क्रिया + (काल [+लिङ्ग | सङ्ख्या] | कर्म | कर्ता | अन्यक्रियया सम्बन्धः …)
सकर्मकता
- सकर्मक-धातुषु व्यापरः फलम् च भिन्नवस्तुषु आश्रितौ।
- यथा - रामः कन्दुकं क्षिपति।
देश-काल-भाव-मार्ग-योगे
“अकर्मकधातुभिर् योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्”
इति वार्तिकेन अकर्मकधातूनामपि देशकालादिकर्मत्वम्।
- देवदत्तः मासम् आस्ते । एकमासस्य अवधिं यावत् तिष्ठति — इत्याशयः ।
- देवदत्तः गोदोहम् आस्ते । यावत् गवां दोहनं प्रचलति तावत् तिष्ठति — इत्याशयः ।
- देवदत्तः क्रोशम् आस्ते । एकः क्रोशः इति अन्तरम् यावत् शकटे तिष्ठति — इत्याशयः ।
- देवदत्त कुरून् आस्ते । कुरूणां देशे तिष्ठति — इत्याशयः ।
एतेषु सर्वेषु अपि उदाहरणेषु आस् (उपवेशने) इति धातोः “व्याप्तिः” (span) इत्यस्मिन् सन्दर्भे व्यवहारः क्रियते । यथा, मासम् आस्ते इत्यत्र आसनक्रियायाः व्याप्तिः एकमासम् यावत् अस्ति — इत्युक्ते, आसनेन मासम् व्याप्नोति इत्याशयः । एवमेव अन्येषु अपि उदाहरणेषु ज्ञेयम् — आसनेन गोदोहनक्रियाम् / क्रोशं यावत् मार्गम् / कुरूणां देशं व्याप्नोति इति ।
यत्र व्याप्तेः विवक्षा नास्ति तत्र तु कालः, भावः, मार्गस्य परिमाणम्, देशः — एतेषां वाचकाः शब्दाः अपि अकर्मकधातूनां योगे कर्मत्वं नैव स्वीकुर्वन्ति । यथा —
- देवदत्तः कटे आस्ते । अत्र केवलम् आधारस्य विवक्षा, व्याप्तेः विवक्षा न । अतः अत्र कर्मत्वं न ।
- कटे आस्ते इत्यत्र आसनमात्रे अनङ्गीकृतक्रियान्तरे आसिः वर्तते — इति कैयटः ।
- देवदत्तः मासे आस्ते । अत्र केवलम् आधारस्य विवक्षा, व्याप्तेः विवक्षा न । अतः अत्र कर्मत्वं न ।
- समायां समायां विजायते । प्रत्येकस्मिन् वर्षे गर्भं धारयति इत्यर्थः । अत्रापि केवलम् आधारस्य विवक्षा, व्याप्तेः विवक्षा न । ५.२.१२ समांसमां विजायते इत्यत्र भाष्ये अयं प्रयोगः दृश्यते ।
व्याप्ताव् अविवक्षिते
यत्र व्याप्तेः विवक्षा नास्ति तत्र तु कालः, भावः, मार्गस्य परिमाणम्, देशः — एतेषां वाचकाः शब्दाः अपि अकर्मकधातूनां योगे कर्मत्वं नैव स्वीकुर्वन्ति । यथा —
-
देवदत्तः कटे आस्ते । अत्र केवलम् आधारस्य विवक्षा, व्याप्तेः विवक्षा न । अतः अत्र कर्मत्वं न ।
कटे आस्ते इत्यत्र आसनमात्रे अनङ्गीकृतक्रियान्तरे आसिः वर्तते — इति कैयटः ।
-
देवदत्तः मासे आस्ते । अत्र केवलम् आधारस्य विवक्षा, व्याप्तेः विवक्षा न । अतः अत्र कर्मत्वं न ।
-
समायां समायां विजायते । प्रत्येकस्मिन् वर्षे गर्भं धारयति इत्यर्थः । अत्रापि केवलम् आधारस्य विवक्षा, व्याप्तेः विवक्षा न । ५.२.१२ समांसमां विजायते इत्यत्र भाष्ये अयं प्रयोगः दृश्यते ।
अत्यन्तसंयोगे द्वितीया
