०९ सर्वानुदात्तप्रकरणम्

सुबन्तसर्वानुदात्तप्रकरणम्

॥ अथ सर्वानुदात्तप्रकरणम् ॥ अथ सर्वानुदात्तत्वं सुबन्तपदसंश्रयम्’ । सम्प्राप्तमानुपूर्व्येण सप्रपञ्चं निरूप्यते ॥ [३८० ] ॥ इदमोऽन्वादेशेऽनुदात्तस्तृतीयादौ || , (2-4-32) परतः ’ एभिः ’ किञ्चित् कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः तद्विषयस्य इदमस्तृतीयादौ विभक्तौ अशादेशो भवति, स च अनुदात्तः । ’ आभ्याम् ’ इत्युदाहरणम् । यद्यपि ‘हलि लोप:’ इति इदम इद्रपस्य लोपे त्यदाद्यत्वादौ च अनन्वादेश इव ‘अशादेशं विनैव ‘आभ्याम् ’ इत्यादिरूपं सिद्धम्, अजादौ ‘तु टायामोसि च द्वितीयाटौ स्स्वेनः इत्येनादेशेन अशादेशो बाधितः ; तथापि अज्ञाताद्यर्थविवक्षायाम् ‘अव्यय सर्वनाम्नाम्’ इत्यकचि साकचुकस्यापि इदशन्दस्य अन्वादेशे ‘आभ्याम्’ इत्याद्येव रूपं यथा स्यात् इत्यशादेशविधिः । अन्यथा ‘हलि लोपः’ इत्यत्र ’ अनाप्यकः इत्यतः अक: इत्यधिकारात् साकच्कस्य इदम इद्रूपलोपाभावेन अनन्वादेश इव ‘इमकाभ्याम् ’ इमकाभ्याम् ’ ’ इमकै:’ इत्यादिरूपं प्रसज्येत । तदुक्तम् ’ आदेशग्रहणं साकच्कार्थम्’ इति । शिद्ग्रहणं सर्वादेशार्थम् । न च त्यदाद्यत्वेनैव अन्त्यस्य अकाररूपतया सामर्थ्यात् अयमकारः सर्वादेशो भविष्यतीति वाच्यम् यतो दीर्घादिव्यावृत्त्यर्थम् अकारस्यापि अकारविधिः स्यात् । अनुस्वारनिवृत्त्यर्थम् ‘मो राजि 4. आदेश क. "

  1. सुबन्तं पदसंश्रयम् क.
  2. परतः घ. नास्ति ।
  3. तु क. नास्ति ।

इदमः घ. नास्ति । 0. अतः घ. स्व19

२९०

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३८१ समः कौ’ इति मकारस्य मकार विधिवत् स्यादेतत्- अशादेशस्य ऊडिदम्पदादि ’ इति अनुदात्तविधिरनर्थकः ; विभक्तेरुदात्तत्वे शेषनिघातेनैव अशोऽनुदात्तत्वसिद्धेरिति । सत्यम् ; ’ आभ्याम्’ इत्यादिपदं सर्वानुदात्तं यथा स्यात् इत्यशादेशानुदात्तत्वविधिः । तथा च सर्वानुदात्तं तत् पठ्यते - ’ तदेभ्योऽब्रवीत् ‘, ‘तदैषां वृङ्क्ते’, स ए॒वास्मा॒ अन्नं प्रयच्छति ’ तयैवै- अथ ध्व॒मृत॑मधात्’, ’ स एवास्मिन् तेर्ज:’ इत्यादौ । ‘अशनुदात्तः’ इति वचनात् कथं सर्वानुदात्तलाभः ? अत्र षष्ठे कैयट हरदत्तादयः-’ ऊडिदम्’ इत्यत्र ’ अन्तोदात्तात्’ इत्यनुवर्तते । अशोऽनुदात्तत्वे विहिते तु अन्तोदात्तत्वाभावेन

८ ऊडिदम्’ इति विभक्त्युदात्तत्वस्य ‘आभ्याम्’ इत्यादावप्रवृत्तौ ‘अनुदात्तौ सुप्पितौ इति विभक्तेरप्यनुदात्तत्वात् ‘आभ्याम् ’ इति पदं कृत्स्नमनुदात्तम् इति । ‘सावेकाच: ’ इति विभक्त्युदात्तत्वं तु अन्वादेशे ‘आभ्याम्’ इत्यादौ भवति न वेति प्रागेव चिन्तितम् । स्वरमञ्जर्यां तु ‘शैषनिघातेनैव सिद्धेऽशादेशानुदात्तत्वविधिसामर्थ्या देव’ ‘आभ्याम्’ इत्यादौ ’ ऊडिदम्’ इति विभक्त्युदात्तत्वं न ’ इति स्थितम् । अनन्वादेशे तु ’ ऊडिदम्’ इति विभक्तिरुदात्तव । ’ अस्मिन्नेव तल्लोके’ । ‘अस्माल्लोकात् ’ ॥ [ ३८१] ॥ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ॥ (2-4-33) एतदोऽन्वादेशविषयस्य अशादेशोऽनुदात्तो भवति त्रतसोः परत: त्रतसौ ; च अनुदात्तौ भवतः । ’ एतस्मिन् ग्रामे सुखं 3. विहितम् घ.

  1. कौ व नास्ति । 2. सर्वांनुदात्तत्वव्यभshri Vpin Kumar Col. Dobara in Public नास्ति । सू. ३८१] ..

सर्वानुदात्तप्रकरणम् वसामः, ‘अतोऽत्र युक्ता धीष्व, अथातो व्याकरणमपि २९९ अधीमहे ’ । ’ एतस्माच्छात्राच्छन्दोऽअधीष्व ’ । इह ‘अन्न’ ‘अतः इति पदद्वयं सर्वानुदात्तम् । एतच्छब्दात् त्रतसोः सतो: ‘एतदोऽन्’ इति पाञ्चमिकेनैव सूत्रेण आदेशः सिद्धः । स तु आन्तर्यादुदात्तः प्राप्त इति तस्य अनुदात्तत्वार्थमत्र निमित्तभावार्थम् । अन्यथा एतदः सर्वत्र अशादेशो ऽनुदात्तः पुनर्वचनम् । ’ त्रतसोः’ इति वचनं । अन्वाचये चो’ विज्ञायेत । ततश्च यत्र च ’ त्रतसौ पश्यति तत्र प्रवृत्यैव ‘अत्र ’

तौ च’ अनुदात्तौ इत्यर्थः स्यात् । अथ ’ त्रतसौ चानुदात्तौ’ इति किमर्थम् ? यतत्रतसोः परतः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययस्य अनुदात्तत्वे सति सति अशोऽनुदान्तस्य ‘अत:’ इत्यनयो: सर्वानुदात्तत्वं सिद्धम् इति चेत् — मैवम् ; येननाप्राप्तिन्यायेन अपवादत्वान्नित्यत्वाच्च लित्स्वरात् पूर्वमादेशे अनुदात्ते कृते तद्विधानसामर्थ्यात् पश्चादपि अत्र लित्स्वराप्रवृत्तेः । ततश्च अपवादस्य तस्य अप्रवृत्तौ उत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात् 1 यथा ’ गोष्पदप्रम्’ इत्यत्र ’ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ’ इति णमुलूलोपयोः सहविधानात् लित्स्वराप्रवृत्तौ प्रत्ययाद्युदात्तत्वे सति कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तं पदम् । तस्मात् ’ त्रतसौ चानुदात्तौ’ इति वक्तव्यम् — इति भाष्यादौ । अन्वादेशात् अन्यत्र तु लित्स्वरेण अत्र ’ ’ अत:’ इति अत:’ इति पदद्वयमाद्युदात्तम् । ’ अत्रे किमत्रे भद्रम् ’ । ’ अत्र ते भद्रा रेशना अपश्यम’ । पितरो । यथाभागं मन्दध्वम्’ । अतः परं नान्यदणीयस ँ हि’ । ’ अतः समुद्रा ग॒रय॑श्च॒ सर्वे॑ ॥ 5. चैवं घ.

  1. अथो घ.
  2. अपि घ. नास्ति ।
  3. च क. नास्ति ।
  4. च क. नास्ति ।
  5. अशादेशः क.
  6. त्रतसोरिति । त्रतसोरिति घ.

२९२

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३८२ [३८२] ॥ द्वितीयाटौस्स्वेनः ॥ (2–4–34 ) मण्डूकप्लुतिन्यायात् इदंशब्दोऽनुवर्तते । द्वितीयायां टौसोश्च च अनुदात्तः । ‘एनं पवयति’ । ‘प्रिययैवैनौ’ । ‘स एवैनन्’ । ‘ऋध्नोत्यैनेन’ । परतः इदमेतदोरेनादेशो भवति अन्वादेशे, स । य एनयोरनुलोमं च’ । आन्तर्यात् एनादेशो ऽन्तोदात्तः प्राप्त इति तस्य अनुदात्तविधिः । सुबप्यनुदात्तः इति सर्वानुदात्तं पदम् ॥ (वा) । एनदिति नपुंसकैकवचने वक्तव्यम् ॥ ’ य उ॑ चैनदे॒वं वेद॑ ’ । ’ स्वमोर्नपुंसकात्’ इति स्वमोर्लुक् । एनादेशे तु सति एनम् इति स्यात् ॥ [ ३८३ ] ॥ अनुदात्तं च ॥ (8–1–3) द्विरुक्तस्य परं रूपमनुदात्ताच्कं स्यात् आद्यच् । अनुदाद्विरुक्तपर- पृष्ठानि॑ ’ प्रप्राय- तोऽस्य अस्तीति अनुदात्तम् । अर्श रूपसामानाधिकरण्यानुरोधात् । ‘मासिमासि मग्निः’ इत्यादि । आद्ये ‘नित्यवीप्सयो:’ इति द्विर्वचनम् । 1 अन्यत्र प्रसमुपोदः - पादपूरणे ’ इति । आद्ये मासिशब्दे ऊडिदम्पदादि’ इति विभक्तिरुदात्ता । इदं च आम्रेडितानुदात्तत्वम् नित्यवीफ्सयोः ’ ’ इत्यादिपञ्चसूत्रीविहितद्विर्वचनविषयम् ।

  1. -नौ तनुवा क.
  2. स्वमोः घ. नास्ति ।
  3. -रूप- घ. नास्ति ।
  4. इति पञ्च- CC-0. Shri Vipin Kumar Col. Deoband. hublic Somain. सू. ३८३] ‘एकं बहुव्रीहिवत् ’ सवानुदात्तप्रकरणम् २९३ इत्यादिषट्सूत्रीसम्बन्धिद्विर्वचने तु ’ एकं बहुव्रीहिवत् ’ ’ कर्मधारयवदुत्तरेषु’ इति सूत्रद्वयविहितबहुव्रीहिकर्म- धारयवद्भावप्राप्तसमासस्वरेण 6 इदमनुदात्तत्वं बाध्यते 1 यद्यपि बहुव्रीहिवत्त्वे प्रयोजनम् ’ सुब्लोपपुंवद्भावौ’ इति वार्त्तिकेन ‘एकैको वै जनता॑या॒मिन्द्रेः’ इत्यादौ सुब्लोपः आबाधे च’ इति सूत्रेण द्विरुक्ते गतगता’ इत्यादौ पूर्वपदे पुंवद्भावश्च बहुव्रीहिवद्भावस्य प्रयोजनम् इत्युक्तम्, न तु स्वरः प्रत्युत ‘सर्वनामस्वरसमासान्तेषु दोष:’ इति वार्त्तिकान्तरेण ‘एकैकस्मात् ’ ’ इत्यादौ ‘न बहुव्रीहौ ’ इति सर्वनामसंज्ञानिषेध:, ‘न न करोति ’ ‘सु सु जात:’ इत्यादौ ’ आबाधे’ इति द्विर्वचनेन ’ नञ्सुभ्याम् ’ इत्युत्तरपदाद्युदात्तत्वम्’, ऋगृक्’ ‘पू: पू:’ इत्यादौ ‘ऋक्पू: ’’ इति समासान्तश्च भवतीत्येवंतात्पर्यकेण बहुव्रीहिवद्भावात् स्वरो+ नेष्यत इति दर्शितम् । ‘सर्वनामस्वर समासान्तेषु दोष:’ इति वार्त्तिकं प्रत्याचक्षाणेनापि भगवता भाष्यकृता " स्वरसमासान्तयोरपि न दोषः । प्रकृतं समासग्रहणम् अनुवर्तते । तेन बहुव्रीहिं विशेषयिष्यामः - समासो यो बहुव्रीहिः - इति । तेन आतिदेशिक - बहुव्रीहौ तौ न भविष्यतः’ इति वदता बहुव्रीहिवद्भावेन स्वरो नेष्यत इत्येव दर्शितम् । तथापि ‘स्वरसमासान्तयोरपि समासग्रहणम् अनुवर्तते’ इति भाष्यस्य -’ नञ्सुभ्याम् ’ इति स्वरविधौ ‘बहुव्रीहाविदमेतत्तद्भ्यः’ इत्यतः बहुव्रीहिग्रहणे वर्तमाने वनं समासे’ इत्यतः सिंहावलोकनन्यायेन समासग्रहणसम्बन्धात् समासाधिकार विहितबहुव्रीहावेवैष ’ तात्पर्यं वर्णयित्वा " ‘बहुव्रीहौ प्रकृत्या ‘बहुव्रीहौ प्रकृत्या’ इत्यत्र समासग्रहणासम्बन्धात् तत्सूत्रबहुव्रीहिवद्भावात् प्रवर्तत एव । तेन विधेयः स्वरः समासस्वरश्च
  5. एकैकस्मै क.
  6. उत्तरपदान्तोदात्तत्वम् क. 3.. ऋक्पूरब्धूः पथामानक्षे घ. स्वरो —इति
    नान्यत्र - इति
  7. बहुव्रीहिद्भावस्वरः क. 5. ‘वनं समासे’ इत्यतः
  8. एव सः

क. प्रकृतं क. नास्ति । २९४

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३८३ 1 ‘न न करोति’ इत्यादौ आम्रेडितानुदात्तत्त्वं बहुव्रीहिवद्भावात्’ प्राप्तः समासस्वरो बाधते । तमपि बाधित्वा बहुव्रीहिस्वरोऽवतिष्ठते " इति ‘एकं बहुव्रीहिवत्’ इत्यत्र हरदत्तादिभिः प्रतिपादनात् बहुव्रीहिअवत्त्वप्राप्तस्वरेण इदमनुदात्तत्वं बाध्यत इत्युक्तम् इति न विरोधः नन्वेवं बहुव्रीहिवद्भावविषये पूर्वपदं प्रकृतिस्वरमेव । आम्रेडितं तु शेषनिघातेन अनुदात्तम् इति पर्यवसन्नम् । तच्च आम्रेडितानुदात्तत्वेनैव सिद्धम् इति बहुव्रीहिवद्भावात् स्वरे न कश्चिद्भेदः । एवं च ‘स्वरविधौ प्रकृतं समासग्रहणम् अनुवर्तते’ इति भाष्यस्य बहुव्रीहौ प्रकृत्या इत्यत्रापि समासग्रहणम् अनुवर्तते -इत्यपि तात्पर्यं + कल्प्यताम् । किमिति ( हरदत्तादिभिरभ्युपगत इति ? अत्र प्रकृत्या इत्यत्र तत्र समासग्रहणासम्बन्धो प्रतिभाति — यदि ’ बहुव्रीहौ समासग्रहणम् अनुवर्त्येत, द्भावेन तत्स्वराप्रवृत्तावपि सामासान्तोदात्तत्वं बहुव्रीहौ दृष्टत्वात् | ततश्च एकैको न प्रवर्तेत, तदा बहुव्रीहिव- प्रवर्तेत, तस्यापि वै ज॒नता॑याम्

‘कर्म-
इत्यादौ आम्रेडितान्तोदात्तत्वमत्र’ स्यात् । यद्युच्येत - ’ समासस्य ’ इत्यत्रापि ’ अन्तोदात्तादुत्तरपदात् ’ इत्यतः समासग्रहणसम्बन्धात्
तत्स्वरस्य बहुव्रीहिवद्भावेन
बहुव्रीहिवद्भावेन प्रवृत्तिः इति, तर्हि धारयवदुत्तरेषु’ इत्यतिदेशेनापि समासस्वराप्रवृत्तिप्रसङ्गे भाष्यादि - विरोधः । तस्माद्बहुव्रीहिवद्भावप्राप्तं समासान्तोदात्तत्वं बाधितुम् बहुव्रीहौ प्रकृत्या’ इत्यस्यापि अतिदेशः स्वीकार्यः । तदर्थम् बहुव्रीहौ प्रकृत्या’ इत्यत्र समासग्रहणासंबन्धो हरदत्तादिभिरभ्युपगत इति । बहुव्रीहिवदतिदेशस्य पुंवद्भावोऽपि प्रयोजनम् इत्युक्तम् ।
’ एकैकयास्तुतया '
अवग्रहे पूर्वपदं ह्रस्वान्तं
(
तेन
  1. -भावप्राप्तसमासघ. इत्यादौ
  2. हरदत्तादिभिः घ. नास्ति ।
    • वद्भावप्राप्त-
  3. अपि तात्पर्य क. घ. नास्ति ।
  4. अत्र 6. -आदिक. नास्ति । क. नास्ति ।
  5. -प्राप्तसमास- घ.

सू. ३८९ 2Digitized bतानामुदात्तप्रकरणम् hi २९५ पठितव्यम् इति विशेष ’ इति हरदत्तादयः । तैत्तिरीयास्तु अत्र एकया’ इति यान्तं पूर्वपदमवगृह्णन्ति । ’ यदेक॑मे ँ स॒म्भरे॑त् ’ एर्कयैकयोत्सर्गं मिमीते’ इत्यादौ बहुव्रीहिवद्भावेन सुब्लुगभावो व्यत्ययः । एवम् ’ प्रकारे गुणवचनस्य’ इत्यादिसूत्रविहितद्विर्वचने कर्मधारयवद्भावेन’ समासान्तोदात्तत्वमेव, नाम्रेडितानुदात्तत्वम् । यथा भागधेयैनैवैना॑न् यथायथं कल्पयति’ । ’ वयं यथायथं विपरि दधावहै ’ । द्वादश द्वन्द्वानि’ । ‘इ॒न्द्वम॒न्यासु॒ चितषु ’ यथास्वे यथायथम्’ इति सूत्रेण यथायथशब्दो निपातितः । द्विर्वचनं नपुंसकत्वं च निपात्यम् । यथाशब्दस्य । ‘द्वन्द्वं रहस्यमर्यादावचन’ इति द्वन्द्वशब्दो निपातितः । तत्र द्विशब्दस्य द्विर्वचनं पूर्वोत्तरपदान्त्ययोः पूर्वोत्तरपदान्त्ययोः अम्भावः निपात्यत इत्याहुः . अकारश्च नपुंसकत्वं च प्रयोजनम् I तदुक्तम् कर्मधारयवद्भावे सुब्लोपपुंवद्भावान्तोदात्तत्वानि ’ इति । यत्तु’ ’ प्रकारे गुणवचनस्य इति सूत्रस्थै: ’ आनुपूर्व्ये द्वे भवतः ’ इत्यादिवार्त्तिकैर्द्विर्वचनम्, तन्न आम्रेडितानुदात्तत्वमेव ; कर्मधारयवदुत्तरेषु’ इत्यस्य वार्त्तिकेषु असम्बन्धात् । अत एव ‘मूले मूले स्थूला:’ इत्यादिषु ’ तत्तद्वार्त्तिकोदाहरणेषु भाष्यदर्शितेषु सुलुगभावः । ‘परस्परम् ’ ’ इतरेतरम्’ इत्यादौ । समासान्तोदात्तत्वमेव ’ कर्मव्यतिहारे सर्वनाम्नो द्वे ; इति वक्तव्यम् ’ समासवच्च बहुलम्’ इति तदुद्विर्वचनविधिवार्त्तिकेन समासवद्भावविधानात् । 1 यत्तु ‘अहिरहि: ’ ’ बुध्यस्व बुध्यस्व ’ इति द्विर्वचनं ‘चापले’ इति वार्त्तिकगम्यम्, तत्र न तानुदात्तत्वम् परप्रत्यायनाय 1 न भवत आम्रेडि- तद्धि शास्त्रीयं द्विर्वचनम् ; किं तु क्रियमाणोऽनेकस्वतन्त्रपदप्रयोगः । अत

  1. इति हरदत्तादयः…..मिमीते एव तत्र
  2. यत्तु … वार्त्तिकेषु घ. नास्ति ।
  3. तद्वार्त्तिकः क. इत्यादौ घ. नास्ति ।
  4. स्थूलः घ.
  5. व्यत्ययात् घ.
  6. -वत्त्वेन घ.
  7. इति क.

