॥ अथ प्लुतस्वरः ॥ [४३५] ॥ वाक्यस्य टेः प्लुत उदात्तः ॥ (8-2-82) इदं पदचतुष्टयमधिक्रियते आ पादपरिसमाप्तेः ॥ [४३६ ] ॥ प्रत्यभिवादेऽशूद्रे ॥ (8–2–83) । अशूद्रविषये प्लुतसंशब्दनात् अचश्च इत्युपतिष्ठते । प्रत्यभिवादे यद्वाक्यं वर्तते, तस्य यः टिः, तस्य अचः प्लुतः स्यात् ; स च उदात्तः 1 शिष्यादिभिराशिषं प्रयोज्यमाने. गुर्वादिर्यदाशिषं प्रयुङ्क्ते स प्रत्यभिवाद इत्याहुः । प्रत्यभिवाद- वाक्यानन्तरम् अकारश्च प्रयोक्तव्यः ॥ आयुष्मान् भव’ सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्वास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ " इति मनुस्मरणात् । “विप्रग्रहणं त्रैवर्णिकोपलक्षणम् । ‘आयुष्मान् भव सौम्य’ इति अभिवादयिता वाच्यः 1 तथा अकारोऽपि तस्य नाम्नोऽन्ते वाच्यः । कीदृशोऽकारः ? पूर्वाक्षरः प्लुतः । केवलो व्यञ्जनान्तश्च स्वरोऽक्षरम् । नाम्नोऽन्त्यः स्वरः प्लुतो केवलमदृष्टप्रत्यभिवादनवाक्याद्वहिर्भूतः वाच्यः अकारश्व । प्रयोजनो वाच्य इति तदर्थः " इति मनुव्याख्यातारः । व्याकरणे
- एधि घ.
- विप्रग्रहणम्…..केवलः
- प्लुताक्षरः घ. 4. तत् घ. नास्ति । इत्यन्तम् Shri pin मास्ति Col. Deoband. In Public Domain. ३५०
स्वर सिद्धान्तचन्द्रिकायाम् [सू. ४३६ 1 तु अयमकारो न विहितः । यत् अर्थाभिधाने उपयुज्यते, तदेव हि व्याकरणेन अनुशिष्यते । अकारश्च अयम् अदृष्टाय प्रयुज्यते इति हरदत्तः । यत्तु अस्य नाम्नोऽन्ते योऽकारः’ स प्लुतो वाच्यः । अकार इत्यजुपलक्षणम् । पूर्वाक्षरश्च प्लुतो वाच्यः हलन्तविषयमेतत् । हलन्तेषु अन्त्यात् पूर्वोऽच् प्लुतः कार्य इति यावत् । एवं च मनुस्मृतावपि अकारोऽदृष्टार्थो न विहितः । उक्तगत्या टेः प्लुतो भवति इत्येव तदर्थपर्यवसानात्’ इति केषाञ्चिद्व्याख्यानम्, तत् अनक्षरार्थत्वादिना हरदत्तेन दूषितम् । तदयं ‘प्रत्यभिवादनप्रयोगः– आयुष्मान् सौम्य देवदत्तः अ भव ’ प्लुतप्रगृह्या अचि’ इति प्रकृतिभावान्न’ सवर्णदीर्घः । भाष्यकाशिकयोस्तु ‘आयुष्मानेधि देवदत्त३’ इत्याद्युदाहृतम् । 1 आयुष्मान् भव सौम्य’ इति मनुस्मृतौ’ ‘भव’ इत्यर्थग्रहणम् इति तदाशय इति हरदत्तः प्रयुक्तः ; तत्र अस्तेर्लोटि ‘एधि’ इति रूपम् । सौम्यशब्दस्तु न । प्लुतोदाहरणमात्रतात्पर्येण स्मृत्यर्थानुपसंहारादित्याहु: " 1 इकारोकारान्तयोस्तु नाम्नोः सम्बुद्धौ ’ ह्रस्वस्य गुणः’ इति गुणे ’ एङ् हस्वात् सम्बुद्धे:’’ इति सम्बुद्धिलोपे च एजन्तं रूपम् । ‘एचोऽप्रगृह्यस्य’ इति वक्ष्यमाणे प्लुतविकारे पति, अकारे परतः ’ तयोर्खाविचि’ इति प्लुतविकारस्य यणादेशो भवति । ‘आयुष्मान् भव सौम्य पिनाकपाणा३य’ । ’ शम्भा३व’ । ऋकारान्ते तु ‘ऋतो ङि’ इति गुणे रपरे टेरचः प्लुतः । ’ पित३र’ । ऌकारान्तम् यदि नाम, तर्हि ऋकारः प्लुतो वाच्यः" । ततो रेफोपर्यकारः । एकारान्तस्येकारान्तवत् प्रयोगः । ओकारान्ते तु
- प्रयुज्यते क. अधिकम् ।
- प्रत्यभिवादन-
- भावो न घ.
- मनुस्मरणे घ.
- गुण इति क. नास्ति । ङ, नास्ति कृ… shan Kuma
- ‘एङ् हस्वात् सम्बुद्धेः’ इति क. नास्ति 1
- रपरत्वे टेरचि घ. ङ.
- ऋकारान्तमपि घ.
- कार्य:
सू. ४३६] ‘गोतो णित्’
प्लुत स्वर करणम् ३५१ इत्यत्र गोग्रहणस्यौकारान्तोपलक्षणार्थत्वाण्णिद्वद्भावे’ वृद्धौ ’ गौ३२’ ‘द्यौर’ इत्यादि भवति । प्लुतविकारस्तु न भवति : वाक्यान्तस्यैव एचस्तद्विधेरिति वक्ष्यते । एवम् - ऐकारान्तौकारान्तयोरांपे ऊह्यम् । हलन्ते तु ‘अग्निचि३त ’ सोमसुत’ इत्युदाहृतम् आकरे । जश्त्वे’ ’ अग्निचि३द’ इत्युदाहार्यमिति अन्ये । अयं च प्लुतः यत्र अभिवादनवाक्यान्तसङ्कीर्तितं नाम, अपत्यप्रत्ययान्तलक्षणगोत्रं वा प्रत्यभिवादनवाक्यान्ते प्रयुज्यते, तत्रैव । इदं च न्यायसिद्धम् ; प्रधाने कार्यसम्प्रत्ययात् प्रधानभूते शब्दे प्लुतेन भाव्यम् 1 शब्दस्य च’ अर्थद्वारकं प्राधान्यम् । अभिवादयिता च अत्र प्रधानम् ; आशीरादेः सर्वस्य तदर्थत्वात् । अतस्तदुपस्थापके नामनि गोत्रे वा प्लुतः, नान्यत्र तेनेह न – ‘देवदत्त कुशल्येधि’ ‘देवदत्त आयुष्मानेधि ’ इति भाष्यादौ स्थितम् । इष्टिरेवेयम् इति केचित् । न चैवम् । आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने’ इति मानवविरोधः ; ’ देवदत्त’ कुशल्येधि’ इति वृत्तिभाष्यादिप्रयोगानुरोधात्" ‘आयुष्मान्’ इत्यादौ अर्थग्रहणात् । अत एव ‘एधि ’ इति वृत्तिप्रयोगात् ‘भव’ इत्यर्थग्रहणम् इति हरदत्तेनोक्तम् । एवं च ’ वाच्यः पूर्वाक्षरः प्लुतः’ इत्यपि नाम्नो गोत्रस्य वा " यदा प्रत्यभिवादनवाक्यान्ते प्रयोगस्तदभिप्रायमिति व्याख्येयम् इदं त्ववधेयम् – ‘आयुष्मान् भव देवदत्त’ इत्यादौ अनन्त्यस्यापि पर्यायेण प्लुतो ’ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य गुरोः लभ्यते, ।
- णिद्वत्वे घ.