यत्र कालेन सह, अध्वना सह (परिमाणेन सह) अत्यन्तसंयोगः वर्तते, तत्र २.३.५ कालाध्वनोरत्यन्तसंयोगे इत्यनेन कालवाचकस्य / अध्ववाचकस्य शब्दस्य द्वितीयाविभक्तिः भवति । यथा —
- देवदत्तः मासम् अधीते । अत्र अध्ययनक्रिया एकमासं यावत् अखण्डरूपेण प्रचलति, अतः अत्र “मासम्” इत्यत्र द्वितीया प्रयुक्ता दृश्यते ।
- देवदत्तः क्रोशम् अधीते । अत्र अध्ययनक्रिया एकक्रोशं यावत् (तावान्तं मार्गं यावत्) अखण्डरूपेण प्रचलति, अतः अत्र “क्रोशम्” इत्यत्र द्वितीया प्रयुक्ता दृश्यते ।
- देवदत्तः मासम् आस्ते इत्यस्य साधुत्वम् अनेन अपि प्रकारेण वक्तुं शक्यते । अत्र आसनक्रियायाः कालेन सह अत्यन्तसंयोगं मत्वा “मासम्” इति द्वितीयान्तप्रयोगः साधुत्वं प्राप्नोति ।
अत्र मासम् / क्रोशम् इत्येतयोः कर्मत्वं नास्ति अपितु उपपदद्वितीया विभक्तिः भवति इति स्मर्तव्यम् ।
कारकद्वितीया, उपपदद्वितीया
देवदत्तः मासम् आस्ते अस्मिन् वाक्ये द्वेधा अर्थसङ्गतिः —
- कालवाचकस्य शब्दस्य अकर्मकधातोः योगे
व्याप्तेः विवक्षायाम्
“कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्” इति वार्त्तिकेन कर्मसंज्ञा भवति, ततः “२.३.२ कर्मणि द्वितीया” इति कारकद्वितीया विधीयते ।- अतः, अस्य वाक्यस्य कर्मणि प्रयोगे कर्मपदस्य प्रथमा विभक्तिः भवति, अतः “देवदत्तेन मासः आस्यते” इति प्रयोगः साधुत्वं प्राप्नोति ।
- किञ्च, मूलवाक्यस्य णिजन्तप्रयोगे तु आस्-धातोः अकर्मकत्वं स्वीकृत्य १.४.५२ गतिबुद्धि.. इत्यत्र विद्यमानस्य “अकर्मक”ग्रहणस्य सामर्थ्यात् “देवदत्तं मासम् आसयति” इत्यपि प्रयोगः साधुत्वं प्राप्नोति ।
- व्याप्तेः अविवक्षायाम् तु कालवाचकशब्दस्य क्रियया सह अत्यन्तसंयोगं स्वीकृत्य २.३.५ कालाध्वनोरत्यन्तसंयोगे इति सूत्रेण उपपदद्वितीयाविभक्तिः सम्भवति ।
- परन्तु, अत्र कर्मत्वम् नैव वर्तते अतः अस्य वाक्यस्य भावे प्रयोगे “देवदत्तेन मासम् आस्यते” इति प्रयोगः साधुत्वं प्राप्नोति ।
वस्तुतः, “देवदत्तः मासम् आस्ते” इत्यत्र
“मासम्” इति कर्मपदस्य उपस्थितौ अपि
“आस्ते” इत्यस्य अकर्मकत्वम् एव स्वीकृत्य
तस्य “आस्यते” इति भावे निर्देशं कृत्वा,
तेन कर्मणः अनभिधानात् कर्मपदस्य “२.३.२ कर्मणि द्वितीया” इति द्वितीया एव भवति,
येन मासम् इति कर्मपदस्य उपस्थितौ अपि “देवदत्तेन मासम् आस्यते” इति भावे प्रयोगः सिद्ध्यति ।
परन्तु अस्मिन् सन्दर्भे प्रस्तुतलेखे न कश्चन निर्देशः कृतः, अतः च अयं विषयः अत्रापि न चर्चितः अस्ति ।
सकर्मकेभ्यो व्यावर्तनम्
कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् इति वार्त्तिकेन निर्दिष्टा कर्मसंज्ञा केवलम् अकर्मकधातूनां सन्दर्भे एव भवति । सकर्मकधातूनां सन्दर्भे अस्य वार्त्तिकस्य प्रयोगः न क्रियते । अत एव “देवदत्तः मासं वेदं पठति” अत्र मासशब्दस्य कर्मसंज्ञा नास्ति । अत्र “२.३.५ कालाध्वनोरत्यन्तसंयोगे” इति सूत्रेणैव उपपदद्वितीयाविभक्तिः विधीयते । अत्र एव अस्य कर्मणि प्रयोगे अपि अस्य शब्दस्य प्रथमाविभक्तिः न भवति । यथा, “देवदत्तेन मासं वेदः पठ्यते” — इत्यत्र मासशब्दः द्वितीयया एव निर्दिष्टः अस्ति ।
यदि “देवदत्तः मासं वेदं पठति” इत्यत्र मासशब्दस्य कर्मसंज्ञा स्यात्, तर्हि तस्य गौणकर्मकत्वात् “गौणे कर्मणि दुह्यादे…” इति कारिकया कर्मणि प्रयोगे तस्य प्रथमायां प्रयोगं कृत्वा “देवदत्तेन मासः वेदं पठ्यते” इति वाक्यं सिद्ध्येत् । परन्तु तादृशाः प्रयोगाः न सन्ति ।
अन्तर्णीत-क्रियान्तरेण सकर्मकता
अन्तर्णीतक्रियान्तरा अकर्मिका अपि क्रियाः सकर्मिका भवन्ति ।
तद्यथा- ‘भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ( रघौ १२ । १०४ ) ।
अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्दिशिक्रियापेक्षया सकर्मकत्वम् ।एवमन्यत्रापि ।
ऋषयो वै सरस्वत्यां सत्रमासत इति भारते आदिपर्वणि ।
सत्रमुद्दिश्येत्यर्थः ।चारुदेवशास्त्रिणामुक्तिः वाग्व्यवहारादर्शे, शब्दापशब्दविवेके च ।
अकर्मकता
धातोरर्थान्तरे वृत्तेर्
धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेर् अविवक्षातः
कर्म्मणो ऽकर्म्मिका क्रिया॥इति गोयीचन्द्रः, वाप ३,७.८८ ॥
कर्म+अविवक्षातः
रामो गच्छति।
कर्म-प्रसिद्धेः
मेघो वर्षति।
कर्मणो धात्वर्थ एवोपसङ्ग्रहः
- एकस्मिन्नेव आश्रितौ व्यापरः फलम् च।
- रामो धर्मम् आचरति। अर्थान्तरे - रामो श्यामवद् आचरति।
- पुष्पं विकसति।
लज्जा-सत्ता-स्थिति-
जागरणं वृद्धि-क्षय-भय-जीवन-मरणम्
शयन-क्रीडा-रुचि-दीप्त्य्-अर्थं
धातुगणं तम् अकर्मकम् आहुः ।।
द्विकर्मकता
येषां धातूनां द्वे कर्मपदे भवितुम् अर्हतः, तेषाम् द्विकर्मकधातवः इति संज्ञा भवति ।
कर्मपदस्य द्वितीया तु २.३.२ कर्मणि द्वितीया इति सूत्रेण ।
दुह्याच्पच्दण्ड्रुधिप्रच्छि-
चिब्रूशासुजिमथ्मुषाम् ।
कर्मयुक् स्याद् अकथितं
तथा स्यान् नीहृकृष्वहाम् ॥
दीक्षितोक्तायां कारिकायां दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुष्-नी–हृ-कृष्-वह् - एते षोडश धातवः ।
अस्यां कारिकायाम् धातवः नव-नव इति परिगणिताः सन्ति ।
कर्मणि-प्रयोगे जायमानं परिवर्तनम् अनुसृत्य
दुह्यादयः / न्यादयः इति द्वौ विभागौ कृतौ स्तः ।
भाष्यावलिः
“१.४.५१ अकथितं” च इत्यत्र भाष्ये अष्ट एव द्विकर्मकधातवः परिगणिताः दृश्यन्ते —
दुहि-याचि-रुधि-प्रच्छि-भिक्षि-चिञाम् उपयोग-निमित्तम् अपूर्व-विधौ ।
ब्रुवि-शासि-गुणेन च यत् सचते तद् अकीर्तितम् आचरितं कविना ॥
अत्र चकारेण अनुक्तानाम् अपि धातूनां समुच्चयः क्रियते । तत्र भाष्ये —
के पुनर्धातूनां द्विकर्मकाः ?