२९६ स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३८४ भाष्यम् –’ नावश्यं द्वे एव, यावद्भिः शब्दैः सोऽवगम्यते '

तावन्तः प्रयोक्तव्याः । ‘अहिरहिरहिः बुध्यस्व बुध्यस्व तस्मात्तत्र नाम्रेडितानुदात्तत्वम्, किं तु यथाप्राप्तः बुध्यस्व ’ स्वर इति । इत्येषा दिक् ॥ युष्मदस्मदो: षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावादय तेऽनुदात्ताः तद्विधौ 1 ‘अनुदात्तं सर्वमप्रादादौ आदेशाः इत्यनुवृत्ते- र्वाक्यभेदेन तेषामनुदात्तत्वविधानात्, एकेनैव वाक्येन अनुदात्तत्वविशिष्टानां तेषां विधानाद्वा । ’ या वामिन्द्रावरुणा’ । ’ अहन्नव॒भयो॑ः ’ । ‘यद्रो॑ व॒यम् ’ । ’ मन॑स्तके ’ । ’ नम॑स्ते रुद्रो॑ म॒न्यवे॑ । आयु॑र्मे पाहि’ । ’ इ॒षे त्वा॒र्जे त्व’ । ’ इ॒ह मा॒ ’ । ’ इह मा सन्तं पाहि ननु ‘ते ते वाच॑ सुवन्ताम् ’ मा मो हि सी:’ इत्यादौ आद्ययोः तेमाशब्दयोः कथमनिघातः कथमनिघातः ? नेमौ युष्मदस्मदादेशौ, किं तु तेशब्दो’ जसन्तः एकादेशस्वरेण उदात्तः निपात आद्युदात्तः ॥ माशब्दस्तु [ ३८४ ] ॥ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ॥ (8-1-27) अत्र ’ तिङो गोत्रादीनि’ इत्ययमंशो विधिः । ‘कुत्सना - भीक्ष्ण्ययोः’ इत्यंशः परिभाषा ; योगविभागात् । तत्र परिभाषांशः परिभाषाप्रकरण एव व्याख्यातः । विध्यंशस्य अयमर्थः - तिङन्तात्

  1. गम्यते
  2. प्राप्तएवस्वरः इतीयं दिक् 3. द्वितीया’ इत्यादिसूत्रविहिता ये वान्नावादय आदेशास्तेऽनु- दात्ताः घ. 4. तच्छब्दः ङ.
  3. कुत्सनाभीक्ष्ण्यविषयाणि गोत्रादीन्यनुदात्तानि भवन्तीति । जल्पति जल्पति गोत्रम् । ‘नित्यवीफ्सयोः ’ इति द्विर्वचनम् । विवाहादौ पुनः पुनर्गोत्रं कथयतीत्यर्थः । एतद्वचो निषिद्धत्वात् कुत्सितम् । गोत्रबुब…६.

स्नू. ३८५]

इति । ’ जल्पति गोत्रम् ’ सवानुदात्तप्रकरणम् • ३९७ पराणि कुत्सनाभीक्ष्ण्यविषयाणि गोत्रादीनि अनुदात्तानि भवन्ति - जल्पतिगोत्रम् । । ’ जल्पतिब्रुवम् ’ । भोजनाद्यर्थं एतच्च कुत्सितम्, गोत्रं ख्यापयतीत्यर्थः । ‘न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । ’ इति स्मरणात् 1 ब्रूतेरचि निपातनात् वच्यादेशगुणयोरभावे ब्रुवशब्दः कुत्सनावचनः । आभीक्ष्ण्ये – ‘जल्पति जल्पति गोत्रम् ’ । नित्यवीफ्सयो:’ इति द्विर्वचनम् । विवाहादौ पुनः पुनः गोत्रं कथयतीत्यर्थः । एतच्च अनिषिद्धत्वात् अकुत्सितम् । गोत्रब्रुव’वचन’ प्रहसनप्रकथनप्रायप्रचक्षणादयो गोत्रादयः ॥ < ॥ वा नाम ॥ इति गणसूत्रम् । तिङन्तात् परम् ‘नाम’ इत्येतत् वा निहन्यते । ‘जल्पति नाम । पक्षे आद्युदात्तः ॥ [३८५] ॥ पूजनात् पूजितमनुदात्तम् ॥ (8-1-67) एतावदेव सूत्रम् । ‘काष्ठादिभ्यः’ इति तु वार्त्तिके दृष्टम् वृत्तिकृता सूत्रे प्रक्षिप्य पठितम् । 1 पूजनवचनात काष्ठादेः परं पूजितवचनं सुबन्तं अनुदात्तं भवति । उत्तरसूत्रे तिङ्ग्रहणात् सुबन्तविषयमेतत् । काष्ठाध्यायकः ‘काष्ठाभिरूपकः ’ । आद्योदाहरणे ‘काष्ठ’ इति द्वितीयान्तं व्यस्तं पदम् । अध्ययनक्रियाविशेषणत्वेन कर्मत्वात् कर्मणि द्वितीया । न च कृद्योगलक्षणषष्ठीप्रसङ्गः ; कर्तृसाहचर्याद्धात्वर्थं प्रति ‘यत् कर्म तत्रैव कर्मणि षष्ठीविधानात् ’ । न

  1. -प्रवचनङ. 2. प्रहसनघ. नास्ति ।
  2. परं घ. नास्ति ।
  3. पदम् क. अधिकम् । च द्वितीयान्तत्वे व्यस्तत्वे च
  4. ’ भेदसम्बन्धेन यत्कर्म’ इत्येव युक्ततर: पाठ: यद्यपि, तथापि आदर्शपुस्तकेषु यथादृष्ट एव पाठः उपरि क्षिप्तः
    • विज्ञानात् ङ. स्वCC38 Shri Vipin Kumar Col. Deoband. In Public Domain. २९८

स्वरसिद्धान्तचन्द्रिकायाम् सू. ३८५] मकारान्तं पूर्वपदं श्रूयेत इति वाच्यम् ; ‘पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणं मलोपश्च ’ इति वार्त्तिकेन मलोपविधानात् । मलोपविधायि वार्त्तिकमपि क्रियाविशेषणात् कर्मणि षष्ठी न इत्यत्र मानम् । षष्ठ्यां हि सत्यां मकाराभावादनुपपन्नमेतत् स्यादिति ‘काष्ठाभिरूपकः’ इत्यत्रापि आभिरूप्यविशेषणं हरदत्तः । एवम् ’ काष्ठाभिरूपकः’ इत्यत्रापि 6 37 काष्ठ’ इति पदम् इति नपुंसकप्रथमैकवचनान्तं पूर्वपदम् । काष्ठादयः शब्दा अत्र े अद्भुतपर्यायाः पूजनवचनाः । काष्ठादिभ्यः किम् ? ‘शोभनमध्यायकः ’ । केचित्तु असमासे मलोपमनिच्छन्तः सूत्रस्य समासविषयतां मन्वानाः ‘काष्ठाध्यायः’ इत्यादिकं समासपदमेव ’ उदाहरन्ति । तत्र सामानाधिकरण्याभावात् ‘विशेषणं विशेष्येण ’ इत्यभ्य अप्रवृत्तों मयूरव्यंसकादित्वात् समासः । समासान्तोदात्तत्वापवादश्र्व’ योग इति बोध्यम् । तन्मते च सुपो धातुप्रातिपदिकयो:’ इत्येव समासे मलोपोपपत्तेः ‘मलोपश्च’ इति वार्त्तिकं व्यर्थम् । अतः पूर्वमतमेव’ ज्यायः । यदि तु असमासे मलोपरहितमपि रूपमिष्यते, तदा विकल्पेन मलोपो विधातव्य इति हरदत्तग्रन्थे स्थितम् । पूजनस्य पूजितसापेक्षत्वात् ‘पूजनात्’ इत्येतावतैव ‘पूजितम्’ इति लब्धम्’ । पुनः पूजितग्रहणम् अव्यवहितप्रतिपत्तये" । एतच्च ’ अस्मिन् प्रकरणे पञ्चमीनिर्देशेऽपि व्यवहिते कार्यं भवति’ इति ज्ञापयति । अन्यथा ’ तस्मादित्युत्तरस्य’ इति इति सिद्धेः सिद्धेः तद्गुहणवैफल्यात् । ’ यद्वृत्तान्नित्यम्’ इत्यत्र वक्ष्यामः ॥ IO ज्ञापनफलं तु

  1. -विशेषणत्वात् घ.

मलोपो व्यर्थः ङ ू 2. अत्र क. नास्ति । 7. पूर्वपदमेव घ. अद्भुतवाचकाः घ. 8. पूजितस्य पूजनव. 3. अध्यापकः घ. 4. समासमेव घ. 5. च घ. ङ. नास्ति । 1 9. लब्धे क. ङ. 10. पुनः क. ङ. नास्ति । 11. अव्यवहितपूजितप्रतिपत्तये म.

सू. ३८६]

सवानुदात्तप्रकरणम् [३८६] ॥ गतिर्गतौ ॥ (8–1–70) २९९ ‘पर्याव॑र्तते दक्षिणा’ । गतौ पस्तो गतिरनुदात्तो भवति । पत्नी॑मु॒दान॑यति । यद्यपि अत्र ‘गतौ’ इत्यनुक्तावपि’ ‘गतौ परतो गतिर्निहन्यत इत्यर्थोः लभ्यते । तथा हि-न तावत्तदनुक्तौ’ अक्रियावचने परतो गतिनिघातप्रसङ्गः ; क्रियायोग एव गतिसंज्ञाविधानेन तत्र गतेरभावात् । नापि क्रियावचने कृदन्ते परतः ; कृत्स्वरादौ सति शेष निघातेन तत्र गतेरनुदात्तस्य इष्टत्वात् । तिङन्तं तु क्रियावचनं द्विविधम्, एकगतियुक्तम् अनेकगतियुक्तं च । उभयत्रापि तिङन्तमुदात्तवच्चेत् इष्यत एव तिङन्ताव्यवहितस्य गतेर्निघातः ’ तिङि चोदात्तवति ’ इत्युत्तरसूत्रात् 1 उदात्तरहिते तिङन्ते परत: उभयत्र ‘तदव्यवहितगतेर्निघातप्रसङ्गः पर्यावर्तते दक्षिणा’ इत्यादौ इत्येतत् परमव- दिशो व्य॑भजन्त’ ‘गतेरनुदात्तत्वे ८ गतौ’ इत्यनुक्तावपि तस्मात् 1 शिष्यते । नैतदपि ; तिङि परतो यदि भवति निघातः, तर्हि उदात्तवत्येव इत्युत्तरसूत्रे नियमाश्रयणात् । अत एव वार्तिकम् - इति गतिग्रहणानर्थक्यं तिङन्यवधारणात् ’ तस्मात् ’ गतिर्गतौ ’ इति पर्यवस्यति । तथापि अक्रियावचनेऽपि परतः ‘आ मन्द्रैरिन्द्र हरिभिः’ इत्यादौ अस्त्येव गतिः । अत्र हि मन्द्रशब्दे परतः ‘याहि’ इत्येतदपेक्षमाङो गतित्वम् । ‘छन्दसि परेऽपि ’ ’ व्यवहिताश्च’ इति छान्दसो व्यवहितप्रयोगः । ’ गतौ’ इत्यनुक्तौ अनैमित्तिकोऽयं गतिनिघातः, अन्यापेक्षमपि अत्रास्ति गतित्वम् इति प्रसज्येत । एवं प्रगत 5. तिङन्तव्यवहितस्य क. 6. तदव्यवहितपूर्वस्यापि गतेः क.

  1. अनुवृत्तावपि क. 2. अर्थः घ. नास्ति ।

  2. अनुहत्तौ क.

  3. उदात्तवश्चेतीष्यते

  4. याहि क. अधिकम् । ३००

स्वर सिद्धान्तचन्द्रिकायाम् [सू. ३८७ ‘गति- आचार्य: ’ प्राचार्यः’ इत्यादौ अन्तर्भूतक्रियापेक्षया गतावतिप्रसङ्गः अव्ययपूर्वपदप्रकृतिस्वरश्च इष्यते । तस्मात् ’ गतौ ’ इति वक्तव्यम् । यदि तु ‘पदस्य’ इत्यधिकारात् समर्थपरिभाषोपस्थाने’ र्निहन्यते, यदपेक्षमस्य गतित्वं तस्मिन् समर्थे परत:’ इति सूत्रार्थः कल्प्येत’, शक्यं तदा’ ‘गतौ’ इत्येव वक्तुम् इति हरदत्त इति दिक् ॥ [३८७] ॥ तिङि चोदात्तवति ॥ (8-1-71)

उदात्तवति तिङन्ते परतः गतिरनुदात्तो भवति । ’ यान नि॒वप॑ति॒ यद॑नु॒दि॒शत ’ । ’ यदुवृत्तान्नित्यम्’ इति निघातनिषेधे’ ‘दिशति’ इति ‘वपति’ इत्याद्युदात्तम्, शप्तिपोरनुदात्तत्वात् । शविकरणः‍ विकरणस्वरेण मध्योदात्तः मध्योदा॒त्तः । ’ यद्व॒त्सान॑पाक॒रोति॑ ’ ! गतेः ’ गतिर्गतौ ’ इति निघातः । उदात्तवति व्यभजन्त’ । ननु तिङ्ङ्ग्रहणं किम् ? ‘देवमनुष्या दिशो व्य॑भजन्त’ । व्यर्थम् । न च आ मन्द्रैरिन्द्र’ मन्द्रैरिन्द्र’ इत्यत्र अक्रियावचनेऽति- अत्र आद्यस्य प्रसङ्गः ; ससम्बन्धिकेन गतिशब्देन स्वसम्बन्धिक्रियावचनस्य आक्षेपेण तस्मिन् उदात्तवति गतिर्निहन्यत इत्यर्थलाभात् । क्रियावचने कृदन्ते परतः शेषनिघातेन गतेरनुदात्तस्य’ इष्टत्वादिति चेत् — अत्र वार्त्तिककृतः - ’ यत्क्रियायुक्ताः ’ इति न्यायेन गतिना स्वसम्बन्धिक्रियावचनस्य आक्षेपे धातोरेव क्रियावचनतया धातुरेव आक्षिप्येत । ततश्च यत्र धातुरुदात्तवान् यान्न निवर्पति इत्यादौ, तत्रैव अयं निघातः

  1. -उपस्थितौ घ.
  2. यदि घ, अधिकम् । स्याल । यत्र तु प्रत्ययस्य नास्ति ।
  3. शविकरणः घ. 6. हरिभिः घ, अधिकम् ।
  4. तावत् छ
  5. निषेधः । ध.

अनुदात्तत्यस्य घ. 8. इत्यादि। क.

सू. ३८७]

सर्वानुदात्तप्रकरणम् ३०१ उदात्तत्वेन तिङन्तमुदात्तवत् ‘यद॑नु॒दि॒शत॑’ इत्यादौ’, तत्र न स्यात् । तिङ्ग्रहणे तु सति यत्र तिङन्तस्य उदात्तवत्त्वम् तत्र’ गतिनिघासः सिध्यति । तदुक्तम् ‘तिङ्ग्रहणम् उदात्तवतः परिमाणार्थम् ’ ’ -इति । भाष्ये तु तिङ्ग्रहणं प्रत्याख्यातम् 1 तथा हि— एवमपि ‘प्रपचतितराम्’ इत्यादौ आमन्ते गतिनिघातो न सिध्यति ६ प्रत्ययस्वरेण आम एव उदात्तत्वेन तिङन्तस्य शेषनिघातेन उदात्त - वन्त्वाभावात् । तस्मात्तिङ्ग्रहणं त्यक्तव्यम् 1 यत्क्रियायुक्ताः ’ इत्यस्य च’ नायमर्थः – यस्य क्रिया यत्क्रिया धातोरेव क्रियावाचित्वेन तस्यैव गतिना आक्षेपः तु या क्रिया यत्क्रिया इति । एवं च क्रियारूपमर्थं प्रत्येव गतिसंज्ञा । तस्य च अत्र व्यवहारानर्हत्वात् तत्प्रधानं पदं गतिना आक्षिप्यत इति कियाप्रधाने तिङन्ते आमन्ते च परतो गतिनिघात’ इति । ननु आमन्ते गतिनिधातार्थं तिङ्ङ्ग्रहणं त्यक्तव्यम् इति अनुपपन्नम् ’ कुगतिप्रादयः’ इत्यामन्तेन गतिसमासे गतिकारकोपपदात् ’ इत्यत्र कृद्ग्रहणप्रत्याख्यानात् स्वरे 6 ,

सति शेषनिघातेनैव तत्र कारकोपपदानां कृद्भिः सह इति । येन स्यात् । अपि गतेरनुदात्तत्वसिद्धेः । न च ’ गति- समासवचनम्’ इत्युक्तेः आमन्तेन गतिसमासा सम्भवः ; न हि गत्यादीनां कृद्भिरेव समास इति तदर्थः । किं तु तेषामविशेषेण समासो भवति, भवति, कृद्भिस्तु सह प्राक्सुबुत्पत्तेरिति । अत एव आमन्ते कृत्स्वरार्थम् ’ गतिकारकोपपदात्’ इत्यत्र कृद्ग्रहणं भाष्ये अत्र इत्थं भाष्याशयमाहुः — गत्यादीनां

  1. इत्यादिः क.
  2. सर्वत्र क. ङ. अधिकम् । 3. परिणामार्थम् कृ. ङ, वर्ज सर्वत्र प्रत्याख्यातम् इति चेत् —कृद्भिरेव समास: स ,
  3. -अनङ्गत्वात् घ. 7. सिद्धः घ. ङ. अधिकम् ।

कृत् घ, अधिकम् । 4. वचनस्य क. 9. कुत्स्वरे घ 5. बहिया 5. Shri Vipin Kumar Col. Deoband. In Public Domain. नास्ति । ३०२ च

स्वरसिंद्धान्तचन्द्रिकायाम् [सू. ३८७ प्राक् सुबुत्पत्तेरिति उक्तवचनार्थ इति ‘पक्षमाश्रित्य आमन्ते 1 एवं हि आमन्तत्य गतेश्व अव्याप्तिरत्र भाष्ये चोदिता समासाभावेन पृथक्स्वरप्राप्तौ गतिनिघातार्थं तिङ्ग्रहणं त्यक्तव्यम् इति । अत एव परिभाषावृत्तौ ’ गतिकारकोपपदानाम्’ इति वचनम् उक्तविधया द्वेधा व्याख्यातम् । स्यादेतत् – ‘उप॒ प्रेत॒ जय॑ता नरः ’ ’ सम्प्रच्यवध्वमनुसम्प्रयात’ ’ रूपेण ह्यसा रूपमभ्येति इत्यादौ ‘गतिर्गतौ’ ’ तिङि चोदात्तवति’ इति सूत्राभ्यां कथं गतिनिघाताभाव इति । अत्रेदं तत्त्वम् -’ अपादादौ’ इत्यधिकारात् ‘उपप्रेत॑ इत्यादौ गतिनिघाताभावः । ‘अनुदात्तं सर्वमपादादौ’ इत्यतः आ पादसमाप्तेः ‘अपादादौ’ इत्यधिक्रियत इति वृत्तिकृदुक्तेः । अनु॒सम्प्रया॑त॒ ’ ’ अभ्यैति ’ इत्यादौ तु छन्दांसे सर्वविधीनां वैकल्पिकत्वान्निघाताभावः । अत गतिकारकोपपदात् कृत् ’ 6 एव ’ इत्यत्र मनोरमायामुक्तम् – ’ उपप्रेत कुशिका’ इत्यादौ समासो न कृत:

’ गतिर्गतौ’ इति तु छन्दसि सर्वविधीनां विकल्प" ‘गतिर्गतौ ’ नान्न’ कृतम्, ‘अपादादौ’ इत्यधिकाराद्वेति । यत्तु इत्यादेः समासविषयत्वात् ‘सम्प्रच्यवध्वम्’ इत्यादौ समासाभावान्न गतिनिघातः” इति स्वरमञ्जर्यं तद्विवरणे च कथितम्, तच्चिन्त्यम् ; समासग्रहणानुवृत्त्यभावात् समासाभावेन पृथक्स्वरप्राप्तौ गतेर्निघातार्थम् ’ तिङि चोदात्तवति’ इत्यत्र तिङ्ग्रहणं त्यक्तव्यम् इत्येवं तात्पर्यकानन्तरोक्त’ भाष्यविरोधात् गतिर्गतौ’ इत्यत्र ‘गतौ’’ इत्यनुक्तौ ’ तिङि चोदात्तवति’ इत्यत्र तिङ्ग्रहणाभावे च ‘आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिः ’ इत्यत्र अतिप्रसङ्ग इति अत्र

  1. मतं क.
  2. कृत् क. मास्ति । 3. कुशिक क. आमन्ते
    • अनन्तरोदाहृतभाष्यघ. ङ. 6. ‘गतेः’ इत्युक्तौ क.
  3. अतिप्रसङ्गवारणाय गतिप्रहणं 4, विकल्पान cār: Shri Vipin Kumar Col. Deपिणं Deoband युकत्वाच घ. 1सू. ३८८]