- हलन्तेषु घ.
- ऐकारौकारान्तयोः घ.
- इत्यादि घ
- च क. नास्ति ।
- -दत्त घ. नास्ति ।
- यत्तु घ.
- -अनुरोधेन घ.
-
- वाक्यसङ्कीर्तनम् घ.
- वा क. नास्ति ।
- भवितव्यम् घ.
३५२ ।
स्वरसिद्धान्तचन्द्रिकायाम् 1 [सू. ४३.६ प्राचाम्’ इति सूत्रात् । एवं च तत्र प्राचां ग्रहणस्य विकल्पार्थत्वात् पक्षे न कस्यचित् प्लुतः न च ’ गुरोरनृत: ’ इति सूत्रात् अत्र’ कथमेवं लाभ इति वाच्यम् ; यतस्तत्र काशिकायामुक्तम् " ’ प्रत्यभिवादे’ इत्यादिना यः प्लुतो विहितस्तस्यैव अयं स्थानविशेष उच्यते । उच्यते । प्राचां ग्रहणं विकल्पार्थम् आयुष्मानेधि दवदत्त’ "" इति । हरदत्तोऽपि उक्तं वृत्तिग्रन्थम् ’ क्वचित् पठ्यते ’ इत्युपक्रम्य अनूद्य, ‘नेदं स्वतन्त्रं प्लुतविधानम्’ इत्यादिना व्याख्याय, ‘तेन ‘प्रत्यभिवाद्यमानार्थस्य च पदस्येदं प्लुतविधानं यत्र तत्रस्थस्य गुरोरिति द्रष्टव्यम् । प्राचां ग्रहणं विकल्पार्थम् इति । तेन पक्षे न कस्यचिदपि प्लुतो भवति’ इत्याह 1 ‘अमीत्प्रेषणे परस्य च इति सूत्रे ‘सर्वः प्लुतः साहसमनिच्छता विभाषा कर्तव्यः’ इति वदतो भाष्यकारस्यापि सम्मतमिदम् । एवं च ( वाच्यः पूर्वाक्षरः प्लुतः ’ ‘प्लावनं च नाम्नः’ इति नित्यवदानातमपि मन्वापस्तम्बादिस्मरणं विकल्पपरतया व्याख्येयम् ; व्याकरणोपसंहारात्’ । ’ एचोऽप्रगृह्यस्य एचोऽप्रगृह्यस्य’ इत्यादिप्लुतविकारस्य मन्त्रादिभिः अनुक्तत्वेन तदर्थं व्याकरणोपसंहारस्य आवश्यकत्वात् इति ॥ स्यादेतत् - यदि प्रत्यभिवादे प्लुतो न नियतः, तदा- ‘अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः । कामं तेषु तु · विप्रोष्य स्त्रीष्विवायमहं वदेत् ॥’ इति ‘पस्पशाभाष्योक्तवचनविरोधः । ’ स्त्रीवन्मा भूम इत्यध्येयं व्याकरणम्’ इति तत्रत्यभाष्यानुपपत्तिश्च ; प्लुत्यज्ञानेऽपि प्रत्यभिवादनोपपत्तेरिति । अत्राहु: - ’ प्लुतिग्रहणं प्रत्यभिवादप्रकारोपलक्षणम् ; 5.
- तु घ. अधिकम् । 2. प्राचां ग्रहणस्य विकल्पार्थत्वात् घ. 6.
- प्रत्यभ्युद्यमानार्थस्य क.
- वक्तव्यः व्याकरणेनोपसंहारात् घ. नियमेन प्लुतिं विदुः । कामान्धेषु च विप्रेषु घ. Tc-0. Shri Vipin Kumar Col. Deo भ्रान्त हुन जानघ. ङ.सूं . १३६]
प्लुत स्वरप्रकरणम् ३५३ ये प्रत्यभिवादप्रकारं न जानन्ति ते नाभिवादका: ’ ’ इति 1 यद्वा ; ‘प्लुतानभिज्ञानामभिवादनं निषिध्यते प्रत्यभिवादे प्लुता- ’ देवदत्त’ इत्यादौ नैयत्येऽपि’ इति । इदं तु विचार्यम् – यदा ‘देवदत्त अनन्त्यस्य गुरोः प्लुतः, यदाच न कस्यचित् प्लुतः, तदा < अकार- श्वास्य नाम्नोऽन्ते’ इति विहितोऽकारः प्रयोक्तव्यो न वेति अथ वाक्यस्य इति किमर्थम् ? वाक्यस्थानां सर्वेषां पदानां मा भूत् । अन्यथा पदस्य’ इत्यनुवृत्तेः प्रतिपदं वाक्ये टेः प्लुत: प्रसज्येत + इत्याहुः । टिग्रहणं व्यञ्जनान्तानामपि टेरचः प्लुतो यथा स्यादिति । अन्यथा प्लुतश्रुत्या अच्परिभाषोपस्थानात् वाक्यविशेषणत्वात्तदन्तविधौ अजन्तस्य वाक्यस्य प्लुतः यथा नपुंसकह्रस्वत्वम् ’ ग्रामणि कुलम्’ इत्यादी अजन्त अचो स्यात्, 6 एव भवति, न तु सुवाक् इत्यादौ । दिना अज्विशेष्यत इति इष्टसिद्धिः । टिग्रहणे तु तत्सामर्थ्यात् अशूद्र इति किम् ? ( अत्यल्प - ‘आयुष्मानेधि तुषजक’ इति भाष्यवृत्त्यादौ’ । तुषज जुगुप्सायाम् इति स्मृतेरेवंविधं तस्य नाम । ततः कुत्सिते कः 1 मिदमुच्यते अशूद्रस्त्र्यसूयकेष्विति वक्तव्यम्° ? इति भाष्ये । स्त्रियाम् ‘आयुष्मती अव गार्गि 1 ‘स्त्रीणामपि नामगोत्राभ्या- मभिवादप्रत्यभिवादौ हत इति मते हरदत्तः । अविनीतोऽसूयकः तस्मिन् स हि यावदसूयकत्वेन न ज्ञातः, यदा तु असूयकोऽयं मामुपहसितुकाम’
- प्रत्यभिवादे प्रकारं क. 2. नाभिवादनीयाः क. निषेधोऽयमारब्धः’ इति प्रतिषेधो न वक्तव्यः 1 भवितव्यमेव तावत् प्लुतेन । इति जानाति, तदा न स्मृतेः । एवंविधं तस्य नाम । अत्यल्पम् क. ङ. नास्ति ।
- प्रत्यभिवादने क.
- स्यात् घ.
- भाष्यम् घ.
- वक्तव्यम् ङ.
