॥ अथ समासस्वरप्रकरणम् ॥ [८] ॥ समासस्य || (6–1–223) १५१ 1 अस्य अन्त उदात्तो भवति’ । ’ वैश्वदेवाग्निमारुते ’ यद्य॑जमानभागम् ’ । वर्जने विशेषाग्रहणात् पर्यायत एकस्मिन् समासपदे? प्राप्तानां नानापदस्वराणामयमपवादः । वैश्वदेवाग्निमारुतशब्दौ अणन्तौ अन्तोदात्तौ । यजमानशब्दस्तु ‘पूयजो: शानन् ’ इति शाननन्तत्वे नित्स्वरेण शानजन्तत्वे लसार्वधातुकानुदात्तत्वात् धातुस्वरेण च आद्युदात्तः । भागशब्दः ‘कर्षात्वत:’ इत्यन्तोदात्तः । स्वरविधौ व्यञ्जनस्य अविद्यमानत्वात् हलन्तेऽपि समासे अन्त्यस्य अच उदात्तत्वम् । इदं तु ध्येयम् – ‘परमपुमान् ’ इत्यादौ समासान्तोदात्तत्वम् ‘पुंसोऽसुङ्’ इति विहितस्य असुङादेशाकारस्य भवति । न च सर्वनामस्थानपरत्वापेक्षत्वेन असुङो बहिरङ्गत्वात् अन्तरङ्गोऽयं स्वरः पकारोकारस्य स्यादिति वाच्यम् ; ‘सर्वनामस्थाने’ इत्यस्य विषयसप्तमीत्वाश्रयणेनं असुङस्तदनपेक्षत्वात् । ‘पुमान्’ इत्यादौ तु पकारोकारस्य उदात्तत्वम् ; ‘पूबो हुंसुन्’ इति सुनप्रत्ययस्य निवसामर्थ्यादिति । एतच्च ‘पुंसोऽसुङ्’ इत्यत्र भाष्यादौ स्पष्टम् ॥ । (वा) | इवेन समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् ॥ विभक्त्यलोपः समासान्तोदात्तत्वबाधनाय पूर्वपदप्रकृतिस्वरश्च अनेन विधीयते । इवेन समासस्तु ‘सह सुपा’ इति योगविभागात् सिद्धः । योगविभागस्य इष्टसिद्धयर्थत्वात् अनित्योऽयं समासः 1
- भवति घ. नास्ति ।
- असुङोऽकारस्य घ.
- समस्तपदे घ.
१५२
स्वर सिद्धान्तचन्द्रिकायाम् [सू. ८९ तेन तैत्तिरीयके ‘जीमूतस्येव भवति’ इत्यादौ न समासः । लोकेऽपि ‘उद्वाहुरिव वामनः’ इत्यादौ । ’ वागर्थाविव’ इत्यत्र अत एव व्यवहितप्रयोगः । इवशब्दस्तु समस्तः पृथग्वा । बह्वृचास्तु ‘जीमूतस्येव’ इति पदं समस्तमधीयते । जीमूतशब्दो मध्योदात्तः । ‘जेर्मूद चोदात्तः’ इत्युणादिसूत्रात् जिधातोस्तन्प्रत्ययः, तस्य मूडागम उदात्तः, चात् धातोर्दीर्घः ॥
बहुव्रीहिस्वरप्रकरणम्
[८९] ॥ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ (6-2–1) ‘प्रकृत्या’ इत्यनेन बहुव्रीहिस्थ पूर्वपदस्य व्यासदशायां यः स्वरः स लक्षणयोच्यते । उदात्तपदं स्वरितपदं च इह अनुवर्तते । तेन बहुव्रीहौ पूर्वपदं स्वस्य’ प्रकृत्या य उदात्तः स्वरितो वा स्वरः तद्वत् भवतीत्यर्थः । समासान्तोदात्तत्वापवादः । यद्यपि ‘बहुव्रीहौ पूर्वपदं प्रकृत्या भवति — विकारं नापद्यते ’ इति यथाश्रुतमेव स्वीकर्तुमुचितम्, एवं सति उदात्तस्वरितपदयोरपि अनुवृत्तिरनाश्रयणीया ; तयोरेव शेषनिघातलक्षणविकारप्राप्तेः तथापि विकारप्राप्तौ विकारं नापद्यत इति वक्तव्यम् । 1 तत्प्राप्तिश्च सति समासान्तोदात्तत्वे इत्ययं समासस्वरस्य अपवादो न स्यात्, तस्य उपजीव्यत्वात् । किं तु शेषनिघातलक्षणविकारस्यैव अयमपवाद इत्याशङ्कयेत व्याख्यातम् । ‘श॒तव॑शं॒ विरो॑ह॒ स॒हस्र॑वल्शा विवयं रुहेम ’ । शतशब्द: फिट्स्वरेण अन्तोदात्तः । सहस्रशब्दः ‘लघावन्ते इति मध्योदात्तः । ‘सगृहः सर्पशु:’ । ’ तेन " इत्येवं द्वयोश्व ’ सहेति तुल्ययोगे ’ सभावः । इति बहुव्रीहिः । ‘वोपसर्जनस्य’ इति सहशब्दस्य
- स्वस्य घ. नास्ति ।
- समासङ. नास्ति ।
-
- अन्तोदात्तत्वे । ततश्च समास- स्वरस्य नायं स्वरोऽपवादः स्यात् घ. ङ, सू. ९१]
स च ’ सहस्य सः उदात्तानुदात्तवतः ’ समासस्वरप्रकरणम् १५३ इत्यत्र उदात्तो निपातित: । अनिपाते तु सहशब्दस्य स्थाने भवन् सशब्दः स्वरित: स्यादिति पाष्ठभाष्यादौ स्थितम् । उदात्तस्वरितपदयोरिहानुवर्तनात् ‘समपाद:’ इत्यादिबहुव्रीहौ नायं विधिः ; ’ त्वत्वसमसिमेत्यनुच्चानि ’ इति फिट्सूत्रेण समशब्दस्य सर्वानुदात्तत्वविधानेन समशब्दे उदात्तस्वरितयोरभावात् । अत्रापि एतद्विधिप्रवृत्तौ तु ‘सत्यपि संभवे बाधनं भवति’ इति न्यायात् समासान्तोदात्तत्वं बाध्येत । ततश्व पादशब्दो वृषादित्वादाद्युदात्तः श्रूयेत । ’ समभागः’ इत्येतत्तु न उदात्तस्वरितानुवृत्तेः प्रत्युदाहरणम् ; समासस्वरे ‘कर्षात्वत:’ इत्यन्तोदात्तत्वेन इष्टसिद्धेः । भागशब्दस्य " असत्यप्यत्र (वा) | मातमातृकमातृषु ष्यङः संप्रसारणं विभाव वक्तव्यम् ॥ बहुव्रीहावेव । कौमुद्गन्ध्या माता अस्य ‘कौमुद्गन्धीमात: ’ ; । कौमुदगन्ध्यामातः ’ । अत एव वचनात् मातृशब्दस्य मातजादेशः । चित्त्व सामर्थ्यात् पूर्वपदप्रकृतिस्वरं बाधित्वा अन्तोदात्तत्वम् ॥ [९०] ॥ अन्तः ॥ (6-2–92) ’ उत्तरपदादि:’ इत्यतः प्राक् अयमधिकारः । एतत्प्रकरणस्थेषु सूत्रेषु पूर्वपदे या: प्रथमा: ताः षष्ठ्यर्थे बोध्याः ॥ [९१] ॥ बहुव्रीहौ विश्वं संज्ञायाम् ॥ (6–2–106) बहुव्रीहौ विश्वशब्दस्य पूर्वपदस्य अन्त उदात्तः संज्ञायाम् । ‘विश्वकर्मा दिशाम्’ । ‘विश्वरूपो वै’ | ‘गन्धर्वो विश्वाव॑सुः’ । CC-O-Shri Vipin Kumar Col. Deoband. In Public Domain. स्व-20 १५४ स्वरसिद्धान्तचन्द्रिकायाम्
[सू० ९२ यस्य ‘विश्वस्य वसुराटो:’ इति दीर्घः । विश्वं कर्म कार्यं स ‘अशू मुषिलटिकणिखटिविशिभ्यः विश्वकर्मा 1 कन्’ इति कन्नन्तो’ नित्स्वरेण आद्युदात्तो विश्वशब्दः । पूर्वपदप्रकृतिस्वरे प्राप्ते अयमारम्भः । ‘वि॒िश्वशैभुव:’ । ‘शन्नो॑ दे॒वा वि॒िश्वदे॑वाः’ । ‘आ विश्वदैवम्’ इत्यादावपि बहुब्रीहित्वाद्विश्वशब्देऽयं स्वरः बहुव्रीहौ किम् ? ‘विश्वजनस्य छाया’ ॥ [ ९२] ॥ उदराश्वेषुषु क्षेपे ॥ (6–2–107) 6 एषु परतः पूर्वपदस्य अन्त उदात्तः क्षेपे गम्ये । ‘कुण्डोदर:’ । कुण्डशब्दः नब्विषयस्य’ इत्याद्युदात्तः । नबिति नपुंसकस्य प्राचां संज्ञा । ’ कटुकाश्व:’ । कटुशब्दात् संज्ञायां कन् । ‘निघातेषु: ’ । निहन्यन्तेऽनेनेति निघातः । अव्ययपूर्वपदप्रकृतिस्वरेण आद्युदान्तः इत्याहुः । क्षेपे किम् ? ‘हर्यश्वाय भरता सजोषाः ’ 1 ‘इन् सर्वधातुभ्यः’ इति इन्नन्तो हरिशब्द आयुदात्तः । अच ३: इति इप्रत्ययान्तत्वे तु वृषादिर्बोध्यः । ‘तर्द्धर्यश्व प्रय॑न्धि’ ‘हर्यश्व इंसि इत्यादौ तु आष्टमिक आमन्त्रितनिघातः । ’ क्षिप्रेष॑वे दे॒वाय ’ तीक्ष्णेषवे च’ इत्यादौ क्षिप्रतीक्ष्णशब्दयोरन्तोदात्ततया पूर्वपदप्रकृति- स्वरस्य अस्य च न रक्प्रत्ययान्तः क्षिप्रशब्दः । । वीक्ष्णशब्दः । ’ तिस्रो धात्रे विशेषः | ‘स्फायितचि ’ इति ‘तिजेर्दीर्घश्व ’ इति कस्नप्रत्ययान्तः पृषोदरा:’ । पृषन्ति उदरे यासां ताः । । पृषोदराः । पृषोदरादित्वादन्तलोपः । ’ अनुदर: ’ ‘सूदर: ’ इत्यादौ परत्वात् नव्सुभ्याम् ’ इत्यन्तोदात्तत्वमेव । वृत्तौ तु उदराश्वेषुषु’ इति ‘क्षेपे ’ इति च योगद्वयमिदं व्याख्यातम् । अक्षेपार्थ आद्ययोग इति तदाशयः । एकयोगपाठस्तु भाष्ये 6
- क्कन्नन्तत्वात् ग.
