११ एकश्रुतिप्रकरणम्

॥ अथैकश्रुतिप्रकरणम् ॥

[ ४६१] ॥ एकश्रुति दूरात् सम्बुद्धौ ॥ ( 1-2-33)

सम्बुद्धिः - अनुष्ठेयतया सम्बोधनम्1 । सम्पूर्वात् बुधेः अन्तर्भावित-व्यर्थात् क्तिन् । न त्वत्र एकवचनं सम्बुद्धिः इति कृत्रिमा सम्बुद्धिर् गृह्यते ; ‘दूरात्’ इत्य्-अपादान-कारकान्वयाय इति कैयट-हरदत्तादयः । यावति देशे क्रियाया एव अपेक्षितत्वात्" प्राकृत-प्रयत्नोच्चारितं सम्बोध्य-[[P371]]मानेन न श्रूयते, किं तु अधिकं प्रयत्नम् अपेक्षते, तद् इह दूरत्वं विवक्षितम् । उक्तं सम्बोधन-करणत्वं वाक्यस्यैव सम्भवतीति तस्यैवेदं विधानम् । एका श्रुतिर् यस्य तद् इदम् एकश्रुति वाक्यम् । दूरात् अनुष्ठेयतया बोधनायां करणीभूतं वाक्यम् एकश्रुति स्यात् । त्रैश्वर्यापवादः ।

आगच्छ भो माणवक देवदत्त३’ ।

‘दूराद् धूते च’ इति प्लुतः । स च निरवकाशत्वात् एकश्रुतिं बाधते । एकश्रुति-प्लुताभ्यां च अवयव-भेदेन वाक्ये समुच्चिताभ्यां सम्बोधनं द्योत्यते । दूरात् सम्बोधनाभावे त्रैश्वर्यम् एव । तत्र ‘सर्गाश् चाभिवर्जम्’ इत्याङायुदात्तम्2 । ‘गच्छ ’ इति ’ तिङ्ङतिङः ’ इत्यनुदात्तम् । भोश्-शब्दो निपातत्वात् आद्युदात्तः । इतरयोर्-आमन्त्रितनिघातः । अत्र3 ‘सम्बुद्धिः’ इत्य्-अन्वर्थग्रहणात् ‘आगच्छत ब्राह्मणाः’ इत्य् अत्रापि अयम् एकश्रुतिः4 । “क्षीरोदकवत् उदात्तानुदात्तयोर् भेद-तिरोधानम् एकश्रुतिः ; स्वरिते तु विभागेनोपलब्धिः " इति कैयटोक्तं प्राग् दर्शितम् । “स्वराणाम् उदात्तादीनाम् अविभागो भेद-तिरोधानम् एकश्रुतिः " इति वृत्तौ5 । ‘अविभागः’ इत्यस्यैव विवरणं ‘भेद-तिरोधानम्’ इति [[P372]] हरदत्तः । कौस्तुभे ऽप्य् एवम् “स्वराणाम् अविभागेन अवस्थानम् एकश्रुतिः " इति । “उदात्तानुदात्त-स्वरितानां परः सन्निकर्ष ऐकश्रुत्यम्” इति आश्वलायनः । ‘उदात्तादीनाम्6 अभिव्यञ्जका ये प्रयत्नाः आयाम-विस्रम्भाक्षेपाः, तेषाम् अन्यतमस्यैकस्यैव परः सन्निकर्षो विजातीय-प्रयत्नाव्यवधानम् इत्यर्थः " इति ‘आश्वलायनसूत्र-नारायणवृत्तिकृतः7 । ‘उदात्तसमश्रुतिः प्रचयः’ इति ‘एकश्रुतिः प्रचयः’ इति पर्यायौ’ इति तैत्तिरीयक-प्रातिशाख्यम् । मनोरमादौ ॥

उदात्त-निहत-स्वार-प्रचयेभ्यो विलक्षणा ।
एकश्रुतिः ससूत्रेषु पच-प्रश्नेषु दृश्यते ॥

इति शिक्षायाम् । शीक्षां व्याख्यास्यामः इत्य् अत्र वेदभाष्येऽपि प्रचयात् विलक्षणा एकश्रुतिर् इत्य् उक्तम् — उदात्तानुदात्त-स्वरित-प्रचय-सन्नतर-उच्चतर-ऐकश्रुतयः सप्त स्वराः - इति । षड्गुरुशिष्य-विरचिताश्वलायनवृत्तौ तु ‘उदात्तानुदात्त-स्वरितानाम्’8 इति सूत्रम् अन्यथा व्याख्यातम् – “ परशब्दोऽतिशयार्थः । प्रत्यासत्तिः सन्निकर्षः भेद-तिरोधानरूपः । ‘उच्चैर् उदात्तः ’ ‘नीचैर् अनुदात्तः’ ‘समाहारः स्वरितः’ इति प्रसिद्धोदात्तादि-स्वराणां भेद-तिरोधानरूपम् ऐकश्रुत्यम्’ ।9 एका श्रुतिर् ध्वनिर् यस्मिन्नुच्चारणे तद् एकश्रुति’ । तस्य भावे व्यन्” इति । अत्रेत्थम् एषां ग्रन्थानाम् अविरोधम् आहुः – ‘उच्चैर्-निष्पन्नत्व-नीचैर्-निष्पन्नत्व-लक्षणौ10 उपाधी द्वावेव उदात्तानुदात्त-संशब्दितौ स्वरौ । स्वरितस् तु तद्-उभयात्मको न ताभ्यां विलक्षणः - इत्येकं मतम् । अन्यत् तु मतम् — उदात्तादयस् त्रयः स्वराः परस्पर-विलक्षणाः श्रोत्रग्राह्य-जाति-विशेषरूपाः ‘उच्चैर् उदात्तः ’ इत्यादिसूत्राण्यपि11 तादृश-जाति-विशेषोपलक्षणपराणि – इति । [[P373]] तत्र आद्यमताभिप्रायेण ‘उदात्तानुदात्तयोर् भेद-तिरोधानम् एकश्रुतिः’ इति कैयटग्रन्थः । द्वितीयमताभिप्रायेण ‘उदात्तादीनाम् अविभागेन अवस्थानम्’ इत्यादि वृत्त्यादि-ग्रन्थाः । नारायण-वृत्तिबन्धस् तु मतान्तर-परत्वेन नेयः । एकश्रुतिः प्रचयात् विलक्षणा इत्यपि मतान्तरम् । यद्वा गोबलीवर्दन्यायेन तत्रत्यः प्रचयशब्दः ‘स्वरितात् संहितायाम्’ इति सूत्रमात्र-विहितैकश्रुतिपरः । ‘विभाषा छन्दसि’ इति विहिता तु — एकश्रुतिस् तत्रत्यैकश्रुति-शब्दवाच्येति दिक् ॥

[४६२] ॥ यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ (1-2-34)

