतः वृक्षः अपादानम् ।
६. अधिकरणम्
आधारो ऽधिकरणम् – १.४.४५ कर्तृ-कर्म-द्वारा तन्-निष्ठ-क्रियायाः आधारः कारकम् अधिकरण-संज्ञः स्याद् इति सूत्रार्थः । कर्तरि विद्यमान-क्रियायाः कर्मणि विद्यमान-फलस्य वा आधारः अधिकरण-संज्ञको भवति इति फलितार्थः ।
१. कर्तृ-निष्ठ-क्रियायाः उदाहरणम् –
बालः कटे उपविशति ।
उप-उपसर्ग-पूर्वक-विश्-धातोः अर्थः यत्किञ्चिद्-देश-संयोग-रूपं फलम्, तद्-अनुकूल-क्रिया च ।
उपवेशन-क्रियायाः आश्रयः बालः कर्ता ।
बाले विद्यमानायाः क्रियायाः आधारः कटः ।
अतः कटः अधिकरणम् ।
२. कर्म-निष्ठ-क्रियायाः उदाहरणम् –
सूदः ओदनं स्थाल्यां पचति ।
पच्-धातोः अर्थः विक्लित्ति-रूप-फलं, तद्-अनुकूल-क्रिया च ।
पाक-क्रियाश्रयः सूदः कर्ता ।
विक्लित्ति-रूप-फलाश्रयः ओदनः कर्म ।
कर्म-भूते ओदने वर्तमानस्य विक्लित्ति-रूप-फलस्य आधारः स्थाली ।
अतः स्थाली अधिकरणम् ।
(‘बालः कटे उपविशति’ इति उदाहरणे उपवेशन-क्रिया बाले अस्ति ।
अतः साक्षात् क्रियायाः आधारः बालः एव ।
बाल-द्वारा क्रियायाः आधारः कटः ।
‘सूदः ओदनं स्थाल्यां पचति’ इति उदाहरणे, विक्लित्ति-रूप-फलं ओदने अस्ति ।
अतः साक्षात्-फलस्य आधारः ओदनम् एव ।
ओदन-द्वारा फलस्य आधारः स्थाली ।
अतः सर्वत्र परम्परया क्रियायाः फलस्य वा आधारः एव अधिकरणं भवति इति ज्ञेयम् ।
(‘कर्तुः कर्मणः वा आधारः अधिकरणं भवति’ इति बालान् उद्दिश्य बोधनं वरम् ।)
[[P13]]
७. इदम् अवधेयम्
अष्टाध्याय्यां कारक-संज्ञा-विधायक-सूत्राणां क्रमः इत्थम् ।
१. ध्रुवमपायेऽपादानम् – १.४.२४
२. कर्मणा यमभिप्रैति स सम्प्रदानम् – १.४.३२
३. साधकतमं करणम् – १.४.४२
४. आधारोऽधिकरणम् – १.४.४५
५. कर्तुरीप्सिततमं कर्म – १.४.४९
६. स्वतन्त्रः कर्ता – १.४.५४
विप्रतिषेधे परं कार्यम् – १.४.२ इति सूत्रस्य सञ्चाराय अष्टाध्याय्याः क्रमः अवश्यम् अपेक्षितः ।
(ऊ) अनभिहिते
[सूदः तण्डुलम् पचति । सूदेन तण्डुलः पच्यते ।]
कर्म कर्ता | कर्ता कर्म
‘सूदः तण्डुलं पचति’ इत्यत्र सूदः कर्ता । कर्तुः सूदस्य ईप्सिततमः तण्डुलः । अत्र तण्डुलः कर्म । तण्डुलः कर्म-कारकम् इति निश्चये जाते ‘कर्मणि द्वितीया’ इति सूत्रेण द्वितीया-विभक्तिः तण्डुल-शब्दात् परा विधीयते । तदा ‘सूदः तण्डुलं पचति’ इति प्रयोगः सम्भवति । ‘सूदेन तण्डुलः पच्यते’ इत्यत्रापि सूदः कर्ता, तण्डुलः कर्म । किन्तु तण्डुल-शब्दात् परा द्वितीया-विभक्तिः कुतो न प्रवृत्ता ? इति आशङ्का समुदेति । अस्याः शङ्कायाः समाधानं विस्तरेण निरूप्यते । तथा हि –