सर्वानुदात्तप्रकरणम् । ३०३ भाष्यवार्त्तिकविरोधाच्च । न हि अत्र आङो मन्द्रशब्देन समासोऽस्ति । स्वरमञ्जरीतद्विवरणयोरपि " " आ मन्द्रैः’ इत्यत्र अतिप्रसङ्गवारणार्थं गतिग्रहणं तिङ्ग्रहणं च " इत्युक्तत्वाच्च । अत एव मनोरमायामपि " ’ उपप्रेत कुशिका’ इत्यादौ समासाभावविषये छान्दसत्वान्न गतिनिघात: " इत्युक्तम् । इदं तु ध्येयम् —’ पत्नी॑मु॒दान॑यति ‘यद॑नु॒दि॒शति॑’ इत्यादिकम् ‘गतिर्गतौ’ इत्यादेर्ना साधारणम् उदाहरणम् । तिङ्समासे समासान्तोदात्तत्वमेव इति कैयटादिमते अत्र’ मध्योदात्तत्वस्य बहुलग्रहणसाध्यत्वेन शेषनिघातेनैव गतेरनुदात्तत्वसिद्धेः । तिङ्समासे कृदुत्तरपदप्रकृतिस्वर इति मतेऽपि तत एव तदनुदात्तत्वसिद्धेश्व । तस्मात् यत्र गतेस्तिङन्तस्य’ न समास: तत्र गत्यनुदात्तत्वमेव तयोः फलम् इति ॥ ॥ [ ३८८ ] ॥ आमन्त्रितस्य च ॥ (6–1–198) सामन्त्रितम्’ इति सम्बोधनप्रथमाया आमन्त्रितसंज्ञा उक्ता, तदन्तस्य आदिरुदात्तः । अग्ने॒ त्वं नो॒ अन्त॑मः ’ । वायो ’ वीहि स्तोकानाम् ’ । ’ ‘असावेहि’ । ’ मित्रावरुणा शरद’ । ’ इन्द्रा॑ग्नी रोचना दिवः’ । आमन्त्रितान्ते योऽन्यः स्वरः प्राप्तः सर्वस्य अयमपवाद इति । तत्र इत्युक्तम् । अदशब्दोऽपि फिट्स्वरेण तस्य ’ अग्निवायुशब्दौ अन्तोदात्तौ ’ अग्निवायुशब्दौ ’ अन्तोदात्तः । ’ मित्रावरुणा '

  1. न ह्यत्र… इत्युक्तत्वाच्च घ. नास्ति । 2. कुशिक क. ‘देवताद्वन्द्वे च’ इत्युभयपद- प्रकृतिस्वरः प्राप्तः । सर्वस्या- यमवादः । तत्र अग्निवायु…
  2. अत्र 4. न. निघातः क. क. नास्ति । अधिकम् ।
  3. ’ असावेह्यसावेहि ’ घ.
  4. तस्य, अदश्शब्दोऽपि फिट्स्वरेण इत्युक्तम् । इन्द्राग्नी इत्य… न्तोदात्तत्वम् । देवबर् हि: क. 7. मित्रामिवायुशब्दाः घ. 8. अन्तोदात्ताः घ. affair! Vipin for Dept. In Public Domain. ३०४

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३८९ इत्यत्र ’ देवताद्वन्द्वे च’ इत्युभयपदप्रकृतिस्वरः प्राप्तः । ’ इन्द्रामी ’ श॒तव॑ल॒शं विरौह ’ इत्यत्र तु समासान्तोदात्तत्वम् । दे॒व॑बर्हः इत्यादौ ’ स्वमोर्नपुंसकात्’ इत्यामन्त्रितस्य लुक्यपि प्रत्ययलक्षणेन अयं स्वरो भवति’ ; अङ्गकार्यत्वाभावेन ‘न लुमता’ इति निषेधाभावात् । यत्तु ‘स्वरविधौ अनङ्गकार्येऽपि प्रत्ययलक्षणं न ’ इति ‘संज्ञायामुपमानम्’ इत्यारम्भात् ज्ञापितम्, तदपि अनुबन्धाश्रयस्वरविषयम् इति प्रागेवोक्तम् ॥ [३८९] ॥ आमन्त्रितस्य च ॥ (8–1—19) पदात् परस्य अपादादौ वर्तमानस्य’ आमन्त्रितविभक्त्यन्तस्य सर्वोऽच् अनुदात्तो भवति । षाष्ठस्य पूर्वसूत्रस्य अयमपवादः । अय॒माष्टमिकः । ‘त्वम॑ग्ने॒ द्युभि॑ः ’ । ’ आवा॒यो भूष’ । अग्नये त्वा परिददाम्यसौ’ । ’ आ नौ मित्रावरुणा ’ । उभा वमिन्द्राग्नी ’ । इमं मै गङ्गे यमुने सरस्वति॒ शुतु॑दि॒ स्तोम॑म् ’ । इह ‘गङ्गे ’ इत्याद्यामन्त्रितत्रयस्य निघाते संहितायामैकश्रुत्यम् । पादादित्वात् शुतुद्रिशब्दस्य न निघातः ; किं तु षाष्ठम् आद्युदात्तत्वम् । एवं च अमन्त्रितान्तानां पदात् परत्वे अपादादिस्थत्वे च सर्वानुदात्तत्वम्, अन्यत्र आद्युदात्तत्वम् इति’ बोध्यम् ॥ (वा) । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ॥ समाने एकस्मिन् वाक्ये निमित्तनिमित्तिनोर(धारभूते सति भवन्ति’ इत्यर्थः । तेन निघातो युष्यदस्मदादेशाश्च

  1. भवति घ. नास्ति ।
  2. अपादादिस्थस्य घ. 3. भवति घ. नास्ति ।
  3. इति क. नास्ति ।
  4. -आदेशश्च क.
  5. भवति क.
  6. आमन्त्रितानहम्-0. Sha Vipin Kumar Col. Deoband. In Public Domain. गृहाम्य- सू. ३८९]

सवानुदात्तप्रकरणम् मा३इ पत्नीव३: ’ " मा मो ‘सौऽब्रवीद्विष्णवे हि ’ इत्यादौ नामन्त्रितनिघातः’ ३०५ हासीदिन्द्रौजस्विन् ’ ; निमित्त- निमित्तिनोर्भिन्नवाक्यस्थत्वात् । न च अस्य पदविधित्वेन समर्थपरिभाषोपस्थितौ सामर्थ्याभावादेव अत्र अतिप्रसङ्गनिरासे वार्त्तिकवैयर्थ्यम् ; ’ एकार्थीभावः सामर्थ्यम्’ इति तत्र’ प्रकृते तदभावेन तदप्रवृत्तेः । ’ परस्परव्यपेक्षां सिद्धान्तात् सामर्थ्यमेके ’ सिद्धा- इति तत्रत्यमतान्तरेऽपि अव्याप्त्यतिव्याप्तिवारणाय प्रकृते समानवाक्याधिकारस्य अवश्यकर्तव्यत्वेन तत्रैव भाष्यादौ हि-असति हि समानवाक्याधिकारे वृक्षस्य लम्बते शाखायाम्’ इत्यत्र ’ तिष्ठति ’ न्तितत्वात् । तथा स्तिष्ठति कूले ’ ’ लम्बते’ इति स्यात् । 6 नद्या- तिङन्तयोः ’ तिङतिङ : ’ इति निघातो न

नद्याः वृक्षस्य ’ इति पदद्वयस्य उक्ततिङन्ताभ्यां सामर्थ्यविरहात्’ । नद्याः कूले ’ वृक्षस्य शाखायाम्’ इत्यन्वयात् । एवं ’ पटवे ते दास्यामि’ इत्यत्र युष्मदादेशो न स्यात् ; ‘‘समानाधिकरणम् असमर्थवद्भवति’ इति वचनात् 1 तथा च समर्थसूत्रे वार्त्तिकम् —’ समर्थनिघाते हि समानाधिकरणयुक्तेषु उपसङ्ख्यानम्, असमर्थत्वात् ’ – इति । एवं समानवाक्याधिकाराभावे ‘भवतीह विष्णुमित्रः, देवदत्तागच्छ’ ‘अयं देवदत्तागच्छ’ ‘अयं दण्डो हरानेन ’ इत्यत्र आमन्त्रितनिघातस्तिनिघातश्च स्यात् । इह हि विष्णुमित्रमन्वेष्टुं गच्छन्तं देवदत्तं प्रति ‘भवतीह’ इति वाक्यं प्रयुक्तम् इति तद्भवनस्य तदागमनहेतुत्वेन अन्वयादस्ति व्यपेक्षासामर्थ्यम् । ‘अयं दण्डः’ इत्यादिवाक्येऽपि दण्डशब्दोपात्तस्य दण्डस्य ‘अनेन ’ इति पदेन ‘हरणहेतुत्वप्रतिपादनात् सामर्थ्यम् । न च ’ समानवाक्याधि-

  1. आमन्त्रितस्य निघातः क. 5. समानाधिकरणमसामर्थ्यवत् घ. 2. तत्र क. नास्ति । ।
  2. हरणस्य हेतुत्वघ.
  3. समानवाक्यत्वाधित्र.
  4. भाष्ये क.
  5. -अभावात् घ. सर्वC-28ri Vipin Kumar Col. Deoband. In Public Domain. ३०६

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३९० कारेऽपि एकार्थकत्वेन’ अत्र एकवाक्यत्वसद्भावात् अतिप्रसङ्गतादवस्थ्यम् लौकिकं इति वाच्यम् ; न हि ‘अर्थैकत्वादेकं वाक्यम्’ इति वाक्यम्’ इह गृह्यते । किं तु ‘आख्यातं साव्ययकारकविशेषणं वाक्यम्’ इति समर्थसूत्रभाष्ये’ परिभाषितम् । अत्र च ’ आख्यातम् ’ इत्येकत्वं विवचितम् । तेन ‘भवतीह’ इत्यादिवाक्ये आख्यातभेदेन वाक्यभेदान्नातिप्रसङ्गः । ’ अयं दण्डः’ इत्यत्रापि अस्तीति आख्यातस्य नद्यास्तिष्ठति कूले’ इत्यादौ सामगम्यमानत्वाद्वाक्यभेद एव । र्थ्याभावेऽपि एकवाक्यत्व सद्भावान्नाव्याप्तिः‍ । एवं च अत्र पदविधौ समर्थपरिभाषाया न व्यापार इति बोध्यम् । ’ तिङो गोत्रादीनि ’ इत्यादिनिघातोऽपि समानवाक्य एवेति ॥ [ ३९० ] || आम एकान्तरमामन्त्रितमनन्तिके ॥ (8-1-55) ८ अन्तरयति इति अन्तरं व्यवधायकम् । एकमन्तरं यस्य तत् एकान्तरम् । तादृशम् आम उत्तरं यदामन्त्रितान्तम्, तन्न अनुदात्तं भवति अनन्तिके दूरे गम्ये । ’ आम् पचसि देवदत्त३’ 1 आष्टमिके निघाते निषिद्धे षाष्ठमामन्त्रितायुदात्तत्वम् । ‘दूराद्धूते च’ इति टेः प्लुतः । यद्यपि अत्र ’ एकश्रुतिदूरात् सम्बुद्धौ इत्यैकश्रुत्यं प्राप्नोति, तथापि अनन्तिकशब्दोपस्थितस्य तस्यापि अनेन निषेधात्तदभावः । प्लुतोदात्तस्य तु नायं निषेधः ; तस्य असिद्धत्वात् । केचित्तु अनन्तिकशब्देन यन्न दूरम्, नाप्यन्तिकम्, तदुच्यते, न तु अधर्मानृतादिन्यायेन दूरमनन्तिकशब्दार्थः । एवं

  1. अर्थैकत्वेन घ.
  2. नातिव्याप्तिः
  3. अतिप्रसङ्गस्य तादवस्थ्यम् क. 6. इति क. क. ख. घ. अधिकम् ।
  4. लौकिकवाक्यं घ.
  5. -नृता इति न्या- घ.
  6. समर्थसूत्रे भाष्ये क.

सू. ३९१]

सर्वानुदात्तप्रकरणम् ३०७ हि ‘दूरे’ इत्येव ब्रूयात् । एवं च न अत्र एकश्रुतिप्रसङ्गः’ । लुतोऽपि नोदाहर्तव्य इति । पक्षद्वयमप्येतत् भाष्यादौ स्थितम् ॥ [३९१] ॥ सुबामन्त्रिते पराङ्गवत् स्वरे ॥ (2-1-2) सुबन्तमामन्त्रितान्ते परतः परस्य — तस्यैव अमन्त्रितान्तस्य, अङ्गवत् — अवयववत् स्यात् स्वरलक्षणे कर्तव्ये । तादात्म्यातिदेशोऽयम् । सुबामन्त्रितसमुदाये एकस्मिन् आमन्त्रिते सम्पन्ने यः स्वरः कर्तुं शक्यते स कर्तव्य इति फलितम् । तेन फलितम् । तेन आमन्त्रितनिघातः आमन्त्रिताद्युदात्तत्वं च सुबामन्त्रित समुदायस्य भवति । ‘उदैनमुत्त॒रान्न॒याग्ने॑ घृ॒तेनाहुत’ । ’ घृतेनाहुत’ इति सुबामन्त्रितसमुदायस्य निघातः ; पदात् परत्वात् । ‘मरुतां पितस्तदहं गृणामि ’ । अत्र ‘मरुतां पितः ’ इति तादृशसमुदायस्य षाष्ठमाद्युदात्तत्वम् । सुबिति किम् ? ‘पीड्ये पीड्यमान’ । पीड अवगाहने । चुरादिणिच् । कर्मणि लट उत्तमपुरुषैकवचनमिद् । यकि णिलोपः । ‘तास्यनुदात्तेत्’ इति इद् अनुदात्तः 1 यकः प्रत्ययस्वरः । एकादेशस्वरेण ‘पीड्ये’ इत्यन्तोदात्तम् । पीड्यमानस्य आमन्त्रितनिघातः । पराङ्गवद्भावे तु समुदायस्य आदिरुदात्तः स्यात् । न च अत्र सामर्थ्याभावः सम्बोधनपदस्य क्रियाविशेषणत्वेन पीड्यमानसम्बोधनिका क्रिया इत्यन्वयात् । आमन्त्रित इति किम् ? ‘गेहे गार्ग्यः’ । I गेहशब्द उच्छादिः अन्तोदात्तः । एकस्याम् आसनादिकायां क्रियायागुभयोरपि कारकत्वात्तद्वारेण’ अस्ति सामर्थ्यमिति हरदत्तः । परग्रहणं पूर्वस्य अङ्गवन्मा भूदिति । ‘गार्ग्यः कुण्डेनाटन् ’ । अत्र ’ कुण्डेन’ इत्यस्य न पूर्वाङ्गवद्भावः । छन्दसि

  1. ऐकश्रुत्यप्रसङ्गः घ.
  2. ’ सुबामन्त्रितसमुदाये ’ इत्यादि ’ आमन्त्रिताद्यदात्तत्वं च ; इत्यन्तं घ. नास्ति ।
  3. तद्द्वारेण नासामर्थ्यम् घ.

३०८

स्वर सिद्धान्तचन्द्रिकायाम् [सू. ३९१ तु परमपि पूर्वस्य अङ्गवदिष्यते । ‘आ तै पितर्मरुताम् ’ । अत्र ‘मरुताम्’ इत्यस्य ’ पित:’ इत्यामन्त्रिताङ्गवद्भावात्’ निघातः । ‘वृणीष्व दुहितर्दिवः’ । अङ्गग्रहणाभावे कार्यातिदेशोऽयं स्यात् ‘सुबन्तं परवत् कार्यं लभते’ इति, कार्यस्य प्राधान्यात् । ततश्च यत्र पादादिरामन्त्रितम्, तत्र आमन्त्रितस्य सुबन्तस्य च इति द्वयोरपि’ आद्युदात्तत्वं स्यात् इत्यङ्गग्रहणं तादात्म्यातिदेशलाभाय । परत्र परशब्दप्रयोगादेव वत्यर्थलाभे किमर्थं वत्करणम् ? स्वाश्रयमपि यथा स्यात्, ‘आम् कुण्डेनाटन् ’ इत्यत्र आम एकान्तरमामन्त्रितमनन्तिके’ इत्येकान्तरता भवति, इति वृत्त्यादौ । एवं च अत्र स्वाश्रयमेकान्तरत्वमाश्रित्य निघाते निषिद्धे ‘अटन् ’ इत्यस्य आद्युदात्तत्वं प्राप्तम् । तस्यां च दशायां ‘कुण्डेन ’ इत्यस्य अनुप्रवेशात् समुदायस्य आद्युदात्तत्वम् इति हरदत्तः । स्वरग्रहणं किम् ? षत्वणत्वादिकं प्रति पराङ्गवद्भावो मा भूत् । अन्यथा कूपे सिञ्चन् ’ ’ चर्म नमन् ’ इत्यत्र षत्वणत्वे स्याताम् ; ; पराङ्गवद्भावेन’ ऐकपद्यात् । ‘घृतेनाहुत’ इत्यादौ पराङ्गवद्भावेन प्रातिपदिकानुप्रवेशात् ‘सुपो धातु’ इति सुब्लुक् स्यात् । अत्र’ भाष्यम् – स्वाश्रयं पदादित्वमादाय ‘सात् पदाद्यो: ’ इति निषेधान्न षत्वप्रसङ्गः 1 ‘पूर्वपदात् संज्ञायामेव ’ इति नियमान्न णत्वप्रसङ्गः । पूर्वं पदं पूर्वपदम् इति योगाश्रयणात् । पराङ्गवत्’ इत्यत्र परग्रहणेन सन्निधानात् आमन्त्रितपरामर्शात् तस्य सुबन्तैकान्ततया सुबन्तकार्य एव पराङ्गवद्भावात् न सुब्लुक् - प्रसङ्ग इति । उक्तसन्निधानादेव आमन्त्रितप्रयुक्तकार्य प्रति पराङ्गवद्भावा- (

  1. अङ्गवत्त्वात् घ. 2. द्वयोरनुदात्तत्वं घ.
  2. स्वरे किम् ? घ.

पराङ्गवत्त्वेन घ. घ. नास्ति । 3. स्वाश्रयणमपि घ. 4. आटन् क. 7. अत्र

सू. ३९१] श्रयणान्न

सर्वानुदात्तप्रकरणम् ३०९ कश्चिद्दोष इति कौस्तुभे । एवं च स्वरग्रहणं न कर्तव्यम् इति स्थितम् । अत्र वार्त्तिकम् – (वा) | षष्ठ्यामन्त्रितकारकवचनं तन्निमित्त- ग्रहणं वा ॥ इति । षष्ठ्यन्तम्, आमन्त्रितान्तबाच्यक्रियां’ प्रति यत् कारकम् तच्च पराङ्गवद्भवति नान्यत् इत्यर्थः । तेन क्षत्रेणाग्ने स्वायुः सरभस्व मित्रेणाग्ने मित्रधेयै यतस्व’ ’ मरुद्भिरिन्द्र सख्यम् ’ ; ऋ॒तेना॑ग्न आयु॑षा॒ वर्च॑सा ’ इत्यादौ न पराङ्गवद्भावः ‘क्षत्रेण’ इत्यादेः उक्तान्यतररूपत्वाभावात् 1 न च सामर्थ्याभावादेव अत्र अतिप्रसङ्गाभावः ; क्रियाद्वारकस्य व्यपेक्षासामर्थ्यस्य सत्त्वात् इति कैयटः ! । अत्र च ’ गोषु स्वामी’ इत्यादौ पराङ्गवद्भावो न स्यात् ; शैषिकसप्तम्यन्तस्य अषष्ठ्यन्तत्वात् अकारकत्वाच्च इत्यस्वरसात् ’ तन्निमित्तग्रहणं वा’ इति वार्त्तिकम् । तस्य आमन्त्रितार्थस्य यन्निमित्तं तदेव पराङ्गवत् इत्यर्थः । स्वामित्वस्य गोनिमित्तकत्वान्न अत्र’ अव्याप्तिः । ’ क्षत्रेणमे ’ इत्यादावपि नातिप्रसङ्गः ; तन्निमित्तत्वाभावादिति भाष्यादौ । कौस्तुभे तु स्थितम् – तन्निमित्तग्रहणं मास्तु, ‘समर्थानुवृत्त्यैव ‘ऋतेन मित्रावरुणावृतावृधावृतस्पृशा क्रतुं ‘बृहन्तमाशाथ’ इत्यादौ अतिप्रसङ्गनिरासस्य सिद्धत्वात् । ‘ऋतेन’ इत्यस्य ’ आशाथ ’ इत्याख्यातेन अन्वयात् ‘मित्रावरुणौ ’ इत्यस्य तस्य च परस्परासामर्थ्येन पराङ्गवद्भावाभावात् । तन्निमित्तग्रहणपक्षे ’ ’ मित्रावरुणौ’ इत्यस्य ‘पराङ्गवद्भावो न स्यात् । ऋतस्य 4

  1. आमन्त्रितवाच्यक्रियां घ.