- गार्गीति क. क. 8. न नास्ति । भाष्यवृत्त्यादौ । कुत्सिते कः । 9. मामुपहसितुकामोऽयम् क. अशूद्रस्य तु जुगुप्सितमिति स्वc - 0253i Vipin Kumar Col. Deoband. In Public Domain. ङ. ३५४
स्वरसिद्धान्तचन्द्रिकायाम् [सू. ४३७ प्रत्यभिवादनं प्रयुङ्क्ते ; प्रत्युत शापमेव ददाति । तदुक्तं भाष्ये—’ असूयकस्त्वं’ जाल्म, त्वं न प्रत्यभिवादनमर्हसि, भिद्यस्व वृषलस्थालिन् ’ ’ इति ॥ (वा) भोराजन्यविशां वेति वक्तव्यम् ॥ " ’ भो:’ इति स्वरूपग्रहणम् । तस्य च ‘संज्ञागोत्रत्वाभावात् अप्राप्ते विभाषा ; इतरयोस्तु तन्नाम्नोर्ग्रहणं प्राप्तविभाषा च " इति हरदत्तः । ‘आयुष्मानेधि देवदत्त भो३: ’ | ‘आयुष्मानेधीन्द्रवर्म३न् ’ । ‘आयुष्मानेधीन्द्रपालित३’ । पझे प्लुतरहितमुदाहार्यम् । ‘सर्वः प्लुतः ’ इति वचनं भाष्यकृत इति राजन्यविशोर्न ‘वार्त्तिकवैफल्यम् ॥ [४३७] ॥ दूराद्धूते च ॥ (8–2–84) हूतं ह्वानम् । भावे निष्ठा । हूतग्रहणं सम्बोधनमात्रोपलक्षणम् । दूरात् सम्बोधने यद्वाक्यं ● वर्तते’, तस्य टेः प्लुत उदात्तः । ’ आगच्छ भो माणवक देवदत्त३’ । ’ एकश्रुति दूरात् सम्बुद्धौ’ इति टेरन्यत्र वाक्यमेकश्रुति’ । वाक्यमेकश्रुति" । प्लुतविषये’ तु निरवकाशत्वात् प्लुतेनैक श्रुत्यबाधः 1 यत्र स्थितस्य प्राकृतात् प्रयत्नात् प्रयत्नविशेषे उपादीयमान एव शब्दः श्रूयते, तदिह दूरत्वेन विवक्षितम् इति दूरत्वस्य अव्यवस्थितत्वात् प्लुतस्यापि अव्यवस्था इति न चोदनीयम् । हूतम् इत्यनेन सम्बोधनोपलक्षणात् 5. वार्त्तिकक नास्ति ।
- कथकस्त्वं क. 2. -स्थायिम् क.
- स्थालिम् ख.
- असंज्ञागोत्रत्वात् क. ङ.
- च क. नास्ति । •
- वर्तते क. नास्ति ।
- यज्ञदत्त ङ.
एकश्रुतिः क. क. 9. प्लुताविषयकत्वात Domain.
सू. ४३८] आह्वानाभावेऽपि
प्लुतस्वरप्रकरणम् ३५५ भवति । ’ सक्तून् पिब देवदत्त३ ’ ’ ब्रह्म३न् यशौ ममाँ४’ । त्व राजन् ’ । ’ लाजि३न् शाचिश्न् सुश्लोकाँ४’ ‘सुमङ्गलाँ४’ इत्यादौ ‘दूराधूते च’ इति प्लुत इति वेदभाष्यम् । ’ एकश्रुति दूरात् सम्बुद्धौ’ इत्यैकश्रुत्यं तु न, व्यत्ययात् । आमन्त्रिताद्युदात्तत्वम् । प्लुतोदात्तस्य असिद्धत्वादुभयोः समावेशः ॥ प्लुत [४३८] | हैप्रयोगे हैहयोः ॥ ( 8–2–85 ) दूराद्भूते यद्वाक्यं वर्तते’ तत्र हैहेशब्दयोः प्रयोगे तयोः उदात्तो भवति 1 हूयमानवाचिनो वाक्यान्तस्थितस्य पूर्वेण प्लुतः ’ प्रधाने कार्यसम्प्रत्ययः’ इति न्यायात् हैहयो: अतदर्थत्वान्न प्रप्नोतीति वचनम् । देवदत्त है ३ ’ ’ है देवदत्त ३ ’ । एवं शब्देऽपि + ऊह्यम् । हैहयोरिति किम् ? तयोः प्लुतो यथा स्यात् ; अन्यथा’ अनन्त्यस्यापि हूयमानवाचिन’ एव आरम्भसामर्थ्यात् प्लुतः स्यात् । हेप्रयोगग्रहणं तु व्यर्थम् तदभावे ’ हे ३ देवदत्त’ इत्यत्र न स्यात्, अनन्त्यत्वात्, अतो हैहे प्रयोगमात्रे यथा स्यादिति तद्ग्रहणम् सति सूत्रवैयर्थ्यांत् । ‘देवदत्त हे३’ इत्यत्र । न च इति वाच्यम् ; एवं शब्दद्योत्य सम्बोधनस्य प्रथमप्रवृत्तामन्त्रि तेनैव द्योतितत्वेन देशब्दस्य आनर्थक्यात् एतत्सूत्राप्रवृत्तेः । तस्मादारम्भसामर्थ्यात् उक्तबाधकद्वयमपि बाधित्वा उभयत्र तयोः प्लुतसिद्धेः तत्पदवैयर्थ्यम् । नास्ति ।
- वर्तते क. 2. हैहयो: क. 3. हैहेशब्दयोः घ. 4. हे देवदत्त इत्यत्रापि क. 5. हृति घ. नास्ति । ‘प्रयोगे हैहयो:’ इत्येवास्तु ;
- अन्यथा क. नास्ति ।
- -वाचिनः क. नास्ति । 8. देशब्दद्योत्यस्य सम्बोधनस्य घ. 9. प्रथमप्रयुक्तामन्त्रितेनैव ङ,
स्वरसिद्धान्तचन्द्रिकायाम् ३५६ सन्निधानात् हैहे प्रयोगलाभात् । ततश्च सू. ४३९] प्रयोगग्रहणसामर्थ्यादेव हैहेप्रयोगमात्रे भविष्यतीति । न च ’ हे३ देवदत्त’ इत्युदाहरणे पूर्वेण वाक्यान्तस्य टेः प्लुतोऽस्तु ; अविरोधादुभयोः सम्भवादिति वाच्यम् ; तक्रकौण्डिन्यन्यायेन सत्यपि सम्भवे हैहेप्लुतस्य वाक्यान्तटिप्लुतबाध कत्वात्’ इति हरदत्तः ॥ [४३९] ॥ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ॥ (8–2–86) यः ऋकारभिन्नस्य अनन्त्यस्यापि गुरोः, अपिशब्दात् अन्त्यस्यापि टेरेकैकस्य प्लुतो भवति प्राचां मते । प्रत्यभिवादे दूराद्धूते च प्लुतो विहितः, तस्यैव अयं स्थानविशेषविधिः, न तु इदमपूर्व प्लुतविधानमित्युक्तम् । तेन तत्रत्योदाहरणेषु पर्यायेण प्लुत उदाहार्यः । प्राचां ग्रहणस्य न कस्यचित् प्लुतः । ’ अनृतः ऋकारस्य न प्लुतः । एकैकग्रहणं अनन्त्यस्यापि गुरोः विकल्पार्थत्वात् पक्षे इति वचनात् कृष्णमित्रशब्दे पर्यायार्थम् । न च ‘अनुदात्तं पदमेकवर्जम्’ इति वचनात् उदात्तस्य अनेकस्य प्लुतस्य यौगपद्यासम्भवे सिद्ध: पर्याय इति वाच्यम् ; ’ पूर्वत्रासिद्धम्’ इति प्लुतस्य’ असिद्धत्वेन ‘अनुदात्तं पदम्’ इति परिभाषायाः तदेकवाक्यत्वाभावात् । तत्र कार्यकालपक्षाश्रयणे च उदात्तादनुदात्तस्य स्वरित: ‘, उदात्तस्वरितयोर्यण: ’ इत्यादावपि तंदेकवाक्यतापत्तौ तत्सूत्रविहितस्वरितमादाय शेषनिघातप्रसङ्गः । न. चेष्टापत्तिः ; ’ उदात्तादनुदात्तस्य’ इति सूत्रस्थवृत्त्यादिग्रन्थविरोधात् । यज्ञस्य॑ घोषत्’ अजा मेः’ इत्यादिप्रयोगविरोधाच्च । यत्तु अत्र 6
- अपि क. नास्ति ।
- स्थानिघ.
- प्लुतस्य प्लुतस्य क. नास्ति । 4. प्लुतविधेः रू.