i. सूदः तण्डुलं पचति इत्यत्र ‘अम्’ इति द्वितीया-विभक्तिः श्रूयते ।
‘अम्’ इत्यस्य अर्थः कर्म इति ।
‘पचति’ इति तिङन्तम् अपि वाक्ये विद्यते ।
तत्र ‘ति’-प्रत्ययः श्रूयते ।
तस्य ति-प्रत्ययस्य अर्थः कर्ता इति ।
सः कर्ता कः इत्याकाङ्क्षायां वाक्ये श्रूयमाणः सूदः इति वक्तव्यम् ।
इदम् एव इत्थं विलिख्य प्रदर्शयितुं शक्यम् –
सूदः तण्डुलम् पचति इति । ‘तण्डुल-कर्मकः सूद-कर्तृकः पाक-व्यापारः’ इति
‘सूदः तण्डुलं पचति’ इति वाक्यस्य अर्थः सम्पन्नः !
ii. सूदेन तण्डुलः पच्यते इत्यत्र ‘इन्’ (टा) इति तृतीया-विभक्तिः श्रूयते । ‘इन्’ इत्यस्य अर्थः ‘कर्ता’ इति । ‘पच्यते’ इति तिङन्तं श्रूयते । तत्र ‘ते’ इत्यस्य अर्थः ‘कर्म’ इति । तत् कर्म किम् इत्याकाङ्क्षायां वाक्ये श्रूयमाणः तण्डुलः
[[P14]]
एव ।
इदम् इत्थं विलिख्य प्रदर्शयितुं शक्यम् – सूदेन तण्डुलः पच्यते इति ।
कर्ता | कर्म
‘तण्डुल-कर्मकः सूद-कर्तृकः पाक-व्यापारः’ इत्येव अर्थः ‘सूदेन तण्डुलः पच्यते’ इति वाक्यस्य अपि ।
अत्र इदम् अपि ज्ञातव्यम् – ‘वटुः जलम् आनयति’ इति इदं वाक्यं शुद्धम् ।
किन्तु इमम् एव अर्थं बोधयितुं – ‘वटुः जलम् उदकम् आनयति’ इति प्रयोगः न सम्भवति ।
कुतः ?
जलार्थ-बोधकयोः द्वयोः उपादानम् अस्मिन् वाक्ये अस्ति ।
एकम् अर्थं बोधयितुम् एकं पदं पर्याप्तम् ।
तम् एव अर्थं बोधयितुं न द्वितीयं पर्याय-पदम् अपेक्षितम् ।
अर्थ-बोधनाय खलु शब्दस्य प्रयोगः ।
एकस्मात् शब्दात् अर्थः ज्ञातः चेत् तस्य एव अर्थस्य बोधनाय द्वितीयस्य शब्दस्य न कथम् अपि अवसरः ।
अतः एव एषः न्यायः प्रवृत्तः – ‘उक्तार्थानाम् अप्रयोगः’ इति ।
एकेन शब्देन अर्थः उक्तः चेत् तस्य एव अर्थस्य बोधनाय न द्वितीयस्य शब्दस्य प्रयोगः इति अस्य न्यायस्य अर्थः ।
प्रकृते तु ‘सूदः तण्डुलं पचति’ इत्यत्र यथा कर्मणः परो द्वितीया श्रूयते तथैव ‘सूदेन तण्डुलः पच्यते’ इत्यत्रापि कर्म-भूतात् तण्डुलात् परा द्वितीया कुतः न इति शङ्का समुत्थापिता ।