- आष्टमिकः घ. नास्ति ।
सू. ९५]
समासस्वरप्रकरणम् १५५ स्थितः । अत एव विप्रतिषेधोपपादनावसरे तत्रोक्तम् —’ उदराश्वेषुषु क्षेपे’ इत्यस्य अवकाश इति । अत्र वृत्तिमते क्षेपग्रहणमनर्थकम् ; आद्ययोगेनैव क्षेपाक्षेपयोः स्वरसिद्धेः । ’ हर्यश्वाय भरत’ इत्यादौ अतिप्रसङ्गश्च । भाष्यमते तु क्षेप्रादन्यत्र मा भूदिति क्षेपग्रहणम् । अत एव नातिप्रसङ्ग इति । इदमेव’ युक्तमिति भाष्यरत्नावल्याम् || [ ९३] ॥ नदी बन्धुनि ॥ (6-2–109) 11 ’ बन्धुनि ’ इति शब्दस्वरूपापेक्षया क्लीबत्वम् । नद्यन्तस्य अन्त उदात्तो बन्धुशब्दे उत्तरपदे । ‘गार्गिबन्धुः’ । गार्ग्यशब्दात्’ यवन्तात् 6 यञश्च’ इति ङीप् । नदी किम् ? ’ ‘यो ज्येष्ठब॑न्धुः ’ । ’ ज्येष्ठकनिष्ठयोर्वयसि’ इति ज्येष्ठशब्दो ऽन्तोदात्तः । ब्रह्मबन्धुः 11 ९४ ॥ निष्ठोपसर्गपूर्वान्यतरस्याम् ॥ (6-2-110) [38] उपसर्गपूर्वपदकस्य निष्ठान्तस्य पूर्वपदस्य अन्त उदात्तो वा । प्रक्षालितपाद:’ । ‘प्रधौतमुखः ’ । क्षल शौचे । चुरादिः । धावु गतिशुद्धयोः । उदित्त्वात् यस्य विभाषा’ इति नेट् । ‘वोः शूठ्’ । ’ एत्येधत्यूट्सु’ । पक्षे पूर्वपदप्रकृतिस्वरः । प्रधौतमुखे तु ‘निष्ठोपमानादन्यतरस्याम्’ इति वक्ष्यमाणमुत्तरपदान्तोदात्तत्वं चेति स्वरत्रयम् । गतिस्वरेण आयुदात्ते पूर्वपदे || || [ ९५] ॥ उत्तरपदादिः ॥ ( 6–2–111) 11 ‘उत्तरपद’ इति लुप्तषष्ठीकं पदम् । तच्च आपादपरिसमाप्तेरधिक्रियते । आद्याधिकारस्तु ‘प्रकृत्या भगालम्’ इत्येतदवधिकः ॥
- तदेव घ.
- गर्गशब्दात् घ.
- विष्णुबन्धुः । कथं ‘यो ङ. अधिकम् ।
१५६
स्वरसिद्धान्तचन्द्रिकायाम् [सू. ९६ [९६ ] ॥ कर्णो वर्णलक्षणात् ॥ (6–2–112) वर्णवाचिनो लक्षणवाचिनश्च पूर्वपदात् परस्य कर्णस्य उत्तरपदस्य आदिरुदात्तः । ‘शुक्लकर्ण:’ । ’ दात्रकर्णः ’ । दात्रं कर्णे ‘कर्णे यस्येति बहुव्रीहौ गड्ढादित्वात् सप्तम्यन्तस्य परनिपातः लक्षणस्याविष्टाष्ट’ इत्यादिना पूर्वपदस्य दीर्घः । लक्षणशब्देन च अत्र पशूनां विभागज्ञानाय दात्रशङ्कुप्रभृतिप्रतिरूपकं यचिह्नं कर्णादिषु क्रियते तत् गृह्यते ; न तु लक्ष्यतेऽनेनेति व्युत्पत्त्या विशेषणमात्रम् । अत एव पृथग्वर्णहणं कृतम् । अन्यथा विशेषणत्वादेव सिद्धे तदनर्थकं स्यात् । । तेन ‘श्रुत्कर्ण सप्रय॑स्तमम्’ इत्यादिषु कर्ण इति किम् ? ’ श्येतग्रीवः ’ । ’ वर्णानां नैष स्वर: तणतिनितान्तानाम्’ इत्यायुदात्तः श्येतशब्दः ॥ [९७] ॥ संज्ञौपम्ययोश्च ॥ (6–2–113) अनयोर्यो बहुव्रीहिः तत्र कर्णस्य उत्तरपदस्य आदिरुदात्तः । मणिकर्ण:’ । ’ अधीलोधकर्णीः 1 कर्णोपरि प्ररूढकर्ण इति वेदभाष्यम् । औपभ्ये— ’ गोकर्णः ’ । ‘पुष्पकर्णाय स्वाहा’ पुष्पमिव कर्णौ यस्य सः पुष्पकर्णः ॥ 3 [ ९८] ॥ कर्णपृष्ठग्रीवाजङ्घ च ॥ (6–2–114) समाहारद्वन्द्वे ’ स नपुंसकम्’ इति क्लीवत्वम् । एषामुत्तरसंज्ञौपम्ययोर्बहुव्रीहौ । ‘शितिकण्ठाः शर्वाः ’ पदानामादिरुदात्तः
-
- प्रभृतिरूपकं घ.
- पुष्पकर्णः क. नास्ति ।
- इत्यर्थ इति घ. छ.
सू. १००]
समासस्वरप्रकरणम् १५७ । इति नगन्तः कृष्णशब्दः । ‘नमो अस्तु नीलग्रीवाय ’ ‘शितिकण्ठाय च नम:’ । ‘उष्ट्रकण्ठः ’ । ‘काण्डपृष्ठ: ’ । ’ गोष्पृष्ठः ’ । ‘गोग्रीवः’ । ‘दशग्रीवः’ । ‘नाडीजङ्घः’ । ’ एणीजङ्घः ’ । संज्ञौपम्ययोः क्रमेण उदाहृतम् । अनयोरिति किम् ? ’ नीलपृष्ठं बृ॒हन्त॑म् ’ । ‘आग्नेयं कृष्णत्रीवम्’ । ‘कृषेर्वर्णे’ अथ कथं ‘नीलग्रीवो विलोहित: ’ इत्यादौ पूर्वपदकृतिस्वरः ? नीला तात्पर्यात् संज्ञारूपाविवक्षणात् व्यत्ययाद्वा । यत्तु वृत्तौ ’ सुग्रीवः ’ इत्युदाहृतम्, तत्र परत्वात् ‘नञ्सुभ्याम्’ इत्यन्तोदात्तेन भाव्यम् । यदि तु नेष्यते, तदा सूत्रे चकारः पुनर्विधानार्थ इति व्याख्येयमिति हरदत्तः ॥ ग्रीवा यस्येति संबन्धमात्रे ९९ ] ॥ शृङ्गमवस्थायां च ॥ (6–2–115) शृङ्गस्य उत्तरपदस्य आदिरुदात्तः अवस्थायां संज्ञौपम्ययोश्च बहुव्रीहौ । ‘व्यङ्गुलशृङ्गः ’ । अत्र गम्यमानो गवादेर्वयोविशेषोऽवस्था । ’ यः सुशृङ्गेः सुवृषभ:’ इत्यत्र तु आद्युदात्तं व्यच् छन्दसि’ इत्यनेन बोद्धव्यम् । नाम्नि -‘ऋश्यशृङ्गः नञ्सुभ्याम् ’ इत्येतदपवादेन शृङ्गस्य आदिरुदात्त इति
। उपमायाम् – ‘मेषशृङ्गः ’ । अवस्थादेरन्यत्र तु — ’ ‘चतु॑शृङ्गोऽवमीत् ’ ॥ [१०० ] ॥ शितेर्नित्याबद्दच् बहुबीहावभसत् ॥ (6-2-138) शितेः परं नित्यमबह्वच् भसद्भिन्नं यदुत्तरपदं तद्बहुव्रीहौ भवति 1 ‘शितिपाच्छित्योष्ठः शितिभ्रः’ । प्रकृतिस्वरं पादशब्दो वृषादिराद्युदात्तः घ. नास्ति । ‘उषिकुषिगार्तिभ्यस्थन् ’ इति
- अथ
१५८
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १०१ थन्नन्त ओष्ठशब्दो नित्स्वरः ’ । ’ भ्रमेडूः ‘भ्रमे:’ इति डूप्रत्ययान्तो भ्रूशब्दः । तस्य छान्दसो ह्रस्वः / शितेरिति किम् ? एकशब्दः । नित्येति किम् ? ’ शिर्तिककुदे स्वाहा॑ ’ ‘एकपादकामयत’ । ’ इण्भीक’ इति कन्नन्त ( ककुदस्यावस्थायां लोपः ’ इति वयोविशेषे’ लोपविधानात् अन्यत्र ’ शितिककुदः’ इति बह्वजयम् । अतो न नित्याबह्वच् । अबह्रजिति किम् ? अभसत् किम् ? ’ शिर्तिभसत् ’ । इति शितिशब्द आद्युदात्तः ॥ ’ शितिललाटः ’ 1 वर्णानां तणतिनितान्तानाम् ’ [१०१] ॥ अन्तः ॥ (6–2–143) अधिकारोऽयम् ॥ [१०२] ॥ बहुव्रीहाविदमेतत्तद्भयः प्रथमपूरणयोः क्रियागणने ॥ (6-2–162) ‘प्रथम’ इति स्वरूपं गृह्यते । पूरणशब्दस्य स्वरितत्वात् तदधिकारविहितानां प्रत्ययानां ग्रहणम् 1 इदमादिभ्यः परश्य क्रियागणनवृत्तेः प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च उत्तरपदस्य अन्त उदात्तः । इदं प्रथममागमनमस्य, ‘इदंप्रथमः ’ । ’ इदंद्वितीयः ’ । ‘इदंतृतीयः’ । एवम् ’ एतत्प्रथमः’, ’ तत्प्रथमः ’ इत्यादि । इह समासस्य उत्तरपदस्य च’ प्रकृतत्वेऽपि उत्तरपदमेव उत्तरपदमेव कार्यित्वेन आश्रीयते । तेन इदंप्रथमशब्दात् ‘शेषाद्विभाषा’ इति कपि ’ इदंप्रथमक: ’ इत्यत्र मकाराकारस्य उदात्तत्वं भवति । न तु कबकारस्य ; तस्य समासान्तावयवत्वेन उत्तरपदान्त्यत्वाभावात् समासस्य कार्यित्वे तु कबकारस्य प्रसज्येत । यद्यपि ‘समासार्थोत्तरपदान्ताः
- नित्स्वरेण ग.
- वयसि घ
- एतदुदाहरणं घ. नास्ति ।
- चेति प.
, सू. १०६]
समासस्वरप्रकरणम् १५९ समासान्ताः’ इति पक्षे उत्तरपदस्य कार्यित्वेऽपि दोषतादवस्थ्यम् ; तथापि विशिष्टरूपग्रहणात् उपात्तयोः प्रथमपूरणयोरेव स्वरः, न तु तदन्तस्य " कप इत्याहुरिति दिक् ॥ 6 [ १०३ ] ॥ संख्यायाः स्तनः ॥ (6–2–163) संख्यावाचिनः परस्य स्तनशब्दस्य अन्त उदात्तः । ’ द्विस्तना ’ । ‘चतुरस्तना’ ॥ [१०४ ] ॥ विभाषा छन्दसि ॥ (6–2–164) 11 पूर्वोक्तं विकल्प्यते । ‘द्विस्तनां करोति’ । इह अन्तोचतु॑स्स्तनां करोति’, ‘अ॒ष्टास्त॑नां करोति’ इत्यत्र दात्तत्वम् । पूर्वपदप्रकृतिस्वरः ॥ [ १०५ ] ॥ संज्ञायां मित्राजिनयोः ॥ (6–2-165 ) ‘देवमित्रः’ । ‘मृगा- उत्तरपदयोरनयोरन्त उदान्तः जिनम्’ । न चैवम् ‘विश्वामित्र ऋषिः’ इत्यत्रापि परत्वात इदमन्तोदात्तत्वं प्रसज्येतेति वाच्यम् ; ‘ऋषिप्रतिषेधो मित्रे’ इति प्रतिषेधात् । ऋषौ समासाभिधेये मित्रशब्दे नायं स्वर इत्यर्थः । एवं व ‘विश्वामित्रः’ इत्यत्र ‘बहुव्रीहौ विश्वम्’ इति पूर्वपदान्तोदात्तत्वमेव । ’ मिन्त्रे वर्षों’ इति दीर्घः ॥ शब्दात् [१०६] ॥ व्यवायिनोऽन्तरम् ॥ (6-2-166) व्यवधातृवाचिनः परस्य अन्तरशब्दस्य अन्त उदात्तः । अन्तर’ तत्करोति’ इति ण्यन्तात् पचाद्यच् । अन्तरं व्यव-
- तदनन्तर्गतस्य घ.