नीवह्योर् हरतेश्चापि
गत्यर्थानां तथैव च ।
द्विकर्मकेषु ग्रहणं
द्रष्टव्यमिति निश्चयः ॥
ग्रहँ-धातुः
दुह्याच्यर्थरुधिप्रच्छि-
चिब्रूशासुजिकर्मयुक् ।
नीहृकृष्-मन्थ-वहदण्ड्-
ग्रहमुष्पचिकर्मभाक् ॥
अत्र कारिकायाम् १८ धातवः द्विकर्मकरूपेण निर्दिष्टाः सन्ति । अत्र “याच्” तथा “अर्थ (उपयाच्ञायाम्, चुरादिः)” इति धातू पृथग् रूपेण पाठ्येते ।
अत्र “ग्रहँ (उपादाने, क्र्यादिः)” इति धातुः अपि परिगणितः अस्ति । अन्येऽपि केचन “द्विकर्मकस्थले दण्ड्धातोः ग्रहणार्थकत्वात् ग्रहधातुः द्विकर्मकः” इति मन्यन्ते ।
परन्तु इदम् अनुचितम्, इति तत्त्वबोधिन्याम् १.४.५१ अकथितं च इत्यत्र निर्दिश्यते । ग्रहेः पाठो निर्मूलः इति अत्र प्रौढमनोरमा । अतः ग्रह्-धातुः नैव द्विकर्मकः इत्येव निर्णयः । अत एव, “राजा गर्गेभ्यः शतं गृह्णाति” इत्येव साधुप्रयोगः; न हि “राजा गर्गान् शतं गृह्णाति” इति ।
एतेषां सर्वेषां धातूनाम्, तथा च एतेषाम् अर्थेषु प्रयुज्यमानानाम् अन्येषाम् अपि धातूनां द्वे कर्मपदे भवतः ।
कर्म-गौणता
- “माता पुत्रं गृहं नयति । पितामहः पौत्रं कथां कथयति । निर्धनः धनिकं धनं याचते ।”
- एतानि सर्वाणि वाक्यानि एकस्य कर्मपदस्य आधारेण अपि वक्तुं शक्यन्ते —
- माता पुत्रं गृहे नयति । पितामहः पौत्राय कथां कथयति । निर्धनः धनिकात् धनं याचते ।
अतः एतेषु वाक्येषु एकं प्रधानं कर्म, अपरं गौणं कर्म विद्यते इति निर्णयः ।
- तत्र एकं प्रधानकर्म = नित्यं कर्मसंज्ञकम् एव ।
- अपरं गौणकर्म = अन्यकारकत्वम् अपि स्वीकर्तुम् अर्हति ।
यथा, गोपालः गाम् पयः दोग्धि / गोपालः गाः पयः दोग्धि ।
अत्र गो-शब्दस्य कर्मणि अपादाने च प्रयोगः सम्भवति,
अतः इदं गौणं कर्म ।
पयस्-शब्दस्य कर्मणि एव प्रयोगः, अतः इदं प्रधानं कर्म ।
फलाश्रयभूतं यत् कर्म तत् प्रधानं कर्म ।
तस्य “१.४.४९ कर्तुरीप्सिततमं कर्म” इति कर्मसंज्ञा एव भवति ।
अपादानादिकारकैः अविवक्षितं यत् कर्म तत् गौणकर्म ।
इत्युक्ते, यस्य शब्दस्य अपादानादिना अन्येन केनचित् कारकेण निर्देशः सम्भवति,
परन्तु तादृशी विवक्षा नास्ति अतः कर्मत्वेन एव निर्देशः कृतः, तत् गौणं कर्म ।
तस्य “१.४.५१ अकथितं च” इत्यनेन कर्मसंज्ञा भवति ।
अपादानादिविशेषैर् अविवक्षितं कारकं कर्मसंज्ञं स्यात्
—इति सिद्धान्तकौमुदी ।
दुह्-याच्-पच्-दण्ड्-रुध्-प्रच्छ्-चि-ब्रू-शास्-जि-मथ्-मुष्-नी-हृ-कृष्-वह् - एते षोडश धातवः ।
एतेषां सर्वेषां धातूनां,
तथा च एतेषाम् अर्थेषु प्रयुज्यमानानाम् अन्येषाम् अपि धातूनां
द्वे कर्मपदे भवतः ।
तत्र प्रधानकर्मणः नित्यं कर्मसंज्ञा,
गौणकर्मणः तु अन्यकारकत्वेन अपि निर्देशः सम्भवति ।
तत्र प्रत्येकं गौणकर्मणः किम् अन्यकारकत्वम्
इत्यस्मिन् विषये पण्डितानां कुत्रचित् मतभेदाः वर्तन्ते,