यदि शङ्कानुगुणं ‘सूदेन तण्डुलः पच्यते’ इत्यत्र तण्डुलात् अपि द्वितीया स्यात् तदा ‘सूदेन तण्डुलं पच्यते’ इति स्यात् ।
तदा कर्म-रूपार्थं बोधयितुं (सूदेन तण्डुलम् पच्यते) ‘अम्’ इति ‘ते’ इति शब्द-द्वयं प्रयुक्तं भवति ।
कर्म | कर्म
एवं च ‘वटुः जलम् उदकम् आनयति’ इति प्रयोगः यथा न युक्तः, तथैव ‘सूदेन तण्डुलम् पच्यते’ इति प्रयोगः अपि न युक्तः भवति ।
अतः येन केनापि
कर्म | कर्म
कर्म अनुक्तं (अनभिहितं) चेत् द्वितीया-विभक्तिः कर्मणः परा भवति, कर्म येनकेनापि उक्तं चेत् न प्रवर्तते एव । एवं तर्हि केन केन उक्तं भवति इति चेत् तिङ्-प्रत्ययेन, कृत्-प्रत्ययेन, तद्धितेन, समासेन च इति गृह्यताम् । तिङ्-प्रत्ययेन कर्मणः अभिधाने सति द्वितीया न भवति इत्यस्य उदाहरणम् – ‘सूदेन तण्डुलः पच्यते’ इति दर्शितम् । कृत्-प्रत्ययेन कर्मणः अभिधाने तु द्वितीया न भवति इत्यस्य ‘बालेन श्लोकः पठितः’ इति उदाहरणं ज्ञेयम् । अत्र ‘क्त’-प्रत्ययार्थः ‘कर्म’ इति ।
‘सूदेन तण्डुलः पच्यते’ इत्यत्र तण्डुलात् द्वितीया कुतः न इति यथा शङ्का जागर्ति तथैव ‘सूदः तण्डुलं पचति’ इत्यत्र कर्तृ-वाचकात् सूद-शब्दात् तृतीया कुतः न इति
[[P15]]
सन्देहः समुदेति ।
‘कर्तृ-करणयोः तृतीया’ इति सूत्रेण हि कर्तरि तृतीया-विधानात् ।
अत्रापि शङ्कानुगुणं ‘सूदेन तण्डुलं पचति’ इति प्रयोगः क्रियेत तदा कर्तारं
कर्ता | कर्ता
बोधयितुम् एव ‘इन्’ इति, ‘ति’ इति शब्द-द्वयं प्रयुक्तं भवति ।
तदा ‘वटुः जलम् उदकम् आनयति’ इति वाक्य-सदृशम् एव स्यात् ।
अतः येन केनापि अनुक्तः चेद् एव कर्तृ-वाचकात् तृतीया भवति, कर्ता उक्तः चेत् तृतीया न भवति इति ज्ञेयम् ।
तिङ्-प्रत्ययेन कर्तुः अभिधाने तृतीया न भवति इत्यत्र ‘सूदः तण्डुलं पचति’ इति उदाहरणं दर्शितम् ।
कृत्-प्रत्ययेन कर्तुः अभिधाने तृतीया न भवति इत्यस्य उदाहरणं तु ‘बालः श्लोकं पठितवान्’ इति ।
अत्र क्तवतु-प्रत्ययस्य अर्थः
कर्ता
कर्ता इति । एषः अभिप्रायः भगवता पाणिनिना ‘अनभिहिते’ इति एक-पदात्मकेन सूत्रेण आविष्कृतः ।
(ऋ) एष उपसंहारः
अनभिहिताधिकार-मूलकः एव प्रयोगः त्रिधा – कर्तरि-प्रयोगः, कर्मणि-प्रयोगः, भावे-प्रयोगः चेति । (कर्तृ-वाच्यः, कर्म-वाच्यः, भाव-वाच्यः चेति प्रयोगः त्रिधा ।)
१. कर्तरि-प्रयोगः (कर्तृ-वाच्यः) –
