गति-प्रयोगः

गति-संज्ञा

धातोः प्राक् ये शब्दाः योजनार्हाः ते गति-नाम्ना ईर्यन्ते ।
पञ्चविधाः शब्दाः ते -

  • प्रादयः उपसर्गाः - यथा प्रसर्पति।
  • पुरस्- तिरस्- प्रादुस्- आविस्- आदीनि गतिनामाव्ययानि, यथा प्रादुर्भवति
  • च्व्यन्तशब्दाः - यथा पटीकृत्य
  • डाजन्ताः - यथा पटपटाक्रृत्य
  • अनुकरणानि - यथा खाट्कृत्य।।

विस्तारः संज्ञा-प्रकरणे।

प्रयोग-क्रमः

तत्र सूत्राणि -

+++(क्रियायोगे ऽव्यवहिताः गतिसंज्ञकाः)+++ ते प्राग्धातोः॥
छन्दसि परेऽपि॥
व्यवहिताश्च॥