१६०
स्वर सिद्धान्तचन्द्रिकायाम् [सू. १०७ धायकम् । वखमन्तरं यस्य सः ‘वस्त्रान्तरः ’ । व्यवायिनः किम् ? आत्मा स्वभावः अन्तर: अन्यो यस्य सः ‘आत्मान्तरः ’ ॥ [ १०७ ] ॥ मुखं स्वाङ्गम् ॥ ( 6–2–167) स्वाङ्गमिह ’ अद्रवं ‘अद्रवं मूर्तिमत्’ इति पारिभाषिकं गृह्यते । स्वाङ्गवाचिनो मुखस्थ उत्तरपदस्य अन्त उदात्तः । ’ गौरमुखः ’ । स्वाङ्गं किम् ? दीर्घमुखा शाला दीर्घमुखा शाला । मुखमत्र द्वारप्रदेश: ‘विष्णुंमुखा वै देवा:’ । ’ ब्रह्ममुखा एव | अथ ‘हिरण्याक्षो , अयोमुखः’ इत्यत्र कथं पूर्वपदप्रकृतिस्वरः ? व्यत्ययात् इति स्वरमञ्जर्याम् । वस्तुतस्तु ‘निष्ठोपमानादन्यतरस्याम्’ इति उपमानपूर्वपदविषयेऽस्य स्वरस्य विकल्पनादिति बोध्यम् । अय इव मुखं यस्य सः ‘अयोमुखः’ । ‘असृङ्मुखो रुधिरेण’ इत्यत्रापि एवमेव, व्यत्ययो वा । ’ रथमुख ओजस्कामस्य’ ‘यज्ञमुखे यज्ञ मुखे ’ इत्यादौ अस्वाङ्गवाचित्वेऽपि तत्पुरुषत्वात् समासान्तोदात्तत्वम् ॥ [ १०८ ] ॥ नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टि- पृथुवत्सेभ्यः ॥ (6-2-168) एतेभ्यः परस्य मुखस्य अन्त उदात्तो न । ‘विश्वत॑श्चक्षुरुत विश्वतो॑मुखः’ । ‘प्राङ्मुखः ’ । ‘प्रत्यङ्मुखस्तिष्ठति’ इत्यत्र व्यत्ययात् स्वरद्वयम् । एवम् ‘गोमुखः’ इत्याद्युदाहार्यम् । अन्तोदात्तत्वे निषिद्धे पूर्वपदप्रकृतिस्वरः । विश्वतः शब्दस्त सिलन्तो लित्स्वरेण मध्योदात्तः । ‘अनिगन्तोऽञ्चतौ’ इति गतिस्वरेणैकादेशे च प्राशब्द उदात्तः । गोमहतोरन्त उदात्तः । ’ ऋत्रेन्द्र’ इत्यत्र स्थूलशब्द: अन्तोदात्तो निपातितः’ । मुषे: क्तिच्’ । मुष्टि: । ‘प्रथिनदि’ इति घ. नास्ति ।
- निपातितः
सू. १०९]
समासस्वरप्रकरणम् १६१ कुप्रत्यये पृथुः । ’ वदेः सः’ । वत्सः । यत्तु – ’ उभ॒यते॑मुखमृतुपात्रम्’ इति अव्ययस्य उदाहृतम्, तन्न ; अत्र मुखशंब्दस्य अस्वाङ्गवांचित्वेन प्राप्त्यभावात् । ‘उपाग्निमुखम्’ इत्यव्ययीभावपूर्वपदक बहुव्रीहौ ’ नाव्यय’ इति न निषेधः ; अव्ययीभावस्य अव्ययत्वाभावात् । ‘अव्ययीभावश्च’ इत्यव्ययसंज्ञासूत्रस्य तत्र भाष्ये प्रत्याख्यानात् ॥ केच्चित्तु – तत्प्रत्याख्यानेऽपि अव्ययीभावस्य नाव्यय’ इत्यनेन भवति ग्रहणम् ; ’ अव्ययीभावः ’ इति महासंज्ञाकरणस्य अन्वर्थसंज्ञाविज्ञानद्वारा अव्ययग्रहणेषु ग्रहणार्थत्वादिति वदन्ति । सर्वमेतत् ‘अव्ययीभावश्च’ इत्यत्र भाष्यादौ स्पष्टम् । यत्तु—– ८ नाव्यय ’ इति निषेधो गतिभिन्नाव्ययपूर्वस्यैव ; ‘उच्चैर्मुखः ’ ‘नीचैर्मुखः’ इति तथाविधस्यैव उदाहरणस्य वृत्तौ प्रदर्शनात् । एवं च ’ संमुखानेव पशून्’ इत्यत्र मुखस्वरः सिद्ध इति स्वरमञ्जर्यामुक्तम्, तदप्रमाणकम् ; ‘गतिभिन्नस्य’ इत्यस्य अत्र 6 भाष्यादौ अदृष्टेः । प्रत्युदाहरणस्य दिक्प्रदर्शनपरतयापि उपपत्तेः । प्रमुखः’ इत्यादौ ’ नाव्यय’ इति निषेधात् परत्वात् ‘उपसर्गात् स्वाङ्गं ध्रुवम्’ इत्यन्तोदात्तत्वं भवतीति ‘उपसर्गात् स्वाङ्गं ध्रुवम्’ इत्यत्रत्यभाष्यविरोधाच्च । गतिभिन्नत्व विशेषणे प्रमुखः’ इत्यत्र नाव्यय ’ इति निषेधाप्रवृत्तौ विप्रतिषेधानवकाशात् । ’ संमुखानेव’ इत्यत्र तु ’ उपसर्गात् स्वाङ्गं ध्रुवम्’ इत्यन्तोदात्तत्वम्, व्यत्ययेन वा ॥ || [१०९] ॥ निष्ठोपमानादन्यतरस्याम् ॥ (6-2-169) निष्ठान्तात् उपमानवाचिनश्च परस्य मुखशब्दस्य वा अन्त उदात्तः । ‘प्रक्षालितमुखः’ । पक्षे ‘निष्ठोपसर्गपूर्वा’ इति पूर्वपदा- । स्वce-01 shri Vipin Kumar Col. Deoband. In Public Domain. १६२
स्वरसिद्धान्तचन्द्रिकायाम् [सू. ११० 1 हिंसे:. यस्य न्तोदात्तत्वम्, तदभावे पूर्वपदप्रकृतिस्वरः इति त्रैस्वर्यमित्युक्तम् । उपमानात् – ‘सिंहमुख:’ । ‘हिरण्याक्षो अयोमुखः ’ पचाद्यच् । सिंहः’ । पृषोदरादित्वात् । गौरिव मुखं ‘गोमुख:’ । ‘मुष्टिमुख:’ । ‘वत्समुखः’ । एषु उपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन ’ नाव्ययदिक्शब्द’ इति निषेधेन बाध्यत इति वृत्तिकारः । गौर्मुखमित्र यस्य इत्यादि निषेधस्य अवकाश: ; इह गवादेरुपमेयत्वेन उपमानलक्षणविकल्पानवकाशात् ॥ [११०] ॥ जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः ॥ (6-2-170) आच्छादनवाचकभिन्नाज्जातिवाचिनः कालवाचिनः सुखादिभ्यश्च परस्य कृतादिभिन्नस्य क्तान्तस्य उत्तरपदस्य अन्त उदात्तः ८ पलाण्डुभक्षित:’ । ’ मासजातः ’ । ’ सुखयातः’ । जात्यादेः किम् ? ’ पुत्रजात: ’ । अनाच्छादनात् किम् ? ’ वस्त्रच्छन्नः 1 अकृत’ इत्यादि किम् ? ’ कुण्डकृत: , इत्यादि । ‘हविष्कृतो वा एषः ’ । हविष्टुं कृतं यस्य सं: हविष्कृतः । हविरशब्दो भावप्रधानः | हविष्ठेन कृतो निष्पन्न निष्पन्न इति तृतीयासमासे तु नेदं प्रत्युदाहरणम् । ‘तृतीया कर्मणि’ इति च पूर्वपदप्रकृतिस्वरत्वम् । अत एव लिङ्गात् उक्तस्थले सर्वत्र बहुव्रीहौ निष्ठा- न्तस्य परनिपातः ॥
- सिंहः घ. नास्ति । पलण्डुभक्षितः घ.
- पृषोदरादिः छ.
मासवातः क. 3. फलभक्षितः ख. मासयातः ख. सू. १११] .