सू. ४४० ]
प्लुत स्वरप्रकरणम् ३५७ सूत्रे भाष्ये हरदत्तग्रन्थादिषु अस्याः परिभाषायाः कार्यकालत्वमङ्गीकृत्य ’ शोभनः खल्वसि देवदत्त’ इत्यादौ ‘अनुदात्तं प्रश्नान्ताभिपूजि - तयो:’ इति सूत्रेण विधीयमानानामनुदात्तप्लुतानां समावेशनिवृत्तिः एकैकग्रहणस्य फलम् इत्युक्तम्, ‘तत् उक्तपरिभाषायाः कार्यकालत्वाभ्युपगमेऽपि नैकैकग्रहणवैयर्थ्यम् इत्येवम्परम्, न तु अस्य वस्तुतः कार्यकालत्वम् ; उक्तदोषात् । ’ न मु ने’ इति सूत्रे हरदत्तेनैव अत्र परिभाषायां कार्यकालपक्षस्य दुष्टत्वप्रतिपादनाच्च । ‘अनन्त्यस्यापि ’ इति अपिशब्देन प्रकृतष्टिः समुच्चीयते, अनन्त्यस्यापि ‘गुरोः अन्त्यस्यापि टेः इति, न तु सन्निहितोऽपि गुरुः । तेन प्रकृतसूत्रविहितगुरुस्थानिक प्लुतानामेकैकग्रहणात् पर्यायेऽपि पूर्वसूत्रेण लघोरन्त्यस्य यः प्लुतः तस्य गुरुप्लुतस्य च ‘वचन समावेशः स्यादिति न’ शङ्कनीयम् ; अपिशब्देन टिप्लुतसमुच्चयात् तस्यापि पर्यायत्वसिद्धेरिति । अत्र ‘प्राचाम्’ इति योगं विभज्य सर्वप्लुत विधिशेषत्वेन व्याख्यानात् ‘सर्वः प्लुतः साहसमनिच्छता विभाषा कर्तव्यः’ इति भष्योपपत्तिरिति हरदत्तादयः 1 साहसम् - शास्त्रत्यागः । तेन शाखमत्यजतापि अभियुक्तस्मरणात् सर्व एव प्लुतो विभाषा विधेय इत्यर्थ:’ इति हरदत्तः ॥ [ ४४० ] ॥ ओमभ्यादाने ॥ (8–2–87) अभ्यादनमारम्भः । तन य ओमशब्दस्तस्य प्लुत उदात्तः स्यात् । ‘अच्परिभाषोपस्थानात् अच एवायं प्लुतः । मकारस्त्वर्धमात्रः ।
- तदुक्त- तदुक्तघ. नास्ति ।
- एकैकवैयर्थ्यम् घ. ।
- क्वचन क. नास्ति ।
- न घ. नास्ति ।
वक्तव्यम् घ. 4. अनन्त्यस्यापि पूर्वसूत्रेण लघो० 8. स्यात् क. अधिकम् । रन्त्यस्य यः 3. टिः प्रकृतः घ.
३५८
स्वरसिद्धान्तचन्द्रिकायाम् : [सू. ४४० तेन समुदायः अर्धचतुष्टयमात्रः’ सम्पद्यते ’ इति हरदत्तः । प्रातिशाख्ये तु प्रणवस्थस्यौकारस्य अर्धतृतीयमात्रत्वमुक्तम् । तथा च सूत्रम् ओकारं तु प्रणव एकेऽर्धतृतीयमात्रं ब्रुवते’ इति । ( तै. प्रा. अ. १८. सू. १) " प्रणव इति सप्तम्यन्तम् । प्रणवस्थमोकारम् इत्यर्थः । अर्धं तृतीयं ययोस्ते, अर्धतृतीये मात्रे यस्यासौ अर्धतृतीयमात्रम् । इदं ‘चार्धतृतीयत्वविधानम् आरम्भप्रणवविषयमपि " इति " ’ समुद्रो बन्धुः । ओम्’ । त्रिभाष्यरत्नकृन्मतम् । अत येभ्य॑श्चैनत् प्राहुः । ओम्’ ओम् । इषे अत एव तत्र 1 , इषे त्वोर्जे’ । ओम् । ब्रह्म॒ सन्ध॑त्त॒म् ब्रह्म सन्ध॑त्त॒म् " इत्याद्युदाहृत्य “कालनिर्णयेऽपि एवं निर्णीतम्- ’ स्वाध्यायारम्भशेषस्य प्रणवस्य स्वरस्य च । अध्यायस्यानुवाकस्यान्ते स्यादर्धतृतीयता ॥ ’ इति कालनिर्णयशिक्षावचनमपि उपष्टम्भकत्वेन लिखितम् । कालनिर्णयटीकायां तु उक्तश्लोकपूर्वार्धे चकारेण ‘त्रिमात्रत्वं प्रयोगे तु ’ इति पूर्वश्लोकस्थं त्रिमात्रत्वपदम् ’ आकृष्य ’ स्वाध्यायारम्भाङ्गप्रणवस्य ’ यः स्वर ओकारः’ तस्य त्रिमात्रत्वम् ; स्वरस्य त्रिमात्रत्वे मकारस्य एकमात्रत्वम् ; ‘प्लुताद्दीर्घात् केवलाञ्चैकमात्रकः’ इति कालनिर्णय एव मकारस्यैकमात्रत्वविधेः । अध्यायानुवाकयोस्तु तस्यार्धतृतीयता’ इति वाक्यभेदेन व्याख्यातम् । इदमेव युक्तम्, व्याकरणानुसारात् । उक्तचकारस्वरसात् । ‘प्रारम्भकः प्रणवश्चतुर्मात्र:’ इति सर्वसम्मतशिक्षावचनाच्च । प्रातिशाख्ये प्रणवस्य स्वरान्तरविधावप्युदात्तत्वमेव इष्टम् ; ‘उदात्तो वाल्मीके: ’ (तै. प्रा. १७. सू. ६) इति सूत्रस्यैव’ सिद्धान्तितत्वादिति दिक् ॥
- अर्धचतुर्मात्रः घ.
- प्रणवस्थं ओङ्कारम् घ.
- चात्र तृतीयत्वघ. अ.
-
- आरम्भाङ्गस्य प्रणवस्य घ.
- ओङ्कारः घ. 7 सूत्रस्य केवलं व
- त्रिमात्रत्वमिति षदं०. Shi, Vipin Kumar Col. Deoband. In Public Domain. सू. ४४२ ]
प्लुत स्वरप्रकरणम् [ ४४१] ॥ ये यज्ञकर्मणि ॥ (8-2-88) ३५९ यज्ञकर्मणि येशब्दस्य प्लुत उदात्तो भवति । ‘ये ३ यजामहे’ । यज्ञकर्मणि’ किम् ? ‘ये यजा॑मह॒ इति॒ पञ्चा॑क्षरम् ’ । ‘ये यजामहे’ इत्यत्रैव अयं प्लुत इष्यते । तदिह न – ‘ये दैवा दि॒व्येदश॒ स्थ । तदुक्तम् – ‘ये यज्ञकर्मणि इत्यतिप्रसक्तः ’ ’ । ‘सिद्धं तु ये यजामहे इति ब्रूह्यादिषूपसंख्यानात्’ इति । पितृयज्ञे ‘ये स्वधामहे’ इत्यत्र ये यजामहेस्थानापत्त्या प्लुतसिद्धिः ! [४४२ ] ॥ प्रणवष्टेः ॥ (8-2-89) , पादस्य अर्धर्चस्य वा’ टे: स्थाने’ त्रिमात्र ओकार ओङ्कारो वा यज्ञकर्मणि शास्त्रान्तरे विहितः । स च प्रणव इति प्रसिद्धः । तस्य अत्र साधुत्वमनुशिष्यते । य’ एवंविधः प्रणवो नाम प्रसिद्ध: शास्त्रान्तरे स साधुरिति च भाष्यादौ । जिन्वतो३म्’ । ‘देवञ्जिगाति सुम्नयो३म्’ । अपाँ रेता सि एतेन ’ यज्ञकर्मणि वक्यस्य टेः प्लुत उदात्तः’ इति सूत्रार्थप्रतीतेः, तत्र सर्वस्य वाक्यस्यः प्लुतः प्रणवः कुतो न ? इति परास्तम् ; शास्त्रान्तरप्रसिद्धस्यैवोक्तस्य प्रणवस्य अत्र ग्रहणात् 1 इत्यनुवृत्तौ टिग्रहणम् टेः सर्वस्य प्लुतो यथा स्यात् ।
- इति क. अधिकम् ।
- तन्नेह क. वा घ.