यज्ञक्रियायां मन्त्रे एकश्रुतिः स्यात् जपादीन् विना ।

अग्निर् मूर्धा

‘अग्निर् मूर्धा दिवः ककुत्
पत्तिः पृथिव्या अयम् ’ ।
‘अपां रेतांसि जिन्वतोम्’ ।

‘यज्ञ-कर्मणि’ इत्य्-उक्तेः
स्वाध्यायकाले त्रैस्वर्यम् एव ।
तत्र अग्निशब्दः ‘अङ्गेर् नलोपश्च’ इति निप्रत्ययान्तः[^2] अन्तोदात्तः ।
मूर्धन्-शब्दः कनिन्नन्तः ‘श्वन्नुक्षन्’ इति सूत्रेऽन्तोदात्तो निपातितः ।
दिवः । ‘ऊडिदम्’ इति विभक्तिर् उदात्ता ।
ककुत् । फिट्स्वरेण अन्तोदात्तः ।
पातेर् इतिः, पतिः । प्रत्ययस्वरेण आद्युदात्तः । ‘प्रथेष् टिवन् सम्प्रसारणं च’ । षित्वान् ङीष् ।
पृथिवी । ‘उदात्तयणो हल्पूर्वात्’ इति ङस् उदात्तः ।
अयम् । इदंशब्दः फिट्त्वात् अन्तोदात्तः । ‘आप्नोतेः क्विप् ह्रस्वश्च’ अप् । ‘ऊडिदम्’ इत्याम् उदात्तः । ‘सुरीभ्यां तुट् च’ इति असुनो नित्त्वात् आयुदात्तो रेतश्शब्दः ।
जिवि प्रीणने । नुम् । जिन्वति । तिङ्-निघातः ।
यज्ञप्रयोगे तु ‘प्रणवष् टेः’ इति टेः प्रणवः ।

मन्त्रेषूहेषु च

“जपादिपर्युदासात्
मन्त्राणाम् एवेदम् ऐकश्रुत्यम्12

इति [[P374]] केचित् ।
+++(प्रतिषेध-प्राधान्यात्=)+++प्रसज्य-प्रतिषेधाश्रयणात् अमन्त्राणामपि
“ऊहादीनाम्13 ऐकश्रुत्यम्”

इति मतद्वयम् अपि14
‘विभाषा छन्दसि’ इत्य् अत्र हरदत्तेन उक्तम् ।

न च

प्रसज्य-प्रतिषेध-पक्षे
परत्वात् पाक्षिकम् ऐकश्रुत्यं वेदमन्त्रेषु स्यात्,
ऊहादिषु अस्य विधेश् चरितार्थत्वात्

इति वाच्यम् ;
यतः ‘यज्ञकर्मणि’ इति कर्मग्रहणं
यज्ञानुष्ठानमात्रे सर्वत्र अनेनैव एकश्रुतिर् यथा स्यात्
इत्य्-एवम्-अर्थम् "

इति15 हरदत्तः ।
पर्युदासपक्षे तु कर्मग्रहणस्य चिन्त्यं फलम् । +++(5)+++

इन्द्रशत्रुः

इदम् एव पक्षद्वयम् अभिप्रेत्य
‘मन्त्रो हीनः’ इति शिक्षावचने
स्वरापराधो हरदत्तेन द्वेधा व्याख्यातः ।
तथा हि-

’ मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्या प्रयुक्तो न तम् अर्थम् आह ।
स वाग्-वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥’

इति । स्वरेण, स्वरतः । आद्यादित्वात् तसिः ।
यद्-अर्थ-प्रतिपादनाय16 प्रयुक्तस् ततोऽर्थान्तरं स्वर-वर्ण-दोषात् प्रतिपादयन्न्
अभिमतम् अर्थं नाह इत्यर्थः ।
वाग् एव17 वज्रो वाग्-वज्रः । यथेत्युदाहरणम् ।
इन्द्रशत्रुः इन्द्रशत्रु-शब्दः ।
स हि स्वर-कृतापराधात् यजमानं हिंसितवान् ।
एतच्च ‘त्वष्टा हत-पुत्रः’ इत्यनुवाके स्पष्टम् अभिहितम् ।

अत्र ‘मन्त्राणाम् एवैकश्रुतिः’ इति पक्षे18
‘स्वाहेन्द्रशत्रुर् वर्धस्व’ इति त्वष्ट्रा स्वच्छन्दं19 प्रयुक्तस्य मन्त्रत्वाभावात्
‘इन्द्रशत्रुः’ इति षष्ठी-समासत्वात् अन्तोदात्तत्वे प्रयोक्तव्ये आद्युदात्तः प्रयुक्तः । [[P375]]
अत्र च बहुव्रीहि-स्वर इन्द्रशब्दस्य रन्नन्तस्य नित्-स्वरेण20 आद्युदात्तत्वात् ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ इति वचनात् ।
ततो21 बहुव्रीह्यर्थोपसंहारात् इन्द्र एव अस्य शत्रुः अभवत् इति स्वरापराधः ।

न च

इन्द्रस्य त्वष्टारं प्रति शत्रुत्वे
त्वष्टुर् अपि इन्द्रं प्रति शत्रुत्वं सिद्धम्
इति बहुव्रीहि-षष्ठी-समासयोर्
न कश्चिद् अर्थ-भेद

इति वाच्यम् ;
यतोऽत्र सपत्न-पर्यायो न रूढः शत्रु-शब्दः,
अपि तु क्रिया-शब्दो यौगिकः शातयिता इति ।
तत्र षष्ठी-समासार्थः इन्द्रस्य शातयिता भूत्वा वर्धस्व इति ।
बहुव्रीहौ तु22 इन्द्र-शातयितृक इति विस्पष्टो ऽर्थ-भेदः ।

अत्र प्रसज्य-प्रतिषेध-पक्षे तु
कर्तव्ये तद्-अकरणम् एव ऐकश्रुत्ये स्वरापराधः "

इति ।

जपः

जपादि-विषये तु यज्ञ-कर्मण्य् अपि नैकश्रुत्यम् ।

तत्र जपो नाम उपांशु-प्रयोगः,
यथा जले निमग्नस्य इत्येके ।

अकरण-मन्त्र इत्यन्ये ।
अनेन इदं कुर्यात् इति विनियुक्तो मन्त्रः करण-मन्त्रः

इति पक्षद्वयं23 हरदत्त-भट्टोजि-यज्व-प्रभृतिभिर् दर्शितम् ।

न्यूङ्खा

न्यूङ्खा नाम षोडश ओङ्काराः ।
तेषु प्रथम-सप्तम-त्रयोदशास् त्रय उदात्तास् त्रिमात्राश् च ।
इतरे त्रयोदश अनुदात्ता अर्ध-मात्राश् च ।
एतच् च आश्वलायन-सूत्रे स्पष्टम् ।

साम

साम-शब्दो गीति-विशेष-वाची24
तदुक्तम् —‘गीतिषु सामाख्या’ इति ।

उपांशु-प्रयोगोऽयं जपः

तत्र ‘उपांशु-प्रयोगोऽयं जपः’ इति पक्षो याज्ञिकानुसारी ।
अत एव ‘इ॒षे त्वा॑’ इत्य्-आदि-करण-मन्त्रान् अपि
उपांशु प्रयुज्यमानान्25
ते चातुस्-स्वर्येण प्रयुञ्जते ।