समासस्वरप्रकरणम् [१११] ॥ वा जाते ॥ (6–2–171) १६३ जात्यादिभ्यः परस्य जातस्य वा अन्त उदात्तः । पूर्वेण प्राप्तस्य विकल्पः । दन्तजातः । ‘मासजातः’। ‘सुखजातः ‘ये दे॒वा मनोजाता: ’ । जातं मनो येषां ते मनोजाता: प्राणा: ’ प्रा॒णा वै दे॒वा मनौजाता:’ इति मनोव्यापारमन्तरेण तेषां ‘देवजाताय केतवै’’ । 1 दन्तशब्दः ‘स्वाङ्गशिटाम्’ वाक्यशेषात् । स्वकार्यकरणाभावादिति वेदभाष्यम् । इत्याद्युदात्तः । 3 सुखदुःख प्रतृकृच्छ्र- मासशब्दो ग्रामादिः । तत आद्युदात्तः प्राण्यखालीकप्रतीपकरुणाश्च कृपणः सोढ इति इमे दश संख्याकाः सुखादयः पठिता:’ । ‘खान्तस्यारमादेः’ इति सुखदुःखशब्दौ अन्तोदात्तौ । तृपे: ’ स्फायितश्चि’ इति रकि ‘तृप्रः तृप्र: ’ । ’ कृतेश्च्छः क्रू च’ इति रकि ‘कृच्छ्रम् ’ । असेर्बाहुलकात् रकि ’ अस्रम्’ । अलीकादयश्च’ इति कनि ‘अलीकम् ’ । प्रतिगताः आपोऽत्र ‘प्रतीपम् ’ । , , करुणः ’ । ’ कृपेः क्युन्’ । कृपणः 1 कृवृदारिभ्य उनन्’ । सहेः क्तः 1 ’ सोढः ’ । यत्तु ‘सजातान॒स्मै॒ यज॑मानाय ’ इत्यत्र वेदभाष्यम् – समानं जन्म येषां ते सजाताः । समानस्य च्छन्दसि’ इति सभावः । ’ वा जाते’ इति अन्तोदात्तत्वम् । समानशब्दस्य जातिकालवाचित्वाभावात् सुखादित्वं बोध्यमिति’ सुखादिराकृतिगण इति तदाशयः
- मासजातः घ. नास्ति ।
पठिताः घ. घ. नास्ति । 2. वक्ष्यमाणवाक्यशेषात् क. 5. समानं जात ङ. 3. तत आद्युदात्तः क. ख 6. इति दिक् क. अधिकम् । नास्ति । 7. इति घ. नास्ति ।
१६४
स्वरसिद्धान्तचन्द्रिकायाम् [११२] ॥ नञ्सुभ्याम् ॥ (6–2–172) आभ्यामुत्तरपदस्य अन्त अप्राणाय स्वाहा’ 1 I [सू. ११२ स्वाहा’ । उदात्तः ‘अमुखाय स्वाहा’ ‘सुपिप्पला ओष॑धयः ’ । ’ स्वधिचर- णेयम्’ इत्यादि । अत्र समासस्यैव कार्यित्वम् ; न उत्तरपदस्य । तेन ‘अनृच: ’ इत्यादौ ‘ऋक्पू:’ इत्यादिना विहितस्य समासान्तस्य उदात्तत्वं सिद्धम् । उत्तरपदस्य कार्यित्वे तु तन्न स्यात् ; ‘समासार्थोत्तरपदान्ताः समासान्ताः तस्य उत्तरपदान्तत्वाभावात् । इति पक्षे तु उत्तरपदस्य कार्यित्वेऽपि न दोषः ॥ 11 [११३] ॥ कपि पूर्वम् ॥ (6-2–173) . ञ्सुभ्यां परस्य कपि पूर्वस्य अन्त उदात्तः । ’ अकुमारीकः ’ । ‘सुकुमारीक:’ । ‘नघृतश्च’ इति कप् । ‘अर्थ ब्राह्मणोऽनाशीर्केण ’ । । ‘शेषाद्विभषा’ इति कप् रेफस्य विसर्गाद्यभावश्छान्दसः 1 पूर्वत्र समासस्य कार्यित्वमुक्तम् । तेन समासान्तस्य उदात्तत्वे प्राप्तेऽयमारम्भः । इदमेव पूर्वत्र समासस्य कार्यित्वे लिङ्गम् । उत्तरपदस्य कार्यित्वे हि पूर्वेणैव अत्र कपः पूर्वस्य उदात्तत्वसिद्धेरिदमनर्थकम् ॥ ॥ [११४] ॥ ह्रस्वान्तेऽन्त्यात् पूर्वम् ॥ ( 6–2–174) || कप नवसुभ्यां परे ह्रस्वान्ते उत्तरपदेऽन्त्यात् पूर्वमुदात्तं भवति कपि परे । ‘कपि’ इति पृथग्ग्रहणात् तद्व्यतिरिक्तमेव उत्तरपदं गृह्यते । । ‘अयवको देश:’ । ‘सुयवकः’ । यकाराकार उदात्तः । ‘कपि पूर्वम्’ इत्यस्य अयमपवादः । एवं च तद्दीर्घान्तविषयम् ।
- इति घ. अधिकम् ।
सू. ११५]
समासस्वरप्रकरणम् १६५ एवं च ‘अद॒न्तका॑य॒ स्वाहा॑’, ‘अमा॑ सक॑य॒ स्वाहा॑’ इत्यादि यत् पूर्वसूत्रे स्वरमञ्जर्यामुदाहृतम्, तच्चिन्त्यम् । । स्वरनिर्वाहस्तु व्यत्ययात् । ‘पूर्वम्’ इति वर्तमाने पुनः पूर्वग्रहणम् आवृत्त्या ह्रस्वान्तेऽन्त्यात् पूर्वमेव उदात्तम्, न तु ‘कपि पूर्वम्’ इत्येतत् प्रवर्तते इति नियमप्रतिपत्त्यर्थम् । तेन न अस्य ज्ञो विद्यते अज्ञकः ‘सुज्ञकः’ इत्यादौ ’ कपि’ इत्यस्य अप्रवृत्त्या ’ नञ्सुभ्याम् ’ इति कबन्तस्य उदात्तत्वं भवति । नियमाभावे तु अज्ञः इत्यादौ उत्तरपदेऽन्त्यात् पूर्वाभावेन प्रकृतसूत्राप्रवृत्तौ ‘कपि पूर्वम्’ इत्येतत् प्रसज्येत इत्याहुः । अन्तग्रहणं तु चिन्त्यप्रयोजनम् । न च हस्वेऽन्त्यात् पूर्वम्’ इत्युक्तौ ’ यस्मिन् विधि:’ इति तदादिविधिप्रसङ्गः ; ‘ह्रस्वस्यान्त्यात् पूर्वम्’ इत्युक्तावपि इष्टसिद्धेरित्याहुः || ८ , [११५] ॥ नञो जरमरमित्रमृताः ॥ ( 6–2–116) नञः परेषामुत्तरपदानामेषामादिरुदात्तः 1 ‘नव्सुभ्याम् ’ ’ अजर’ इत्यस्य इत्यस्य अपवादः । ‘अ॒श्याम॑ द्यु॒म्नम॑जरा॒जय॑न्ते’ । आमन्त्रितस्य आष्टमिको निघातः 1 ‘अजरम्’ इत्युदाहरणम् । ‘अज सस्ते सख्ये स्यम’ । ‘अमर:’ । ’ अमित्रमर्दय’ । ’ अमित्र॑स्य व्यथय ’ 1 ‘अमृतं हिर॑ण्यममृतं एव’ । जीर्यतेर्भावे ऋदोरप् । ‘जरः , । मृङोऽप्यत एव निपातनादप् । ‘मर:’ । मिदेर्भावे कः । ‘मित्र: ’ । । मृङो भावे निष्ठा । ‘मृतम्’ । ततो बहुव्रीहिः । ‘अमे र्द्विषति चित्’ इति चित् । ‘अमित्र: ’ । अयमन्तोदात्तः । सुहृद्वाचिना मित्रशब्देन नत्र्तत्पुरुषे ’ अमित्रम्’ । आद्युदात्तः । नवः किम् ? ‘सुमित्रा न आप॑ः ’ । जरादयः किम्
- उक्त्यापि घ.
१६६
स्वरसिद्धान्तचन्द्रिकायाम् ‘अरतिः सु॑मे॒धाः’ । अत्र ‘नञ्सुभ्याम्’ [सू. ११६ इति स्वरः । ‘दुर्मित्रास्तस्मै भूयासुः ’ । छान्दसमत्र अन्तोदात्तत्वमिति वेदभाष्ये || [११६] ॥ सोर्मनसी अलोमोषसी ॥ (6-2-117) सोरुत्तरस्य मन्नन्तस्य असन्तस्य च आदिरुदात्तः लोमन्शब्दमुषस्शब्दं च वर्जयित्वा’ । ‘उरुक्षितिं सुजनि॑िमा चकार ‘जनिवृभ्यामिमनिन्’ इति जनेरौणादिके इमनिनि जनिमनशब्दः । ततः सुना बहुव्रीहिः । ’ स्तीर्ण ब॒र्हिः सुष्टरीमा जुषाणा ‘हृभृधृसृस्तृशृभ्य इमनिच्’ इति इमनिच्प्रत्ययान्तः स्तरीमनशब्दः । बहुव्रीहिः । सुषामादित्वात् षत्वम् शोभनास्तरणं स्तीर्णं बर्हिरित्यन्वयः । ‘सु॒त्रामा॑णं पृथि॒वीं द्याम्’, ‘सुशर्म॑ण॒मदि॑तिम् ’ इत्यादिकं तु ‘आद्युदात्तं द्व्यच् छन्दसि’ इत्यनेनापि सिध्यतीति न इह उदाहर्तव्यम् । अत एव ’ सुवर्चा वचैसा’, ‘सुमना उपा गहि’ इत्यादिकमसन्तस्य नोदाहरणम् । ‘सुस्रत्’ ‘सुध्वत्’ इत्यत्रापि अयं स्वरः ; ‘वसुखंसु’ इति दत्वस्य असिद्धत्वेन असन्तत्वात् । न च ‘सुजनिमा’ इत्यादौ मनोऽनर्थकत्वादेव न ग्रहणम् ; अनिनस्मन्ग्रहणान्यर्थवता चानर्थेकेन च’ इति वचनात् । सोरिति किम् ? ’ प्रचेतास्त्वा ’ । मनसी इति किम् ? ‘सुपिप्पला ओष॑धयः’ । लोमोष सोस्तु - ’ सुलोमा ‘सूषाः ’ । लूञो मनिनि ‘लोम’ ‘लोम’ । ’ उषः कित्’ इति असिप्रत्यये ’ उषः ’ । ‘नञ्सुभ्याम्’ इत्यस्य अपवादोऽयम् । ‘कपि पूर्वम्’ इत्येतत्तु परत्वादेतं बाधते । ‘सुपयस्क:’ । ‘सुशर्मकः ’ ॥
- विना घ.
सू. ११८]
समासस्वरप्रकरणम् [११७] ॥ क्रत्वादयश्च ॥ (6-2–118) १६७ सोः परेषामेषामादिरुदात्तः । ‘सु॒क्रतु॑ः कृ॒पा सुर्व:’ । ‘सु॒दृश’को अस्मे’ | ‘सुप्रतीकः पु॒रस्ता॑त्’ । ‘अदि॑तिं सुप्रणीतिम्’ । । ‘सु॒प्रत॑र्तम॒घोनी’’ ॥ [११८] ॥ आद्युदात्तं व्यच् छन्दसि ॥ (6–2–119) सोरुत्तरं द्व्यच् आद्युदात्तं यदुत्तरपदं तस्य आदिरुदात्तो भवति च्छन्दसि । ‘स्वश्वा॑स्त्वा सुरथ ‘स्वश्वास्त्वा सुरथ मर्जयेम’ । ’ सूनव आसु॒शेवः॑ः ’ । ‘अशुपुषिकणिखटिलटिविशिभ्यः क्छन् ’ इति क्वन्प्रत्ययान्तः अश्वशब्दः । रथः आद्युदात्तमिति किम् ? ‘हनिकुषिनीरमिकाशिभ्यः कथन्’ इति कथनि ‘शेवयह्न’ इति वन्प्रत्ययान्तः शेवशब्द: । किम् ? ’ या सु॑पाणिः स्वङ्गुरि:’ । द्व्यजिति किम् ? ‘सुहिरण्यो अग्ने ’ 1 ‘नविषयस्य’ इति हिरण्यशब्द आयुदात्तः राके । यत्तु ‘यस्तै के सुमतर्यः सुपेशसः’ इत्युदाहरणम्, तश्चिन्त्यम् ; ‘सुमतयः इत्यस्य अन्तोदात्तत्वेन श्रवणात् । मतिशब्दस्य ’ मन्त्रे वृष’ इत्यन्तोदात्तत्वविधानात् । मन्त्रार्थर्यालोचनया’ शोभना मतयः ‘सुमतयः’ इति तत्पुरुषत्वाव- अन्तोदात्तता । कृत्स्वरेण ‘सुपेशसः’ इत्युदाहरणम् ; ‘सोर्मनसी’ इत्यनेन गतार्थत्वात् । इत्यन्तोदात्तत्वम्’ इति यत्तु ‘सुमतिशब्दे " मनक्तिन्व्याख्यान " गमाव एव अत 1 न च वेदभाष्यम्, तच्चिन्त्यम् ; तत्र ‘कारकात्’ इत्यनुवृत्तेः सोर्गतित्वात् ॥
- अत्र अर्थपर्यालोचनया घ.