परन्तु इदानीं काले सिद्धान्तकौमुद्यां पाठिता पद्धतिः एव प्रामुख्येन स्वीकृता दृश्यते।+++(4)+++
यथा, ब्रू-धातोः समानार्थकः कथ्-धातुः अपि द्विकर्मकः । तत्र गौणकर्मणः सम्प्रदानत्वेन अपि प्रयोगः सम्भवति । अतएव — पितामहः पौत्रं कथां कथयति, पितामहः पौत्राय कथां कथयति - इति उभयथा साधु ।
सिद्धान्त-कौमुदी
गौणे कर्मणि दुह्यादेः,
प्रधाने नीहृकृष्वहाम् ॥
बुद्धि-भक्षार्थयोः शब्द-कर्मकाणां निजेच्छया ॥
प्रयोज्य-कर्मण्य् अन्येषां ण्य्-अन्तानां लादयो मताः ।
गौर् दुह्यते पयः ।
अजा ग्रामं नीयते । ह्रियते । कृष्यते । उह्यते ।
बोध्यते माणवकं धर्मः । माणवके धर्मम् इति वा ।
देवदत्तो ग्रामं गम्यते ।
णिजन्ते
मूलधातोर् यः कर्ता, सः णिजन्त-प्रयोगे कुत्रचित् कर्मत्वं प्राप्नोति । यथा, माता देवदत्तं मन्दिरं यापयति ।
धातोः णिच्-प्रत्ययस्य योजनेन यः आतिदेशिकधातुः सिद्ध्यति, तस्य स्वस्य भिन्नः कर्ता विद्यते; अतः तत्र द्विकर्तृकत्वम् सम्भवति । यथा, “पिता पुत्रेण पत्रं लेखयति” इत्यत्र —
- मूलधातु “लिख्” इति । तस्य कर्ता पुत्रः । अयम् शुद्धकर्ता / प्रयोज्यकर्ता इति नाम्ना ज्ञायते ।
- आतिदेशिकधातुः “लेखि” इति । तस्य कर्ता पिता । अयम् हेतुकर्ता / प्रयोजककर्ता इति नाम्ना ज्ञायते । णिजन्तधातूनां कर्तरि प्रयोगे प्रयोजककर्तृपदं प्रथमाविभक्त्या निर्दिश्यते, प्रयोज्यकर्तृपदं तु सामान्यरूपेण तृतीयया निर्दिश्यते । २.३.१८ कर्तृकरणयोस्तृतीया इति सूत्रम् । यथा, “पिता पुत्रेण पत्रं लेखयति” ।
परन्तु, केषाञ्चन धातूनां विषये प्रयोज्यकर्ता स्वस्य कर्तृसंज्ञां त्यक्त्वा कर्मसंज्ञां स्वीकरोति । अस्यां स्थितौ कर्तरि प्रयोगे “२.३.२ कर्मणि द्वितीया” इति सूत्रेण तस्य द्वितीया विभक्तिः एव भवति । यथा, ‘पुत्रः शेते’ इत्यस्य णिजन्तप्रयोगे “माता पुत्रं शाययति” इति परिवर्तनं भवति । अत्र शयनक्रियायाः कर्ता (पुत्रः) णिजन्तप्रयोगे कर्मपदरूपेण स्वीक्रियते, अतः तस्य द्वितीयायां प्रयोगः भवति ।
प्रयोज्य-कर्तुः कर्मत्वम्
“१.४.५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ” इति सूत्रेण निर्दिष्टानां धातूनां विषये शुद्धधातोः कर्ता ण्यन्तप्रयोगे कर्मत्वं प्राप्नोति ।
- गत्यर्थकाः धातवः — पुत्रः विद्यालयं गच्छति → पिता पुत्रं विद्यालयं गमयति ।
- बुद्ध्यर्थकाः धातवः — शिष्यः व्याकरणं पठति → गुरुः शिष्यं व्याकरणं पाठयति ।
- भोजनार्थकाः धातवः — शिशुः क्षीरं पिबति → माता शिशुं क्षीरं पाययति ।
- शब्दकर्मकाः धातवः — शिष्यः गीतं गायति → गुरुः शिष्यं गीतं गापयति ।
- अकर्मकाः धातवः — शिशुः शेते → माता शिशुं शाययति ।