‘अग्नी॑द् अ॒ग्नीन् विह॑र ’ इत्यादि-सम्प्रेषांस् तु
उच्चैः प्रयुज्यमानान् एकश्रुत्या ।
अत एव रुद्रदत्तीयापस्तम्ब-सूत्र-दीपिकायाम्
‘ततः सम्प्रेष्यति’ इति विहिते [[P376]]
‘परिस्तृणीत परिधत्ताग्निम्’ इति मन्त्रस्य सम्प्रैषे26

‘पक्षे मन्त्र उच्चैर् एकश्रुत्या सकृद् भवति
परिस्तरणीम् एताम् एके समामनन्ति’

इति ।

पक्षे तु मन्त्रः करणत्वात् उपांशु चातुस्स्वर्येण प्रत्यग्नि भवति”

इत्युक्तम् ।

‘हविष्कृद् एहि’ इति त्रिर् अवहन्ति
अनवघ्नन् वा हविष्कृतम् आह्वयति27

इति सूत्रेऽपि तत्र +उक्तम्-

‘चातुस्स्वर्येण उपांशु सकृच् च मन्त्रः करण-मन्त्रत्वे,
विपर्ययस् तु आह्वानार्थे28

इति ।

अपवादः

यत् तु उपांशु-प्रयोगेऽपि याज्यासु याज्ञिकानाम् ऐकश्रुत्य-करणम्,
तद् आश्वलायनादि-विशेषवचनात् ।
यथा उच्चैः प्रयोगेऽपि
‘आश्रावय’ इत्यादौ विशेष-वचनात् प्लुत उदात्तः ।

उपांशु-निर्वचनम्

‘मुख-प्रयत्नवान् अनभिव्यक्त-शब्द-प्रयोग29 उपांशु-शब्दार्थः’

इति
‘ध्वानेन उपांशु वा’ इत्य्-अत्र दीपिकायाम् ।

‘अकरणवद् अशब्दम् अमनः-प्रयोग30 उपांशु’ (तै. प्रा. अ. २३. सू. ६)

इति प्रातिशाख्यम् ।
एतदेव ‘ध्वानेन उपांशु वा’ इत्य् अत्र श्रीरामाग्निचिता लिखितम् ।

जपे रामाग्निचिदादिमतम्

श्रीरामाग्निचिदादिमतं तु-

अकरण-मन्त्रो जपः ।
तथा च करण-मन्त्रे31 सर्वत्र ऐकश्रुत्यम् एव -

इति ;
यद् उक्तं तैः ‘दे॒वा॑ गातुविदो गा॒तुम्’ इति जपित्वा

‘ममा॑ग्ने॒ वर्चो विह॒वेषु॑’ इति आहवनीयम् उपसमिन्धे '

इत्य्-अत्र

‘चातुस्स्वर्येण सर्वे जपाः’
अन्ये मन्त्रा एकश्रुत्या ;
‘यज्ञ-कर्मण्य् अजपन्यूङ्खसामसु’ इति स्मृतेः’32

इति ।
‘उभाव् आज्यग्रहान् जपत’ इत्य्-अत्र तैर् उक्तम् —

अध्वर्योर् अपि चातुस्स्वर्यम् आज्य-ग्रहणेषु’33 ;
‘उभाव् आज्यग्रहान् जपत’ - अध्वर्योर् अपि चातुस्स्वर्य-प्राप्त्यर्थत्वात् वचनस्य –

इति । ‘उभौ कपाल-विमोचनं34 जपतः’ इत्य् अत्रापि उक्तम्-

‘उभौ कपाल-विमोचनम्’ इति सहत्वार्थम् ।
‘जपतः’ इत्य्-उभयोश् चातुस्स्वर्यार्थम् —

इति ।

अकरण-मन्त्रो जप इत्येव ह्य् एषां ग्रन्थानाम् आशय [[P377]] उन्नीयत इति ।

गृह्य-कर्मणि प्रसक्तिः

सुदर्शनाचार्य-कृत-गृह्य-तात्पर्य-दर्शने तु

‘स्वयं दृष्ट्वा तृतीयां जपेत्’

इत्य्-अत्र स्पष्टम् एव अभिहितम् —

जपश्35 च सर्वत्र चातुस्स्वर्येण36,
न तु करण-मन्त्रादिवद् एकश्रुत्या;
‘यज्ञ-कर्मणि’ इत्यादिवचनात् —

इति ।

उपांशुप्रयोगे हि जपः

अत एव
‘उदात्तानुदात्त-स्वरितानाम्’ इति आश्वलायन-सूत्रे37
षड्गुरुशिष्य-कृत-वृत्तौ उक्तम्-

‘व्याकरणेनैव यज्ञ-कर्मण्य् अ-जप-न्यूङ्ख’ इत्यैकश्रुत्ये सिद्धेऽपि वचनं
सामिधेन्य्-अतिदिष्टे ‘आसीनः प्रथमाम् अन्वाह उपांशु’ इत्यनुवचने
उपांशुत्वाज् जपभूतेऽपि ‘अजप’ इति निषेधो मा भूद् इति ।

न हि व्याकरणे जपति-चोदित38 एव जप इत्युच्यते,
किं तु सर्व एव उपांशु-प्रयोगो मन्त्र
इति सर्वं समञ्जसम् ॥

[ ४६३ ] ॥ उच्चैस्तरां वा वषट्कारः ॥ (1-2-35)