१.६८
स्वरसिद्धान्तचन्द्रिकायाम् [११९] ॥ वीरवीर्यौ च ॥ (6-2–120) [सू. ११९ सोरुत्तरयोरनयोरादिरुदात्तइछन्दसि । ‘सु॒वीरा॑सो॒ अदा॑भ्य॒म् ’ । ‘ब॒हि॒षद॑ सु॒वीर॑म् ’ । ’ सु॒वीर्य॑स्य॒ पत॑यः स्याम’ | ‘अ॒स्मे वचैः सुवीर्यम्’ । वीर विक्रान्तौ । चुरादिः । पचाद्यच् । ‘अचो यत्’ इति यति वीर्यशब्दात् तत्र वीरयतेः साधु:’ इति यति’ वीर्यशब्दः । न च अस्य ‘यतोऽनाव:’ इति आद्युदात्तत्वात् पूर्वेण गतार्थत्वम् ; अत एव वीर्यग्रहणाच्छन्दसि वीर्यशब्दे ‘यतोऽनाव:’ इति न प्रवर्तत इति ज्ञापनात् । तेन ‘वीर्यं वृङ्के’ इत्यादौ अन्तस्वरितत्वं सिद्धम् । लोके तु वीर्यशब्द एव फिषि ‘बिल्वबखवीर्याणि छन्दसि’ आद्युदात्त एव । अत इति छन्दस्येव अन्तस्वरितत्वमस्य विहितम् ॥ [१२०] ॥ बहोर्नञ्वदुत्तरपदभूम्नि ।। (6–2–175) उत्तरपदशब्द उत्तरपदार्थपरः । बहोर्भावो भूमा बहुत्वम् । ‘बहोर्लोपो भू च बहो:’ । उत्तरपदार्थ बहुत्ववृत्तेः उत्तरपदार्थबहुत्ववृत्तेः नञः परस्येव स्वरो भवति । ’ नञ्सुभ्याम् ’ इत्युक्तं बहोरुत्तरस्य बहोरपि भवति । ‘बहुग्वै बह्वश्वायै वजाविकायै’ । ‘अवेः कन् ’ इति स्वार्थे कनि अविकः, न त्वयं कप् । ‘कपि पूर्वम्’ इत्युक्तम् बहोरपि । ’ बहुकुमारीकः’ । ’ ह्रस्वान्तेऽन्त्यात् पूर्वम्’ बहोरपि । ‘बद्दुह॒स्तिकायै’ इत्यत्र हस्वान्तेऽपि ‘बहुयवक:’ । ‘बहुहस्तिकायै , कपि पूर्वम् इत्येतदेव, व्यत्ययात् । नञ सुबहुभ्य उत्तरपदभूनि ’ इति नवादावेव बहुशब्दे पठितव्ये ‘नव्वत्’ इत्यतिदेशो विदेशस्थस्यापि ‘नमो जरमर’ इत्युत्तरपदाद्युदात्तत्वस्य बहोरुत्तरस्मिन् प्रापणाय । तेन ‘बहुजर: ’ ’ बहुमरः’ इत्यादौ ‘नमो जरमर’ इति स्वरसिद्धिः ।
- वा ङ.
।, सू. १२२]
समासस्वरप्रकरणम् १६९ न चैवं नवादौ बहुशब्दपाठे ‘उत्तरपदभूम्नि ’ इत्येतन्ननादावपि अन्वियात् इति वाच्यम् ; संभवव्यभिचाराभ्यां तस्य बहुशब्दविशेषणत्वोपपत्तेः । अत एव ‘न गुणादयः ’ इति वक्ष्यमाणनिषेधो नन्सुभ्यामपि स्यात् इति निरस्तम् । ’ उत्तरपदभूनि ’ इत्यस्य अनुवृत्त्या तस्य बहुविषयत्वसिद्धेः । तस्मात् उक्तमेव अतिदेशफलम् । तथा च वार्त्तिकम् - ॥ बहोर्नञ्वदुत्तरपदाद्युदात्तार्थम् ॥ इति । इति ‘अचितीकः ’ ( बहुचितक: इत्यत्र चितेः कपि ’ C सत्यपि दीर्घे अचः परस्मिन्’ इति स्थानिवत्त्वात् ’ ह्रस्वान्तेऽन्त्यात् पूर्वम्’ इत्येतद्भवतीति कैयटादयः i [१२१ ] ॥ न गुणादयोऽवयवाः ॥ (6–2–176) अशे: बहोः परेषामेषामवयवार्थानां गुणादीनां नञ्वत् अतिदेशो न ‘बहुगुणा रज्जुः’ । गुण संख्याने । चुरादेरदन्तादेरच् । सरन्’ । ’ अक्षरम्’ । छन्दो मीयते येन तत् ‘छन्दोमानम् ’ । सुपूर्वाद्वचेः क्तः ‘सूक्तम् ’ । । इति ‘इङश्च ’ घञ् । ’ अध्यायः । एते गुणादयः । आकृतिगणोऽयम् । अवयवा इति किम् ? ’ बहुगुणो द्विज:’ । विद्वत्तादयोऽत्र गुणाः || [१२२] ॥ उपसर्गात् स्वाङ्गं ध्रुवमपर्शु ॥ (6-2-177) । पर्शु- उपसर्गग्रहणं प्राद्युपलक्षणम् ; स्वाङ्गं प्रति क्रियायोगाभावात् । प्रादेः परस्य ध्रुवं नित्यमेकरूपं यत् स्वाङ्गं तद्वाचितः भिन्नस्य अन्त उदान्तः । ‘निर्ललाटः ’ । ललाटस्य नित्यमनिर्गमनात् ध्रुवत्वम् ? ध्रुवं किम् ? ’ उद्वाहु: ’ क्रोशति । क्रोशनसमये CC-0 Shri Vipin Kumar Col. Deoband. In Public Domain. स्व-22
१७० 17 स्वर सिद्धान्तचन्द्रिकायाम् [सू. १२३ एव बाह्वोरूर्ध्वत्वम्, न सर्वदा । अपर्शु किम् ? ’ उत्पर्युः’ । पर्शुः पार्श्वास्थि । ‘प्रमुखः’ इत्यादावपि अयं स्वरः ; ’ मुखं स्वाङ्गम्’ इत्येतस्यैव ‘नाव्यय’ इति निषेधात् । ‘संमुखानेव पशून् ’ ’ इत्यत्रापि अनेनैव अन्तोदात्तत्वमित्युक्तम् ॥ [१२३] ॥ द्वित्रिभ्यां पाद्दनमूर्धसु बहुव्रीहौ || । (6-2-197) तत्र वा द्वित्रिभ्यां परेषु पाद्दन्मूर्धसु यो बहुव्रीहि: अन्त उदात्तः । ’ द्विपाद्यज॑मानः प्रति॑िष्ठित्यै’ | ‘द्विपदी त्रिपदी’ | ‘त्रिपदा गायत्री’ । एष्वन्त उदात्तः । ’ संख्या सुपूर्वस्य’ इति पादशब्दान्तस्य लोप: ङीप् । ’ पादोऽन्यतरस्याम्’ इति ‘टावृचि’ | ‘पादः पत्’ । ’ द्विदन् ’ । ’ त्रिदन्’ । ’ वयसि दन्तस्य दतृ ’ । ‘द्विमूर्धा’ । ‘त्रिमूर्धा’ । समासान्तविधेरनित्यत्वात् ‘द्वित्रिभ्यां ष मूर्ध्नः’ इति नात्र षप्रत्ययः । तदनित्यत्वे च ’ मूर्धसु’ इति निर्देशो लिङ्गम् । इतरथा ‘मूर्धेषु’ इति स्यात् । न च अकृतसमासान्तस्य मूर्धशब्दस्य निर्देशात् ‘द्विमूर्धः’ इत्यादौ कृतसमासान्ते नायं स्वरः स्यादिति वाच्यम् ; सूर्धन- समासा- शब्दघटित बहुव्रीहिविशेषस्य अत्र कार्यित्वात् समासान्तस्य वयवत्वेन कृतेऽपि तस्मिन् तस्य तादृशबहुव्रीहित्वानपायात् इति । द्वित्रिभ्यां किम् ? ’ चतु॑ष्पादः पशर्वः ’ । ‘अन्यतौदद्भ-यो भूयान्’ ॥ ॥ [१२४] ॥ सक्थं चाकान्तात् ॥ (6–2–198) क्रशब्दान्तभिन्नात् परः कृतसमासान्तः सक्थशब्दो वा अन्तोदात्तः । ‘गौरसक्थ:’ । ‘पृश्निसक्थमालभेत ’ । ‘लोमशसक्थौ ’ ।
सू. १२५] समासश्वरप्रकरणम् १७६ ‘बहुव्रीहौ सक्थ्यक्ष्गो: स्वाङ्गात् षच्’ इति षचि चित्स्वरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । अक्रान्तात् किम् ? चक्रसक्थः’ ॥ [१२५] ॥ परादिश्छन्दसि बहुलम् ॥ (6–2–199): परशब्देन अत्र सक्थशब्द उच्यते तस्यैव पूर्वसूत्रे सन्निहितत्वात् । न चैवम् ‘पर’ इति व्यर्थम् अनुवृत्त्यैव सक्थशब्दलाभादिति वाच्यम् ; बहुव्रीहेरपि प्रकृतत्वेन तस्यापि अत्र आयुदात्तत्वं विधीयत इति शङ्कानिवर्तकत्वात् । छन्दसि सक्थशब्दस्य आदिरुदात्तो बहुलम् । बहुलग्रहणात् ‘असिक्थाये ’ इत्यादौ सक्थस्य अन्त उदात्तः । ‘विभाषा’ इति इति प्रकृते बहुलग्रहणं छन्दसि अन्यत्रापि स्वरस्य व्यत्ययसिद्धये । तेन 6 परादिश्च परान्तश्च पूर्वान्ता अपि पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं इत्यादि सिद्धमिति ॥ ॥ इति बहुव्रीहिस्वरप्रकरणम् ॥ दृश्यते । ततः 11 2 ज.
- ‘परादिश्च परान्तश्चापि दृश्यते’ । ‘व्यत्ययो बहुलम्’ ‘ततो बहुलं तणि’ ‘पूर्वान्तश्चापि पूर्वादिश्वापि दृश्यन्ते’ । क. ख. ग. च. छ.
तत्पुरुषस्वरप्रकरणम्
॥ अथ तत्पुरुषस्वरप्रकरणम् ॥ [१२६] ॥ तत्पुरुषे तुल्यार्थतृतीया सप्तम्युपमानान्यय- द्वितीयाकृत्याः ।। (6–2–2) तुल्यार्थादीनि सप्त पूर्वपदानि प्रकृतिस्वराणि भवन्ति तत्पुरुषे । समासस्य’ इत्यस्य अपवाद: । ’ तुल्यश्वेतः । ‘कृत्यतुल्याख्या तुलया सम्मित: ‘तुल्यः’ । ‘यतोऽनाव: ’ इत्युदान्तः । अजात्या ’ इति कर्मधारयः । ‘नौवयोधर्म ’ इति यत् 1 किरिणा काण: ‘किरिकाण:’ । ’ तृतीया तत्कृत इति समासः । यत्तु ‘वरुणगृहीतम्’ ‘यदशनििहतस्य’ इति स्वरमञ्जर्यामुदाहरणम्, 5 तन्न ; ‘तृतीया कर्मणि’ इति ह्यत्र पूर्वपदप्रकृतिस्वर: । ’ एतत्सूत्रप्राप्तेः कृत्स्वरेण थाथादिस्वरेण न्च बाधितत्वात् 1 अक्षेषु शौण्ड: ‘अक्षशौण्ड: ’ । ‘अशेर्देवने’ इति सप्रत्ययान्तोऽक्षशब्दः । ’ सारागवस्त्रैर्जरद॑क्ष:’ । जले दक्षः समर्थो जलदक्षः वसन्त उच्यते, सर्वप्राणिनां तत्र जलप्रियत्वात् । सप्तमी पूर्वपद्प्रकृतिस्वरः’ इति वेदभाष्यम् । यत्तु ‘देवकृ॑तमेनोऽयाडव मयैर्मर्त्यकृतम् ’ इत्यत्र वेदभाष्यम् ’ देवेषु कृतं देवकृतम्, सप्तमी पूर्वपदप्रकृतिस्वर: ’ इति, तच्चिन्त्यम्; परत्वात् कृत्स्वरेण अस्य’ बाधात् । तस्मात् देवेषु कृतं करणं यस्य इति बहुव्रीहौ पूर्वपदप्रकृतिस्वर: ‘देवकृ॑तस्यैन॑सः’ इत्यत्र वेदभाष्य एव पक्षान्तरं’ दर्शितम् -
- इत्याद्युदात्तः क. ख. 2. स्वरमञ्जर्युदाहरणम् घ. 3. हि घ. नास्ति । तत्सूत्रप्राप्तेः घ.