- यः क. नास्ति ।
सूत्रार्थः प्रतीयते ख. 3. अतिप्रसङ्गः घ. ङ. 9. टे: क. नास्ति । 4, च क. ’ टे: ’ अन्यथा 5. स्थाने क. नास्ति ।
6 ३६०
[सू. ४४३ स्वर सिद्धान्तचन्द्रिकायाम् प्लुतश्रुत्या अच्परिभाषोपस्थिते:’ ‘देवाञ्जिगाति सुम्नयुः’ इत्यादौ हलन्ते टेरचः प्लुतः स्यात्, न तु टिमात्रस्य’ इति भाष्यम् । टिस्थानिकस्यैव ओकारस्य प्रणवसंज्ञकत्वात् कथं टेरचः प्रणवप्रसङ्ग इति चिन्त्यम्’ इति हरदत्तः ॥ [४४३] ॥ यात्र्यान्तः॥ (8-2-90) याज्यामन्त्राणामन्त्यस्य टेर्योऽच्, तस्य प्लुत उदात्तो यज्ञकर्मणि । ‘भुवो यज्ञस्य….. जिह्वामने चकृषे हव्यवाह३म् ’ । ’ स्तोमैर्विधेमाग्नय३इ’ । ‘अग्नये’ इति चतुर्थ्यन्तस्य वक्ष्ममाणः प्लुतविकारः । अनेकवाक्यसमुदायात्मिकासु याज्यासु प्रतिवाक्यं टेः प्लुतो मा भूत्, ‘सर्वान्तस्यैव टेर्यथा स्यात् इत्यन्तग्रहणम् ॥ [४४४] ॥ ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ॥ (8-2-91) । । प्लुत उदात्तो यज्ञकर्मणि । ‘अग्नयेऽनुब्रू३हि’ । ‘अम्मये प्रे३ष्य ’ । ‘अस्तु श्रौ३षट्’ । " वौषट्शब्दो’ वषट्कारोपलक्षणार्थः । तेन ‘वषडित्येके समामनन्ति’, ‘वषाद् इत्येके’ ‘वौषट् इत्येके’ ‘वौषाट् इत्येके’ ‘वौक्षद् इत्येके’ ‘बौक्षाट् इत्येके’ इति षडिधस्यापि वषट्कारस्य प्लुतः इति हरदत्तः । ’ सोमस्याने वीहि वौ३षट्’ इत्यादि । ’ अग्निमा ३वह ’ । ’ आवह देवान् यजमानाय’ इत्यादौ व्यवस्थितविभाषया न
- उपस्थित्या क.
- प्रणवः घ. ङ.
- प्रणवौकारस्य क.
- सान्तस्यैव क. 5 वषट्ाब्दः क.
- वौषडित्येक इति षड्विधस्य क.
सूं . ४४५] प्लुत याहु: 1
प्लुतस्वरप्रकरणम् पितृयज्ञे ‘अनुस्वधा’’ इति सम्प्रैषः स्वधा’ इति प्रत्याश्रावणम् " स्वधा ; ३६१ ‘अस्तु । तत्र ’ स्वधाशब्दस्य आदिः प्लुतः । एवं च कार्य: ब्रूहि श्रौषट्स्थानापन्नत्वात्’ इति हरदत्तः नम इति वर्षट्करोति’ इति पितृयज्ञे श्रवणात् ‘वौषट्स्थानापत्त्या ‘स्वधानमश्शब्देऽपि आदिः प्लुतः कार्य इति ध्येयम् । रामाग्निचिता तु " " स्वं रूपं शब्दस्य ’ इति परिभाषितत्वात् वौषट्शब्दस्यैव प्लुतः, न तत्पर्यायस्य " इत्यपि पक्षान्तरमुक्तम् ॥ [ ४४५ ] ॥ अग्नीत्प्रेषणे परस्य च ॥ (8–2–92) [394] 11 अमीत्प्रेषणवाक्यस्य आदेः, तत एव आदेः परस्य च प्लुत उदात्तः कार्य:’ । ‘ओश्रावयाश्रावययोरेवेदमिष्यते ’ इति भाष्ये । ‘ओ३ श्राश्वय" । ’ · आ३श्राश्वय’ । अन्यस्मिन्नम्मीत्प्रेषणे न प्लुतः । ’ अग्नीदीन् विहर’ । एतच्च’ प्लुतस्य वैकल्पिकत्वात् व्यवस्थितविभाषया सिद्धम् । अत एव ‘आश्रावयौ श्रावयश्रावयोमाश्रावयेति वाश्रावयति’ इति आपस्तम्बोकनिगदेषु तृतीयचतुर्थयोर्न प्लुतः । ’ कचित्तु’ चतुर्थेऽपि प्रणवादुत्तरौ अचौ प्लावयन्ति प्रथम एव निगदः प्रणवाधिकः इति कृत्वा इति आपस्तम्बसूत्रदीपिकाकृतः । “रामाग्निचिता ’ अनुश्रावयति’ इत्यत्रापि श्राशब्दस्य प्लुत उक्तः । ‘आस्वधेत्याश्रावयति’ इति पितृयज्ञे । तत्रापि स्थानापत्त्या अयं लुतः । यज्ञकर्मणि इत्येव । ’ आश्रव॒यास्तुश्रौषट् ’ ॥
- -यज्ञेन स्वधा क. 2. प्रतिश्रवणम् क.
