कुशल

कुशलम् अस्ति इति निर्देशः बहुभिः प्रकारैः सम्भवति ।

सहपूर्वपदबहुव्रीहिसमासेन —‌ कुशलेन सह वर्तते = सकुशलः । यथा, रामः सकुशलः ।

तद्धितसंज्ञकेन “इनि” प्रत्ययेन सह — कुशलम् अस्य अस्ति = कुशली । यथा, रामः कुशली ।

“कुशल” इति शब्देन सह षष्ठीविभक्तेः प्रयोगेण — रामस्य कुशलम् इति ।

“युक्त” शब्दप्रयोगेण, कर्मधारयसमासेन — रामः कुशलयुक्तः ।

एतेभ्यः काचित् एका पद्धतिः एव अवलम्बनीया । “सकुशली”, “सकुशलयुक्तः” इत्येतौ प्रयोगौ नैव कर्तव्यौ । एतौ द्वौ अपि साधुप्रयोगौ एव, परन्तु तयोः अर्थः भिन्नः अस्ति । सकुशली / सकुशलयुक्तः = कुशलिभिः सह वर्तते इति ।