उच्चैश्-शब्दोऽधिकरण-शक्ति-प्रधानोऽपि अत्र ‘तद्-विशिष्ट-भवन-क्रियायां39 वर्तते । तेन क्रिया-प्रकर्षात् आम्-प्रत्ययः । उदात्ततर40 इति फलितोऽर्थः । वषट्-शब्देन च तत्-समानार्थो वौषट्-शब्दो लक्ष्यते । द्वाव् अपि हि देवता-सम्प्रदानस्य द्योतकौ । वौषड् इत्येव नोक्तम्, प्रतिपत्ति-लाघवेऽपि मात्रा-गौरवात् । अत एव लिङ्गात् वर्ण-समुदायाद् अपि कार-प्रत्ययः । तेन एवकार इत्यादिसिद्धिः । यज्ञ-कर्मणि वौषट्-शब्द उदात्ततरो वा भवति । पक्षे ऐकश्रुत्यम् । ‘सोमस्याग्ने वीहि वौ३षट्’ । अत्र द्वयोर् अप्यचोर् उदात्ततरत्वम्’ इत्येके । याज्यान्तापेक्षः प्रकर्षः । अस्मिन् मते ‘ब्रूहि-प्रेष्य’ इत्यादिना वौषडादेः प्लुत उदात्तः । [[P378]] ‘अत्र पक्षे प्लुतोदात्तापेक्षः प्रकर्षः । शेष-निघातस् तु न अत्र भवति, असिद्धत्वात् । प्लुतः सिद्ध इति द्वितीयस्यैवेदं विधानम्’41 इति हरदत्तः । ‘स्वार्थिकस् तरप् । अस्मिन् पक्षे प्रथमस्य उदात्तः द्वितीयस्य प्लुतः उदात्तत्वम् एव विधीयते’ इत्यन्ये । “तरबर्थ-प्रकर्ष-विवक्षा-पक्ष एव प्रबलः ; ‘वषट्कारान्त्यः सर्वत्र उच्चैस्तरां बलीयान् याज्यायाः’ इति आश्वलायन-सूत्रात्” इति कौस्तुभे । अन्यत् तु मतम् - ’ सूत्रे वषट्कार-शब्दो घञन्तेन कार-शब्देन वषट्-शब्दस्य समासे निष्पन्नः । वषट् क्रियते येन वषट्कारः । अयं च वषट्कार-शब्दः42 ‘वषट्कार43 मा मां प्रमृक्षः’ इति मन्त्रे ‘त्रयो वै वषट्काराः’ इति ब्राह्मणे ‘वषट्कारोऽन्त्यः44 सर्वत्र’ इति सूत्रे च वौषट्-शब्दे45 निरूढ इति । अत्र मते ‘द्व्य॒क्षरो व॑षट्कारः’ इत्यादौ वषट्कार-शब्दस्य46 अन्तोदात्तत्वम् उपपन्नम् ! कार-प्रत्ययान्तत्वे तु प्रत्यय-स्वरेण मध्योदात्तत्वं प्रसज्येत । वर्ण-समुदायाद् अपि कार-प्रत्यय-सिद्धिस् तु ‘वर्णात् कारः’ इत्य् अत्र बहुल-ग्रहणानुषङ्गात्, एवकारो वकार इति भाष्य-प्रयोगाद्वा । केचित् तु — वौषट्-शब्द एव न वषट्कार-वाच्यः47 । किं तु ‘वषड् इत्येके समामनन्ति48’ ‘वौषड् इत्येके’ ‘वाषड् इत्येके’ ‘वाक्षड् इत्येके’ इति आपस्तम्ब-सूत्रे प्रसिद्धा वषडादयोऽपि49 ; ‘वषट्कृते जुहोति’, ‘वषट्कारेण वाहुतिषु50 सम्पातयेत्51”’, ‘वषट्कारश् च दर्विहोमानाम्52’ इति आपस्तम्ब-सूत्रेषु तथैव प्रसिद्धेः । ‘ब्रूहि-प्रेष्य’ इति सूत्रे ‘वौषट्-शब्दो [[P379]] वषट्कारोपलक्षणार्थः, तेन वषड् इत्यादेः षड्विधस्यापि वषट्कारस्य प्लुतः’ इति हरदत्तोक्तेश् च । एवं च प्लुतवत् उदात्ततरत्वम् अपि षड्विधस्यापि वषट्कारस्य – इति ॥

[ ४६४ ] ॥ विभाषा छन्दसि ॥ (1-2-36)