प्रत्याश्रवणम् घ. वषट्क. 6. ‘ओ३श्रावय’ क. नास्ति । 7. सर्वस्य घ. अधिकम् 8. केचित्तु घ 9. 4. स्वधाशब्देऽस्यादिरुदात्तः प्लुतः 10. कार्य इति घ. 5. कार्यः क. -46 ङ. नास्ति । चतुर्थेऽपि घ. नास्ति । रामाभिचिता तु ‘श्रावय’ इत्यस्या- देरपि प्लुत उदात्तः क. . वर्ज सर्वत्र
6 ३६२
स्वरसिद्धान्तचन्द्रिकायाम् सू. ४४६] (वा) | बहुलमन्यत्रापि प्लुत इति वक्तव्यम् ॥ ‘उद्धर३ उद्धर’ इति भाष्यम् । अत एव बहुलग्रहणात् ‘अम्मा३इ पत्नीवा३: सजूर्देवेन त्वंष्ट्रा सोमं पिब’ इत्यत्र आद्ययोरामन्त्रि- तयोः टेः प्लुतसिद्धिः । पत्नीशब्दान्मतुपः ‘मतुवसोरुसम्बुद्धौ छन्दसि’ इति रुत्वम् । ‘छन्दसीर:’ इति भतुपो मस्य वः । उभयत्र षाष्ठम् ‘आमन्त्रिताद्युदात्तत्वम् । अष्टमिको ‘निघातस्तु न द्वितीयस्य ; आमन्त्रिते छन्दसि वा प्लुतविकारोऽयं वक्तव्यः व्यत्ययात् । इति वचनात् आद्यस्य प्लुतविकारे सति त्रयोऽप्यच उदात्ताः । अनुदात्तं पदम्’ इति तु नेह प्रवर्तते, असिद्धत्वात् इत्युक्तम् । न च अत्र ‘दूराद्धूते च’ इति प्लुतसिद्धिः ; वाक्यान्तस्यैव टेस्तेन प्लुतप्रवृत्तेः । अत एव " अप्राप्त एव प्लुते ’ आमन्त्रिते छन्दसि’ इति वचनम् " इति हरदत्तः ॥ [ ४४६ ] ॥ विभाषा पृष्टप्रतिवचने हेः ॥ [88 (8-1-93) हेर्वा प्लुत उदात्तः स्यात् पृष्टस्य आख्याने गम्यें । ’ अकार्षीः कटं देवदत्त ? अकार्ष हि३’ । पक्षे प्लुताभाव: । ‘सर्वः प्लुतः इति वचनं न सूत्रकारस्य इति तेन विभाषाग्रहणं कृतम् । प्रतिवचनशब्दो विरुद्धेऽपि वचने वर्तते ; प्रतिशब्दस्य विरोधेऽपि दृष्टेः, ‘प्रतिमल्लः ’ ‘प्रतिकुञ्जरः’ इति यथा । पृष्टस्याख्यानेऽपि वर्तते । पृष्टग्रहणाभावे न विवक्षितार्थो गम्यत इति तद्ग्रहणम् ॥ "
- वत्वम् घ.
- आमन्त्रितघ. नास्ति ।
- निघातो द्वितीयस्य न घ. सू. ४४८] • प्लुत स्वरप्रकरणम् [४४७] ॥ निगृह्यानुयोगे च ॥ (8-2-94) १६३ निगृह्य’ इति ल्यबन्तम् । स्वमतात् प्रच्यावनं निग्रहः । अनुयोगस्तस्य आविष्करणम् । किञ्चिद्वादिनं स्वमतात् प्रच्याव्य, यस्मात् असौ प्रच्यावितः, तस्यैव मतस्य, एवं किल त्वं निरुपपत्तिकं आत्थेति सामर्षं पुनराविष्करणे यद्वाक्यं वर्तते तस्य टेः प्लुत उदात्तो भवति’ । ’ नित्यः शब्द इत्यात्थ३ ’ [ ४४८] ॥ आम्रेडितं भर्त्सने ॥ (8—2—95) ॥ आम्रेडितमत्र लक्षणया द्विरुक्तभागद्वयम्, न तु द्विरुक्तपररूपमेव ; तन्मात्रस्य भर्त्सने वृत्त्यसम्भवात् । ’ एकैकस्य’ इति मण्डूकप्लुत्या अनुवर्तते । भर्त्सने यत् द्विरुक्तभागद्वयम्, तस्य टेः प्लुतः पर्यायेण उदात्तः । ’ चोर३ चोर घातयिष्यामि त्वाम्’ । ’ उमारयिष्यामि त्वा चोर चोर३’ 1 वाक्यस्य टेः इति अधिकारेऽपि अत्र अनन्त्यस्य प्लुतो भवति । ’ वाक्यादेरामन्त्रितस्य ’ इत्यादिना भर्त्सने वाक्यादेरेव पदस्य द्विर्वचनविधानात् । ( इति वार्त्तिकं एवं च ’ भर्त्सने पर्यायेण इति वक्तव्यम्’ ’ नारम्भणीयम् ; एकैकग्रहणानुवृत्त्या आम्रेडितशब्दलक्षणया च तदर्थसिद्धेरिति ॥
- प्रवर्तते घ.
- चोर चोर३ इति वा । घ.
- भवति घ. नास्ति ।
- वाच्यम् वाच्यम् घ.
- आरभ्यम् घ. भवति वा Shriibin Kumar Col. Deoband. In Public Domain.” ३६४
स्वरसिद्धान्तचन्द्रिकायाम् [४४९] ॥ अङ्गयुक्तं तिङाकाङ्क्षम् ॥ (8-2-96) [सू. ४४९ आकाङ्क्षतीति आकाङ्क्षम् । पचाद्यच् । अङ्गशब्देन युक्तं तिङन्तं भर्त्सने प्लुतं भवति, यदि किश्चित् अपरम् आकाङ्क्षति भर्त्सने । ‘अङ्ग कूज इदानीं ज्ञास्यसि जाल्म’ । अङ्गशब्दोऽत्र अमर्षे ॥ [४५०] ॥ विचार्यमाणानाम् ॥ (8–2–97) 11 ‘कोटिद्वयस्पृक् विज्ञानं विचार इति कथ्यते ’ । विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते । इह तु विचार्यमाणार्थविषयत्वात् वाक्यानि विचार्यमाणानि ’ इति हरदत्तः । तेषां वाक्यानां टेः प्लुत उदात्तः । ’ होतव्ये दीक्षि॒तस्य॑ गृ॒हा३र्इ न हो॑त॒व्य ३ मिति॑ । गृहेशब्दस्य वक्ष्यमाणः प्लुतविकारः । ’ अन्वारभ्यः पशु३र्नान्वारभ्य३ इति’ ॥ [ ४५१] ॥ पूर्वं तु भाषायाम् ॥ (8–2–98) नियमार्थमिदम् । तुशब्दोऽवधारणे । विचार्यमाणवाक्यद्वयमध्ये पूर्वमेव वाक्यं प्लुतं लभते भाषायाम्’ । ‘अहिर्नु ३ रज्जुर्नु’ । नुर्वितर्के । तुशब्द इष्टतोऽवधारणार्थः ॥ [४५२] ॥ प्रतिश्रवणे च ॥ ( 8–2–99) अत्र ’ यद्वाक्यं वर्तते तस्य टे: प्लुत प्रतिश्रवणशब्दः प्रतिज्ञानेऽभ्युपगमे उदान्तः । श्रवणाभिमुख्ये च वर्तत इति
- ज्ञानं ङ. वर्ज सर्वत्र
- अत्र वाक्यस्य देः प्लुतः घ.
- भाषायाम् क्र. नास्ति ।
सू. ४५४]
प्लुतश्वरप्रकरणम् ३६५ वृत्तौ । प्रतिज्ञा नाम’ - प्रार्थितस्य देयत्वेन संवादः । अभ्युपगमः स्वीकारः । क्रमेण उदाहरणानि । ‘गां मे देहि, हन्त ददामि ३ ’ । । । 6 तार्वत्रीवस्तु मेऽत्रापीत्यस्तु हि३ इत्येब्रूताम्’ इत्यत्र ’ विभाषा पृष्टप्रतिवचने हे:’ इत्यपि सिद्धयति प्लुतः । ’ नित्यः शब्दो भवितुमर्हति३’ । ‘देवदत्त भोः किं माष३ : ’ । यत्तु वेदभाष्ये ८ अस्तुहि३’ इत्यत्र ’ ८ अभिपूजिते प्लुतः’ इत्युक्तम्, तन्मन्दम् ; तथा सति प्लुतस्य अनुदात्तत्वप्रसङ्गात् । ‘अनुदात्तं प्रश्नान्ताभि- पूजितयो: इति वचनात् ॥ [ ४५३ ] ॥ अनुदात्तं प्रश्नान्ताभिपूजितयोः ॥ (8-2-100) प्रश्नवाक्ये । यच्चरमं पदं तत् प्रश्नान्तम् । तस्य अभिपूजितवाचिनश्च पदस्य’ दूराद्भूतादौ यः प्लुतः सूत्रान्तरेण विहितः, तस्य अनेन अनुदात्तत्वमात्रं विधीयते, न तु इदं प्लुतान्तरविधानम् । उत्तरसूत्रस्थः + चकारोऽत्र लिङ्गमिति वक्ष्यते । अगम ३: पूर्वा३न् ग्रामा३न् अग्निभूत ३३’ । ’ अनन्त्यस्यापि प्रश्नाख्यानयोः ’ इति प्रतिपदं टेः प्लुतः स्वरितः प्राप्तः / तत्र प्रश्नान्तपदस्थः प्लुतोऽनेन अनुदात्तः । इतरे तु स्वरिता एव । प्रश्नान्तप्लुतोऽपि क्षे स्वरित इति वक्ष्यते । अभिपूजिते - ’ शोभनः खल्वसि देवदत्त३’ । ’ दूराद्धूते च’ इति उदात्तः प्राप्तः ॥ [४५४] ॥ चिदिति चोपमार्थे प्रयुज्यमाने || ‘उपमार्थे (8-2-101) ‘चित् ’ ’ चित्’ इत्यस्मिन् प्रयुज्यमाने वाक्यस्य टे: प्लुतोऽनुदात्तः स्यात् । ’ अनिश्चिद्भाया३त्’ । अग्निरिव भायात्
- प्रतिज्ञानम् घ. ।
- -गतः घ.