  2. ’ न पराङ्गवद्भावः’ इत्यादि ‘पराङ्गवद्भावो न स्यात’ इत्यन्तं घ. नास्ति ।

सामर्थ्यानुक. 5. स्पृशन्तघ. 6. अपराङ्ग- क.

३१० वर्धयितारौ दृश्यते '

स्वरसिद्धान्तचन्द्रिकायाम् इत्यर्थे अन्तर्भावितण्यर्थादूवृधेः इति पूर्वपदस्य दीर्घे सति [सू. ३९१ क्विपि ’ अन्येषामपि ऋतावृधौ ’ इति न च मा व्युत्पादितम् । न च तत्र मित्रावरुणौ निमित्तम् । भूत् ; 3 इत्यस्य पराङ्गवद्भाव इति वाच्यम् ‘ऋतावृधौ ’ निघातानापत्तेः, द्वितीयपादादित्वात्, शुतुद्रिवत् । अत एव अत्र वेदभाष्यकारैरपि ’ तन्निमित्तग्रहणं मास्तु, सूत्रेणैव सकलेष्टसिद्धेः’, इत्युक्तम् । एवं च ‘मित्रावरुणौ’ इत्यस्य समर्थत्वेन पराङ्गवद्भावात् ‘ऋतावृधौ ऋतावृधौ’ इति न पादादिः । अतो निहन्यत एव । न च सर्पिष्कालकादिसिद्धये ’ ’ इसुसोः सामर्थ्ये’ इत्यत्र’ पठितम् ’ समानाधिकरणमसमर्थवद्भवति’ इत्येतदिह’ प्रवर्तते ; सर्पिष्पीयते’ इत्यादिसिद्धये ’ अधात्वभिहितम् ’ इति’ विशेषितत्वात् । इह धात्वभिहितत्वात् । न चैवं शुतुद्रिपदमपि निहन्येत पूर्वस्य सरस्वतिशब्दस्य पराङ्गवद्भावेन अपादादित्वादिति वाच्यम् ; ’ सचत ’ इत्यनेन सर्वेषामन्वयेऽपि परस्परमसामर्थ्यात् । नन्वेवमपि ’ ’ आमन्त्रितं पूर्वमविद्यमानवत्’ इत्यविद्यमानवत्त्वात् ‘मित्रावरुणौ ’ इत्यस्य कथं पराङ्गवद्भावः ’ ? मैवम् ; परस्य हि कार्ये कर्तव्येऽविद्यमानवद्भावः, न स्व कार्येऽपि, तु पूर्वग्रहणवैयर्थ्यापत्तेः । च पराङ्गवद्भावः परस्य कार्यम्, किं तु स्वस्य 1 ननु एवमपि मित्रावरुणौपदस्य पराङ्गवत्त्वात् पादादित्वेन ‘अपादादौ ’ इति पर्युदासः स्यादिति चेत् — न ह्ययं कार्यस्य अतिदेशः, किं तु तादात्म्यस्य । तस्मिंश्च अतिदिष्टे विशिष्टमामन्त्रितम् इति बुद्धया यद्यत् कर्तुं शक्यं तत् क्रियते । किं च कार्यातिदेशेऽपि अशास्त्रीयस्य दौर्लभ्यम्, किमुत तादात्म्यातिदेशे

  1. तत्र क. नास्ति । 2. -सिद्धि: घ.
  2. सर्पिष्कालिकादिसिद्धये क.
  3. अत्र क. नास्ति । / अधिकम् ।
  4. न ङ.

इत्यादिक. 7. अपि क. नास्ति । 8. पराङ्गवत्त्वलाभः क. 9. - वरुणशब्दस्य क. 10. चेन्न CC-0. Shri Vipin Kumar Col. Deoband. Public Domain. न सू. ३९१]

सर्वानुदात्तप्रकरणम् ३११ इति । यद्यपि ‘ऋतेन मित्रावरुणौ’ इत्यादावपि कैयटोकरीत्या क्रियाद्वारकं व्यपेक्षा सामर्थ्यमस्त्येव, तथापि साक्षाद्व्यपेक्षाविरहादेव अतिप्रसङ्गनिरासे किं तन्निमित्तग्रहणेन इत्याशयः । यत्तु ‘तन्निमित्तग्रहणे ’ मित्रावरुणौ ’ इत्यस्य पराङ्गवद्भावो न स्यात्’ इत्युक्तम्, तत्र केचिदाहुः - ’ मद्राणां राजन् ’ ’ गोषु स्वामिन्’ इत्यादौ राजत्वस्वामित्वादेः प्रवृत्तिनिमित्तस्य मद्रादिनिमित्तकत्वमात्रेण ’ तन्निमित्तग्रहणं वा’ इति वार्त्तिकविषयत्वस्य भाष्यादौ प्रदर्शनात् तन्न्यायेन ऋतस्य वर्धनायां मित्रावरुणयोर्निमित्तत्वमाश्रित्य तन्निमित्तग्रहणपक्षेऽपि सुवचः पराङ्गवद्भाव इति ॥ (वा) सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्यो- पसंख्यानमनन्तरत्वात् ॥ तीक्ष्णेन परशुना वृश्चन्’ । इह ’ तीक्ष्णेन ’ इत्यस्य आमन्त्रितान्तरस्यापि पराङ्गवद्भावो वार्त्तिकलभ्यः । न च परस्य पराङ्गवद्भावेन आमन्त्रितेन एकीभावे ’ तीक्ष्णेन’ इत्यस्यापि तदानन्तर्यम् इति वाच्यम् ; स्वरग्रहणेन स्वर एव पराङ्गवद्भावेन आनन्तर्ये पराङ्गवत्त्वाभावात् ग्राह्यम् ; न च स्वरार्थमानन्तर्यं स्वरशब्द- गौणग्रहणे मानाभावादिति कैयटः । स्वरग्रहणप्रत्याख्यान- पक्षे तु आनन्तर्येऽपि पराङ्गवद्भावादिष्टसिद्धेर्वार्त्तिकं न कर्तव्यम् ॥ (वा) अव्ययानां प्रतिषेधो वक्तव्यः ॥ ‘उच्चैरधीयान’ । ‘नीचैरधीयान’’ । ‘उच्चैर्नीचैरशब्दौ स्वरादिषु आन्तोदात्तौ पठितौ’ इति कैयटहरदत्तौ’ । अव्ययीभावस्य तु नायं

  1. अनामन्त्रितस्यापि क. क.
  2. पठिताविति कैथटहरदत्तौ क. नास्ति ।
  3. c. अधीयानpin kammar Col. Deoband. In Public Domain. Shri ३१२ प्रतिषेधः ;

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३९२ ‘अव्ययीभावस्य अव्ययत्वे प्रयोजनं लुङ्मुखस्वरोपचाराः ’ इति परिगणनात् अन्यत्र अव्ययत्वाभावात् । ’ उपाग्न्यधीयान ’ ॥ [३९२] | आमन्त्रितं पूर्वमविद्यमानवत् ॥ (8-1-72) पूर्वशब्दस्य सम्बन्धिशब्दत्वात् परम् इति लभ्यते । पूर्वम् आमन्त्रितम् अविद्यमानवत् परस्य कार्ये कर्तव्ये । तेन ‘स्वान भ्राजाद्वारे बम्भारे हस्त सुह॑स्त॒ कृ॒शा॑नो’ इत्यत्र ‘स्वान’ इत्यस्य अविद्यमानवत्त्वेन पदात् परत्वाभावात् ’ भ्राज’ इत्यादीनां षण्णामामन्त्रितानां न’ निघातः । स्वानादयश्च सोमरक्षका देवाः । तथा च ब्राह्मणम् —’ स्वान॒भ्राजेत्याहै॒ते वा अमुष्मिँल्लोके सोममरक्षन्’ इति । अतः सामानाधिकरण्याभावात् ‘नामन्त्रिते समानाधिकरणे’ इति निषेधो न शङ्क्यः । ’ इडे रन्तेऽर्दिते सर॑स्व॒ति प्रिये प्रेय॑सि॒ महि विश्रुति’ । अत्रापि ‘इडे’ इत्यस्य अविद्यमानवत्त्वात् ‘रन्ते’ इत्यादीनां न निघातः । ’ इडे’ इत्यादयः शब्दाः पर्यायाः, न तु एषु कश्चित् सामान्यवचनः, कश्चिश्च विशेषवचनः । तथा च वाक्यशेषः—— एतानि॑ ते अन्निये नामा॑नि’ इति । असति पूर्वग्रहणे ‘स्वान ’ इत्यादिकमामन्त्रितायुदात्तत्वलक्षणस्वकार्येऽपि असिद्धं स्यात् 1 न चैवं तस्य निरवकाशत्वम् ; यत्र वक्ष्यमाणसूत्राभ्याम् अविद्यमानवत्त्वनिषेधः तद्विकल्पो वा, तस्य पादाद्यामन्त्रितस्य च तदवकाशत्वात् । ‘अपादादौ’ इत्यधिकारेण पादाद्यामन्त्रितस्य अविद्यमानवत्त्वाभावात् । आपादपरिसमाप्तेः ‘अपादादौ’ इत्यधिक्रियत इति वृत्तिकृदुक्तेः ।

  1. न घ. नास्ति ! Shri Vipin Kumar Col. Deoband. In Public Domain.सू. ३९२]

सर्वानुदात्तप्रकरणम् ३१३ अत एव पित॑रः पितामहाः’ इत्यादौ ’ पितरः’ इत्यस्य पादादित्वेन अविद्यमानवत्त्वाभावात् पितामहादीनामनुदात्तत्वम् । हरदत्तेनापि अत्र अपादादौ’ इत्यधिकारमभ्युपगम्य, ’ उषो’ नो अद्य सुभगा व्युच्छ’ ‘इन्द्र त्वा वृषभं वयम्’ इत्यादौ युष्मदस्मदादेशं तदुपष्टम्भकत्वेन उपन्यस्य, पिब वृष॑धूतस्य॒ वृष्ण॑ः ’ ‘वायो याहि ८८ यद्यप्येवम् ’ इन्द्र शिवा दिवः’ इत्यादौ ‘पिब’ इत्यादीनां निघातप्रसङ्गः ; तथापि

कर्तव्योऽत्र यत्नः इत्युक्तत्वाच्च । अतः कर्तव्ये अविद्यमानवत्, न तु स्वकार्ये’ पूर्वग्रहणम् ’ परस्य कार्ये इति लाभार्थं क्रियते । अविद्य- न चैवम् ’ इमं मे गङ्गे’ इत्यादौ ‘गङ्गे’ इत्यस्य न स्यादिति वाच्यम् ; मानवत्त्वात् ’ यमुने’ इत्यादे: ’ निघातो मेशब्दात् परत्वमादायैव तस्यापि निघातात् । न च व्यवधानम्, परं प्रत्येव अविद्यमानवत्त्वादिति ‘गङ्गे’ इत्यनेन परस्य कार्ये कर्तव्ये वाच्यम् ; तदा अविद्यमानवत्, तच्च कार्यं स्वनिमित्तकम् अन्यनिमित्तकं वा इत्याश्रयणात् । अथ ’ आमन्त्रित- मविद्यमानम्’ इत्येवास्तु परत्र परशब्दप्रयोगादेव ‘गोतो णित्’ इत्यादाविव वत्यर्थलाभात् । अत्र हरदत्तः — ‘आम्, भो देवदत्ता: ’ इत्यत्र स्वाश्रयमेकान्तरत्वम् आश्रित्य ‘निघातनिषेधो इति बहुवचनान्तम् । तेन ’ आम ८ एकान्तरमामन्त्रितम् ’ देवदत्ता इति यथा स्यात् 1 विभाषितं विशेषवचने बहुवचनम्’ इति अविद्यमानवद्भावविकल्पात् अस्त्यत्र’ निघातप्रसङ्गः । यद्यपि आतिदेशिक कार्याविरुद्धं स्वाश्रयम् अतिदेशेषु असत्यपि वत्करणे भवति । इह तु वत्करणाद्यत्नात् विरुद्धमपि कचित् प्राप्यते । अविद्य-

  1. उषा ङ. वर्ज सर्वत्र
  2. पिबेत्यादीनां इत्यादि ‘मे गङ्गे’ इत्यन्तं घ. नास्ति ।
  3. अपि घ. नास्ति ।
  4. अविद्यमानवत् ख.
  5. निघातघ. नास्ति ।
  6. ईत्यदिनिi Vipig Kumar Col. Deoband. In Public D घ. स्व–40 ३१४

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३९३ मानवत्त्वविरोधिनी हि एकान्तरता । व्याख्यानाच्च अतिप्रसङ्गो नोद्भावनीय इति ॥ [३९३] ॥ नामन्त्रिते समानाधिकरणे सामान्य- वचनम् ॥ (8–1–73) समानाधिकरणे आमन्त्रितान्ते परतः ’ सामान्यवचनं विशेष्यवाचि आमन्त्रितं न अविद्यमानवत् भवति । ‘अग्ऽदब्धायोऽशीततनो ’ । ‘अग्ने॑ तेजस्विन् ’ । ’ पृथिवि देवयजनि अग्ने॑ दुध्र गद्य कि৺शिल वन्य या त इषुः ’ । अत्र अग्नेपृथिवीपदयोः विद्यमानत्वेन पदात् परत्वात् ‘अदब्धायो’ इत्यादि निहन्यते । यद्यपि अत्र दुधादीनां भिन्नार्थत्वेन सामानाधिकरण्याभावात् ’ नाविद्यमानवत्त्वनिषेधः, तथा च वा ब्राह्मणम् —‘पञ्च एतेऽमयो यश्चिर्तय उदधिरेव नाम॑ प्रथ॒मो दुधो द्वितीयो गर्ह्यस्तृतीयः किरशिलर्श्वतुर्थो वन्यः पचमः इति, तथापि दुधशब्दसामानाधिकरण्यात् अग्निशब्दस्य अविद्यमानवत्त्वनिषेधे तमादायैव गह्यादीनामपि निघातः । मेशब्दमादायैव ’ यमुने’ इत्यादेरिवेति दिकू । आमन्त्रित इति किम् ? ’ देवदत्त पचसि ’ । सामान्यवचनमिति’ किम् ? ’ इडे रन्तेऽदि॑ते ’ ! एषां न सामान्यविशेषभावः, किं तु पर्यायता इत्युक्तम् । समानाधिकरणपदं चिन्त्यप्रयोजनम् ; सामान्यवचनशब्देन विशेषवचनस्य आक्षेपात्, सामान्यविशेषभावस्य सामानाधिकरण्यनियतत्वेन अनतिप्रसङ्गात् इति ॥

  1. परे घ.
  2. इति घ.
  3. -पदयोः घ. नास्ति ।
  4. इति घ. नास्ति । नास्ति ।
  5. -करण्याद्यभावात् घ.
  6. अपि घ. cc.नाहित, Vipin Kumar Col. Deक्ति दिpubli Domain. CC-C
  7. इति घ. नास्ति । सू. ३९४]

सर्वानुदात्तप्रकरणम् [ ३९४ ] ॥ विभाषितं विशेषवचने ॥ (8-1-74) .३१५ ‘बहुवचनम्’ इति भाष्ये दृष्टम् वृत्तिकृता सूत्रे प्रक्षिप्य पठितम् । विशेषवचनम् अर्थगतविशेषाकारबोधकम्, विशेषणवाचकम् इतियावत् । तस्मिन् समानाधिकरणे आमन्त्रितान्ते परतः पूर्वमामन्त्रितान्तं सामान्यवचनं बहुवचनान्तं विद्यमानवत्’ वा भवति । ‘देव गातुविदो गातुं वित्वा’ । ’ आपो देवीरग्रेपुवो अग्रेगुवः 1 बहुवचनग्रहणेन एकवचनान्तस्य पूर्वेण नित्यमेव’ अविद्यमानवद्भावनिषेधो भवति । सामान्यवचनाधिकारादेव विशेषवचनपरिग्रहे सिद्धे ८८ विशेषवचनग्रहणं विस्पष्टार्थम् । यत्तु स्वरमञ्जर्यां प्रकृतसूत्रस्य उदाहृतम् पितरः पितामहाः परेऽवरे ततस्ततामहा इह मावत ’ ’ पितरः’ इत्यस्य अविद्यमानवत्त्वविकल्पात् पितामहादेः अनुदात्तत्वम्” इति तदसत् ; ‘पितर: ’ ‘पिर्तर:’ इत्यस्य पादादित्वेन अविद्यमानवत्त्वाप्रसक्तेः । सामानाधिकरण्यसामान्यविशेषभावयोरभावेन प्रकृतसूत्रनिषेधाप्रवृत्तेश्च । एवं ह्ययं मन्त्रो वेदभाष्ये व्याख्यातः - पितरः उत्पादयितारः । तेषां पितरः पितामह ॥ ‘लेपभाजश्चतुर्थाद्या:’ पित्राद्याः पिण्डभागिनः । सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ॥’ स्मरणात् इति ततोऽर्वाचीनाः सप्तमात् ऊर्ध्वं ये विप्रकृष्टाः, ते परे । सन्निकृष्टा अवरे । येभ्यः पिण्डो पिण्डो दीयते ते

  1. आमन्त्रिते परे घ,
  2. विशेषग्रहणं घ.
  3. आमन्त्रितम् घ.
  4. अविद्यमानवत् क.
  5. लेपभाजश्च – तथा हि-पित्राद्या: घ.
  6. नित्य एव घ.

३१६ स्वरसिद्धान्तचन्द्रिकायाम् [सू. ३९४ तताः पित्रादयः । तेषां पितरः ततामहाः, ये न पृथक् पिण्डभाजः । सर्वे यूयम् इह कर्मणि वर्तमानं माम् अवत पादादित्वात् षाष्ठम् आद्युदात्तत्वम्, रक्षत । पितृततशब्दयोः पादादित्वात् , अन्येषां निघातः — इति । पादादित्वादेव पितृततशब्दयोर्न अविद्यमानवत्त्वम् ; ’ आमन्त्रितं पूर्वमविद्यमानवत्’ इत्यत्र ‘अपादादौ इत्यधिकारादित्याशयः । यत्तु वेदभाष्यम् — पादादित्वात् ‘अग्ने’ इति न अत्र अग्ने यष्टरिदं नमः ’ इत्यत्र निहन्यते, तस्य ’ आमन्त्रितं पूर्वम्’ इत्यविद्यमानवत्त्वात् ‘यष्टः’ इति च न निहन्यते इति, तच्चिन्त्यम् ; पादादावविद्यमानवत्त्वाभावात् । तथात्वेऽपि इति निषेधाच्च ‘नामन्त्रिते समानाधिकरणे’ इति । एतेन ‘बृह॑स्पते धारया वसू॑नि ’ इत्यत्र ‘आमन्त्रितस्य अविद्यमानवत्त्वात् तिनिघाताभावः’ इत्यपि वेदभाष्यं चिन्त्यम् ; पादादित्वात् । स्वरनिर्वाहस्तु व्यत्ययात् । " ’ अझै पृथिवीपते पते ’ इत्यादौ ’ नामन्त्रिते समानाधिकरणे’ इति अविद्यमानवत्त्वनिषेधः 1 सोम वीरुधां पूर्वामन्त्रितस्य ’ इति षष्ठ्यन्तानां ‘वीरुधां ‘सोमं ’ ‘वीरुधाम् ’ सुबामन्त्रिते ’ 1 परामन्त्रितानुप्रवेशः " इति वेदभाष्यम् । स्वरमञ्जर्यामपि । पते’ इत्यादिकं पराङ्गवद्भावस्य उदाहृतम् । ननु इह इत्यादीनामामन्त्रितानां कथमविद्यमानवत्त्वनिषेधः ? इत्यादिषष्ठ्यन्तव्यवधानेन आमन्त्रितपरत्वाभावात् । न च षष्ठ्यन्तानां पराङ्गवत्त्वात् आमन्त्रितानन्तर्यम् ; स्वरे अवधारणेन आनन्तर्ये पराङ्गवत्त्वविरहात् । अत एव समानाधिकरणस्य उपसंख्यानमारब्धम् । एवं च ‘सोम’ इत्यादीनाम् अविद्यमानवत्वे कथम् ‘वीरुधां पते’ इत्यादिसमुदायस्य पदात् परत्वाभावात्

  1. पित्रादयः घ. नास्ति ।
  2. ते ङ. अधिकम्
  3. पूर्वस्यामन्त्रितस्य क. ङ.