“१.४.५३ हृक्रोरन्यतरस्याम्” इति सूत्रेण हृ (हरणे) तथा कृ (करणे) एतयोः विषये शुद्धधातोः कर्ता ण्यन्तप्रयोगे विकल्पेन कर्मत्वं प्राप्नोति ।
- हृ-धातुः — भृत्यः घटं हरति → स्वामी भृत्यं भृत्येन वा घटं हारयति ।
- कृ-धातुः — देवदत्तः कटं करोति → स्वामी देवदत्तं देवदत्तेन वा कटं कारयति ।
१.४.५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति सूत्रे कानिचन वार्त्तिकानि अपि वर्तन्ते —
“नीवह्योर्न , अदिखाद्योर्न, भक्षेरहिंसार्थस्य न, शब्दायतेर्न” — नी, वह्, अद्, खाद्, भक्ष् (अहिंसार्थके अर्थे), तथा च शब्दाय — एतेषां विषये शुद्धकर्ता कर्मत्वं न प्राप्नोति ।
- पिता पुत्रेण फलानि नाययति वाहयति आदयति खादयति, भक्षयति ।
- पिता पुत्रेण शब्दाययति ।
नियन्तृ-कर्तृकस्य वहेरनिषेधः — सारथिद्वारा वहनक्रिया यत्र क्रियते तत्र वह्-धातोः विषये शुद्धकर्ता अवश्यं कर्मत्वं प्राप्नोति । सूतः अश्वान् रथं वाहयति ।
जल्पतिप्रभृतीनामुपसङ्ख्यानम् ; दृशेश्च —
जल्प्, भाष्, दृश् - एतेषां विषये शुद्धकर्ता अवश्यं कर्मत्वं प्राप्नोति । पिता पुत्रं धर्मं जल्पयति भाषयति दर्शयति वा ।
एतेषु स्थलेषु प्रयोज्यकर्मपदस्य सम्प्रदानादिकारकेण निर्देशः नैव सम्भवति । अतः पिता पुत्राय ग्रामं गमयति, माता शिशवे अन्नं भोजयति — इति प्रयोगाः असाधवः ।
निरूपणान्तरम्
१.४.५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ, १.४.५३ हृक्रोरन्यतरस्याम् इत्येताभ्यां सूत्राभ्याम्;
कैश्चित् वार्त्तिकैश्च
शुद्धधातोः कर्तुः णिजन्तप्रयोगे कर्मसंज्ञा भवति ,
अतश्च एतेषां विषये णिजन्तप्रयोगे द्विकर्मकत्वं विधीयते ।
परन्तु, एतैः सूत्रवार्त्तिकैः अनिर्दिष्टानां केषाञ्चन धातूनां विषये अपि ण्यन्तप्रयोगे द्विकर्मकत्वं सम्भवति —
तॄ, ग्रह्, मुच्, त्याज्, दा - एतेषां विषये ण्यन्तप्रयोगे द्विकर्मकत्वं भवति —
भक्तः संसारं तरति । देवः भक्तं संसारं तारयति ।
भक्तः प्रसादं गृह्णाति । अर्चकः भक्तं प्रसादं ग्राहयति ।
भक्तः दुःखं मुञ्चति । हरिः भक्तं दुःखं मोचयति ।
भक्तः पापं त्यजति । हरिः भक्तं पापं त्याजयति ।
भृत्यः वृक्षं दाति । स्वामी भृत्यं वृक्षं दापयति ।
माधवीयधातुवृत्तिः
सारः
संक्षेपेण, नव प्रकाराणां वाक्येषु शुद्धकर्ता ण्यन्ते कर्मसंज्ञां स्वीकरोति —
- (गत्यर्थकाः —) पिता बालकं विद्यालयं गमयति ।
- (बुद्ध्यर्थकाः —) अध्यापकः छात्रं श्लोकं बोधयति ।
- (प्रत्यवसानार्थकाः —) माता शिशुम् अन्नं भोजयति ।
- (शब्दकर्मकाः —) अध्यापकः बालं वेदम् अध्यापयति ।
- (अकर्मकाः —) तरुणः वृद्धम् उपवेशयति ।
- (जल्पतिप्रभृतयः —) गुरुः शिष्यं पद्यार्थं जल्पयति ।
- (दृश्-धातुः —) पिता शिशुं शुकं दर्शयति ।
- (हृ-धातुः — ) स्वामी भृत्यं घटं हारयति ।
- (कृ-धातुः —) स्वामी देवदत्तं कटं कारयति ।