- उद्यते, सर्वप्रजानां घ.
- अत्र क.
- हेतौ तृतीया वा तृतीया - 7. पक्षान्तरमपि क. ङ. सू. १२६]
समासस्वरप्रकरणम् देवादिभिरस्मद्विषये यत् कृतम् एनः फलं कर्मणि’ इति पूर्वपदप्रकृतिस्वर इति । यविष्ठेभ्यः ’ १७३ दुःखम् । ‘तृतीया मर्तशब्दात् ‘नवसूरमर्त- इति स्वार्थे यति ‘यतोऽनावः ’ इति आद्युदात्तो मर्त्यशब्दः । कर्कन्धुवत् रोहित: ‘कर्कन्धुरोहितः ’ । , ‘शुक्रबभ्रुः’ । ‘लघावन्ते’ इति मध्योदात्तः कर्कन्धुशब्दः । कृतम् ‘अव्यये शुकशब्दः कन्नन्तः । अव्यये परिगणनं नक्कुनिपातानाम्’ इति । ‘अब्राह्मणश्च प्रश्नमेयाता॑म् ’ । ’ कुब्राह्मणः ’ । ‘देवासुराः संयत्ता आसन्’ । सम्यक् यत्ताः संयत्ता: इति प्राचार्यादिवत् प्रादिसमासः । तेन न कृत्स्वरः शङ्क्यः 1 यन्तु गतिसमासे ’ गतिरनन्तरः ’ इति प्रकृतिस्वर इति, तन्मन्दम् ; गतिरनन्तर:’ इत्यत्र ‘कर्मणि क्तः’ इत्यनुवृत्तेः । ‘सुहौता सूद्राता’ । ‘सुः पूजायाम् ’ इति कर्मप्रवचनीयत्वात् न सोर्गतित्वम् । ‘अधिपतिः । परिगणनात् इह न, मयूरव्यंसकादिः । एवं सति तत्रैव अन्तोदात्तत्वनिपातनादिष्टसिद्धेः परिगणनं मास्त्विति भाष्यम् । ’ सामिकृतम् ’ ’ स्वयंधौतम् ’ इत्याद्यर्थं परिगणनमावश्यकम् इति तु हरदत्तादयः । एवं च ‘स्वयंकृता वेदिर्भवति’ इत्यादावपि अन्तोदात्वं सिद्धम् इति 11 स्नात्वाकालकः ’ । मन्तव्यम् । निपातत्वादेव सिद्धे नञ्ग्रहणम् ‘अकरणि:’ इत्यादौ परमपि कृत्स्वरादिकं बाधित्वा ननूस्वरप्रवृत्तय इत्युक्तम् । कुशब्दस्तु अत्र न पठितव्यः ; अव्यय संज्ञार्थं चादिषु तस्य पठितव्यत्वेन निपातत्वादेव सिद्धेः । ’ अपथात् पन्थामर्पिनयति’ ’ न च अत्र ‘ऋक्पूरप्’ इति समासान्तप्रत्ययस्वरेण नब्स्वरबाधः ’ सतिशिष्टत्वात् इति वाच्यम् ; ‘बहुव्रीहौ सङ्ख्येये डजबहुगणात् ’ इत्यत्र डचश्वित्त्वेन लिङ्गेन स्वरविधेः प्राक्
- तु घ. नास्ति ।
- व्यन्ति क.
- समासान्तप्रत्ययस्य स्वरो नञ्- स्वरबाधकः घ.
१७४ समासान्तप्रवृत्तेः ।
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १२६ अन्यथा सतिशिष्टत्वात् प्रत्ययस्वरे सति किं ‘मुहूर्त सुखम् ’ । ‘कालाध्वनोरत्यन्तअत्यन्तसंयोगे च’ इति द्वितीया- चित्वेन ? मुहूर्तं सुखं मुहूर्तं सुखं संयोगे’ इति द्वितीया । तत्पुरुषः । मुहूर्तशब्दः पृषोदरादिरन्तोदात्त इति वृत्तौ । यत्तु ‘अन्तंगता दहति’ इत्युदाहृतम्, तन्न; कृत्स्वरेण बाधात् । ’ अहीने द्वितीया’ इति सूत्रेण च अत्र पूर्वपदप्रकृतिस्वर इति वक्ष्यते । ’ अन्तगताः इत्यत्र द्वितीयापूर्वपदप्रकृतिस्वर इति वेदभाष्यमपि ‘अहीने द्वितीया’ अहीने द्वितीया’ इति इति सूत्रेणेति योज्यम् । पूर्वपदप्रकृतिस्वरस्य ‘भोज्योष्णम्’ । ‘कृत्यतुल्याख्या: ’ इति कर्मधारयः । अयमेव कृत्यसमासोऽत्र गृह्यते प्रतिपदोक्तत्वात् इति वृत्तिकृत् । भाष्ये तु एतन्नाश्रितम् । अत एव कुरुगार्हपतसूत्रे पण्यकम्बलग्रहणं नियमार्थम् ; ‘द्वितीयाकृत्या ’ इत्येव’ प्राप्तत्वात् इति तत्र भाष्यकृतः । अत्र च लक्षणप्रतिपदोक्तपरिभाषया तृतीयादिशब्दमुच्चार्य विहितस्तृतीयातत्पुरुषादिरेव गृह्यते । तेन ‘उत्तरवेद्याः ’ ’ उत्तरवेद्याम् ’ ’ उत्तरवेदिम्’ इत्यादौ ‘विशेषणं विशेष्येण इति समासे न तृतीयातत्पुरुषादिस्वरः । अन्यथा विशेषणसमासः प्रथमान्तानामेव इत्यत्र मानाभावात् तृतीयाद्यन्तमत्र पूर्वपदमिति तृतीयातत्पुरुषादिस्वरः प्राप्नुयात् ॥ ॥ इति तत्पुरुषे पूर्वपदप्रकृतिस्वरप्रकरणम् ॥
- एव घ. नास्ति ।
- लक्षण- घ. नास्ति ।
॥ अथ तृतीयापूर्वपदप्रकृतिस्वरापवादः ॥ [१२७] ॥ ऊनार्थकलहास्तृतीयायाः ॥ (6-2-153) तृतीयान्तात् परस्य ऊनार्थशब्दस्य कलह शब्दस्य च अन्त उदात्तः । ’ माषोन:’ । ’ माषविकलः ’ । ‘असिकलह:’ । ‘पूर्वसदृश ’ इति समासः । इह ‘अर्थ’ इति स्वरूपग्रहणमित्येके । धान्येन अर्थो ‘धान्यार्थः ’ । अत्र पक्षे व्याख्यानात् ’ ऊन’ इत्यर्थग्रहणम् । तृतीया ग्रहणं विस्पष्टार्थम् ; प्रतिपदोक्तत्वादेव तृतीयासमासग्रहणसिद्धेरित्याहुः ॥ [१२८] | मिश्रं चानुपसर्गमसन्धौ ॥ (6-2–154) तृतीयान्तात् परस्य उपसर्गरहितस्य मिश्रशब्दस्य अन्त उदात्तः असन्धौ गम्ये । ‘नीतमि॒श्रेण॑ तृतीयसव॒ने’ । ’ द॒ध्ना म॑धुमि॒श्रेण॑ । अनुपसर्गग्रहणं ज्ञापकम् अन्यत्र मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्’ इत्यर्थे ’ । तेन ’ पूर्वसदृश’ इति समासः सम्मिश्रादिनापि भवति । ‘गुडसम्मिश्र : ’ । असन्धौ किम् ? ‘ब्राह्मणमिश्रो राजा’ । ‘यदि मे भवानिदं कुर्यात् अहमपि भवत इदं करिष्यामि’ इत्येवं पणबन्धेन ऐकार्थ्यापत्तिः सन्धिः, तमापन्नो राजा इत्यर्थः ॥ ॥ इति तृतीया पूर्वपदप्रकृतिस्वरापवादः ॥
- -कलहं - घ. 2. ऊनार्थस्य घ.
- अर्थे क. नास्ति । ।
- अपि क. नास्ति ।
॥ अथ सप्तमी पूर्वपदप्रकृतिस्वरापवादः ॥ [१२९] ॥ सप्तम्याः पुण्यम् ॥ (6–2–152) अन्त उदात्तः । अध्ययने पुण्यम् सप्तम्यन्तात् पुण्यस्य’ ‘अध्ययनपुण्यम्’ । ‘सप्तमी’ इति योगविभागात् सप्तमीपूर्वपदप्रकृतिस्वरापवादः । सप्तम्याः ‘वेदपुण्यम्’’ ॥ समासः I किम् ? वेदेन पुण्यं ॥ इति सप्तमीपूर्वपदप्रकृतिस्वरापवादः ॥ ॥ अथ अव्ययपूर्वपदप्रकृतिस्वरापवादः ॥ [१३०] ॥ नञो गुणप्रतिषेधे सम्पाद्यैर्हहितालमर्थास्तद्धिताः ॥ (6-2–155) प्रतिषेधे सम्पाद्याद्यर्थतद्धितान्तानां गुणस्य प्रवृत्तिनिमित्तस्य सम्पादित्वादेः विद्यमानान्नञः परेषामन्त उदात्तः । अकार्णवेष्टनिकं मुखम् ’ । कर्णवेष्टनाभ्यां न संम्पादि न शोभनमिति गुणो निषिध्यते । ‘सम्पादिनि’ इति सूत्रेण ‘प्राग्वहतेष्ठञ्’ इत्यधिकारस्थेन ठनि कार्णवेष्टनिकम् । छेदमर्हति छैदिकः । ’ तदर्हति’ ‘छेदादिभ्यो नित्यम्’ इति पूर्ववत् ठञ् । अच्छेदिकः । वत्साय हितो वत्सीयः । ’ प्राक्क्रीताच्छः ’ । ’ अवत्सीय:’ । सन्तापाय प्रभवति सान्तापिकः । ’ तस्मै प्रभवति सन्तापादिभ्यः’ इति ठञ् ।
- पुण्यशब्दस्य क.
- अध्ययने पुण्यम् घ. नास्ति । 3. वेदपुण्यम् क. नास्ति ।
- -सम्पाद्याहक.
- सम्पादितशोभनमित्यर्थः । अनेन गुणा निषिध्यन्ते । ‘सम्पादिनि’ घ.