अत्र वृत्तिकृता ‘छन्दस्य् एकश्रुतिर् वा भवति’53 इति व्याख्याय ‘इषे त्वोर्जे त्वा’ ‘अ॒ग्निर् मीळे पुरोहितम्’ इत्यादाव् अपि पाक्षिकैकश्रुतिर् उदाहृता54 । हरदत्तोऽपि तद् एवान्वसरत् । तत् सकलाध्यापक-सम्प्रदाय-विरुद्धम् इति55 मत्वा स्वरमञ्जर्याम् — व्यवस्थित-विभाषेयम् ; तथा च बह्वृच-ब्राह्मणे ऐकश्रुत्यम् । तत्-संहितायां चातुस्स्वर्यम् एव । एवं शाखान्तरेऽपि यथा-सम्प्रदायं व्यवस्था - इति कौस्तुभेऽपि एतदेव अनुसृतम् । यजुष्यपि ‘महानाम्नी महामानाः’ ‘आरोगो भ्राजः’ इत्याद्यारण्यक-वाक्ये56 ऐकश्रुत्यम् एवेति दृश्यते । अत एव ‘महानाम्नीः’ इत्य् अत्र वेद-भाष्यम्—अत्र केषुचित् वाक्येषु ऐकश्रुत्यं दृश्यते । केषुचित् त्रैश्वर्यम् एव । तत्र ‘विभाषा छन्दसि’ इत्यस्य व्यवस्थित-विषयत्वात् एवम्57 भवति’ इति । अथ ‘वा’ इति प्रकृते विभाषा-ग्रहणं किम् अर्थम् ? ‘यज्ञ-कर्मणि’ इत्यस्य निवृत्त्यर्थम् ’ इति वृत्तिकारः । नन्व् अत्र ‘यज्ञ-कर्मणि’ इत्यनुवर्तते यदि, तर्हि ‘यज्ञ-कर्मण्य् अजप’ इति विधिर् निर्विषयः स्यात् । न च जपादिषु सावकाशस्य अस्य विधेः पूर्व-विधिर् अपवाद इति वाच्यम् ; एवं [[P380]] हि अत्रैव जपादि-ग्रहणेन इष्टसिद्धौ नञ्-ग्रहणस्य58 च वैयर्थ्यापत्तेः सामर्थ्याद् एव ‘यज्ञ-कर्मणि’ इत्यस्य निवृत्तिः सिद्धा इति किं तदर्थेन विभाषा-ग्रहणेनेति59 । अत्र हरदत्तः - प्रसज्य-प्रतिषेध-पक्षे ऊहादिषु पूर्वयोगस्य सावकाशत्वात् अत्र ‘यज्ञ-कर्मणि’ इत्यनुवर्तेतैव60 यदि विभाषा-ग्रहणं न क्रियते । न चैवं सत्यपि विभाषा-ग्रहणे ऊहादिषु सावकाशं नित्यं विधिं बाधित्वा यज्ञ-कर्मणि छन्दश्-शब्देषु अयम् एव विकल्पः परत्वात् स्याद् इति वाच्यम् ; ‘यज्ञ-कर्मणि’ इत्य् अत्र कर्म-ग्रहणस्य यज्ञानुष्ठाने सर्वत्र नित्यो विधिर् यथा स्यात् इत्येवमर्थत्वात् । पूर्वत्र जपादि-पर्युदासान् मन्त्राणाम् एव ऐकश्रुत्य-विधिर् इति पक्षे सामर्थ्याद् एव61 ‘यज्ञ-कर्मणि’ इत्यस्य निवृत्तिसिद्धेः विभाषा-ग्रहण-वैयर्थ्यम् एव62 – इति । अत्र कौस्तुभे कथितम् - “हरदत्त-दर्शितानावश्यक-कर्म-ग्रहण-सामर्थ्याद् एव पूर्वयोगस्य यज्ञ-कर्म-विषयत्वम् अस्य तद्-अतिरिक्त-विषयत्वं च सिद्धम् इति विभाषा-ग्रहणं व्यर्थम् एव । तस्मात् तन्त्रावृत्त्यादिना63 ‘अच्छन्दसि’ इति नञ्-प्रश्लेषाद् भाषायाम् अपि ऐच्छिकम् ऐकश्रुत्य-विधिं सूचयितुं ‘वा’ इति प्रकृते विभाषा-ग्रहणम् । न चैवं छन्दो-ग्रहणम् अफलम् ; छन्दसि व्यवस्थितः, लोके तु ऐच्छिक इति विकल्पयोर् वैषम्यं द्योतयितुं तत्-करणात् । छन्दस्यपि ‘इ॒षे त्वा’ इत्यादौ ऐच्छिकम् ऐकश्रुत्यं वदतो वृत्तिकृत एव अत्र छन्दो-ग्रहण-वैयर्थ्यम् । न च लोके ऐकश्रुत्य-विकल्पस्य वृत्तिकृता अनुक्तत्वात् असाम्प्रदायिकत्वं शक्यम् ; भाष्यादि-सम्मतत्वात् तद्-विकल्पस्य । तथा हि दाण्डिनायन-सूत्रे ऐक्ष्वाक-शब्दः पठ्यते । इक्ष्वाकु-शब्दात् अपत्येऽर्थे ‘जनपद-शब्दात् क्षत्त्रियाद् अञ्’ इत्यञि, भवार्थे ‘कोपधाद् अण्’ इत्यणि च सति [[P381]] निपातनात् उकार-लोपे ‘ऐक्ष्वाकः’ इति रूपम् इष्यते । तत्र अञन्त आद्युदात्तः, अणन्तस् तु अन्तोदात्तः । तत्र अन्यतरस्य पाठे स्वर-भेदात् इतरस्य अग्रहणम् आशङ्क्य परिहृतं भाष्ये— ‘स्वर-सर्वनाम्ना64 एकश्रुत्या पाठात् उभयोर् ग्रहणं सिद्धम्’ इति । “श्वेतो धावति’ इत्यादिकं वाक्यम्’ इति पस्पशाह्ने भाष्यम् अपि अत्र लिङ्गम् । ‘श्वा इतः’ इति पद-द्वय-पक्षे हि ‘श्वेतः’ इति व्युदात्तम् ; ‘इतः’ इत्यस्य ‘ऊडिदम्’ इत्यन्तोदात्तत्वात् । ऐकपद्ये तु अन्तोदात्तत्वम् इति कथं स्वरानुरोधेन तन्त्रं स्यात् । वृत्तिकृतोऽपि65 एतत् संमतम् ; ‘श्वेतो धावति’ इति वाक्यस्य वृत्ताव् अपि तत्र तत्र उदाहृतत्वात् । अत एव अभियुक्तानां विरुद्ध-स्वरक-तत्पुरुष-बहुव्रीह्य्-आद्याश्रयणेन श्लिष्ट-काव्यादि-निर्माणम् अपि सङ्गच्छते । अत एव काव्यप्रकाशेऽपि —वेद इव लोके स्वरो न विशेषाध्यवसाय-हेतुः - इत्युक्तम् । ‘झल्य् उपोत्तमम्’ ‘विभाषा भाषायाम्’ इत्यादि-स्वर-सूत्राणि तु त्रैस्वर्येण प्रक्रमे पाक्षिकानुदात्तत्व-लाभाय66 " इति । अत्र वदन्ति — न तावत् ‘ऐक्ष्वाक-शब्दः सूत्रे एकश्रुत्या पठ्यते’ इति भाष्यम्67 लोकेऽपि ऐकश्रुत्य-विकल्प-लिङ्गम् ; छन्दोवत् सूत्राणि भवन्ति - इति इष्ट्यभिप्रायेणापि68 तदुपपत्तेः । अत एव अत्र सूत्रे69 स्वर-कौमुद्यादौ70 उक्तम् - एवं71 च ‘छन्दोवत् सूत्राणि’ इत्य् एकश्रुत्या72 सूत्र-पाठस् त्रैस्वर्येण वेति पक्षद्वयम् अपि तत्र तत्र उपन्यस्यते ’ इति । सूत्रे स्वरस्य छान्दसत्वाद् एव एकश्रुत्या सूत्र-पाठेऽपि क्वचित् स्वरान्तर-बाधनाय आद्युदात्तादिकरणं सङ्गच्छते । अत एव ‘अवड् स्फोटायनस्य’ इत्य् अत्र कैयटः – एकश्रुत्या सूत्र-पाठे यत्नेन आयुदात्तोच्चारणम् अन्तोदात्त-[[P382]]बाधनार्थं विज्ञायते— इति । यद् अपि “श्वेतो धावति’ इति द्व्यर्थकं भाष्यं73 लिङ्गम्’ इति, तद् अपि चिन्त्यम् ; एकस्यैव हि उच्चारितस्य ‘श्वेतो धावति’ इति वाक्यस्य एकोऽर्थः । अर्थान्तर-बोधस् तु आनुपूर्वी-साजात्येन स्मृतात् वाक्यान्तराद् एव । द्व्यर्थकम् इति व्यवहारस् तु सारूप्य-निमित्तकाभेदाध्यवसाय-निबन्धनः । इत्थम् एव हि ‘अर्थ-भेदेन शब्द-भेदः’ इति पक्षे ‘ग्राम-शब्दोऽयं बह्वर्थः’ इति भाष्योपपत्तिः कैयटेन प्रदर्शिता । एवम् एव हि ‘नालीकासनम् ईश्वरः शिखरिणाम्’ इत्यभियुक्त-प्रयोगे नालीकः सन-शब्दस्य साधुत्वं निर्वाह्यम् । अन्यथा लोकेऽपि पाक्षिकम् ऐकश्रुत्यम् इति कल्पनया स्वर-कृतासाधुत्वोद्धारेऽपि बहुव्रीहि-तत्पुरुष-संज्ञा-द्वय-समावेश-निबन्धनम् असाधुत्वं कथम् उद्धर्तव्यम् ? एक-संज्ञाधिकारेण संज्ञा-द्वय-समावेशायोगात् । शिष्टानां श्लिष्ट-काव्यादिकम्74 अपि सङ्गतम् ; ‘चेतो न लङ्काम् अयते’ इत्यादौ लळयोर् एकत्व-स्मरणादिना कथञ्चित् स्मृतेन शब्दान्तरेण अर्थ-बोधेऽपि श्लेष-काव्यत्वस्य75 कवि-समय-सिद्धत्वात् । अपि च ‘श्वेतो धावति’ इति भाष्यात् लोके पाक्षिकम् ऐकश्रुत्यम् इति कल्पने किं नियामकम् ? तत्र पाक्षिकः स्वरानुरोध इत्यपि कल्पन-सम्भवात् । साम्प्रदायिक-वचनाभावस्य उभयत्र तौल्यात् । न च ‘वा’ इति प्रकृते विभाषा-ग्रहणात् ‘अच्छन्दसि’ इति प्रश्लेषात् लोкеऽपि ऐकश्रुत्य-लाभः ; एवं सति च्छन्दो-ग्रहणस्य तन्त्राद्याश्रयणस्य76 च वैयर्थ्यात् । वेदे व्यवस्थितो विकल्पः ; लोके तु ऐच्छिक इति विकल्प-वैषम्य-द्योतनाय77 तत् इति चेत् — वैयर्थ्यम् एवेदं78 पर्यायान्तरेण कथितम् ; विकल्पान्तरेष्व् इव [[P383]] लौकिक-वैदिक-प्रयोग-व्यवस्थाभ्याम् एव तत्सिद्धेः । अत एव ‘नित्यं छन्दसि’ इत्यादिसूत्र-वैयर्थ्यं मनोरमादौ उक्तम् । यत् तु काव्यप्रकाशे – वेद इव लोके स्वरो न विशेषाध्यवसाय-हेतुः – इत्युक्तम्, तल् लोके त्रैश्वर्य-नियमेऽप्य् उपपन्नम् ; अनेन स्वरेण कविना प्रयुक्तम् इदं पदम्79 इति इदानीन्तनैर्80 दुर्ज्ञानत्वात् इत्याशयात् । न हि वेद इव काव्यादौ अध्यापक-अध्येतृ-परम्परया प्रातिशाख्यादि-लक्षणेन81 वा स्वराप्रच्युतिर् अस्ति । व्याकरणे च82 ‘एकाचो द्वे प्रथमस्य’ इत्य् अत्र ‘एकाचः’ इति बहुब्रीहिस् तत्पुरुषो वेति निर्णये स्वरो न हेतुर् इति कैयटः ; यदाह – स्वरस्य दुरवधारणत्वात् ऐकश्रुत्या वा सूत्र-पाठात् स्वरानिश्चयात् प्रश्नः - इति ॥