- अत्र घ. नास्ति ।
- प्लुताः घ. अधिकम् ।
पदस्य क. नास्ति । 6. उपमाने क.
३६६
स्वरसिद्धान्तचन्द्रिकायाम् [सू. ४५५ इत्यर्थः । उपमार्थे किम् ? ’ कथचिदाहुः’ । कृच्छ्रेऽत्र चिच्छन्दः । ‘अग्निर्माणवको भायात् ’ 1 अग्निरिव प्रयुज्यमाने किम् ? माणवको भायादिति ‘चिदर्थ उपमा अत्र गम्यते, न तु प्रयुज्यते । “ इतिकरणाभावे उपमार्थे अन्यस्मिन् प्रयुज्यमाने ‘चित्’ इत्यस्य प्लुतविधिर्विज्ञायेत । सति तु तस्मिन् ‘प्रयुज्यमाने ’ इत्येतच्चिच्छन्दस्य विशेषणं इति वाक्यस्य टेः प्लुतसिद्धिः । चकारस्तु गम्यत पूर्वैः प्लुतैः अस्य समुच्चयं द्योतयन् समुच्चयस्य भेदनिबन्धनत्वात् प्लुतान्तरमिदम्, तु पूर्वसूत्रवत् दूराद्यूतादिषु विहितस्य प्लुतस्य अनुदात्तत्वगुणमात्रविधानम्’ इति ज्ञापयति । न लिङ्गं पूर्वसूत्रे गुणमात्रविधानस्य " इति हरदत्तः [४५५] ॥ उपरिस्विदासीदिति च ॥ (8-2-102) अस्य टे: प्लुतोऽनुदात्तः " एतदेव ’ अधः स्विदासी३दुपरिस्वि- दासी३त् ’ । ’ विचार्यमाणानाम्’ इत्युभयत्र टेः प्लुते’ प्लुते’ सिद्ध एव उत्तरवाक्यप्लुतस्य अनुदात्तत्वविध्यर्थं सूत्रम् । अत एय पूर्ववाक्ये प्लुत उदात्तः उत्तरवाक्ये प्लुतस्य अनुदात्तत्वे ‘स्वरितात् संहितायाम्’ इत्यैकश्रुत्यम् ॥ [४५६] ॥ स्वरितमाम्रेडितेऽसूयासम्मतिकोप- कुत्सनभर्त्सनेषु ॥ (8–2–103) स्वरितः प्लुतः स्यात् आम्रेडिते परे’ असूयादौ गम्ये । परगुणासहनम्’– असूया । सम्मतिः– पूजा । कोप: - क्रोधः
- चिदत्र उपमार्थ: घ. 2. अनुदात्तत्वमात्रविधानम् घ. -अनुदात्तत्वगुणमानविधिः घ, ङ. ऊ विधेः घ.
- प्लुतः सिद्धः घ. 5. -भर्त्सनेषु घ.
- परतः क. नास्ति । 7, परगुणानाम् भवहनस क
। सू. ४५७ ] .
प्लुत स्वरप्रकरणम् ३६७ कुत्सनम् — निन्दा । एते च प्रयोक्तृधर्माः । क्रमेण उदाहरणानि । ‘अभिरूपक ३ अभिरूपक रिक्तं ते आभिरूप्यम्’ । ‘अभिरूपक ३ अभिरूपक शोभनः खल्वसि । ‘अविनीतक ३ अविनीतक इदानीं ज्ञास्यसि जाल्म ’ । ‘‘शक्तिके३ शक्तिके शक्तिके रिक्ता ते शक्ति: ’ । सम्मतौ अनुकम्पायां कन् । अन्यत्र कुत्सिते कः । शक्तिशब्दः तद्वति लाक्षणिकः । वाक्यादेरामन्त्रितस्य ’ इति सर्वत्र द्वित्वम् । अत एव वाक्यस्य टे:’ इत्यधिकारेऽपि वाक्यादौ प्लुतः ॥ ८ ‘असूयादिषु वा वचनम् ’ इति वार्त्तिकम् । ‘सर्वः प्लुतः ’ इति वचनमन्यदीयम् इति वार्त्तिकारम्भः’ इति हरदत्तः ॥ [ ४५७ ] ॥ क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् ॥ (8-2-104) क्षियादिषु गम्येषु यत् तिङन्तमितराकाङ्क्ष तस्य टेः प्लुतः स्वरितः स्यात् । क्षिया शिष्टाचारोलङ्घनम् । । ‘स्वयं ह रथेन याति ३, उपाध्यायं पदातिं गमयति’ । अत्र पूर्वं तिङन्तम् उत्तरमाकाङ्क्षते । आशिषि – ’ पुत्रान् लफ्सीष्ठा३: धनं च’ 1 प्रैषे - ‘यवांश्च लुनीहि ३, सक्तूंश्च पिब३’ । तिङाकाङ्क्ष किम् ? ‘दीर्घ ते आयुरस्तु’ । “अत्र तिङाकाङ्क्षग्रहणं द्विः क्रियते, ‘अङ्गयुक्तम्’ इत्यत्र ’ प्रकृते च । एकमकर्तुं शक्यम् । एवं सूत्रयताम् ’ उपरिस्विदासीदिति च ’ इत्यनन्तरम् ’ अङ्गयुक्तं तिङाकाङ्क्षम् ’ हरदत्तः ’ क्षियाशीः ‘प्रैषेषु स्वरित: ’ । यद्यपि ततः ‘आम्रेडितेऽसूया’ इत्यादि " इति एवम् अङ्गयुक्तम्’ इत्यत्र भर्त्सनानुवृत्तिर्न
- शक्तीक ३ शक्तीक क. वर्ज सर्वत्र
- द्विर्वचनम् घ. ङ,
- इति वार्त्तिकारम्भः घ. नास्ति । ङ.
- स्यात् घ नास्ति ।
- इति सूत्रे क.
क्षियाशीरिति स्वरितपदघटितम्, ततः आम्रेडिते घ.