सू. १३१]
समासस्वरप्रकरणम् १७७ ‘असान्तापिक:’ । गुणप्रतिषेधे किम् ? वत्सीयादन्यः ‘अवत्सीयः ’ । तद्धिताः किम् ? ‘अवोढा’ । वोढुमर्हो वोढा । ’ अहे कृत्यतृचश्च [१३१] ॥ ययतोश्चातदर्थे ॥ (6-2–156) , तदन्तयोर्गुण- तद्धितौ यौ ययतौ अतदर्थे विद्यमानौ निषेधार्थकनञः परयोरन्त उदात्तः । । पाशानां समूहः पाश्या । ‘पाशादिभ्यो यः’ । ‘अपाश्या । दन्ते भवं दन्त्यम् । ‘शरीरावयवाच्च’ इति यत् । ‘अदन्त्यम्’ । अतदर्थे किम् ? ‘अपाद्यम्’ । पादार्घाभ्यां च’ इति तादर्थ्ये यत् । पादाय इदम् पाद्यम् । तद्धितानुवृत्तेः ‘अदेयम्’ इत्यत्र नब्स्वर एव । ‘अचो यत्’ । ८ , यति गुणः इति वृत्त्यादौ । ‘अचो यत्’ इति यतः कृत्यसंज्ञकत्वेन
कृत्यो केष्णुच्’ इति वक्ष्यमाणसूत्रेण अत्र’ अन्तोदात्तावश्यम्भावात् कथमिदं तद्धितप्रत्युदाहरणमिति चिन्त्यम् ; ‘अमाया’ इत्यादिकमौणादिकयान्तमत्र’ प्रत्युदाहर्तव्यम् । वेदभाष्यकृतस्तु अत्र तद्धितानुवृत्तिं नानुमन्यन्ते । तथा च ’ पा॒ह्य॑स्मान् द्रुहो नि॒िदो मि॑ित्रमहो अवद्यात्’ इत्यत्र अवद्यशब्दे ‘ययतोश्व’ इति अन्तोदात्तत्वं तैर्दर्शितम् । ‘अवद्यपण्यवर्याः’ इति ‘अचो यत्’ इति प्रकरणेऽवद्यशब्दो निपातितः । द्रुहः द्रोहातू, निदः निन्दायाः, अवद्यात् परीवादाच्च अस्मान् पाहि इत्युक्तमन्त्रार्थः । यत्तु वेदभाष्ये अना- धृष्यं दे॒वाना॑म्’ इत्यत्र प्रकृतसूत्रेण अन्तोदात्तत्वमुक्तम्, तच्चिन्त्यम् ; निरनुबन्धकपरिभाषया च तदनुबन्धक परिभाषया क्यपोऽग्रहणात् । ’ ‘ऋदुपधाच्चाक्लपि’ यद्ग्रहणेन इति क्यपि धृष्यशब्द- 3. -मन्वते क.
- अत्र क. नास्ति ।
- अत्र क. नास्ति ।
- इगुपधाच्च इगुपधाच्च घ FCC-01ri Vipin Kumar Col. Deoband. In Public Domain. १७८
स्वर सिद्धान्तचन्द्रिकायाम् [सू. १३२ निष्पादात् । अत एव ‘वामदेव्यम्’ इत्यादौ ’ वामदेवाड्ड्यड्ड्यौ इति ड्यड्ड्यान्ते न अयं स्वरः ; ‘उक्तपरिभाषाभ्याम्’ इति आकरे पत्रे’ इति क्यप्प्रकरणे / अत एव ’ युग्यं च स्थितम् । निपातनादेव युग्यशब्दसिद्धौ ’ तद्वहति रथयुगप्रासङ्गम्’ इति यद्विधौ इति स्वर सिद्धये युगग्रहणम् ‘अयुग्यम्’ इत्यत्र ‘ययतोः ’ इति ‘तद्वहति’ इत्यत्र हरदत्तः । यत्तु अस्य सूत्रस्य उदाहृतम् ‘अमेध्या वै माषाः ’ । मेधमर्हति ‘मेध्यः’ । ‘मेध्य:’ । ’ दण्डादिभ्यो यः ’ ’ छन्दसि च’ इति यः । ’ अपशव्योऽपशुः’ । पशवे हितः ‘पशव्य:’ । ’ उगवादिभ्यो यत्’ इति । तन्नासाधारणम् ; पूर्वेणापि सिद्धेरिति ॥ [१३२] || अचूक वशक्तौ ॥ (6-2–157) नञः परस्य अच्प्रत्ययान्तस्य कप्रत्ययान्तस्य च अन्त उदात्तः अशक्तौ गम्यायाम् । ‘अपच: ’ । यः पक्तुं न शक्नोति । पचाद्यच् । ‘अविक्षिपः ’ / इगुपधलक्षणः कः । वक्ष्यमाणैः कृत्यादिभिः साहचर्यात् अच्कयोः कृतोरत्र ग्रहणम् 1 तेन कृद्रग्रहणपरिभाषया विक्षिपस्यापि कान्तत्वम् । अशक्तौ किम् ? ‘अपचो दीक्षितः ’ । शास्त्रनिषेधात् अयं न पचति, न तु अशक्त्या ॥ II [१३३] ॥ आकोशे च ॥ (2–6–158) 11 अस्मिंश्च गम्ये नञः परस्य अचूकान्तस्य अन्त उदात्तः । ‘अपचः, अविक्षिपोऽयं जाल्मः’ । यः पक्तुं विक्षेप्तुं च शक्तोऽपि लोभादिना न पचति न विक्षिपति च ॥
- उत्तरघ.
सू. १३५]
समासस्वरप्रकरणम् [१३४] ॥ संज्ञायाम् ॥ (6–2–159) १७९ अत्र वर्तमानस्य नञः परस्य अन्त उदात्तः आक्रोशे । ‘अदेवदत्तः ’ । यो देवदत्तः सन् तत्कार्यं न करोति स एवमाक्रुश्यते ॥ ( [१३५] ॥ कृत्योकेष्णुच्चार्वादयश्च ॥ (6–1–160) उदात्तः । नञः परेषां कृत्याद्यन्तानां चार्वादीनां च अन्त पशूनामनुपजीवनीयः ’ । अध्वर्तव्या त्रै’ । ’ पत्न्येनालम्भुका भव॑ति ’ । बहुलग्रहणात् उकञ् । ‘अनलङ्कामुकः ’ । ’ लषपत ’ इत्युक्रञ् । । अव॑र्षुकः पर्जन्ये: ’ इत्यादौ तु व्यत्ययात् नञ्स्वरः । ‘अनलङ्करिष्णुः’ । अलङ्कृञ्ज्ञ्निराकृञ्’ इत्यादिना इष्णुच् । अनाढ्यम्भविष्णुः ’ । ‘कर्तरि भुवः खिष्णुच्’ इति खिष्णुच् । न च व्यनुबन्धकत्वात् अस्य अग्रहणम् ; भवतेरुदात्ततया ततः परस्य खिष्णुचः इटैव इकारादित्वे सिद्धे इकारादेर्विधानस्य अत्र सामान्यग्रहणार्थत्वात् इत्याहुः । चार्वादयः – ‘चारु:’ । ‘साधुः’ । ‘यौधिकः’ । ‘अनङ्गमेजय:’ । ’ वदान्यः’ | | ‘अकस्माद्वर्तमानवर्धमानवरमाणप्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम् ’ । ‘विकारसदृशे व्यस्तसमस्ते च ’ | ‘गृहपतिकः’ । ’ गृहपतिः’ इत्यन्ये पठन्ति । ‘राजाहोरछन्दसि’ । लोके तु नञ्स्वर एव 1 अचारुः इत्यादिकमुदाहरणम् । ‘अनङ्गमेजयः ’ ‘द्वितीयनञ्समास उदाहरणम् ॥
- त्वरमाणप्रीयमाणश्रियमाण- रोचमानाः घ. ङ. अकस्मात् ’ इत्यनयोः
च घ. नास्ति । 3. द्वितीय- घ. नास्ति ।
१८०
स्वर सिद्धान्तचन्द्रिकायाम् [सू. १३६ स्वरमञ्जर्यां तु प्रकृतसूत्रं ’ ययतोश्व’ इति इति सूत्रं च ‘संज्ञायां मित्राजिनयोः’ इत्यनन्तरं’ लिखितम् । तत्र क्रमोलङ्घने किं फलमिति न विद्मः । प्रत्युत बहुव्रीहिप्रकरणलेखनं बहुव्रीहिविषयत्वभ्रमजनकमिति ॥ [१३६] ॥ विभाषा तृन्नन्नतीक्ष्णशुचिषु ॥ (6-2-161) नञः परेषामेषां वा अन्त उदात्तः । ‘अकर्ता’ । अनन्नम । ‘अतीक्ष्ण:’ इत्यादिः ॥ [१३७] ॥ गतिकारकोपपदात् कृत् ॥ (6-2-139) प्रकृतिस्वरं गतेः कारकात् उपपदाच परं कृदन्तमुत्तरपदं भवति तत्पुरुषे । गत्यंशेऽव्ययं पूर्वपदप्रकृतिस्वरापवादो योगः । कारकोपपदांशे तु समासस्वरस्य । तृतीयापूर्वपदप्रकृतिस्वरादिकमपि परत्वात् अनेन अंशेन बाध्यत इति विवेक: । ’ यत्पुनराधेयः’ । धेयशब्दो धाञः ‘अचो यत्’ इति यति निष्पन्नः ‘यतोऽनाव: ’ इत्याद्युदात्तः । तस्य आङा ’ ‘कुगति’ इति समासे कृत्स्वरेण ’ आधेयः’ ’ इति मध्योदात्तं पदम् 1 तस्य पुनश्शब्देन
- इति सूत्रादनन्तरम् क. ख. 2. इति घ. नास्ति ।
- ’ अतीक्ष्णम्’ इत्यादि क.
- तु घ. नास्ति ।
- परत्वात् ख. नास्ति । 6. इत्युदात्तः घ.
- गत्याङा घ.
- आधेयशब्दः ख.
सू. १३७]
समासस्वरप्रकरणम् १८१ ‘पुनश्चनसौ छन्दसि’ इति गतिसंज्ञकेनं पूर्ववत् समासे. पुनः कृत्स्वरेण धेयशब्द आद्युदात्तः’ । ’ यमाशिरा दम्पती’ । आङ्पूर्वात् श्रीणातेः क्विप् । ‘अपस्पृधेथामानृचुः’ इत्यत्र निपातनात् शीरादेशः । ततस्तृतीयान्तम् ‘आशिरा’ इति । यत्तु ‘अपस्पृधेथाम्’ इत्यत्र निपातनात् ’ आशिषा’ इति पदं स्वरमञ्जर्यां पदं स्वरमञ्जर्यं विप्रकीर्णप्रकरणे व्युत्पादितम्, तदसत् ; उक्तरीत्या श्रीणातेः शीरादेशे रेफान्तमेव हि पदम् ’ अपस्पृधेथाम्’ इत्यत्र निपातितम् । अत एव वृत्त्यादिषु तत्र ‘आशिरा’’ इत्युदाहृतम् । ‘यमाशिरा’ इत्यत्र वेदभाष्येऽप्युक्तम्’अपस्पृधेथाम्’ इत्यत्र निपातित: ’ अशी शब्दः - इति । ‘आशिषः ’ इति च रूपमाङ्पूर्वात् शासे: किपि शास इदङ्हलोः ’ ‘आशासः कावुपसङ्ख्यानम् ’ इति वचनात् ’ शासिवसि ’ इति षत्वे च भवतीति सर्व सिद्धमिति इत्यन्त्र एवम् ’ संज्ञान॑म्’ ‘विज्ञानम्’ इत्याद्युदाहार्यम् । ल्युडन्तो लित्स्वरेण आद्युदात्तः आद्युदात्तः । कारकात् इत्वे 1 ज्ञानशब्दो कारकात् – ’ स्रुक्स॒म्मार्जनान्य॒ग्नौ प्रहरति ’ ‘देवयज॑नमध्यवसायं ’ । आद्ये करणे ल्युडन्तेन कर्मणि षष्ठ्याः समासः 1 इतरत्र अधिकरणस्युहन्न । ‘कर्णगृहीता’ इत्यादौ परत्वात् सप्तमी पूर्वपदप्रकृतिस्वरबाधः उपपदात् – ‘ईषत्करः , । ‘उच्चैःकृत्य ’ ‘उच्चैः कारम् ’ 1 ‘ईषदुस्सुषु ’ इति खल्विधौ ‘अव्ययेऽयथाभिप्रेताख्याने’ इति णमुल्विधौ च धात्वधिकारे सप्तमीनिर्देशात् ‘तत्रोपपदम्’ इति
- उदात्तः घ. ङ. 3 नाशिरन्दुहे क.
- वृत्त्यादौ घ.
- आशिररशब्दः ख. ङ.