[४६५ ] ॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ॥ (1-2-37)

सुब्रह्मण्याख्ये निगदे ‘यज्ञ-कर्मणि’ इति ‘विभाषा छन्दसि’ इति च प्राप्ता एकश्रुतिर् न स्यात्, तत्रत्यस्य स्वरितस्य च उदात्तः स्यात् । ‘सुब्रह्मण्यो३म्79 इन्द्रागच्छ हरिव आगच्छ मैधातिथेः’ ।’ मेष-वृषणश्व॑स्य मेने’ । ‘गौरावस्कन्दिन्न् अहल्यायै जार । कौशिक-ब्राह्मण गौतम ब्रुवाण’ । ‘श्वः सुत्याम् आगच्छ मघवन् ’ । अयं च निगदः सुब्रह्मण्या-शब्दवत्त्वात् सुब्रह्मण्या-शब्दवाच्यः । सुब्रह्मणि साधुः सुब्रह्मण्यः । ‘तत्र साधुः’ इति यत् । तित्-स्वरितः । ततष् टापा सह एकादेश आन्तर्यात् स्वरितः । तत ओम्-शब्देन निपातेन ‘ओमाङोश्च’ [[P384]] इति पररूपम् । तच्च83 उदात्त-स्वरितयोः स्थाने भवद् आन्तर्यात् स्वरितः । न च ‘एकादेश उदात्तेनोदात्तः’ इत्युदात्तत्वं शङ्क्यम् ; तत्र ‘अनुदात्तस्य’ इत्यनुवृत्तेः84 उक्तत्वेन उदात्तानुदात्तयोर् एकादेश एव85 तत्प्रवृत्तेः इति कैयट-हरदत्तादयः । तस्य ‘स्वरितस्य तूदात्तः’ इत्युदात्तत्वम् । शिष्टं तु ‘अनुदात्तं पदम्’ इत्यनुदात्तम् । ‘इन्द्र’ इत्यामन्त्रितम् आद्युदात्तम् । आष्टमिको निघातस् तु भिन्न-वाक्यत्वान् न भवति । द्वितीयो वर्णोऽनुदात्तः86 । ‘उदात्ताद् अनुदात्तस्य’ इति स्वरितः । तस्य अनेन उदात्तत्वम् । न चास्मिन् कर्तव्ये स्वरितस्य असिद्धत्वम् ; नवसूत्र्युत्कर्षेण तदभावात् । अत एवास्मिन्न् उदात्ते शेष-निघातोऽपि87 न ; ‘अनुदात्तं पदम्’ इत्यस्मिन् कर्तव्येऽस्य88 असिद्धत्वात् । एवम्89 इन्द्र-शब्दे द्वाव् उदात्तौ । निपातत्वाद् आङ् आद्युदात्तः । ‘गच्छ’ इति ‘तिङतिङः’ इति निघातः90 । ‘उदात्ताद् अनुदात्तस्य’ इति गकाराकारस्य स्वरितत्वे तस्य अनेन91 उदात्तत्वम् । छकाराकारस् तु92 अनुदात्त एव । न च तस्यापि ‘उदात्ताद् अनुदात्तस्य’ इति स्वरितत्वेऽनेन उदात्तत्वं शङ्क्यम्93 ; ‘उदात्ताद् अनुदात्तस्य’ इति प्रकरणोत्कर्षेण94 प्रकृत-सूत्रोदात्तस्य असिद्धत्वात् । यत् तु स्वरमञ्जर्याम्—प्रकृत-सूत्रोदात्तात् परस्य स्वरितत्वम्, तस्य उदात्तत्वं च न भवति ; ‘न सुब्रह्मण्यायाम्’ इति निषेध-सामर्थ्यात् । ‘स्वरितस्य तु’ इति ग्रहण-सामर्थ्याच्च । अन्यथा ‘सुब्रह्मण्यायाम् उदात्तः’95 [[P385]] इत्येव ब्रूयात्’ इति, तत् नवसूत्र्युत्कर्षापरिज्ञान-विजृम्भितम् । अपि च सामर्थ्यम् अपि उक्तम् असिद्धम् ; ‘सुब्रह्मण्योम्’ इत्य् अत्र ओकार-व्यतिरिक्तानाम् ‘इन्द्रागच्छ’ इत्यादि-वाक्यान्तानाम् अचां च अनुदात्तत्वार्थं स्वरित-ग्रहणम्, ‘न सुब्रह्मण्यायाम्’ इति निषेधश् च इत्युपपत्तेः । वाक्यान्तानाम् अचान् न ‘उदात्ताद् अनुदात्तस्य’ इति स्वरितत्वम् ; ‘नोदात्त-स्वरितोदयम्’ इति निषेधात् । ‘सुब्रह्मण्यायाम् उदात्तः’ इत्युक्तौ हि सर्वेषाम् उदात्तत्व-प्रसङ्गः । हरि-शब्दात् मतुपि सम्बुद्धौ ‘मतुवसोः’ इति रुत्वम् । ‘छन्दसीरः’ इति वत्वम्96 । ‘हरिवः’ । अत्रापि पूर्ववत्97 द्वयोर् उदात्तत्वे वकाराकारोऽनुदात्तः । ‘आगच्छ’ इत्यत्रापि पूर्ववद् द्वाव् उदात्तौ । छोऽनुदात्तः । ‘मेधातिथेः’ इति षष्ठ्यन्तस्य पराङ्गवद्भावात् ‘मेधातिथेर् मेष’ इति वाक्ये ‘आमन्त्रितस्य च’ इत्यादिर् उदात्तः98 । धा-शब्दस्य ‘उदात्तात्’ इति स्वरितत्वे99 अनेन उदात्तत्वम् । ततश् चत्वारोऽनुदात्ताः100 । वृषाणोऽश्वा यस्य सः वृषणश्वः । ‘वृषण्वस्वश्वयोः’ इति भत्वान् नलोपाभावो णत्वं च । तस्य पराङ्गवद्भावात् ‘वृषणश्वस्य मेने’ इति वाक्ये पूर्ववत् द्वाव् उदात्तौ । इतरे पञ्च अनुदात्ताः । एवं ‘गौरावस्कन्दिन्न् अहल्यायै जार’, ‘कौशिक-ब्राह्मण गौतम ब्रुवाण’ इति वाक्य-चतुष्टयेऽपि द्वौ101 द्वाव् आदित उदात्तौ । इतरेऽनुदात्ताः । श्वश्-शब्द उदात्तो निपातत्वात् । सुत्या-शब्दोऽन्तोदात्तः ; ‘संज्ञायां समजनिषद’ इति क्यब्विधौ ‘उदात्तः’ इत्यनुवृत्तेः । ‘श्वस्-सुत्याम्’ इत्यस्य स्थाने ‘द्व्यहे सुत्याम्’ ‘त्र्यहे सुत्याम्’ इत्यर्भेदे पठन्ति । तत्र द्व्यह-त्र्यह-शब्दयोष् टजन्ततया अन्त उदात्तः । [[P386]] ‘आगच्छ’ इति पूर्ववत् स्वरः । ‘मघवन्’ । पदात् परत्वाद् आमन्त्रित-निघातः102 । यत् तु ‘सुब्रह्मण्या-शब्दस्य टेर् ओम् इत्यादेशः103 । स च आन्तर्यात् स्वरितः । तस्य अनेन उदात्तत्वम्’ इति स्वरमञ्जर्याम् उक्तम्, तद् अयुक्तम् ; निपातेन ओम्-शब्देन ‘ओमाङोश्च’ इति पररूपम् इति प्रागुक्त-कैयटादि-विरोधात् । टेः प्रणव-विधायक-शास्त्राभावाच्च । ‘प्रणवष् टेः’ इति सूत्रं104 तथा; तस्य सपाद-षड्-मन्त्र-विषयत्वस्य ‘प्रणवष् टेः’ इत्यस्य प्राग् दर्शितत्वेन105 प्रकृते यजुषि तदप्रवृत्तेः । ‘प्रणवष् टेः’ यज्ञ-कर्म-विषयत्वात्, ‘ये यज्ञ-कर्मणि’ इत्यतः ‘यज्ञ-कर्मणि’ इत्यस्य तत्रानुवृत्तेः । ‘सुब्रह्मण्योम्’ इति प्रणवस्य106 स्वाध्याय-कालेऽपि श्रवणात् । तत्र ‘उदात्तः’ इत्यनुवृत्त्यैव तस्योदात्तत्वे ‘स च आन्तर्यात् स्वरितस् तस्य अनेन उदात्तत्वम्’ इत्यस्य असङ्गति-प्रसङ्गाच्च107’ इति ।

