गति-संज्ञा
धातोः प्राक् ये शब्दाः योजनार्हाः ते गति-नाम्ना ईर्यन्ते ।
पञ्चविधाः शब्दाः ते -
- प्रादयः उपसर्गाः - यथा प्रसर्पति।
- पुरस्- तिरस्- प्रादुस्- आविस्- आदीनि गतिनामाव्ययानि, यथा प्रादुर्भवति
- च्व्यन्तशब्दाः - यथा पटीकृत्य
- डाजन्ताः - यथा पटपटाक्रृत्य
- अनुकरणानि - यथा खाट्कृत्य।।
विस्तारः संज्ञा-प्रकरणे।
प्रयोग-क्रमः
तत्र सूत्राणि -
+++(क्रियायोगे ऽव्यवहिताः गतिसंज्ञकाः)+++ ते प्राग्धातोः॥
छन्दसि परेऽपि॥
व्यवहिताश्च॥