कर्मणि-प्रयोगः
णिजन्तधातुयुक्तस्य वाक्यस्य कर्मणि परिवर्तनम् कर्तुं तिस्रः पद्धतयः सन्ति । कस्य धातोः विषये कस्याः पद्धतेः प्रयोगः करणीयः इत्यस्मिन् विषये नियमाः सन्ति । प्रयोजककर्तुः तु सर्वत्रैव तृतीया विभक्तिः ।
बुद्धिभक्षार्थयोः शब्द-
कर्मकाणां निजेच्छया ।
प्रयोज्य-कर्मण्य्-अन्येषां
ण्यन्तानां लादयो मताः ॥
— ७.१.६९ विभाषा चिण्णमुलोः इत्यत्र सिद्धान्तकौमुदी
यत्र शुद्धकर्तुः ण्यन्ते कर्मसंज्ञा न भवति, तत्र तु शुद्धकर्तुः तृतीया विभक्तिः, कर्मपदस्य प्रथमा विभक्तिः । यथा, पित्रा पुत्रेण लेखः लेख्यते ।
- पिता पुत्रेण ग्रन्थं लेखयति → पित्रा पुत्रेण ग्रन्थः लेख्यते ।
- स्वामी भृत्येन घटं हारयति → स्वामिना भृत्येन घटः हार्यते ।
- राजा सेवकेन फलानि नाययति → राज्ञा सेवकेन फलानि नाय्यन्ते ।
द्विकर्मकेषु
यत्र शुद्धकर्तुः ण्यन्ते कर्मसंज्ञा भवति, तत्र बुद्ध्यर्थकानां, प्रत्यवसानार्थकानां, शब्दकर्मकाणां धातूनां विषये कस्यापि एकस्य कर्मपदस्य प्रथमा भवति, अपरस्य द्वितीया एव ।
- पिता पुत्रं श्लोकं बोधयति → पित्रा पुत्रं श्लोकः बोध्यते ।/ पित्रा पुत्रः श्लोकं बोध्यते।
अन्येषां (गत्यर्थकाः, अकर्मकधातवः, अवशिष्टाः (दृश् / जल्पतिप्रभृतयः)) विषये तु प्रयोज्यकर्मणः (इत्युक्ते, शुद्धधातोः कर्ता यः ण्यन्ते कर्मत्वं प्राप्तवान्, तस्य) एव प्रथमा । प्रधानकर्मणः तु द्वितीया एव ।
- पिता पुत्रं ग्रामं गमयति → पित्रा पुत्रः ग्रामं गम्यते ।
- पिता शिशुं शुकं दर्शयति → पित्रा शिशुः शुकं दर्श्यते ।
उदाहरणानि
- (गत्यर्थकाः —) पिता बालकं विद्यालयं गमयति → पित्रा बालकः विद्यालयं गम्यते ।
- (बुद्ध्यर्थकाः —) अध्यापकः छात्रं श्लोकं बोधयति → अध्यापकेन छात्रः श्लोकं बोध्यते / अध्यापकेन छात्रं श्लोकः बोध्यते ।
- (प्रत्यवसानार्थकाः —) माता शिशुम् ओदनं भोजयति → मात्रा शिशुः ओदनं भोज्यते / मात्रा शिशुम् ओदनः भोज्यते ।
- (शब्दकर्मकाः —) अध्यापकः बालं वेदम् अध्यापयति → अध्यापकेन बालः वेदं अध्याप्यते / अध्यापकेन बालं वेदः अध्याप्यते ।
- (अकर्मकाः —) तरुणः वृद्धम् उपवेशयति → तरुणेन वृद्धः उपवेश्यते ।
- (जल्पतिप्रभृतयः —) गुरुः शिष्यं पद्यार्थं जल्पयति → गुरुणा शिष्यः पद्यार्थं जल्प्यते ।
- (दृश्-धातुः —) पिता शिशुं शुकं दर्शयति → पित्रा शिशुः शुकं दर्श्यते ।
- (हृ-धातुः — ) स्वामी भृत्यं घटं हारयति → स्वामिना भृत्यः घटं हार्यते । अथ वा, स्वामी भृत्येन घटं हारयति → स्वामिना भृत्येन घटः हार्यते ।
- (कृ-धातुः —) स्वामी देवदत्तं कटं कारयति → स्वामिना देवदत्तः कटं कार्यते । अथ वा, स्वामी देवदत्तेन कटं कारयति → स्वामिना देवदत्तेन कटः कार्यते ।
ग्राहि-धातुः
अद्विकर्मकपक्षः