वार्त्तिकानि

अत्र वार्त्तिकानि-

॥ असावित्यन्तः ॥

॥ अमुष्येत्यन्तः ॥

‘असौ’ ‘अमुष्य’ इति प्रथमान्तं षष्ठ्यन्तं च उपलक्ष्यते । अत्र निगदे अनयोर् अन्त उदात्तः । ‘दाक्षेर् गार्ग्यो यजते’ । ‘अमुष्य पिता यजते’ । ञित्-स्वरेण आद्युदात्तत्वं प्राप्तम् ॥

॥ स्यान्तस्योपोत्तमं च ॥

चाद् अन्तः । तेन द्वाव् उदात्तौ । ‘गार्ग्यस्य पिता यजते’ ॥

[[P387]] ॥ वा नामधेयस्य ॥

स्यान्तस्य नामधेयस्य उपोत्तमम् उदात्तं वा स्यात् । ‘देवदत्तस्य पिता यजते’ ॥

[४६६ ] ॥ ‘देवब्रह्मणोरनुदात्तः ॥108 (1-2-38)

अनयोः स्वरितस्य अनुदात्तः स्यात् । ‘सुब्रह्मण्यायां स्वरितस्य तूदात्तः’ इत्यस्य अयम् अपवादः । सुब्रह्मण्या-निगदे ‘मघवन्’ इत्यनन्तरम् ‘देवा ब्रह्माण आगच्छत’ इति पठ्यते । तत्र ‘देवा ब्रह्माणः’ इत्यामन्त्रितयोः सामानाधिकरण्यं केचिद् इच्छन्ति । अपरे वैयधिकरण्यम् । तत्र आद्यमते ‘विभाषितं विशेष-वचने बहुवचनम्109’ इत्याद्यस्य आमन्त्रितस्य पक्षे विद्यमानतया द्वितीयस्य110 पदात् परत्वाभावात् आमन्त्रिताद्युदात्तत्वे कर्तव्यम् । ‘देवाः’ इत्यस्य सिद्धम् इति ब्रह्म-ग्रहणं न कर्तव्यम् इति । इदम् एव स्वरितस्य अनुदात्त-वचनं लिङ्गं ‘तस्यादितः’ इत्यादि-नवसूत्र्युत्कर्षे । अन्यथा ‘उदात्ताद् अनुदात्तस्य’ स्वरितस्य असिद्धत्वेन कस्य अनुदात्त-विधानं स्यात् । ये तु [[P388]] ‘एकादेश उदात्तेन’ इत्य् अत्र अनुदात्त-पदं नानुवर्तयन्ति, तन्मते111 ‘स्वरितस्य तूदात्तः’ इत्येतद् अपि उत्कर्ष-ज्ञापकम् इति सिद्धम् ॥

इति श्रीसङ्कृतिकुल-जलधि-कौस्तुभस्य श्रीमदनन्ताम्बा-परिष्कृत-गृहमेधि-भावस्य श्रीकृष्णसूरेः सूनुना पद-वाक्य-प्रमाण-पारावार-पारीण-प्रज्ञा-समुल्लासेन112 श्रीनिवास-संख्यावता113 विरचितायां स्वर-सिद्धान्त-चन्द्रिकायाम् एकश्रुति-प्रकरणं समाप्तम् ॥