इह कं. नास्ति । 3. सर्वत्र क. अधिकम् ।

सू. ३९४] पराङ्गवद्भावेन ८

सर्वानुदात्तप्रकरणम् ३१७ निघातः ? न च ’ अभै पृथिवीपते ’ इत्यत्र अमै’ इत्यस्य अविद्यमानवत्त्वनिषेधे तदादायैव ’ वीरुधां पते’ इत्यादेः पदात् परत्वम्’ इति वाच्यम् ; तस्य भिन्नवाक्यस्थत्वात् । अन्यथा ‘सोम’ इत्यादेरपि निघातापत्तेरिति । अत्र ब्रूमः — स्वरग्रहणप्रत्याख्यानपक्षे आनन्तर्येऽपि पराङ्गवद्भावात् इत्यादीनामविद्यमानत्त्वनिषेधादिष्टसिद्धिरिति । अथ कथम् ‘सोम’ यदापो मुन अनिया वरुणेति शपा॑महे॒ ततो॑ वरुण नो इत्यत्र ‘आप:’ इत्यादेरनिघातः ? अत्र वेदभाष्यम्’अयं हि मन्त्रार्थ :हे वरुण ! तत: पापात् अस्मान् मुञ्च । कुतः ? शोकाभितप्ता वयम् । हे आपः ! हे अनियाः ! हे वरुण ! इति शपामहे ‘शापेन पापमुपार्जितम्, तस्मादपीति । शापो हि प्रशस्तदेवतासङ्कीर्तनेन परेषामनर्थाशंसनम् । एवं च आपः इत्यादेः अनुकरणत्वात्’ अनिघातः’ इति । ‘सिनीवालि पृथुटुके’ इत्यादौ व्यत्ययात् ‘पृथुष्टुके’ इत्यादेरनिघातः । न च पूर्वस्य अविद्यमानवत्त्वम् ; पादादित्वात् । भट्टोजियज्वभिस्तु ‘आमन्त्रितं पूर्वम्’ इत्यत्र ‘अपादादौ’ इत्यधिकारमनाश्रित्य व्यवहृतम् । अत एव ‘द्रवत्पाणी शुभस्पती’ इत्यत्र शुभेः किबन्तात् षष्ठ्यन्तस्य ‘शुभः ’ इत्यस्य’ पराङ्गवद्भावात् आमन्त्रिताद्युदात्तत्वम् । न च आष्टमिको -निघातः शङक्यः ; पूर्वामन्त्रितस्य अविद्यमानवत्त्वेन पादादित्वात् इति सिद्धान्तकौमुद्यामुक्तम् । मनोरमायामपि - ’ अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत’ इत्यस्याम् ऋचि ‘शुचिव्रत’ इत्येतद्विशेष्यत्वेन विवक्षितम् । तेन ‘अग्ने’ इत्यस्य इत्यविद्यमानवद्भावनिषेधाभावात् ; नामन्त्रिते समानाधिकरणे , भ्रातः इत्यस्य नानुदात्तता-

  1. परत्वात् क.
  2. अनुकरणत्वात् घ. नास्ति ।
  3. अस्मान् घ. 3. यच्छपामहे क. नास्ति । 6. ‘शुभ:’ इत्यस्य घ. नास्ति ।
  4. अस्यामृचि ‘शुचिव्रत’ घ. नास्ति ।
  5. यच्छापेन क.

३१८

स्वर सिद्धान्त चन्द्रिकायाम् [सू. ३९५ इत्युक्तम् । एतन्मते च ’ अग्ने यष्ट॑रिदं नमः’ इत्यत्रत्यं वेदभाष्य- ‘यष्टः’ इत्येतदेव इति न मुपपन्नम् ; पादादावपि अविद्यमानवत्त्वात् । ’ यष्टेः विशेष्यत्वेन विवक्षितम् इति ‘नामन्त्रिते समानाधिकरणे ’ निषेधः । ‘सिनीवालि । ‘सिनीवालि पृथुष्टुके’ इत्यादावपि व्यत्ययं विनैव इष्टसिद्धिः । ‘पितरः पितामहाः’ इत्यादौ व्यत्यय एव इति दिक् ॥ ॥ इति सुबन्तसर्वानुदात्तप्रकरणम् || शरणम्

तिङन्तसर्वानुदात्तप्रकरणम्

॥ अथ तिङन्तसर्वानुदात्तप्रकरणम् ॥ [ ३९५] ॥ तिङ्ङतिङः ॥ (8–1–28) अतिङन्तात् पदात् परस्य अपादादिस्थस्य’ सर्वोऽच् अनुदात्तो भवति यच्छतु’ । ’ यूयं यत्तु अत्र भाष्यादौ परस्य ’ इति आदेः आदिरुदात्तः ‘शर्मं । तिङन्तस्य सा नौ देवी सुहवा शर्म पति स्वस्तिभिः ‘अतिङ:’ इति सदा नः ’ 1 ‘अतिङ:’ इति पञ्चमीनिर्देशात् ’ आदेः अनुदात्तत्वं स्यात् । ततश्च यत्र तिङन्ते यच्छतु’ इत्यादौ तत्रैव इदमनुदात्तत्वं स्यात् । ‘यूयं पति’ इत्यादौ प्रत्यययस्वरेण अन्तोदात्ते तिङन्ते न , स्यात् इत्याशङ्क्य, पदस्य इत्यनुवृत्तस्य अवयव षष्ठ्यन्तत्वाश्रयणात् अतिङन्तात् परस्य तिङन्तस्य अवयवोऽनुदात्त इत्यर्थलाभात् ‘आदेः परस्य’ इत्यादेरिह अप्रवृत्तिरिति परिहृतम्, तत् 3. पदस्य घ. अधिकम् । 4. अप्रवृत्तेरिति क.

  1. अपादादौ वर्तमानस्य क. ङ.
  2. अनुदात्तता घ.

सू. ३९५]

सर्वानुदात्तप्रकरणम् ३१९ ’ स्वरविधौ सङ्घातः कार्यो’ इति परिभाषाविरुद्धम् इत्युक्तम् । केचित्तु ‘स्वरविधौ सङ्घातः कार्यो ’ इति विषयैव, दात्तस्य परिभाषा षाष्ठस्वर- उक्तभाष्यादिव्यवहारबलात् । अत एव ‘उदात्तादनु- प्रवर्तते । प्रवर्तते । तेन ’ आदेः स्वरित: ’ इत्यादौ नेयं परिभाषा ’ दधि ’ इत्यादौ उक्तसूत्रेण स्वरितः परस्य ’ इति धकारेकारस्य भवति । अन्यथा ‘हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् ’ इति पक्षे, न विद्यते उदात्तो यस्य समुदायस्य, उदात्तात् परस्य तस्य’ स्वरित इत्युक्तस्वरितविधिसूत्रार्थस्य भाष्ये प्रदर्शनात् ‘दधि" इत्यत्र धिशब्दस्य सर्वस्य’ स्वरितादेश: प्रसज्येत इति वदन्ति । अत्र पक्षे सर्वग्रहणानुवृत्त्या तिङन्तस्य सर्वानुदात्तत्वं बोध्यम् । अपादादौ किम् ? ’ सप्त त्वां हरितो रथे वह॑न्ति देव सूर्य’ । ’ वर्हन्ति’ इत्यत्र धातुस्वरः । अदुपदेशाल सार्वधातुकमनुदात्तम् । शप् पित्त्वादनुदात्तः । ‘अपा॑म॒ धर्म ज्योतिरविदाम ‘देवान्’ इत्यादौ तु सोम॑म॒मृता॑ अभूमाद- समानवाक्यस्थपदात् इत्येकत्वस्य . परत्वाभावादपि अनिघातः । अतिग्रहणं तु व्यर्थम् ; तिङन्तात् परस्य तिङन्तस्य समानवाक्यस्थपदात् परत्वाभावेनैव ‘निघाताभावात् । वार्त्तिककृता अत्र समानवाक्याधिकारात् ’ आख्यातं साव्ययकारकम्’ इति वाक्यसंज्ञायाम् आख्यातम् ’ विवक्षितत्वेन तद्भेदे तद्भेदे वाक्यभेदावश्यम्भावात् । तदुक्तम् ‘अतिङ्ग्रहणमनर्थकम्, समानवाक्याधिकारात्’ इति । ’ यद्ब्रूयाद्वैधे॒रिति यज्ञस्थाणुर्मृच्छेदवृधात्वित्यह’ इत्यादौ तिङः इत्यादौ परमपि तिङन्तं निहन्यते ; मन्त्रे अनुदात्ततया पठितस्य तिङस्तथैव ब्राह्मणेन’ अनुकरणात्’ इति वेदभाष्यम् । वेदभाष्यम् । ‘पाहि यज्ञं पाहि य॒ज्ञप॑तिम् '

  1. तस्य क. नास्ति ।
  2. अधिक.
  3. अननुदात्तः क.
  4. अनिघातात् क.
  5. सर्वस्य क. नास्ति । ८. तिङस्तथैव ब्राह्मणेन घ.
  6. तु क. नास्ति । नास्ति । .

३२० Digitized by Mag स्वसिद्धान्तचन्द्रिकायाम् elhi [सू. ३९५ इत्यादौ वाक्यभेदात् अनिघातः । एतेन अतिङ इति किम् ? त॑ वा॒ग॒भ्य॑वदज्जुहु’सर्वं पाप्मानं तरति तर॑ति ब्रह्मह॒त्याम् ’ ’ तं धीर्ति’ ’ अन्वतिष्ठत जहि ’ इत्यादि प्रत्युदाहरन् स्वरमञ्जरीकारः ’ सेर्ह्यपिच्च ’ प्रत्युक्तः इत्यपिद्वद्भावात् इत्यत्र । ‘जुहुधि ’ प्रत्ययस्वरो युक्तः, तथापीह, बहुलग्रहणात् प्रत्ययात् पूर्व ‘उदात्त इत्याहुः । ’ होत॒र्यज॑’ इत्यादौ तिङ् न निहन्यते ; आमन्त्रितस्य अविद्यमानवत्त्वेन पदात् परत्वाभावात् । ’ इदं देवाः शृणुतेति वाव’ इत्यत्र ‘देवा:’ इत्यस्य अविद्यमानवत्त्वेऽपि इदंशब्दमादाय तिनिघातः । अथ’ ‘विश्वैदेवाः अथ ’ ’ विश्वैदेवाः शृणुतेम हवं मे’ इत्यत्र ’ कथं तिङ् न निहन्यते ? अत्र स्वरमञ्जरीकारः - आमन्त्रितयोः अविद्यमानवत्त्वात् — इति । तन्न ; पादादित्वेन अविद्यमानवत्त्वासम्भवात् । इत्यस्यापि निघातानापत्तेश्व तथात्वेऽपि तत एव ‘देवा:’ इत्यस्यापि 1 यत्त्वत्रोक्तम् —’ नामन्त्रिते समानाधिकरणे’ इत्यविद्यामानवत्त्वनिषेधात् ‘देवाः’ इति’ निहन्यत इति, तदप्यसत् ; तत एव तिङोऽपि निघातप्रसङ्गात् । यदपि तत्रोक्तम् ’ यद्वा ‘विश्वे देवा:’ इत्युभयोः एकार्थत्वान्न सामान्यविशेषवचनत्वम् ; तथापि ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् एैकशब्ये’ सति ’ आमन्त्रितस्य च ’ इति षाष्ठमाधुदात्तत्वम् इति, तदपि चिन्त्यम् ; विश्वदेवशब्दयोर्न घटकलशशब्दवत् एकार्थत्वम् ; “तथा प्रसिद्धयभावात् । तथा सति व्यपेक्षासामर्थ्याभावेन “त्वदभिमतपराङ्गवत्त्वायोगाच्च । वाक्ये व्यपेक्षा-

  1. पूर्वमुदात्तं घ.
  2. अविद्यमानवत्त्वेन क. 3. अथ क. नास्ति । । 4. विश्वेदेवा इत्यतः परं तिङन्तं कथं घ.
  3. इत्यपि क.
  4. ऐकस्वर्ये घ. ङ.
  5. षाष्ठिकं क.
  6. विश्वेदेवघ. 9. - आदिशब्दवत् घ.
  7. क्वापि तथा घ.
  8. तदभिमतपराङ्गवद्भावा- भावाच्च क.

सू. ३९६]

सर्वानुदात्तप्रकरणम् ३२१ सामर्थ्यम् इति तवैव वचनात् । अतः पृथग्विभक्तिश्रवणबलात् नीलघटशब्दयोरिव एकार्थत्वं वाच्यम् ; ततः कथं न सामान्यविशेषवचनत्वम् ? अतः त्वद्रीत्या’ ‘नामन्त्रिते ’ इति निषेधात् तिनिघातो दुर्वार इति 1 अत्रोच्यते - पादादित्वेन ‘विश्वे’ इत्यस्य अविद्यमानवत्त्वाभावात् ‘देवाः’ इत्यस्य निघातः । ’ चादिलोपे विभाषा’ इति निषेधात् ’ शृणुत ’ इति न निहन्यते ; हे विश्वेदेवाः ! इमं हवं शृणुत, अस्मिन् ’ बर्हिषि आसद्य मादयध्वं च’ इति चार्थस्य गम्यमानत्वात् । ऐवमेव ‘बृहस्पते सवितर्बोधयैन सर्शितं चित्सन्तरा स शिशाधि ’ इत्यत्र आमन्त्रित- निघातः तिङन्तानिघातश्च बोध्यः 11 [३९६] ॥ न लुट् ॥ (8–1–29) , थास् प्राप्तं लुडन्तं न अनुदात्तं भवति । ’ तिङतिङ : ’ इति निषिध्यते । ’ श्वो यज्ञे प्रयोक्तासै’ । युजिर् योगे । लुट् । ‘प्रोपाभ्यां युजेः’ इत्यात्मनेपदम् । मध्यमैकवचनम्’ ‘थासः से’ । ’ स्यतासी लृलुटोः | ’ स्यतासी लृलुटोः’ इति तासिः । ’ तासस्त्योः ’ इति सलोपः । ’ तास्यनुदात्तेत्’ इति इति लसार्वधातुकमनुदात्तम्’ । तासिस्वरेण ’ योक्तासे’ इति मध्योदात्तं पदम् । ’ तिङि चोदात्त-’ वति ’ इति गतिनिघातः 1 ’ त्वयैनानाख्यातार इति॑ ’ । नायं तृच् ; तद्योगे कर्मणिषष्ठीप्रसङ्गात् ‘एनान्’ इति द्वितीयानुपपत्तेः । नापि तृन् ; आद्युदात्तत्वाभावात् अतो लुडेवायम् इत्याहुः । ’ अन्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॑ ’ । लुङन्तोऽयम्

  1. तस्य घ.
  2. इति निहन्यते क. ङ.
  3. तस्मिन् क. नास्ति ।
  4. मध्यमैकवचनं घ. 5. लसार्वधातुकस्य अनुदात्तत्वे स्व24-0. Shri Vipin Kumar Col. Deoband. In Public Domain. क ३२२ प्रकरणपर्यालोचनया

स्वर सिद्धान्तचन्द्रिकायाम् भविष्यदर्थप्रत्ययात्’ । ‘लुटः सू. ३९७] प्रथमस्य डारौरसः’ । ङित्त्वाट्टिलोपः । उदात्तनिवृत्तिस्वरेण अन्तोदात्तः । ‘प्रा॒तय॑ष्टा॒स्मद् इति॑ ’ । ’ य॒जे यक्षि॒ यष्टा॒हे च॑ ’ । यजेर्लुटि महिङ् । । द्वितीये इट् । ‘ह एति ’ । तिङः परत्वान्न+ निघातः । आद्ये व्यत्ययादाद्युदात्तत्वम् आद्यन्तौ उदात्तौ । यत्तु • यम॑ग्ने पृत्सु यन्ता शश्वतीरिषः’ इत्यत्र “यन्ता, 1 तत एव द्वितीये इति मन्त्रे स यमयिता वशीकर्ता । ‘न लुट्’ इति निघातप्रतिषेधः” इति वेदभाष्यम् तच्चिन्त्यम् ; लुडन्तत्वे उदात्तनिवृत्तिस्वरेण अन्तोदात्तत्वप्रसङ्गात् । तस्मात् तृन्नन्तमिदं बोध्यम् ॥ लुक् । [३९७] ॥ निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्- कञ्चिद्यत्र युक्तम् ॥ (8–1–30) ‘यत्’ इत्यादीनां यत्र इत्यन्तानां द्वन्द्वे तृतीयायाः सौत्रो न तु युक्तशब्देन समासः ; ‘निपातैः’ इति विशेषणस्य अनन्वयापत्तेः । निपातैर्यदादिभिर्युक्तं तिङन्तं । न निहन्यते । अत्र श्लोकौ— ’ यद्यदार्थे च हेतौ च विचारे यदि चेच्चण: I हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ कच्चित् प्रश्ने नेन्निषिद्धे प्रशंसायां कुवित्स्मृतः । यत्राधारे निपातत्वं यदादीनां विशेषणम् ॥ ’ इति

  1. -प्रत्ययस्य ‘लुट: घ.
  2. तिङः घ. नास्ति । Public Doma
  3. टिलोपे उदात्तc-0. hvi Vip Kumar Col. Depbang In Publसू. ३९७] :

सर्वानुदात्तप्रकरणम् ३२३ यत्प्राचीनवंशं करोति । विकरणस्वरः’ । ’ यदि॑ का॒मये॑त॒ 1 वर्षुकः ’ । ‘शत्रूपाददुपदेशात् परं लसार्वधातुकमनुदात्तम् इति ‘धातुस्वरः । ’ हन्त करोति’ । ’ हन्ताहं पृथिवीमिमाम् निदधानि ’ हन्त वै हवे’ इत्यादौ व्यत्ययात्तिनिघात इति हरदत्तभट्टोजियज्वप्रभृतयः 1 ‘कुवित्सु नो गर्विष्टयेऽग्ने॑ सं॒वेष॑षो र॒यिम् ’ । विषेः ‘लिङथें लेट्’ इति लेट् । सिप् ( अडागमः 1 सिब्बहुलं , । ‘लेटोऽडाटौ ’ इति तस्य लेटि ’ लेटि’ इति ’ इति’ सिप इडागमः 1 आगमयोरनुदात्तत्वाद्धातुस्वरः । ’ ने॑दे॒ष त्वद॑पचे॒तय॑तै ’ । ’ वि॒राजन्नेद्वैच्छनदा॒नीर्त’ । चित सचेतने । ण्यन्ताल्लेट् । तस्य तादेशः । शप् । ‘लेट्रोऽडाटौ ’ इत्याडागमः । टेरेत्वम्’ | ‘वैतोऽन्यत्र ’ इति ऐकारः । अदुपदेशाल सार्वधातुकानुदात्तत्वे” “धातुस्वरः । ‘छिनदानि’ इति छिदेर्लोडुत्तमैकवचनम् । ’ मेर्निः’ । आडुत्तमस्य श्रमुदात्तः । ‘नेदे॑न॒मसु॑रा॒ बलीया सोऽहन- पिश्च’ । धातुस्वरेण न्नितिं ’ ’ नेदैनं दे॒वा अहनन् ’ इत्यादौ व्यत्ययान्निघात इत्याहुः । अत्र” हन्तेर्लिङि झिः भावात् गमहन ’ । ’ झोऽन्तः ’ । ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वेन सार्वधातुकत्वाभावात् " ’ सार्वधातुकमपित्’ इति ङित्त्वा’ एताश्वेद्वा अस्य इति नोपधालोपः दे॒वता॒ अन्न॑म॒दन्त॑ ’। ‘अ॒न्यश्चेन्नाभि॒गच्छ॑ति ं । ’ तस्मा॒ञ्चेन्न प्रमाद्य॑ति ’ । ‘नेत्’ इति निपातसमुदाय: ; ‘नेदेष:’ इत्यादौ पदद्वयाध्ययनात् । एवम् ’ चेत्’ इत्यपि । ‘चङ्’ इति चेदर्थे वर्तमानञ्चकारो गृह्यते ।

  1. विकरणस्वरः घ. नास्ति । 2. शपोऽदुपदेशाल्लसार्वधातुकानु- घ. दात्तत्वे धातुस्वरः नास्ति ।
  2. धातुक.
  3. टेरेत्वम् घ. नास्ति । 7. इत्यन्त्यस्यैकारस्यैकार: घ. 8. अनुदात्ततायां घ. 9. चेतेत्यत्र धातुस्वरः
  4. ब्रवीमि मां रिदधानेहवे हवेत्यादौ 10. अत्र क.
  5. इति घ. नास्ति । ङ. क. ङ. नास्ति । क.
  6. सार्वधातुकत्वाभावात् नास्ति ।