૨૬૮ स्यात् ; स्वरसिद्धान्तचन्द्रिकायाम् सू. ४५८ ] आम्रेडितं भर्त्सने ’ इत्यस्य व्यवहितत्वात्, ‘अनुदात्तम्’ इति च अनुवर्तेत इति दोष:, तथापि मण्डूकप्लुत्या भर्त्सनानुवृत्तिर्भविष्यति ! यद्वा आम्रेडितं भर्त्सने’ इत्येतदुपि ’ उपरि- स्विदासीदिति’ च’ इत्यस्य अनन्तरं करिष्यते । व्याख्यानात् चानुकृष्टत्वाच्च ‘अनुदात्तम्’ इति न तत्र’ सम्बध्यते, किं तु उदात्तपदमेवेत्याशयो बोध्यः ॥ [ ४५८ ] ॥ अनन्त्यस्यापि प्रश्नाख्यानयोः ॥ (8-2-105) ‘अनन्त्यस्यापि’’ इति वचनात् ’ वाक्यस्य ’ इति न सम्बध्यते । ‘पदस्य’ इति वर्तते । अनन्त्यस्य च अन्त्यस्य च पदस्य टे: प्लुतः स्वरितः स्यात् प्रश्ने आख्याने च । ’ अगम ३: पूर्वा३न् प्रामा३न् अग्निभूत३इ’ । आख्याने – ‘अगम३म् पूर्वा३न् प्रामा३न्’ । आधे ‘अनुदात्तं प्रश्नान्ताभिपूजितयो:’ इत्यन्त्यस्य प्लुतस्य अनुदात्तत्वम्’ । तच’ पाक्षिकम् ; ‘अनन्त्यस्यापि’ इति अपिशब्देन अन्त्यस्यापि स्वरितप्लुतविधिसामर्थ्यात् तस्यापि भावात्’ । शिष्टाः प्लुताः स्वरिता एव । ‘श्रुत हवी ३: शेमित: ’ ‘अग ३ नमीत् ’ इत्यादौ प्रश्नान्तत्वात् प्लुतः । व्यत्ययात् स्वरितत्वाभावः ॥ ँ [४५९] ॥ एचोऽप्रगृह्यस्याद्दूरात्तते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ॥ (8-2-107 ) , प्लुतविषये अप्रगृह्यस्य एचः पूर्वार्धस्य अकारः स्यात् स च प्लुतः ; ‘प्लुत:’ इति अनुवृत्तस्य तेनैव’ सम्बन्धात् । उत्तरार्धस्य इदुतौ
-
- स्विदासीदित्यनन्तरम् घ. 2. तत्र क. नास्ति ।
- अपि क. नास्ति ।
- अनुदात्तता घ.
- एतच रु.
- स्वरिताभावः घ. अभावात् घ. ङ.
अकारः प्लुतः । प्लुत इत्यनु घ. CC-o. Shri Vipin Kumar Col. Deoband. In Public Domain. एव क. ङ. नास्ति । सू. ४५९]
प्लुत स्वरप्रकरणम् ३६९ आदेशौ स्तः, तौ च उदात्तौ, ‘उदात्तः’ इत्यनुवृत्तस्य ताभ्यां सम्बन्धात्, अदूराद्धूतविषये । आन्तर्यात् एकारैकारयोरुत्तरार्धस्य इकारः । इतरयोरुत्तरार्धस्य उकारः । विषयपरिगणनं कृतम् -’ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादनयाज्यान्तेष्वेव’ इति वक्तव्यम्’ । क्रमेण उदाहरणानि । अगम३: पूर्वा३न् ग्रामा३न् अग्निभूत३३’ । ’ मद्रं ‘करिष्यस्यग्निभूत३३’ । ’ होतव्यं दीक्षितस्य॑ गृह३३ न त॒व्य३मिर्ति’ । आयुष्मान् भव सौम्याग्निभूत ३३’ । ’ उक्षान्नाय वशान्नय सोम॑पृ॒ष्ठाय वे॒धसै’ । ’ स्तोमैर्विधेमाग्नय ३३’ । पूर्वार्धस्य योऽयम् । । अकारः प्लुतो विहितः, स यथाविषयम् उदात्तः, अनुदात्तः स्वरितो वा बोध्यः 1 तत्र प्रश्नान्तेऽनुदात्तः ‘अनन्त्यस्यापि प्रश्नाख्यानयोः ’ स्वरितो वा ; अनुदात्तम् प्रश्नान्ताभिपूजितयो: ’ वक्तव्यम् ; इति सूत्राभ्याम् 1 अभिपूजितेऽनुदात्त एव, अन्यत्र उदात्त इति विवेकः । परिगणनात् इह न - ‘विष्णुभूते’ विष्णुभूते घातयिष्यामि त्वाम्, मारयिष्यामि त्वाम्’ ’ 1 ’ आम्रेडितं भर्त्सने ’ इति प्लुतः इति प्लुतः । ‘अदूराद्भूते’ इति’ न आवश्यकपरिगणनादेव अतिप्रसङ्गभङ्गात् । अप्रगृह्यस्य शोभने खलु स्तः’ खट्वे३’ । ‘पदान्तस्यैव एचोऽयं ’ पदान्तग्रहणं कर्तव्यम्’ इति वार्त्तिकात्, ‘याज्यान्तः’ इत्यतोऽन्तग्रहणानुवृत्त्या पदान्तस्य एच इति अन्न" न - ’ भद्रं करोषि गौ३ : ’ न तु एच् । न च ‘स्वादिषु’ इति
- एव घ. नास्ति ।
- करोषि क.
- उदात्तः घ.
- विष्णुभूत ३इ क. । इति किम् ? प्लुतविकारः ; व्याख्यानाद्वा । तेन विसर्गो ह्यत्र पदान्तः पदत्वम् ; ‘असर्वनामस्थाने '
- च क. अधिकम् ।
- असि घ
- पादान्तस्य घ.
- इति क. नास्ति ।.
- मारयिष्यामि त्वम् घ. नास्ति । 10, इह घ. Fq C204 Shri Vipin Kumar Col. Deoband. In Public Domain. ३७०
स्वरसिद्धान्तचन्द्रिकायाम्, [सू. ४६० इति निषेधात् । ‘सावपि पदं भवति’ इति भाष्यपक्षे तु वाक्यान्तस्य एच इति व्याख्येयम् ॥ (वा) | आमन्त्रिते छन्दसि वा प्लुतविकारोऽयं वक्तव्यः ॥ अग्ना३इ पत्नीवा३: ’ । उपपादितमेतत् ॥ [४६०] ॥ तयोर्खावचि संहितायाम् ॥ (8-2-108) पूर्वसूत्रविहितयोरिदुतोर्यथासंख्यं यकारवकारौ आदेशौ स्वोऽचि संहितायाम् । य॒ज्ञं प्रत्य॑तिष्ठप ३ य॒ज्ञपत ३ विर्त 9 | ‘इको तथापि ’ अन्ना ३- यणचि’ इत्येव यद्यपि यणादेशः सिद्धः ; यिदम्’ इत्यादौ चेदम् सवर्णदीर्घशा कलप्रकृतिभावयोः अभावाय इति केचित् । तन्न ; ‘प्लुतप्रगृह्या अचि’ इत्यारम्भसामर्थ्यात् प्लुताधिकारकार्यमात्रस्य स्वरसन्धौ सिद्धत्वज्ञापनेन अस्य अपवादत्वात् तेषामप्रवृत्तेः । तथा चेदं सूत्रम् ‘अम्नायिदम्’ इत्यादौ स्वरितयोर्यणः’ इति स्वरितं बाधितुमेव । अनेन हि विहितयोः वोरसिद्धत्वात् नायं स्वरितो भवति । तेन तु तयोः सतो:’ असिद्धत्वाभावात् अयं स्वरितः स्यादेवेति ॥ ॥ इति प्लुतस्वरप्रकरणम् ॥ उदात्त-
- भवति घ. नास्ति ।
- ’ उदात्तस्वरितयोर्यणः स्वरि- बाधितुमिदं विधानम् क. 3. तेन कृतयोः सतो: घ. तोऽनुदात्तस्य’ इति स्वरितumar Col. Deoband. In Public Domain. Shri