॥ समाप्ता चैषा कृतिः ॥ ॥ सर्वं साम्बशिवार्पणम् अस्तु ॥


  1. सम्बोधना घ. ↩︎

  2. इत्याङुदात्तम् घ. ↩︎

  3. अत्र क. नास्ति । ↩︎

  4. ऐकश्रुत्यम् क. अधिकम् । ↩︎

  5. वृत्तौ इत्यादि एकश्रुति: इत्यन्तं घ. नास्ति । ↩︎

  6. अभिक. नास्ति । ↩︎

  7. आशयेन सूत्रनारायण क. ↩︎

  8. इदं वाक्यं क. ङ. नास्ति । ↩︎

  9. रूपमुच्चारणमेकश्रुति क, ङ, ↩︎

  10. उच्चैर्निष्पन्नत्वरूपनीचैर्निष्पन्नत्वरूपौ क, ↩︎

  11. इत्यादीनि सूत्राणि घ. ↩︎

  12. ऐकश्रुत्यम् घ. नास्ति । ↩︎

  13. उदाहरणादीनां घ. ↩︎

  14. अपि घ. नास्ति । ↩︎

  15. इति घ. नास्ति । ↩︎

  16. -प्रतिपत्तये घ. ↩︎

  17. एव क. नास्ति । ↩︎

  18. एकश्रुतिपक्षे क. ↩︎

  19. स्वेच्छया क. ङ. ↩︎

  20. नित्स्वरेण आद्युदात्तत्वात् घ. ↩︎

  21. ततश्च घ. ↩︎

  22. तु क. नास्ति । ↩︎

  23. अत्र क. ↩︎

  24. -वचन: घ. ङ. ↩︎

  25. प्रयुज्यमानाः क. ↩︎

  26. सम्प्रेषे मन्त्रः क. सम्प्रेषपक्षे घ. ↩︎

  27. ह्वयति घ. ↩︎

  28. आह्वानार्थत्वे घ. ↩︎

  29. अभिव्यक्तक. ↩︎

  30. -प्रयोगं घ. ↩︎

  31. -मन्त्रेषु घ. ↩︎

  32. श्रुतेः घ. ↩︎

  33. आज्यजपम् ; तेषु क. ↩︎

  34. -विमोचनम् । न तु स्वयं दृष्ट्वा तृतीयाम्….क. ↩︎

  35. जपस्य क. ↩︎

  36. चातुस्स्वर्यमेव क. ↩︎

    • सूत्रस्य घ. ङ.
     ↩︎
  37. जपेति चोदितः घ. ↩︎

  38. तद्विशिष्टभावक्रियायां क. ↩︎

  39. उदात्ततरां क. ↩︎

  40. विधानम् घ. नास्ति । ↩︎

  41. स वषट्कारः घ. ↩︎

  42. वषट्कारं मां प्रमृक्षः घ ↩︎

  43. वषट्कारो ऽन्त्यः घ. ↩︎

  44. वषट्शब्दे घ. ↩︎

  45. -शब्दस्य घ. नास्ति । ↩︎

  46. वषट्कारः घ ↩︎

  47. समामनन्ति इत्याद्यापस्तम्बसूत्र- घ. ↩︎

  48. प्रसिद्धवषडादयः षट् घ. अधिकम् । ↩︎

  49. आहुतिं घ. ↩︎

  50. सम्पादयेत् क. ↩︎

  51. अंदवहोमानां क. ↩︎

  52. वा भवति’ इति सूत्रम् व्याख्याय क. ↩︎

  53. पाक्षिकैकश्रुत्यमुदाहृतम् क. ↩︎

  54. -सिद्धमिति ख. घ. ङ. ↩︎

  55. इत्याद्यारण्यक- घ. ↩︎

  56. एव घ. ↩︎

  57. छन्दोग्रहणस्य च घ. नास्ति । ↩︎

  58. इति घ. नास्ति । ↩︎

  59. अनुवर्तत एव घ. ↩︎

  60. एव घ. नास्ति । ↩︎

  61. -ग्रहणस्य वैयर्थ्यमेवेति घ. ↩︎

  62. तत्रावृत्त्यादिना क ↩︎

  63. सर्वनाम्नः एक घ. ↩︎

  64. वृत्तिकृताप्येतत्समर्थितम् घ. ↩︎

  65. अनुदात्तानीति ङ. ↩︎

  66. भाष्योक्तिर्न लोके क. ↩︎

  67. सूत्राणीति भाष्याभिप्रायेणापि घ ↩︎

  68. सूत्रे क. नास्ति । ↩︎

  69. स्वरकौमुद्यामुक्तम् क. ↩︎

  70. एवं च घ. ↩︎

  71. ऐकश्रुत्येन घ, ↩︎

  72. वाक्यं ङ. ↩︎

    • काव्यादिनिर्माणमपि क.
     ↩︎
  73. श्लेषवाक्यत्वस्य घ. ↩︎

  74. तत्र स्वराद्याश्रयणस्य वैयर्थ्यात् । वेदे व्यवस्थितो घ. ↩︎

  75. विकल्पवैषम्यं द्योतयितुं ङ. ↩︎

  76. मेव पर्यायाघ. ↩︎

  77. पदं घ. नास्ति । ↩︎ ↩︎

  78. तदानीन्तनैः क. ↩︎

  79. लक्षणया अपि घ. ↩︎

  80. च घ. ↩︎

  81. पररूपैकादेशः । स चोदात्त- क. ङ. ↩︎

  82. इत्यनुवृत्तत्वेन क. ↩︎

  83. एव घ. नास्ति । ↩︎

  84. द्वितीयस्यानुदात्तस्य घ. ↩︎

  85. अपि क. नास्ति । ↩︎

  86. इति निघाते कार्येऽस्य घ. ↩︎

  87. एवम् घ. नास्ति । ↩︎

  88. इति तिङन्तस्य निघातः घ. ↩︎

  89. स्वरितस्य गकाराकारस्यानेन स्वर उदात्तः घ. ↩︎

  90. तु घ. नास्ति । ↩︎

  91. स्वरितत्वमनेनोदात्तत्वं च शङ्क्यम् क. ↩︎

  92. कर्तव्ये प्रकरणोत्कर्षेण क. ↩︎

  93. उदात्तः ङ. नास्ति । ↩︎

  94. मतुपो मस्य वः क. ↩︎

  95. पूर्ववत् घ. नास्ति । ↩︎

  96. आमन्त्रिताद्युदात्तः क. ↩︎

  97. तस्य ‘उदात्तादनुदात्तस्य’ इति स्वरितस्य अनेन घ. ↩︎

  98. ततश्चत्वारोऽनुदात्ताः घ. अधिकम् । ↩︎

  99. द्वौ क. नास्ति । ↩︎

  100. मघवन्…निघातः घ नास्ति । ↩︎

  101. टेरित्ययमादेशः घ. ↩︎

  102. सूत्रम् क. नास्ति । ↩︎

  103. दर्शितत्वात् क. ↩︎

  104. यज्ञ… प्रणवस्य घ. नास्ति । ↩︎

  105. असङ्गतिप्रसङ्गाच्च घ. ↩︎

  106. सूत्रमिदम्, देवा ब्रह्माण आगच्छतेत्यन्तं तद्व्याख्यानं च क. ख. न दृश्यते । ↩︎

  107. बहुवचनं क. अधिकम् । ↩︎

  108. द्वितीयामन्त्रितनिघातः सिद्धः इति घ. ↩︎

  109. तेषां मते क. ↩︎

  110. पारावारीणप्रज्ञा घ. ↩︎

  111. संख्यावता घ. नास्ति । ↩︎