३२४

स्वरसिद्धान्तचन्द्रिकायाम् सू. ३९७] णकारस्तु तदर्थवर्तिनश्चशब्दस्य ज्ञापकोऽनुबन्धः मर्यादाद्यर्थ- कस्य आकारस्य ङकरो यथा । ’ त्वं च सोम नो वशौ जीवातुं न मरामहे’ । “ हे सोम त्वं चेदमस्मान् जीवातुं वशः उश्या: रक्ष्यत्वेन कामयेथाः, तर्हि न इत्यर्थः । एवं चशब्दस्य अत्र’ चेदर्थे । मरामहे न म्रियामहे वृत्तेस्तद्युक्तस्य ’ वशः । इति’ तिङन्तस्य न निघातः” इति वेदभाष्यम् । वश कान्तौ । लिङथे लेट् । सिप् । इतश्च लोप: ’ इति इकारलोपे शब्लुक् । ‘लेटोऽडाटौ’ इत्यडागमे रुत्वविसर्गयोश्च ’ वशः’ इति रूपम् । धातुस्वरः । समुच्चयाद्यर्थकचशब्दयोगे + निघात एव । ‘इन्द्रो वरु॑णो बृहस्पतिः सविता च पुनन्तु’ । ‘कञ्चित् करोति ’ ‘यत्र यत्र कामयते ’ ननु ’ यद्येकं कपालं नश्येदेको मास॑ संवत्स॒रस्यान॑वे॒तः स्यादथ॒ यज॑मानः॑ प्रमी॑येत॒ यद्द्द्वे नश्यैतां द्वौ मासौ संवत्स॒रस्यान॑वेतौ स्याता॒मथ॒ यज॑मानः प्रमीयते ’ इत्यत्र ’ नश्येत् ’ ’ नश्येताम्’ इत्यनयोः यद्यदिशब्दयोगादस्त्वनिघातः, ’ स्यात्’ स्याताम्’ इति कथं न निहन्यत इति चेत् — अत्र स्वरमञ्जरीतद्विवरणयोः स्थितम् " अयं हि अत्रार्थः - एकस्मिन् कपाले नष्टे संवत्सरस्यैको मासः अनवेतः अप्राप्त ऊनः स्यात् । अथ मासोन संवत्सरानन्तरमेव, यजमानः च अत्र हशब्दार्थे प्रसिद्धिरूपे प्रथमलिङोः 7 प्रमीयेत नश्येत् — इति । एवं गम्यमाने तदप्रयोगात् ’ चादिलोपे विभाषा’ इति ’ स्यात् ’ ‘स्याताम्’ इत्यनयोर्न निघातः” किम् ? ‘यत्कूजति शकटम्’ । इणः

  1. अत्र घ. नास्ति ।
  2. प्रवृत्तेः घ. 3. वश इति घ. नास्ति ।
  3. समुच्चयाद्यर्थकयोगे घ.
  4. यद्यदिशब्दयोः सुच्वात अनि- इति । निपातैरिति शतरि ’ इणो यण् ’ घात: घ.
  5. स्पष्टम् घ.
  6. -fast: घ.
  7. इति घ. नास्ति ।

सू. ३९८] इति यणादेशे

सर्वानुदात्तप्रकरणम् ‘यत्’ इति रूपम् । ननु ३२५ प्रतिपदोक्तत्वात् यत्तदेतेभ्यः’ इति यद्यादिभिः साहचर्याच्च निपातस्यैव यच्छन्दस्य ग्रहणं भविष्यति, किं निपातग्रहणेन इति चेत् — सत्यम् ; ‘इह प्रकरणे साहचर्य प्रतिपदोक्तत्वं च नाश्रीयते’ इति ज्ञापनाय निपातग्रहणम् । तेन यावद्यथाभ्याम् ’ इति सूत्रे व्युत्पन्नो वत्वन्तोऽपि यावच्छन्दो गृह्यते । तेन ‘यावत् स्तोतृभ्यो अरदो गृणाना ’ याव॒तोऽश्वा॑न् प्रतिगृह्णीयात्’ इत्यादौ ’ यावद्यथाभ्याम् ’ इति निघातनिषेधः सिध्यतीति हरदत्तभट्टोजियज्वप्रभृतयः 1 यद्वृत्तान्नित्यम्’ इत्येव अत्र ’ अरद:’ इति’ तिङन्तस्य निघातनिषेधसिद्धेः नेदं ज्ञापनफलम् इति चिन्त्यम् । तस्मात् यत्र परत्र स्थितेन यावच्छब्देन तिङन्तस्य योगः ‘धनं ददाति यावत्’’ इत्यादौ, तत्र तिनिघाताभावो ज्ञापनफलम् ; ’ यदुवृत्तात्’ इति पञ्चमीनिर्देशेन तत्र तदप्रवृत्तेः । युक्तग्रहणं परम्परायोगे मा भूदिति । यत्र क च ते मनो दक्षं दधस उत्तरम्’ । अत्र अत्र ’ यत्र इत्यस्य ’ उत्तरम्’ इत्यनेन साक्षात् सम्बन्धात् ’ दूध से ’ इति निहन्यते । दध धारणे इति धातोश्चेदं रूपम् इति हरदत्तादयः ॥ [३९८] ॥ हन्त च ॥ (8–1–54) ’ ’ हन्त ’ ’ इत्यनेन इत्यनेन युक्तं सोपसर्गमुत्तमवर्जितं लोडन्तं वा नानुदात्तम्’ । ’ यद्यदि प्रविश’ । सोपसर्गम् इत्यादि हन्त इति प्राप्तं विकल्प्यते । ’ हन्त किम् ? ’ हन्त कुरु’ । ’ हन्त करवाणि ’ ॥

  1. सूत्रव्युत्पन्नः क.
  2. दधते घ.
  3. इत्यादि ङ.
  4. हन्तेति क. नास्ति ।
  5. धनदोऽसि यावत् ङ.
  6. भवति ङ. अधिकम् । । 4, दधते स्म घ.

३२६

स्वरसिद्धान्तचन्द्रिकायाम् [३९९ ] ॥ नह प्रत्यारम्भे ॥ (8–1–31) ॥ [सू. ३९९ ’ नह’ इत्यविभक्तिको निर्देश:’ । ’ युक्तम्’ इत्यनुवृत्तेस्तृतीयार्थलाभः । एवमुत्तरसूत्रेष्वपि द्रष्टव्यम् । ‘नह’ इति निपातसमुदाय:- प्रतिषेधार्थकः । तेन युक्तं तिङन्तं न गम्ये प्रत्यारम्भः 1 पुनरारम्भः, निहन्यते प्रत्यारम्भे भुङ्क्ष्व ’ ’ अधीष्व ’ इत्येवं’ कर्तव्यतया उपन्यस्य, अवज्ञाने सति अवज्ञातुरुपालिप्सया तस्यैव भोजनादेः प्रतिषेधेन संबध्य यः पुनरुपन्यासः स । प्रत्यारम्भे किम् ? इति यावत् 1 ‘नह भोक्ष्यसे ’ । ‘नह अध्येष्य से ’ अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः ‘नहं स्म वै पुराग्निरप॑रशुवृक्णं दहति ’ ॥ [ ४०० ] ॥ सत्यं प्रश्ने ॥ (8-1–32) [800] ’ ‘सत्यम्’ इत्यनेन युक्तं तिङन्तं नानुदात्तं प्रश्ने गम्ये । ‘सत्यं भोक्ष्यसे’ । प्रश्ने किम् ? ‘सत्यं वक्ष्यामि नानृतम्’ । सत्यं ब्रवीमि वध इत्स तस्य ’ ॥ ( [४०१] ॥ अङ्गादप्रातिलोम्ये ॥ (8–1–33) अङ्ग’ इत्यनेन युक्तं तिङन्तं नानुदात्तम् अप्रातिलोम्ये’ । प्रातिलोम्यं प्रतिकूलकारित्वम् । अतोऽन्यदप्रातिलोम्यम्, अनुमत- 5. सम्बद्धो क. ङ. 6. इदं वाक्यम् घ. नास्ति ।

  1. निर्देश: क. 2. अव्ययसमुदाय: नास्ति । घ.

  2. गम्यमाने ङ.

  3. इत्येव घ.

  4. प्रतिलोमकारित्वम् घ. सू. ४०२] Madhuban Trust Delhi Digitized सवीनुदत्तिप्रकरणम्" ३२७ कारित्वम् । एवं च ’ आनुलोम्ये ’ इत्येव वक्तुमर्हम् इति हरदत्तः । ’ अङ्ग कुरु’ | ‘अङ्ग वद्’ । इह अनुज्ञायामङ्गशब्दः । प्रातिलोम्ये तु - ’ अङ्ग कूज वृषल’ । इह अमर्षे अङ्गशब्दः । यत्तु यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ’ इत्युदाहृतम्, तन्नासाधारणम् ; यच्छन्दयोगादपि निघाताभावसिद्धेरिति ॥ [४०२] ॥ हि च ॥ (8–1–34) " हिशब्देन युक्तं तिङन्तं न निहन्यते । ’ त्व"हि होता॑ प्रथ॒मो ब॒भूथ॑’ । भवतेर्लिटस्थलि बभूथाततन्थ’ इति निपातनाद्गुणाभावः । ’ लिति’ इति प्रत्ययात् पूर्व उदात्तः । ’ निर्ह्यग्मिः शीतेन॒ वय॑ति॒ वाय॑ति॒ समि॑द्ध्यै ’ । शप्तिपोरनुदात्तत्वात् । धातुस्वरः । इह वृत्तौ ’ अप्रातिलोम्ये’ इत्यनुवर्त्य सूत्रं व्याख्याय, " इति “ अप्रातिलोम्य इत्येव । ’ स हि कूज वृषलेदानीं जाल्म प्रत्युदाहृतम् । हरदत्तश्च अत्र प्रत्युदाहरणे ‘अमर्षे हि शब्द:’ इति व्याख्यत् । स्वरमञ्जर्यं सिद्धान्तकौमुद्यां च अत्र अप्रातिलोम्यानुवृत्तिर्न 6 प्रदर्शिता । किमत्र कारणम् इति चिन्त्यम् । न च छन्दसि निर्ह्यग्निः शीतेन’ इत्यादौ आनुलोम्याप्रतीतावपि निघाताभावदर्शनं तदननुवृत्तिकल्पनाबीजम् ; तदनुवृत्तावपि प्रातिलोम्याप्रतीतिमात्रेण अत्र निघाताभावसिद्धेः । प्रातिलोम्याभावस्यैव अप्रातिलोम्यशब्दार्थ- आनुलोम्य इत्येव सुवचम्’ इति पूर्वसूत्रस्थो त्वात् । एवं च ’ आनुलोम्य हरदत्तः ’ चिन्त्यः ; उक्तविधया फलभेदात्’ इति

  5. भावः क. अधिकम् । अधिकम्

  6. ज्ञास्यसि ङ.

  7. हरदत्तग्रन्थः ङ.

  8. फलभेदसम्भवात् क.

३२८

स्वरसिद्धान्तचन्द्रिकायाम् [४०३] ॥ छन्दस्यनेकमपि साकाङ्क्षम् ॥ (8-1-35) सू. ४०३] हिशब्देन युक्तमनेकमपि साकाङ्क्ष तिङन्तं छन्दसि नानुदात्तं भवति’ । अपिशब्दात् एकमपि क्वचित् । हेतुहेतुमद्भावद्योतको हिशब्द इति अनेकमपि तिङन्तं हिशब्दयुक्तं भवति । तत्र पूर्वेण सर्वस्य निघातनिषेधे प्राप्ते कचिदेकस्य क्वचिदनेकस्य यथा स्यादिति वचनम् । छन्दसि दृष्टानुविधानात् यथाप्रयोगं व्यवस्था इत्याहुः 1 ‘अनृतं हि मत्तो वदति पाप्मा एनं विपुनाति । अत्र तिङन्तद्वयपि न निहन्यते । पाप्मा अत्र मद् उच्यते । यस्मान्मत्तोऽनृतं वदति तस्मात् अनृतवदनदोषेण युज्यते इत्यर्थ इत्याहुः 1 अ॒जा ह्य॑ग्ने॒रज॑निष्ट॒ गर्भात् सा वा अपश्यत्’ । अत्र ‘अर्जनिष्ट’ इति न निहन्यते । ’ अपश्यत् ’ इति तु निहन्यत एव ‘यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा 1 अत्र वदति " ’ यद्धि मन॑साभिगच्छेति तत् करोति’ । प्रसिद्धिद्योतकहिशब्दस्य तिङन्तद्वयसम्बन्धात् उभयं न निहन्यत इति स्वरमञ्जर्याम् ॥ II [४०४] ॥ यावद्यथाभ्याम् ॥ (8–1–36) ‘युक्तम्’ इत्यनुवृत्तेस्तृतीयान्तमिदम् । आभ्यां‍ युक्तं तिङन्तं न निहन्यते । ’ यावेच्च स॒प्त सिन्ध॑वो वितस्थुः ’ 1 यथा त्वं देवानाम तृतीयान्तत्वात् परभूताभ्यामपि युक्तं तिङन्तं + न निहन्यते । ‘देवदत्तः पचति यावत्’ । ‘देवदत्तः

  1. भवति क. नास्ति ।
  2. एताभ्याम् घ. ङ
  3. तृतीयाद्विवचनान्तमिदम् ख 4. ri Vipin Kumar Col De विङ्गतम Pubilo Donaास्ति ।

सू. ४०६ ] सर्वानुदात्तप्रकरणम् ३२९ पचति यथा’ । इदमेव मुख्यमुदाहरणम् ; ‘याव॑श्च स॒प्त सिन्ध॑वः ’ इत्यादौ ’ यद्वृत्तान्नित्यम्’ इत्यपि निघाताभावसिद्धेरिति ॥ [४०५] ॥ पूजायां नानन्तरम् ॥ (8-1-37) यावद्यथाभ्यामनन्तरं ताभ्यां युक्तं तिङन्तं न निहन्यत इति न । द्वौ नञौ प्रकृतमर्थं बोधयतः ’ । निहन्यत एव पूजायाम् । ’ यावद्भवति पूजायां किम् ? ’ यावदभुङ्के " । अनन्तरं किम् ? ’ यावद्देवदत्तः चारु ’ ’ यथा करोति चारु 1 पचति शोभनम् ’ । प्रत्युदाहरणे पूर्वसूत्रेण निघातनिषेध एव । " यावत् देवदत्त पचसि ’ इत्यत्र आमन्त्रितस्य अविद्यमान- वत्त्वात् प्रकृतसूत्रेण निषेधो भवत्येव ॥ [४०६] ॥ उपसर्गव्यवेतं च ॥ 8-1-38) यावद्यथाभ्यामनन्तरमुपसर्गव्यवहितं तिङन्तं न निहन्यते इति न पूजायाम् । ’ यावत् प्रपचति चारु’ । “यथा प्रकरोति शोभनम् ’ । पूर्वत्र अनन्तरग्रहणात् उपसर्गव्यवाये न सिध्यति इत्यय; इदं मारम्भः । इदं तु स्यात् — पूर्वत्र अनन्तरग्रहणं मास्तु नियमार्थं भविष्यति, ‘व्यवाये यदि भवति तर्हि उपसर्गेणैव’ इति । अतः यावत् देवदत्तः पचति’ इत्यादौ नातिप्रसङ्ग इति ॥

  1. गमयतः घ. ङ.
  2. -निषेधः । एवं घ.
  3. यावत् घ. 4. एव घ. नास्ति । नास्ति ।

स्व - 42 ३३०

स्वरैसिद्धान्त चन्द्रिकायाम् [४०७] ॥ तुपश्यपश्यताहैः पूजायाम् ॥ (8-1-39) एतद्युक्तं तिङन्तं नानुदात्तं भवति पूजायाम् । [सू. ४०७ ’ माणवकस्तु माणवको भुङ्क्ते भुङ्क्ते पश्यत वा’ । भुङ्क्ते शोभनम् ’ । ’ पश्य माणवको आश्वर्यद्योतकास्तुशब्दादय परं लसार्वधातुकमनुदात्तम् श्रमकारस्य इति पूजाप्रतीति: । भुजेरनुदात्तेतः 1 ततो धातुस्वरेण उदात्तस्य’ नसोरल्लोपः’ इति लोपे उदात्तनिवृत्तिस्वरेण ’ भुङ्क्ते इत्यन्तोदात्तम् । सरस॒महे॒ वस॒न्ताय॒ प्राय॑च्छत्’ । अहशब्दः केवलार्थः । वसन्ताय’ केवलं रसं प्रायच्छदित्यर्थ इति पूजाप्रतीतिः इत्याहुः । अडागम उदात्तः । एवम् कस्य वाई दे॒वा य॒ज्ञमा॒गच्छन्ति कस्य॑ वा न’ इत्यत्रापि अहशब्दयोगात् अनिघात इत्याहुः । पूर्वत्र पूजाग्रहणं प्रतिषेधप्रतिषेधेन अनन्तरग्रहणेन च सम्बद्धम् इति पुनः पूजाग्रहणं पूजाग्रहणं कृतम् । तेन अस्य निघातप्रतिषेधत्वसिद्धिः । अन्यथा न लुट्’ इत्यादिविषये प्रतिषेधस्य प्रतिषेधोऽनेन क्रियत इति शङ्क्येत ॥ [४०८] ॥ अहो च ॥ (8–1–40) अनेन युक्तं तिङन्तं नानुदात्तं पूजायाम् । पचति शोभनम् !’ योगविभाग उत्तरत्र अहो देवदत्तः अहोशब्दमात्रस्य अनुवृत्त्यर्थः ॥

  1. अनुदात्तस्य घ.
  2. रसं वसन्ताय • घ.

एवम् घ. नास्ति ।

[ सू. ४११]

सर्वानुदात्तप्रकरणम् [४०९ ] ॥ शेषे विभाषा ॥ ( 8–1–41) ३३१ पूर्वत्र पूजायामुपयुक्तत्वाद्यदन्यत् पूजायाः स शेषः 1 तत्र अहोशब्देन युक्तं तिङन्तं नानुदात्तं वा भवति । ’ ग्राममहो गमिष्यसि ’ । असूयावचनमेतत्, नाश्चर्यवचनम् | अदुपदेशाल्ल सर्वाधातुकानुदात्तत्वे पक्षे स्यप्रत्ययाकार उदात्तः । पूर्वत्र चानुकृष्टस्य पूजाग्रहणस्य निवृत्त्यैव पूजातोऽन्यः शेष इति सिद्धे शेषग्रहणं स्पष्टार्थम् ॥ [४१०] ॥ पुरा च परीप्सायाम् ॥ (8–1–42) परीप्सा त्वरा । तस्यां गम्यायाम् ’ पुरा’ इत्यनेन युक्तं तिङन्तं वानुदात्तं भवति । ‘अधीष्व माणवक पुरा विद्योतते विद्युत्’ । ‘यावत्पुरानिपातयोर्लट् ’ इति भविष्यति ८ लट् । पुराशब्दश्व अत्र अध्ययनान्तरायभूतस्य भविष्यतो विद्युद्विद्योतनस्य आसत्ति द्योतयति इति त्वरा गम्यते । विद्युतश्च अध्ययनान्तरायत्वम् ‘देशेऽशुचावात्मनि च ’ ’ विद्युत्स्तनितसम्प्लवे’ इति तात्कालिकानध्ययननिमित्तेषु याज्ञ्यवल्क्यपरिगणनात् । परीप्सायां किम् ? ‘पुरा होता॑रोऽभूवन् ’ ॥ [४११] ॥ नन्वित्यनुज्ञैषणायाम् ॥ (8–1–43) अनुज्ञाया एषणा प्रार्थना । तत्र ‘ननु’ इत्यनेन युक्तं तिङन्तं नानुदात्तं वा भवति । ‘ननु करोमि भोः ’ ।

  1. वानुदात्तं भवति क.
  2. असूयया वचनमेतत्, न त्वाश्वर्येण घ.
  3. यावत्पुरा… स्तनितसंक. नास्ति ।

३३२

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ४१३ अनुजानीहि मां करणाय इति प्रार्थयते’ । ’ अङ्गात् प्राति- लोम्ये’ इत्यादिवत् सिद्धे सूत्रे इतिशब्दो निपातद्वयशङ्कानिवृत्त्यर्थ इति हरदत्तः ॥ [ ४१२] ॥ किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ॥ (8-1-44) क्रियाप्रश्ने विद्यमानेन विद्यमानेन किंशब्देन युक्तं किंशब्देन युक्तं तिङन्तमनुपसर्ग- देवदत्तो यजति आहो- मप्रतिषिद्धार्थकं नानुदात्तं भवति । ‘किं स्विदधीते ? ’ । इह उभयोः क्रिययोः संशयविषयत्वात् उभाभ्यां किमो योग इति तिङन्तद्वयमपि न निहन्यते इति केचित्’ । उभयोः संशयविषयत्वेऽपि आद्यक्रियाया एव द्योतयति । आहोस्विच्छब्दस्तु द्वितीयस्या: । प्रश्नं किंशब्दो ’ किं ’ किं क्रियाप्रश्ने ’ इति च सूत्रम् । आद्यस्यैव निघात इत्यन्ये 1 क्रियेति किम् ? साधनप्रश्ने मा भूत् । ’ किं द्वादशाहस्य प्रथमेना- ह॒वि॑िनां॒ यज॑मानो वृ॒ङ्क्त इति॑ इर्ति’ । सोपसर्गस्तु निहन्यत एव । ’ स किं प्रपचति ? उत प्रकरोति उत प्रकरोति ? ’ एवं ‘किं न पचति ? उत न यजति ? ’ प्रतिषिद्धार्थकमपि । [४१३] ॥ लोपे विभाषा ॥ (8-1–45) प्रकृतत्वात् किमो लोप इति गम्यते । किंलोपस्य अविहितत्वात् आक्षेपादिना किमर्थलाभे यत् तस्य अप्रयोगात् अदर्शनम्,

  1. अनुजानीष्व घ.
  2. प्रार्थना घ.
  3. इति केचित् निघातः घ. नास्ति । …
  4. अपि घ. नास्ति, Shri Vipin Kumar Colसूति. Inayblic Domain.सू. ४१५]

सर्वानुदात्तप्रकरणम् ३३३ तदेवेह लोपशब्देन गृह्यते । तस्मिन् सति पूर्वसूत्रोक्तविशेषणविशिष्टं तिङन्तं वा अनुदात्तं भवति । अत एव प्राप्तविभाषेयम् ; पूर्वत्रापि किमर्थयोग एव निघातनिषेधात् । ’ देवदत्तः पठति आहोस्वित् पचति ?’ अत्र आहोस्विच्छन्देन पक्षान्तरप्रभे वर्तमानेन पूर्वत्र किमर्थयोगो गम्यते । पूर्ववत् प्रत्युदाहृतय ऊह्याः 11 C [४१४] ॥ जात्बपूर्वम् ॥ (8–1–47) अपूर्वम्’ इत्येतत् जातु’ इत्यस्य विशेषणम्, न तु निमित्तत्वेन प्रधानस्यापि तिङन्तस्य ; ‘आहो उताहो चानन्तरम् ’ इत्यत्र अनन्तरग्रहणालिङ्गात् । अन्यथा ‘अपूर्वम्’ इत्यनुवृत्त्यैव आनन्तर्यलाभे किं तत्र अनन्तरग्रहणेन ? अविद्यमानपूर्वेण जातु इत्यनेन युक्तं तिङन्तं नानुदात्तम् । ‘जातु भोक्ष्यसे ’ । अपूर्व किम् ? ‘कटं जातु करिष्यसि ’ । इह तु आमन्त्रितस्य अविद्यमानवत्त्वात् ‘जात्वपूर्वम्’ इति निषेध एव ‘देवदत्त जातु पचसि ’ ॥ ॥ [ ४१५] ॥ किंवृत्तं च चिदुत्तरम् ॥ (8–1–48) " वर्ततेऽस्मिन्निति वृत्तम् । वृते: ‘क्तोऽधिकरणे च’ इत्यधिकरणे क्तः । किमो वृत्तं किंवृत्तम् । ’ अधिकरणवाचिनश्च ’ इति षष्ठी’ । ’ अधिकरणवाचिना च’ इति समासनिषेधस्तु न किंशब्दनिष्पन्नं रूपम् भवति ; निपातनात् " इति हरदत्तः । किंशब्दनिष्पन्नं इत्यर्थः । तत्र हि किंशब्दो वर्तते । ’ चिदुत्तरम्’ इति किंवृत्तस्य विशेषणम् ; पूर्वोक्तात् सामान्यापेक्षज्ञापकात् चिदुत्तरेण अपूर्वेण किंवृत्तेन युक्तं तिङन्तं नानुदात्तम् । ‘कश्चित् करोति’ ।

  1. कर्तरि षष्ठी क.

