पदस्सिद्धिः
“५.३.१५ सर्वैकान्यकिंयत्तदः काले दा” इति सूत्रेण कालनिर्देशार्थं अत्र “दा” इति तद्धितप्रत्ययः ।
- यस्मिन् काले = यद् + दा → यदा ।
- तस्मिन् काले = तद् + दा → तदा ।
नित्यसम्बन्धः
एतयोः शब्दयोः नित्यसम्बन्धः वर्तते । इत्युक्ते, “यदा” शब्दस्य प्रयोगः क्रियते चेत् “तदा” शब्दस्य अपि प्रयोगः अवश्यं करणीयः ।
अनुपयोग-विकल्पाः
यत्र द्वयोः क्रिययोः समानकर्तृकत्वम् अस्ति तत्र कालनिर्देशार्थं यदा/तदा शब्दः नावश्यकः, यतः तत्र “क्त/क्तवतुँ/शतृ/शानच्” इत्यादीनां विशेषणरूपेण प्रयोगः सम्भवति । यथा —
- यदा देवदत्तः अरण्यम् अगच्छत् तदा सः सर्पम् अपश्यत् ⇒ अरण्यं गतः देवदत्तः सर्पम् अपश्यत् ।
- यदा देवदत्तः काष्ठानि सङ्गृह्णाति तदा सः ईश्वरं स्मरति ⇒ काष्ठानि सङ्गृह्णन् देवदत्तः ईश्वरं स्मरति ।
- यदा देवदत्तः पुस्तकं पठिष्यति तदा सः विषयं ज्ञास्यति ⇒ पुस्तकं पठिष्यन् देवदत्तः विषयं ज्ञास्यति ।
यत्र द्वयोः क्रिययोः कर्तारौ भिन्नौ, तत्र “क्त/क्तवतु/शतृँ/शानच्” आदिभ्यः कालनिर्देशः न सम्भवति, अतः एतादृशेषु स्थलेषु “यदा/तदा” शब्दः अवश्यमेव प्रयोक्तव्यः । यथा —
- यदा अहं उत्थितः तदा सूर्यः उदितः आसीत् ।
- यदा माता उक्तवती तदा बालकः श्रुतवान् ।