यदि तिङ्-प्रत्ययेन कृत्-प्रत्ययेन वा कर्ता अभिहितः भवति तदा कर्तृ-भूतात् प्रातिपदिकात् परा ‘कर्तृ-करणयोस् तृतीया’ इति सूत्रेण तृतीया-विभक्तिः न प्रवर्तते ।
तदा कर्तरि-प्रयोगस्य सम्भवः ।
यथा – सूदः तण्डुलं पचति ।
सूदः तण्डुलं पक्ववान् ।
कर्ता | कर्ता
अत्र प्रथम-वाक्ये ‘ति’-प्रत्ययेन, द्वितीय-वाक्ये ‘क्तवतु’-प्रत्ययेन च कर्ता अभिहितः । अतः कर्तृ-भूतात् सूदात् न तृतीया । कर्तुः अभिहितत्वे अपि सूद-रूप-प्रातिपदिकार्थस्य सद्भावात् ‘प्रातिपदिकार्थ-लिङ्ग-परिमाण-वचन-मात्रे प्रथमा’ इति सूत्रेण प्रथमा भवति ।1
२. कर्मणि-प्रयोगः (कर्म-वाच्यः) –
यदि त-प्रत्ययेन कृत्-प्रत्ययेन वा कर्म अभिहितं भवति, तर्हि कर्म-भूतात् प्रातिपदिकात् परा द्वितीया-विभक्तिः न प्रवर्तते ‘कर्मणि द्वितीया’ इति सूत्रेण ।
तदा कर्मणि-प्रयोगस्य (कर्म-वाच्यस्य) सम्भवः ।
[[P16]]
यथा – सूदेन तण्डुलः पच्यते ।
सूदेन तण्डुलः पक्वः ।
कर्म | कर्म
अत्र प्रथम-वाक्ये ‘ते’ इति प्रत्ययेन, द्वितीय-वाक्ये ‘क्त’-प्रत्ययेन च कर्म अभिहितम् । अतः कर्म-भूतात् तण्डुलात् न द्वितीया । कर्मणः अभिहितत्वे अपि तण्डुल-रूप-प्रातिपदिकार्थस्य सद्भावात् – ‘प्रातिपदिकार्थ-लिङ्ग-परिमाण-वचन-मात्रे प्रथमा’ इति सूत्रेण प्रथमा भवति ।
३. भावे-प्रयोगः (भाव-वाच्यः) –
यदि त-प्रत्ययेन कृत्-प्रत्ययेन वा भावः (धात्वर्थः = व्यापारः) अभिहितः भवति, न तु कर्ता, तदा कर्तृ-भूतात् प्रातिपदिकात् ‘कर्तृ-करणयोस् तृतीया’ इति सूत्रेण विहिता तृतीया प्रवर्तते एव ।
यतो हि कर्ता अनभिहितः अत्र ।
एवं च भावे-प्रयोगस्य सम्भवः ।
यथा – बालेन हस्यते ।
बालेन हसितम् ।
भावः | भावः
अत्र प्रथम-वाक्ये ‘ते’ इति प्रत्ययेन, द्वितीय-वाक्ये ‘क्त’-प्रत्ययेन च भावः अभिहितः । कर्ता तु केनापि न अभिहितः । अतः ‘कर्तृ-करणयोस् तृतीया’ (अनभिहिते कर्तरि करणे च तृतीया स्यात् इति सूत्रार्थः) इति सूत्रेण कर्तृ-भूतात् बालात् तृतीया भवति ।
(ल) विभक्तयः
| एकवचनम् | द्विवचनम् | बहुवचनम् | |
|---|---|---|---|
| प्रथमा | सु | औ | जस् |
| द्वितीया | अम् | औट् | शस् |
| तृतीया | टा | भ्याम् | भिस् |
| चतुर्थी | ङे | भ्याम् | भ्यस् |
| पञ्चमी | ङसि | भ्याम् | भ्यस् |
| षष्ठी | ङस् | ओस् | आम् |
| सप्तमी | ङि | ओस् | सुप् |
[[P17]]