००

प्रस्तावना

कारक-प्रकरणं व्याकरण-शास्त्रे हृदयभूतम् । हृदय-परिशीलनं हृदय-चिकित्सां च वैद्याः सावधानेन मनसा कुर्वन्ति । तथैव कारकमपि अवहितेन चित्तेन अवधारणीयं बोधनीयं च । अध्यापयितृभिः अध्येतृभिश् च विनायासं कारकं सुविदितं भवतु इति मनीषया इदं पुस्तकम् आरचितम् ।

पाणिनिः आदौ कारक-संज्ञां विधत्ते । ततो विभक्तीः अभिधत्ते । तथैवात्रापि कारकं षट् कारकाणि च विविच्य प्रोक्तानि । ततः कारक-विभक्तयः, कर्म-प्रवचनीय-विभक्तयः, उपपद-विभक्तयश् च निरूपिताः ।

सर्वत्र उदाहरणम् आदौ आहतम् । तत्-सम्बन्धि-सूत्रं पश्चात् लिखितम् । सिद्धान्तकौमुद्याः वृत्तिः अनन्तरं दर्शिता । पुनर् अपि सूत्रस्य तात्पर्यार्थं विलिख्य उदाहरणे सूत्रार्थस्य सङ्गमनं प्रायः सर्वत्र कृतम् ।

सिद्धान्तकौमुद्यां कारक-प्रकरणे स्थितानि सर्वाणि सूत्राणि इह न व्याख्यातानि । क्वचिद् एव प्रयोगे यानि सूत्राणि अपेक्षितानि तानि इह त्यक्तानि। किन्तु तेषां परिशीलनाय सौविध्यं भवतु इति सिद्धान्तकौमुद्याः समग्रं कारक-प्रकरणम् एवान्ते निवेशितम् ।

कारक-सम्बद्धाः केचन विषयाः अपि अन्ते नियोजिताः, येषाम् अवगमनं कदाचित् प्रयोजनकृद् भवेत् । सिद्धान्तकौमुद्याः व्याख्ये बालमनोरमा-तत्त्वबोधिन्यौ, श्रीशिवदत्तशर्मणां टिप्पणीं च स्मारं स्मारं, सिद्धान्तकौमुदीं च हृदि निधाय, एतद्-कर्तृणां सर्वथा मदीयाम् अधमर्णताम् आविष्करोमि ।

संस्कृतभारत्यै, कलाकाराय अरसुवर्याय, अक्षर-संयोजकाय, मुद्रकाय च धन्यवादाः [[समर्ण्यन्ते|समर्प्यन्ते]] ।

बहुधान्य सं॥ पौषकृष्णतृतीया
०४.०१.१९९९

लेखकः

[[P3]]


अनुक्रमणिका

१. कारकम् … १ - १२

  • (अ) वाक्यम् – १
  • (आ) कारकम् – १
  • (इ) धात्वर्थः – २
  • (ई) तिङर्थः – ३
  • (उ) कारकाणि – ४
    1. कर्ता – ४
    2. कर्म – ४
    3. करणम् – ५
    4. सम्प्रदानम् – ६
    5. अपादानम् – ७
    6. अधिकरणम् – ८
    7. इदमवधेयम् – ९
  • (ऊ) अनभिहिते – ९
  • (ऋ) एष उपसंहारः – ११
  • (ल) विभक्तयः – १२

२. विभक्तिः … १३ - १४

३. प्रथमाविभक्तिः … १५ - १६

४. द्वितीयाविभक्तिः … १७ - ३१

  • (अ) कारकद्वितीया – १७
  • (आ) उपपदद्वितीया – २७
  • (इ) कर्मप्रवचनीयद्वितीया – ३१

५. तृतीयाविभक्तिः … ३२ - ३५

  • (अ) कारकतृतीया – ३२
  • (आ) उपपदतृतीया – ३३

६. चतुर्थीविभक्तिः … ३६ - ३९

  • (अ) कारकचतुर्थी – ३६
  • (आ) उपपदचतुर्थी – ३८

[[P4]]


७. पञ्चमीविभक्तिः … ४० - ४५

  • (अ) कारकपञ्चमी – ४०
  • (आ) उपपदपञ्चमी – ४१
  • (इ) कर्मप्रवचनीयपञ्चमी – ४५

८. षष्ठीविभक्तिः … ४६ - ५२

९. सप्तमीवभक्तिः … ५३ - ५५

  • (अ) कारकसप्तमी – ५३
  • (आ) उपपदसप्तमी – ५४

१०. कारकसङ्ग्रहः … ५६ - ५७

११. इदम् अवधेयम् … ५८

परिशिष्टम् – १

  • कारकाणाम् अन्तर्भेदाः … ५९ - ६०

परिशिष्टम् – २

  • (अ) द्विकर्मकस्थले अपादानादीनाम् अविवक्षायां व्यवस्था … ६१
  • (आ) द्विकर्मकस्थले कर्मणिप्रयोगः … ६२
  • (इ) णिजन्तस्य कर्मणिप्रयोगः … ६३

परिशिष्टम् – ३ अष्टाध्यायीसूत्राणि

  • (अ) कारकसंज्ञाविधायकानि सूत्राणि … ६४
  • (आ) विभक्तिविधायकानि सूत्राणि … ६४

परिशिष्टम् – ४ कारकादिविभक्तिप्रकरणम् … ६६ - ७८

  • प्रथमा – ६६
  • द्वितीया – ६६
  • तृतीया – ६९
  • चतुर्थी – ७०
  • पञ्चमी – ७२
  • षष्ठी – ७४
  • सप्तमी – ७६

[[P5]]