ग्रह्-धातोः णिच्-प्रत्यये कृते सिद्धः “ग्राहि” इति धातुः सिद्धः द्विकर्मकः नास्ति — माता पुत्रेण पुस्तकं ग्राहयति इति ।
“ग्राहेरिह ग्रहो नैव हरदत्तस्य सम्मतम्” — इति माधवीयधातुवृत्तिः । पदमञ्जरीकारस्य मतेन ग्राहि-धातुः द्विकर्मकः नास्ति इत्याशयः । “स्वतन्त्राः कवयः” — इति पदमञ्जरी ।
“ग्रहेस्तु द्विकर्मकत्वं यद्यपि सुधाकरादीनां संमतं तथाऽपि बहूनामसम्मतम्” — इति प्रौढमनोरमायां दीक्षितः ।
द्विकर्मकपक्षः
काव्येषु कुत्रचित् अयं धातुः द्विकर्मकरूपेण प्रयुक्तं दृश्यते — कुमारसम्भवे १.५२। “देवदेवं सुतां ग्राहयितुम्” इति प्रयोगे “देवदेवम्” तथा “सुताम्” इति उभयत्र कर्मकारकं प्रयुक्तम् अस्ति ।
तारेर्ग्राहेस् तथा मोचेस्
त्याजेर् दापेश् च सङ्ग्रहः ।
कारिकायां चशब्देन
सुधाकरमुखैः कृतः
— इति माधवीयधातुवृत्तिः । सुधाकरः येषां प्रमुखः ते वैयाकरणाः ग्राहि-धातोः द्विकर्मकत्वं मन्यन्ते इति आशयः ।
दृश्
दृश्-धातोः णिच्-प्रत्यये कृते १.३.७४ णिचश्च इति उभयपदित्वं भवति, अतः दर्शयति, दर्शयते इति उभयथा साधु । तत्र —
- दर्शयति इति परस्मैपदे प्रयोगः यत्र भवति तत्र “दृशेश्च इति” वार्त्तिकेन शुद्धकर्तुः ण्यन्ते कर्मसंज्ञा भवति । अतएव “पिता पुत्रं शुकं दर्शयति” इति प्रयोगः विद्यते ।
- दर्शयते इति आत्मनेपदे प्रयोगः यत्र भवति तत्र “अभिवादिदृशोरात्मनेपदे वेति वाच्यम्” इति वार्त्तिकेन शुद्धकर्तुः ण्यन्ते केवलं विकल्पेन कर्मसंज्ञा भवति । कर्मसंज्ञायां सत्याम् २.३.२ कर्मणि द्वितीया इति द्वितीयाविभक्तिः । कर्मसंज्ञायाः अभावे कर्तृसंज्ञायाः प्रभावात् २.३.१८ कर्तृकरणयोस्तृतीया इति तृतीया विभक्तिः । अतः “पिता पुत्रं शुकं दर्शयते”, “पिता पुत्रेण शुकं दर्शयते” इति उभयथा साधु ।
यद्यपि दृशेश्च इति वार्त्तिकेन “दर्शयति” इत्यस्य योगे शुद्धकर्तुः कर्मसंज्ञा भवति (अतश्च “पिता शिशुं शुकं दर्शयति” इति प्रयोगः), तथापि तत्र शिष्टैः सम्प्रदानकारकस्य विवक्षां कृत्वा चतुर्थी विभक्तिः अपि प्रयुक्ता दृश्यते —
- तत्तद्भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः — रघुवंशे ।
- धनुर्दर्शय रामाय इति होवाच पार्थिवम् — रामायणे ।
- रामाय दर्शयामास सौमित्रिः सर्वमायुधम् — रामायणे ।
- दर्शयामास पार्थाय परमं रूपमैश्वरम् — भगवद्गीतायाम् ।
एतादृशेषु स्थलेषु “कारकाणि विवक्षया भवन्ति” इति सिद्धान्तं स्वीकृत्य, कर्मकारकस्य अविवक्षाम्, अन्यकारकस्य च विवक्षां मत्त्वा तादृशस्य कारकस्य प्रयोगः भवति । एतेषु उदाहरणेषु कर्मकारकस्य अविवक्षा, सम्प्रदानकारकस्य विवक्षा, अतः सम्प्रदानकारकस्य प्रयोगः कृतः — इत्येव समाधानम् । अस्मादेव कारणात् “तस्मै दर्शयति” इति लौकिकप्रयोगाः अपि साधवः एव ।