३३४

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ४१६ ’ कतरश्चित् करोति’ । ‘कतमश्चित्’ । चिदुत्तरम् इति किम् ? पू॒र्वचि॑त्तिः ’ । ’ वृत्तग्रहणेन ’ कि स्विदासीत् तद्विभक्त्यन्तं प्रतीयात् ’ sarsaat च ’ ’ कियच्चित् ’ इत्युक्तेः पठति’ इत्यादौ न निषेधः ॥ [४१६] ॥ आहो उताहो चानन्तरम् ॥ (8-1-49) आभ्यामपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति भवति । ? ’ आहो अत ’ आहो देवदत्त ‘आहो भुङ्क्ते’ । ’ उताहो भुङ्क्ते’ । अनन्तरं किम्+ देवदत्तो भुङ्क्ते’ । अपूर्वं किम् ? ’ स आहो भुङ्क्ते एव उताहोग्रहणम् 1 इदमप्युदाहरणम् पचसि ’ ; आमन्त्रितस्य अविद्यमानवत्त्वात् । अनन्तरग्रहणमुत्तरसूत्रे अननन्तरस्य शेषत्वप्रतिपत्तिर्यथा स्यादिति ॥ 11 || [४१७] ॥ शेषे विभाषा ॥ (8–1–50) ‘आहोउताहोशब्दाभ्यां युक्तं तिङन्तं वानुदात्तं भवति, अननन्तरलक्षणशेषविषये । ‘आहो देवदत्तः पचति ’ । ’ उताहो देवदत्तः पचति’ । ‘देवदत्त’ आहो भुङ्क्ते ’ ’ देवदत्त उताहो भुङ्क्ते ’ ॥

  1. प्रत्ययौ घ.
  2. कियांश्चित् घ.
  3. निषेधः । किंशब्दनिष्पन्नं
  4. अपूर्वाभ्यामाहोघ. 1 भवति । सान्तरं सपूर्व वा शेषः । अनन्तरख.

क. 7. सः ख. इदमुदाहरणद्वयम् क. ख. नास्ति ahd. रूपमिति प्राप्रोति ॥ 4. अनन्तरं किम्-ग्रहणम् 8. क. घ. नास्ति ।

सू. ४१८] ४१८]

सर्वानुदात्तप्रकरणम् [ ४१८ ] ॥ गत्यर्थलोटा लुग्न चेत् कारकं सर्वान्यत् ॥ (8–1–51) ३३५ तिङन्तं गत्यर्थस्य धातोर्यल्लोडन्तम्, तेन युक्तं युक्तं लडन्तं नानुदात्तम् ; लडन्तवाच्यं यत् कारकम्, तत् सर्वं चेल्लोडन्त - वाच्यकारकादन्यन्न भवेत् । सूत्रे ‘सर्व’ इति 9 , लुप्तप्रथमाकं पदम् । आगच्छ देवदत्त ग्रामम्, एनं द्रक्ष्यसि । ’ उह्यन्तां देवदत्तेन शालयः तेनैव ते’ भोक्ष्यन्ते’ । उद्यन्तामिति वहतेः रूपम् । आद्योदाहरणे य एव लोडन्तवाच्यः कर्ता, स एव लडन्त - वाच्यः । द्वितीयेऽपि शालिलक्षणमेकमेव कर्म कारकं तिङन्तद्वयवाच्यम् 1 कारकभेदे तु न भवति । आगच्छ देवदत्त ग्रामम्, पिता एनं द्रक्ष्यति’ । सर्वग्रहणात् इहापि निघातनिषेधो भवति आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्रक्ष्याव एनम् ’ इति ; लोडन्तवाच्यकारकात् ऌडन्तवाच्यस्य कारकस्य’ अन्यत्वेऽपि सर्वस्य अन्यत्वाभावात् । लडिति किम् ? ‘एहि वसो पुरोवसो प्रियो में हृदौऽसि ’ ॥

  1. गत्यर्थानां लोटा युक्तं क. 2. यज्ञदत्तेन क. 3. कारकस्य घ. नास्ति । 4. अन्यस्याभावात् घ. 5. गत्यर्थलोटा….॥ गत्यर्थानां लोटा युक्तं तिङन्तं लडन्तं नानु- दात्तम्, न चेत् कारकं सर्वान्यत् भवति । यत्र हि कारके कर्मणि कर्तरि वा लोट्, यदि तत्रैव लडपि इत्यर्थः । कर्तृकर्मणी एव अत्र कारकग्रहणेन गृह्येते, न करणादिकारकान्तरम् । ‘आगच्छ देवदत्त ग्रामं द्रक्ष्यस्येनम ओदनं भोक्ष्यसे वा’ । ’ उह्यन्तां देवदत्तेन शालयः यज्ञदत्तेन वा भोक्ष्यन्ते’ । एकस्य गत्यर्थग्रहणं किम् ? ‘पच देवदत्त ओदनम्, भोक्ष्यस एनम् ’ । लडिति किम् ? ‘आगच्छ देवदत्त, पश्यस्येनम्’ । न चेदित्यादि किम् ? ‘आगच्छ देवदत्त ग्रामम्, पिता त ओदनं भोक्ष्यते’ । ‘उद्यन्तां देवदत्तेन शालयः सक्तवस्तेन पास्यन्ते’ । सर्वग्रहणं किम् ? ‘आगच्छ देवदत्त ग्रामम् त्वं चाह इत्यत्रापि द्रक्ष्याव एनम् ’ प्रतिषेधो यथा स्यात् । लडन्तवाच्ये हि सर्वस्मिन्नन्यस्मिन् कारके न भवितव्यम् । इह तु यल्लोडन्तस्य कारकं भवितव्यम् तच्चान्यल्ऌडन्तवाच्यमिति च इत्येव ॥ ख.

३३६

स्वर सिद्धान्तचन्द्रिकायाम् [४१९] ॥ एहिमन्ये प्रहासे लृट् ॥ सू. ४१९] (8-1-46) ऌडन्तं नानुदात्तं भवति’ रथेन यास्यसि ’ । पितरि एहिमन्ये इत्यनेन युक्तं परिहासे गम्ये एहि मन्ये रथेन याते तदज्ञानेन’ अहं रथेन यास्यामि इत्यागच्छन्तं पुत्रं प्रति तत्स्यालादेः+ परिहासपूर्विकेयमुक्तिः । अत्र ‘प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च इति सूत्रेण मन्यतेर्मध्यमस्य से: स्थाने उत्तम इट् । मन्योपपदस्य धातोरुत्तमस्य मिपः स्थाने मध्यमः सिप् । ‘गत्यर्थलोटा’ इति सिद्धे नियमार्थमिदम् ‘एहिमन्येयोगे यदि भवति तर्हि प्रहास एव’ इति । तेनेह न ‘एहि मन्यसे रथेन यास्यामि इति ’ । तत्त्वकथनमेतत्, न परिहासः । अत एव न पुरुषव्यत्ययः 1 न चैवम् एहि’मन्येयोगे नियमः क्रियमाणः कथं मन्यसेयोगे व्यावृत्ति कुर्यादिति वाच्यम् ; अत एव नियमस्य व्यावर्त्यानुपपत्त्या’ सूत्रे ’ मन्ये ’ इत्युत्तमोपादानस्य . अतन्त्रत्वज्ञापनात् । तदुपादानं तु प्रहासे मन्यतेरुत्तमो विहित इति कृत्वा । तथा च एहिमन्यतेर्योगे " नियमः क्रियमाण उक्तस्थले निषेधं फणेदिति" सिद्धम् " ॥

  1. संघातेन ङ. अधिकम् । 2. भवति घ. नास्ति ।
  2. तदज्ञानात् घ. 4. इयं घ. अधिकम् ।
  3. fa: घ. नास्ति । नास्ति ।
  4. यदि क. 7. तर्हि घ. 8. -मन्येक. नास्ति । 9. व्यावर्त्यान्यथानुपपत्त्या क. 10. स हि घ. अधिकम् । 11. फलेदिति घ.
  5. एहि मन्ये प्रहासे…. | एहि मन्ये इत्यनेन समुदायेन युक्तं तिङन्तं लडन्तं नानुदात्तं प्रहासे । ‘एहि मन्ये ओदनं भोक्ष्यसे, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभि:’ । ‘प्रहासे च मन्योपपदे ’ इति पुरुषव्यत्ययः प्रहासे किम् ? ‘एहि मन्यसे ओदनं भोक्ष्ये इति, सुष्ठु च मन्यसे’ । ‘गत्यर्थलोटा’ इत्येव सिद्धे नियमार्थमिदम्, एहिमन्येयुक्तं प्रहास एव नानुदात्तमिति ॥ ॥ जाखपूर्व ॥ ख.

सू . ४२१]

सर्वानुदात्तप्रकरणम् [ ४२० ] ॥ लोट् च ॥ ( 8–1–52) [४२०] गत्यर्थलोटा युक्तं लोड्रन्तं न निहन्यते सर्वं कारकं गत्यर्थलोडन्तवाच्यं न चेत्’ । रोव रोहव’ । ‘एहि ’ इति गत्यर्थलोटा 6 ३३७ ; लोडन्तवाच्यं जाय एहि सुवो योगात् ’ रोहव’ इत्यस्य न निघातः । ’ आडुत्तमस्य पिश्च’ इति प्रत्ययस्य पित्त्वात् धातुस्वरः । एहि सावित्रं विद्धि’ ‘एहि मां विद्धि’ इत्यादौ व्यत्ययात् विद्धीति निहन्यते । इतरत् ’ गत्यर्थलोटा’ इतिवदूह्यम्’ | C [ ४२१] | विभाषितं सोपसर्गमनुत्तमम् ॥ (8-1-53) उपसर्गसहितमुत्तमवर्जितं लोडन्तं गत्यर्थलोटा युक्तं वा अनुदात्तम् । सोम॑ राजन्नेह्यव॑रोह’ । भक्षेहि माविश’ । अत्र रोह ’ ’ विश’ इति तिङन्तद्वयं निहन्यते । अनुत्तमं ’ किम् ? ‘आगच्छानि देवदत्त ग्रामं प्रविशानि’ । अत्र पूर्वेण नित्यं नानुदात्तत्वम् । ‘तावेह सम्भवाव’ इत्यत्र व्यत्ययात उत्तमस्यापि निघातः ॥

  1. अन्यत् ङ. अधिकम् ।
  2. ॥ लोट् च ॥ गत्यर्थलोटा युक्तं टिङन्तं लोडन्तं न निहन्यते, न चेत् कारकं सर्वान्यत् भवति । ‘आगच्छ देवदत्त ग्रामं पश्यैनं विष्णुमित्रम् शाधि वा ‘आगम्यतां देवदत्तेन , यज्ञदत्तेन ग्रामः, तेनैव दृश्यताम् वा’ । गत्यर्थेत्येव । पच देवदत्त ( ओदनं भुङ्क्ष्वैनम् ’ । लोटा इत्येव । ’ गमिष्यसि देवदत्त ग्रामं पश्यतैनम्’ । न चेत् कारकं सर्वान्यदित्येव । 6 आगच्छ देवदत्त ग्रामं पश्यत्वेनं विष्णुमित्रः ’ । सर्वग्रहणात् इहापि भवत्येव — ’ आगच्छ देवदत्त त्वं चाहं च पश्याव’ । पृथग्योगकरणम् उत्तरार्थम् । ’ एहीमं विद्धि’ ‘एहि वि॑द्ध ’ इत्यादौ व्यत्ययात् सावि॒त्रं ’ विद्धि’

इति निहन्यते || क. ख. तिङन्तं क. अधिकम् । 4. इति क. अधिकम् । CC-0 Shri Vipin Kumar Col. Deoband. In Public Domain. स्व22 ३३८

स्वर सिद्धान्तचन्द्रिकायाम् [ ४२२ ] ॥ यद्धितुपरं छन्दसि ॥ (8-1-56) [सू. ४२२ यदादयः परे यस्य तत्तिङन्तं नानुदात्तं छन्दसि । ’ गवां गोत्रमुदस्रजो यदङ्गिरः’ । ’ इन्दवो स्यामि तु ते’ । ‘निपातैर्यद्यदि’ वामुशन्ति हि ’ आख्या- इत्यादिनैव निषेधे सिद्धे नियमार्थमिदम् ‘छन्दसि परैर्योगे यदि भवति तर्हि एभिरेव ’ इति । तेन ’ जाये स्वो’ रोहावैहि’ इति शाखान्तरीये पाठे ‘एहि’ इति गत्यर्थलोटा परभूतेन युक्तस्य ‘रोहाव ’ इति लोडन्तस्य ’ लोट् च ’ इति निघातनिषेधो नेति भाष्यादौ । परा॑वर॒भृद्येथा’, आत्मा यक्ष्मस्य अत एव नियमात् नश्यति पु॒रा जीव॒गृभ् यथा इत्यादौ यावद्यथाभ्याम् ’ इति निषेधाभावः ॥ [४२३] ॥ चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ॥ (8-1-57) अगतेः परं तिङन्तं न निहन्यते ’ चनादिषु परतः । ‘देवदत्तः पचति चन’ । ’ स पचति चित्’ । ’ स पचतीव ’ गोत्रादिः - ’ स पचतिगोत्रम् ’ 1 पचतिब्रुवम्’ । अत्रापि कुत्सनाभीक्ष्ण्यादिवृत्तेरेव गोत्रादेर्यहणम् इत्युक्तम् । । कल्पम् ’ । ’ स ’ ईषदसमाप्तौ ’ इत्यत्र ’ तिङश्च ’ इत्यनुवृत्तेः पचति- अत्र अनुदात्तत्वाद्धातुस्वर: । ‘स’ पचति- कल्पपि‍ तस्य पित्वेन

  1. तर्हि घ. नास्ति ।
  2. इष्टत्वात् ङ.
  3. सुवो क.

कल्पप् घ. 3. अनुदात्तम् घ. 6. सः नास्ति aih

घ.

सर्वानुदात्तप्रकरणम् सू. ४२५] ३३९ देश्यम्’ इत्यादौ सतिशिष्टत्वात् प्रत्ययस्वरे सतिशिष्टत्वात् प्रत्ययस्त्ररे सति शेषनिघातेन पचति पचति ’ । तिङन्तोऽनुदात्त’ एव । आम्रेडिते—’ देवत्तः अगतेरिति किम् ? ‘स प्रपचति चन’ । अत्र तिङ् निहन्यत एव 11 (घा) ॥ गतिग्रहणेनोपसर्गस्य ग्रहणमिष्यते ॥ ‘स’ शुक्लीकरोति चन’ । अत्र ’ अगतेः’ इति निषेधाभावात् निघातनिषेध एव । ’ ऊर्यादिच्विडाचश्च’ इति च्व्यन्तत्वात् गतिसंज्ञः शुक्कीशब्दः, न तु अस्य उपसर्गसंज्ञा ॥ [४२४] ॥ चादिषु च ॥ (8–1–58) एषु परतः अगतेः परं तिङन्तं न निहन्यते ’ चवाहा हैवयुक्ते ’ इत्यत्र निर्दिष्टाश्चादय इह गृह्यन्ते, . ’ चादयोऽसत्वे पचति च साधु खादयति च । तिङन्तद्वयमपि इति निर्दिष्टा: ; विप्रकृष्टत्वात् । । “न न तु ‘देवदत्तः चशब्दपर- त्वात्’ न निहन्यते । एवं वादिपरमपि उदाहार्यम् । अगतेरिति ’ किम् ? ‘देवदत्तः प्रपचति च प्रपाठयति’ च’ । अत्र आद्यं तिङन्तमुत्तरसूत्रान्न निहन्यते । द्वितीयं तु निहन्यत एव तदिह प्रत्युदाहरणम् ॥ [ ४२५] ॥ चवायोगे प्रथमा ॥ (8-1-59) ‘अगते:’ इति निवृत्तम् | “चवाभ्यां युक्ते प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति । ‘वत्सं चौपावसृजत्युखां चार्धश्रय॒त्यव॑

  1. तिङन्तं नानुदात्तं घ 2. इति घ. नास्ति । नास्ति ।
  2. : क.
  3. पर्युदासाभावात् घ. ङ.
  4. अनुदात्तम् घ.
  5. चशब्दयुक्तत्वात् क.
  6. इति घ. नास्ति ।
  7. प्रवदति ध. ङ.
  8. हन्यते घ.
  9. चवायोगे प्रथमा घ.

३४० च इन्ति दृषदौ

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ४२५ च स॒माह॒न्त्यधि॑ च॒ वप॑ते कपालनि चोर्ष पुरो॒डाश॑ चाध॒नय॒त्याज्य॑ च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ दधाति पुरोडाशं गृह्णाति॒ वेदि॑ च परिगृह्णाति॒ पत्नी॑ च॒ रान्न॑ह्यति॒ प्रोक्ष॑णीश्वासाद’ आज्यं यत्याज्यं चैतानि वै द्वादेश द्वन्द्वानि ’ ’ इत्यत्र स्थलद्वये च’ इति श्रूयते । तत्र ‘पुरोडाशं चाधिश्रय॑ति ’ प्रोक्षणीश्चा- एव सादर्यति’ इति पूर्ववाक्यगतौ अधिश्रयत्यासादयती अनुषज्यते । तेन अत्र सप्त तिङन्तयुगलानि भवन्ति । तत्रैकस्मिन्’ युगले प्रथमं तिङन्तं न निहन्यते, द्वितीयं तु निहन्यत प्रथमा’ इति वचनात् । न च अधिश्रयतौ आसादयतौ च प्राथम्यासंभवः, एकस्यैव तिङन्तस्य अनुषङ्गात् इति वाच्यम् ; अनुषङ्गकल्पितभेदनिबन्धनप्राथम्यमादाय लक्ष्यानुसारेण स्वरप्रवृत्तेः । न च एकैकतिङन्तयुगलान्तर्गत द्वितीयतिङन्तमपि न निहन्येत, युगलान्तरवर्तितिङन्तापेक्षया प्राथम्यात् इति वाच्यम् ; याभ्यां " चवाशब्दाभ्यां यः समुच्चयादिर्विकल्पो वा द्योत्यः, तद्युक्ततिङन्तद्वयमध्ये प्रथमं न निहन्यत इति निहन्यत इति सन्निधानाद्विज्ञानात् इति दिक् । सर्वत्र तिप् पिस्त्वादनुदात्तः । ’ वपते’ इत्यत्र लसार्वधातुकमनुदात्तम्’ । सृजतिगृह्णात्योः सतिशिष्टत्वाद्विकरणस्वरः ’ हन्ति ’ इत्यत्र विकरणलोपाद्धातुस्वर एव 1 इतरत्रापि शपोऽनुदात्तत्वाद्धातुस्वर एव । गतिर्गतौ’, ‘तिङि चोदात्तवति ’ इति यथायोगं गतिनिघातः । ‘जर्तिलयवाग्वा वा जुहुयाद्देवीधुकयवाग्वा वा’ ’ अञ्जलिर्ना वा पिबेदखेर्वेण वा पात्रेण '

  1. इति घ. नास्ति । 2. पूर्ववाक्यगताधिश्रयक. 3. तत्रैव कस्मिन् घ.
  2. तु
  3. न घ. नास्ति ।
  4. आभ्यां घ.
  5. चवाभ्यां घ.
  6. लसार्वधातुकानुदात्तत्वम् घ. 9. एव घ. ङ. नास्ति । घ. नास्ति Shri Vipin Kumar Col. Deoband. In Public Domain. । उद्वा सू. ४२७]

सर्वानुदात्तप्रकरणम् ३४१ माद्येद्यज॑मानः प्रव मीयेत ’ अतिजनं वेयात्, उद्वां माद्येत् ’ इत्यन्त्र प्राथम्याप्राथम्याभ्यां’ ‘माद्येत्’ इत्यस्य निघातानिघातौ ॥ [४२६] ॥ हेति क्षियायाम् ॥ (8–1–60) क्षिया - शिष्टाचारोल्लङ्घनम् । तस्मिन् गम्ये ‘ह’ इत्यनेन युक्ता प्रथमा तिविभक्तिर्न अनुदात्ता’ याति३, उपाध्यायं पदातिं तिङाकाङ्क्षम्’ इति टे: ‘स्वयं ह रथेन गमयति ३ ’ इत्यत्र ‘क्षियाशी: प्रैषेषु स्वरितः प्लुतः । उपाध्याये पदातौ गच्छति शिष्यस्य रथेन गमनप्रतिषेधात् आचारोल्लनम् । इतिकरणस्य फलं चिन्त्यम् ॥ [४२७] ॥ अहेति विनियोगे च ॥ (8-1-61) विनियोगोऽनेकप्रयोजनो नियोगः प्रेषणेति हरदत्तः । तस्मिन्, इत्यनेन चकारात् क्षियायां च युक्ता ‘अह’ इत्यनेन प्रथमा तिङ्- विभक्तिर्नानुदात्ता 1 त्वमह ग्रामं गच्छ३ ’ त्वमहारण्यं गच्छ ३ । क्षियायाम् – ‘स्वयमह रथेन याति३, उपाध्यायं पदातिं गमयति ’ 1 अत्र उभयत्र प्रथमस्य तिङन्तस्य अनिघातः,’ ‘क्षियाशीः’ इति पूर्ववत् प्लुतश्च ॥

    • अप्राथम्याभ्यामनिघातनिघातौ
  1. टे: क. नास्ति । माद्येत् इत्यस्य घ.
  2. प्रेषणमिति घ.
  3. युक्तं प्रथमं तिङन्तं न निहन्यते
  4. न निघात: घ. c-o. Shri Vipin Kumar Col. Deoband. In Public Domain. ३४२

स्वरसिद्धान्तचन्द्रिकायाम् [४२८] ॥ चाहलोप एवेत्यवधारणे ॥ (8-1-62) ’ [सू. ४२८ ’ एव ’ चाहयोर्लोपे सति प्रथमा तिविभक्तिर्नानुदात्ता, इत्येतच्चेदवधारणार्थं प्रयुज्यते । ‘यो वै दे॒वान् दे॑वयश॒सेनार्पयति मनु॒ष्या॑न् मनु॒ष्ययश॒सेन॑ दे॒वयश॒स्यैव दे॒वेषु॒ भव॑ति मनु॒ष्ययश॒सी म॑नु॒ष्येषु’ । देवयशसी मनुष्ययशसी च भवति इति चार्थो अहलोपे - गम्यते, चशब्दश्च न प्रयुज्यत इत्यस्ति चलोपः ‘देवदत्त एव ग्रामं गच्छतु, यज्ञदत्त एव अरण्यं गच्छतु ’ । प्रामं केवलम्, अरण्यं केवलम् इत्यर्थः । अत्र कैवल्यस्य अहशब्दार्थस्य गम्यमानत्वात् तदप्रयोगाच अहलोपः । अवधारण इति किम् ? ‘देवदत्तः क्वेव भोक्ष्यते ’ । असम्भावनायाम् एवशब्दः । न कचित् भोक्ष्यत इत्यर्थः । ’ एवे चानियोगे ’ इति पररूपम् । ’ चादिलोपे विभाषा’ इत्युत्तरसूत्रेण सिद्धे निषेधे एवशब्दप्रयोगे नित्यार्थोऽयं योगः । एवं च ’ तानुपब्दिमतो दे॒वाने॒व तद्दैवयश॒सेना॑र्पयति मनु॒ष्या॑न् मनुष्ययशसेन॑ देवयशस्यैव देवेषु भवति मनुष्ययश॒सी म॑नु॒ष्ये॑षु’ इत्यत्र इति बोध्यम् । यत्तु अत्र इत्युक्तेः पूर्वस्य भवतिशब्दस्य व्यत्ययात् ’ भवति’ इत्यस्य निघात वेदभाष्यम् -’ चादिलोपे विभाषा ’ निघाताभावः 1, उत्तरस्य च निघातः — इति, तच्चिन्त्यम् ; यत्तु स्वरमञ्जर्यामुदाहृतम् ‘बृहस्पतिर्देवानां

पु॒रोहि॑त॒ आसीच्छण्डामक वसु॑राणाम्’’ ततो देवा अभवन् परासुराः’ इत्यादी अहलोप:, ’ तावैतां पूर्वेणाहागच्छतामुत्तरेण ’ इत्यत्र चलोपः - इति, तच्चिन्त्यम् ; एवशब्दाप्रयोगात् चलोपः - इति,

  1. गम्यमानार्थत्वात् घ.
  2. इति घ. नास्ति ।
  3. भोक्ष्यसे घ.

। न यत्तु…………………….तच्चिन्त्यम् घ. 6. ’ अहर्देवानामासीद्रा- नास्ति । 4. अनिघातः P… Shri Vipin Kumar Col. Delवरसुराणामsic Domain. अधिकम् ।सू. ४२९]

सर्वानुदात्तप्रकरणम् ३४३ च तदप्रयोगेऽपि तदर्थयोगोऽस्ति, बृहस्पतिरेव पुरोहित आसीत्, देवा एव अभवन्, इत्याद्यर्थकल्पनात् इति वाच्यम् ; न हि एवशब्दयोगे अयं विधिः, येन तदप्रयोगेऽपि अर्थद्वारकं तद्योग- ; मादाय कार्यं स्यात् किं तु एवशब्दप्रयोगे । अन्यथा ‘चाइलोपेऽवधारणे’ इत्येतावतैव इष्टसिद्धौ एव’ चादिलोपे नित्यार्थः - इति वैयर्थ्यप्रसङ्गात् । अत एव वृत्तिः - ’ एव ’ प्रयुज्यते’ इति । अत एव हरदत्तः - पूर्वयोग एवशब्दप्रयोगे हरणेषु कथं निघाताभाव इति तावत् वैशब्दयोगात् निघातो न’ एव ’ इत्यस्य इत्येतश्चेदवधारणार्थ विभाषा इत्यत्र । ननु एवमुदा- चेत् — उच्यते आद्योदाहरणद्वये

; इति ‘वैवावेति च छन्दसि’ इत्यत्र स्वरमञ्जर्यामेवोक्तम् । इतरत्रापि ‘चादिलोपे विभाषा ’ इति तदभावः ’ । छन्दसि प्रयोगस्य व्यवस्थितत्वान्न विकल्प आपाद्य इति ॥ [ ४२९] ॥ चादिलोपे विभाषा ॥ (8-1-63) प्रथमा तिविभक्तिर्नानुदात्ता । अत्रापि ‘न चवाहाहैव ’ इत्यत्र निर्दिष्टा एव चादयः । ’ अ सभा रुन्धे प्र सहस्रं पशूनानोति’, ‘ब्रह्मवादिनौ वदन्ति न प्राश्नन्ति न जु॑ह्वति अत्र चलोपः । रुघेर्लट उत्तमैकवचनमिट् । 1 प्रत्ययस्वरः । अश्नातेर्झिः । इति श्रमकारलोपः । प्रत्ययस्वरः ’ असोरल्लोपः ’ झोऽन्तः ’ 1 ’ श्राभ्यस्तयोरातः’ इत्याकारलोपः । प्रत्ययस्वरः । ’ प्रजापति

  1. एवशब्दाप्रयोगे क.
  2. स्यात् रू. नास्ति ।

इति श्रमकारलोपः क. नास्ति । 37af:.. • प्रत्ययस्वरः क. 3. तद्भावः घ. नास्ति ।

३४४

स्वरसिद्धान्तचन्द्रिकार्याम् त्व॒वेद॑ प्र॒जाप॑तिस्त्वंवेद’ । " ‘कश्चित् प्रजातिर्वेद, सू. ४३०] प्रजापर्ति कश्चिद्वेद इत्यर्थः । अत्रापि चलोपः । त्वशब्दोऽनुदात्तः ; ’ त्वत्त्वसमसिम’ इति फिट्सूत्रात् । तस्य तिङन्तेनैकपद्यं पदकारा मन्यन्ते " इति वेदभाष्यम् । विभाषाग्रहणात् ‘तैऽकामयन्त प्रजा‍ सृ॑जेम हि प्रजामव॑रुन्धीमहि प्रजां विन्देमहि ’ इत्यादौ सर्वस्य तिङन्तस्य निघातः । एवं वादिलोपेऽपि उदाहार्यम् ॥ [४३०] ॥ वैवावेति च च्छन्दसि ॥ (8-1-64) ‘वै स्फुटार्थे क्षमायां च । वाव प्रसिद्धौ स्फुटार्थे च’ इति हरदत्तः । आभ्यां युक्ता प्रथमा तिविभक्तिः वा अनुदात्ता’ छन्दसि । ’ यज्ञं वै देवा अनु॑ह्वन् य॒ज्ञोऽसु॑रा ँ अदुहत् ‘उत्तराव॑ती वै देवा आहु॑ति॒मजु॑हवुः’, ‘अर्वाचीमसुरा:’, ‘कनीयासि वै दे॒वेषु छन्दास्यासन् ज्याया स्यसुरेषु’ । ‘लुङ्लङ्लक्ष्वडुदात्तः ’ आडजादीनाम्’ इति अडाटौ इति अडाटै उदात्तौ 1 ‘अर्जुहवुः ’ ’ आस॑न्’ इत्यनयोरुत्तरवाक्ययोरनुषङ्गात् प्राथम्यम् । दुहेर्लुङ् । झोऽन्तः ’ । ’ शीङो शीङो रुट्’ इत्यधिकारे ’ बहुलं , छन्दसि’ इति वचनात् रुडागमः । ‘अदुहन्’ । ’ अयं वाव हस्त आसीत् नेतर आसीत्’ । ‘अयं वाव यः पर्वते’ इति तु न वाबयोगस्य उदाहरणम् ; ‘यद्वृत्तान्नित्यम्’ इति सिद्धेः । सौम्ये वावैन॑मध्वरे चिन्वीत, यत्र वा॒ भूयि॑ष्ठ आहु॑तयो हुयैरम्’ इति केचिदुदाहरन्ति ॥

  1. कश्चित् प्रजापतिं वेद घ.
  2. तिविभक्तिरुदात्ता वा
  3. तिङन्तैकपद्यम् क.

घ. सू. ४३२ ]

सर्वानुदात्तप्रकरणम् [ ४३१] ॥ एकान्याभ्यां समर्थाभ्याम् ॥ (8-1-65) 1 ३४५ समौ तुल्यौ अर्थौ ययोस्तौ समर्थौ । निपातनात् समशब्दान्तलोपः, शकन्ध्वादित्वात् पररूपं वा । परस्परसमानार्थाभ्याम् ऐकान्यशब्दाभ्यां युक्ता प्रथमा तिविभक्तिर्वा अनुदात्ता’ छन्दसि । ’ । प्र॒जामेका॒ रक्ष॒त्यूर्जमेको’ । ’ न्य॑न्ये धिष्ण॒या उ॒प्यन्ते॒ नान्यें’ । ८ 3 । स्थलीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्ये’ । रक्षति । धातुस्वरः, शतिपोरनुदात्तत्वात् । ‘उप्यन्ते’’ ‘गृहान्ते’ इत्यनयोर्यक्स्वरः । अदुपदेशात् परत्वाल्लसार्वधातुकमनुदात्तम् । ’ तस्मादेको द्वे जाये विन्दते’ इत्यादौ सङ्ख्यावाची एकशब्द इत्यन्यशब्दसमानार्थत्वा - 1 भावान्नायं निषेधः । न च अन्यशब्दसाहचर्यादेव सङ्ख्यावाचकैक शब्दव्यावृत्तेः समर्थग्रहणमफलम् इति वाच्यम्’ ; ‘निपातैर्यद्यदि ’ इत्यत्र निपातग्रहणेन ’ साहचर्यमत्र प्रकरणे न व्यवस्थापकम्” इति ज्ञापनात् ॥ वर्ततेऽस्मिन्निति [४३२] ॥ यद्वृत्तान्नित्यम् ॥ (8-1-66) वृत्तम् । यदो वृत्तं यद्वृत्तम्, यच्छन्दो वर्तते तदित्यर्थः । तस्मात् परं भवति’ । ’ य ए॒तेन॑ ह॒विषा॒ यज॑ते '

  1. आभ्यां घ.
  2. निहन्यते घ. यत्र तिङन्तं नित्यं नानुवाचं ’ यस्मिन्नश्व आलभ्यते’ । । ’ यस्मिन्नश्व
  3. इति वाच्यम् घ. ङ. …..
  4. उप्यन्ते इत्यादौ
  5. शब्दतुल्यार्थत्वाक. नास्ति ।

यदो वृत्तम् घ. नास्ति । नास्ति । 8. भवति घ. नास्ति । इत्यन्तम् घ. नास्तिः । 7. नित्यम् घ. स्व Cq4 Shri Vipin Kumar Col. Deoband. In Public Domain. ३४६ यहि॑ ह॒व॒र्धाने प्राची॑

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ४३३ प्रव॒र्तयैयुः ’ । ’ वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयते’ डतरडतमौ च’ इत्येतन्नेह आश्रीयते । तेन ’ वायुर्वार्ति’, 6 यत्कामास्ते य॒द्रय॑ङ्- जुहुम:’ इत्यादौ निघातनिषेध: ऋत्विक्’ इत्यादिना सिद्ध: । यदति इति यद्रियङ् । क्छिन् । ‘विष्वग्देवयोः इति टे: अद्यादेशः । तन्वादित्वात् इयङादेशः । न च पञ्चमीनिर्देशात् ‘यत्कमास्ते जुहुमः’ इत्यादौ व्यवधानात् अस्य अप्रवृत्तिः शङ्कया ‘पूजनात् पूजितम्’ इत्यत्र पूजितग्रहणेन अत्र प्रकरणे पञ्चमीनिर्देशेऽपि व्यवहिते कार्यप्रवृत्तेज्ञपनादिति ॥ (वा) | याथाकाम्य इति वक्तव्यम् ॥ याथाकाम्यं यथेच्छाप्रवृत्तिः देशकालानपेक्षा । तत्र गम्ये वा निघातनिषेधः । ’ यत्र वचन यजते ’ [४३३] ॥ सगतिरपि तिङ् ॥ (8-1-68) पूजनवचनेभ्यः काष्ठादिभ्यः परः सगतिः, अपिशब्दात् अगतिश्च तिङ् अनुदात्तो भवति । ‘तिङतिङ : ’ इति निघातो यदादियोगे । प्रतिषिद्धः । तद्विषये पुनः अनुदात्तविध्यर्थमिदम्’ । तत्र सगतौ गतेरपि निघातः । अन्यत्र तिङ्मात्रस्य । ‘यत्काष्ठं प्रपचति’ । ‘यत्काष्ठं पचति’ । ‘गतिग्रहणेन उपसर्गस्य ग्रहणमिष्यते’ । ’ यत्काष्ठं

  1. प्रत्ययौ घ. प्रतियात् ङ.
  2. सगतेः अपिशब्दात् अगतेश्व तिङन्तस्य निघातो भवति घ.
  3. अनुदात्तप्रवृत्त्यर्थम् घ.

सू. ४३४]

सर्वानुदात्तप्रकरणम् ३४७ शुक्लीकरोति’ । शुकीशब्दः च्व्यन्तत्वाद्गतिः, न तूपसर्ग: । तेनेह नानुदात्तत्वम् · 1 इह तिङ्ङ्ग्रहणात् ‘पूजनात् पूजितम्’ इति पूर्वसूत्रं सुबन्तविषयं विज्ञायते ॥ [ ४३४ ] ॥ कुत्सने च सुप्यगोत्रादौ ॥ (8-1-69) ‘पदात्’ इति निवृत्तम् । कुत्सनवाचके सुबन्ते गोत्रादिभिन्ने परतः सगतिरगतिश्च तिङ् अनुदात्तो भवति । पदात् परत्वाभावेऽपि तिनिघातार्थमिदम् । ’ पचति पूति’ । ’ प्रपचति पूति’ । ‘पूतिशब्दस्य क्रियाविशेषणत्वात् पूतीति’ नपुंसकम् । ‘सुपीति’ किम् ? पचति क्लिश्नाति ’ इति वृत्तिः । ’ चिन्त्यमिदं प्रत्युदाहरणम्, भिन्नवाक्यत्वात् सामर्थ्याभावाच्च’ इति हरदत्तः । अगोत्रादाविति किम् ? ’ पचतिगोत्रम् ’ | ‘सुपि कुत्सने क्रियाया मलोप इष्टोऽतिङीति’ चोक्तार्थम् । पूतिश्च चानुबन्धो विभाषितं चापि बह्वर्थम् ॥’ भाष्यपठितेयम् आर्या वृत्तौ पठिता । ’ मकोरलोपो ऽतिङीति चोतार्थम्’ इति द्वितीयपादपाठः । अयमर्थः - सुपि कुत्सने यदनुदात्तत्वं तत् क्रियाया: कुत्सने इति वाच्यम् ; साधनकुत्सने मा भूत् । ’ पचति पूति’ । अस्येदं पाककर्तृत्वमयुक्तम् इति कर्तृत्वमत्र कुत्स्यते, न तु क्रिया । ‘पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणं मलोपश्च ’ इति वार्त्तिकेन यो मलोपः स तिङन्तादन्यत्र इष्ट: इति ’ मलोपश्च’ इति वाक्यं पूर्वाचार्यैरुक्तार्थमिति द्वितीयपादार्थः । 5. क्रीडायां घ.

  1. पूतीति क,
  2. पूतीति क. नास्ति ।

इष्टस्तिङीति क. वर्ज सर्वत्र पाठः । 4. अभाति ख. 3. इति ष. नास्ति ।

भाष्ये द्वितीयपादः घ, 8. उत्तरार्थमिति । तेन घ. ३४८

स्वर सिद्धान्तचन्द्रिकायाम् [सू. ४३४ तेन ’ यत् काष्ठं प्रपचति’ इत्यादिपूर्वसूत्रोदाहरणे मलोपो न’ । पूतिश्च चानुबन्धः - पूतिशब्दश्चिद्वक्तव्यः / पूतिशब्द: तिनन्त आद्युदात्तः । वसेस्तिन् बाहुलकात् पुत्रोऽपि भवति । बाहुलकादेव पूनोऽपि गुणाभाव इति हरदत्तः । तस्य निघातनिमित्तस्य अन्तोदात्तत्वं स्था स्यादिति चित्त्वमुपसंख्यायते । बह्वर्थं तिङन्तं सुपि कुत्सने परतो विभाषा निहन्यत इति चतुर्थ चरणार्थ: । पचन्ति पूति’ । पक्षे धातुस्वरः 1 यदा निघातः, तदैव पूतिशब्दस्य चित्त्वेन + अन्तोदात्तत्वम् । कुत्सन इति किम् ? ‘पचति शोभनम् ’ ॥ ॥ इति सर्वानुदात्तप्रकरणम् ॥

  1. न क. नास्ति ।

  2. पूञोऽपि घ ङ. नास्ति ।

  3. पचति पूतिblic Domain.

  4. पूतिशब्दस्यापि चिद्वत्त्वेन घ.