१८२
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १३७ ईषदादेः’ उपपदत्यम् । यत्तु ‘अभिजिद्भवति’ ‘ब्रह्मवादिनों वदन्ति ’ इत्युपपदस्य उदाहृतम्, तन्मन्दम् ; णिनिस्वरेण गतिस्वरेण च सिद्धेः । गत्यादेः किम् ? देवदत्तस्य कारक: ‘देवदत्तकारकः ’ । इति शेषषष्ठ्याः समासः, न कारकषष्ठ्याः, ‘तृजकाभ्यां कर्तरि तत्समासनिषेधात् । तेन नात्र कारकात् परत्वम् । ननु अत्र ‘कृत्’ इति व्यर्थम् । न चैम् व्यर्थम् । न चैवम् ’ निष्कौशाम्बि: ’ इत्यादौ अति- प्रसङ्गः ; यत्क्रियायुक्ताः प्रादयः’ इति न्यायेन गम्यमानक्रमण-
- अस्तीषदादेः क. उत्पादयति इति शम्भुरिति कारकात् G काम:’ इत्यादौ ‘फारकात् उपपदाच्च परत्वेऽपि नायं स्वरः ‘शीलिकाभिक्ष्यचरिभ्यो UT: च ; पूर्वपदप्रकृतिस्वरत्वं
- यत्तु स्वरमञ्जर्याम् उपपदस्य परत्वादिदं बोध्यम् । ग्रामकामः उदाहरणं दर्शितम् ’ ब्रह्मवादिनौ प्रजाकामः पशुकामो वीर्यकाम इन्द्रियवदन्ति ’ ’ अभिजिद्भवति ’ इत्याद्युपपदस्य दर्शितम्, ‘सुप्यजातौ णिनिः ’ “जिनीराजामुपसर्गेऽपि क्विप् ’ इति सप्तमीनिर्देशात् ब्रह्मादीनामुपपदत्वमिति, यच्च तद्व्याख्यात्रा अभिहितम् ‘गिरिचराय ’ ‘रथकारेभ्यः’‘पामनम्भावुका:’ इत्येवमाद्यपि उदाहार्यम् इति, तदुभयमपि चिन्त्यम् ; यथायथं कारकाद्गतेश्च परत्वेन उदाहरणानामन्यथासिद्धत्वात् । ’ नमः शंभवे च मयोभवे॑ च॒ नम॑ः शङ्कराय च ’ इति ( वक्तव्यम् ’ कर्मण्य इति वार्त्तिकात् । अणि प्रकृते णविधिः ‘अदितिः पुत्रकामा ’ इत्यादौ ङीबभावाय । ‘ग्रसेरा च’ इति मन्प्रत्ययान्तो ग्रामशब्द आद्युदात्तः । ’ उपसर्गे च संज्ञायाम्’ इति प्रशब्दे उपपदे जनेर्डप्रत्यये प्रजशब्दः कृत्स्वरेण अन्तोदात्तः । टापि एकादेशोऽप्युदात्तः । ततः मयस्कराय च’ । ‘शमिधातोः संज्ञायाम् इत्यच्प्रत्ययान्तः शङ्करशब्दः । ’ कृञो पशुशब्दः हेतु’ इत्यादिना ताच्छील्याचि ‘मयप्रत्ययान्तः इति कु- ’ अर्जिहशि’ अन्तोदात्तः । पुनाते- स्करः’ । उपपदात् कारकाद्वा परत्वात् र्हस्वश्च’ इति त्रप्रत्ययान्तः पुत्रशब्दः उत्तरपदप्रकृतिस्वरः, डुप्रकरणे मितवा - प्रत्ययस्वरेण अन्तोदात्तः । इन्द्रिय- दीनामुपसंख्यानात् डुप्रत्ययान्तौ शंभुमयो- भुशब्दौ । उपपदात् परत्वात् कृत्स्वर इति मिन्द्रलिङ्गम् ’ इत्यादिना इन्द्रियशब्दः घप्रत्ययान्तोऽन्तोदात्तो निपातित इत्याहुः । परिमळकृत् । सप्तमीनिर्देशाभावात् वीर्यशब्दस्वरस्तु ‘वीरवीर्यौ च’ इत्यत्र कथमुपपदत्वमिति चिन्त्यम् । शं भावयति दर्शितः — ङ. सू. १३७]
समासस्वरप्रकरणम् १८३ क्रियामपेक्ष्यैव निसो गतित्वेन कौशाम्बिशब्दं प्रति गतित्वाभावात् । ससम्बन्धिकेन गतिशब्देन तादृशस्यैव उत्तरपदस्य आक्षेपात् । सत्यपि गतिग्रहणे ‘प्रजा॑ताः स्थ समद्भिः पृच्यध्वम्’ इत्यादौ कृत्स्वराभावाय अस्यैव न्यायस्य आश्रयणीयत्वात् । अत एव अत्र वेदभाष्ये ‘प्रकृष्टा जाता: प्रजाताः इति प्रादिसमासान्नात्र कृत्स्वरः ’ इत्युक्तम् । एवं कारकोपपदाभ्यामपि क्रियानियताभ्यां क्रियावचनस्यैव उत्तरपदस्य आक्षेपात् न अक्रियावचनेऽतिप्रसङ्गः । क्रियावाचकं च द्वयम्’ तिङन्तं कृदन्तं च । तत्र तिङन्तेन समासाभावात् विनापि कृद्ग्रहणं कृदन्त एव अयं स्वरो भविष्यतीति चेत् — उच्यते ; धातुप्रत्यय समुदायपरिग्रहार्थं कृद्ग्रहणम् । अन्यथा ’ यत्क्रियायुक्ताः’ इति न्यायेन धातुं प्रत्येव गतित्वम्, धातोरेव अन्वयव्यतिरेकाभ्यां अन्वयव्यतिरेकाभ्यां क्रियावाचित्वादिति यत्र धातुरेव उत्तरपदम् ’ प्रणीः’ इत्यादौ, तत्रैव अयं स्वरः स्यात्, न तु प्रणायकादौ, इति कृदन्तस्य धातुप्रत्यय समुदायस्य परिग्रहाय कृद्ग्रहणम् । तथा च पूर्वोत्तरपक्षवार्त्तिके – ‘गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणानर्थक्यम्, अन्यस्य उत्तरपदस्य अभावात्’ । ‘कृत्प्रकृतौ वा गतित्वात् अधिकार्थं कृद्ग्रहणम्’ – इति । अत्र वाशब्दस्त इति कैयटः । इदं च कृद्ग्रहणफलं भाष्यकृता प्रत्याख्यातम् । तथा हियत्क्रियायुक्ताः’ इति नायमर्थ: - यस्य क्रिया यत्क्रियेति, येन अन्वयव्यतिरेकाभ्यां धातोरेव क्रियावाचकता इति तं प्रत्येव गतित्वं स्यात् ; अपि तु या क्रिया यत्क्रियेति । एवं च क्रियारूपार्थं प्रत्येव गतिसंज्ञा । तस्य च अत्र व्यवहारानर्हत्वत् तद्वाचकपदाक्षेपप्राप्तौ तन्मात्रवाचकोत्तरपदाभावात् कारकससृष्टक्रियावाचकस्य गत्यादिभिराक्षेपात् सिद्ध: कृद्ग्रहणं विनापि धातुप्रत्यय समुदायपरिग्रहः । अपि च, कृद्ग्रहणे
- द्वयम् घ. • नास्ति ।
- चेत् घ. नास्ति ।
- तर्हि क.
१८४
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १३७ ‘प्रपचतितराम्’ इत्यादौ आमन्तेन गतिसमासे तस्य अकृदन्तत्वात् अयं स्वरो न स्यात् । ततश्च अव्ययपूर्वपदप्रकृतिस्वरेण आद्युदात्तत्वप्रसङ्गः । इष्यते च कृत्स्वरेण अन्तोदात्तत्वम् । न च ’ गतिकारकोपपदानां कृद्भिः सह समासवचनम्’ इत्युक्तेः कथमामन्तेन गतिसमास: इति वाच्यम् ; न हि गत्यादीनां कृद्भिरेव समास इति तदर्थः । किं तु तेषां कृद्भिर्यदि तु तेषां कृद्भिर्यदि समासो भवति तर्हि प्राक्सुबुत्पत्तेरिति । अतः फलाभावात् अव्याप्त्यावहत्वाच्च कृद्ग्रहणं त्यक्तव्यमिति अत्र केचित् –न तावत् कृद्ग्रहणस्य फलाभावः, मन्दान् प्रति विस्पष्टीकरणस्य तत्फलत्वात् । न च आमन्तेऽव्याप्तिः ; अन्तरङ्गत्वात् तरबन्तेन गतिसमासे तत आभि सतिशिष्टेन तत्स्वरेणेष्टसिद्धेरिति । तत्र’ अयं भाष्यकृदाशयः हरदत्तेन दर्शित: - ’ प्रपचतितराम्’ इत्यत्र यदि तरबन्तेन समासः तर्हि आमन्तसमुदायस्यैकपद्याभावेन शेषनिघातः प्रशब्दस्य न स्यात् ; भिन्नपदत्वात् । न च आमन्तात् सुपि सुबन्तत्वात् ‘प्रपचतितराम् ’ इत्यस्य कुतो न पदत्वम् इति वाच्यम् ; यस्मात् सुप् विहितः तद्धि सुबन्तं पदम् । अत्र च आमन्तात् सुप् विहितः । यस्मात् आम् विहितः तदामन्तम् । तरबन्ताच्च आम् विहितः, ‘किमेत्तिङव्ययवादाम् ’ इति वचनात् । ततश्चळे पचतितरशब्दात् आम्विधेः तदादिसमुदायस्यैव आमन्तत्वम् । तस्माद्विहितः सुप् तदादिसमुदायस्यैव पदत्वं सम्पादयति, न तु प्रशब्दादे: ; ’ प्रत्ययग्रहणे यस्मात् स विहितः’ इत्युक्तेः । तस्मात् आमन्तेन गतिसमास एष्टव्यः । एवं हि समुदायस्य समासत्वात् प्रातिपदिकत्वे ततः सुबुत्पत्तौ सिध्यति ऐकपद्यम् । आमन्तेऽव्ययपूर्वपदप्रकृतिस्वरप्रसङ्गात् ततश्च कृद्ग्रहणे
- भवति क. नास्ति ।
- अत्र तावत् घ.
- अत्र
- न ङ.
- समासश्चेत् घ.
त्यक्तव्यं सू. १३७]
समासस्वर प्रकरणम् १८५ कृद्ग्रहणमिति । यत्तु प्रपचतिदेश्यादौ अतिप्रसङ्गवारणाय कृद्ग्रहणमिति वृत्तिकृन्मतमिति, तत् भाष्यविप्रतिषिद्धम् ; तत्र कृद्ग्रहणप्रत्याख्यानेन प्रपचतिदेश्यादेरपि सङ्ग्राह्यत्वानुमानात् ’ इत्याहु: । एवं सति तिङन्तसमासेऽयं स्वरो भवेन्न वेति विचिन्त्यते । न च ‘सुप् सुपा’ इत्यनुवर्त्य समासविधानात् तिङन्तसमासासम्भवः ; नित्यं क्रीडा’ इत्यत्र वार्त्तिककृता ‘उदात्तवता गतिमता तिङा गतेः समासो वक्तव्यः इति तद्विधानात् । उदात्तवता तावत् – ’ यान्न निवपति यद॑नु॒दि॒शति॑ ’ । ’ निपातैर्यद्यदि’ इति निघातप्रतिषेधे शतिपोरनुदात्तत्वात् धातुस्वरेण ‘वपति’ इति तिङन्तमाद्युदात्तम् । ‘दिशति’ इति शविकरणस्वरेण मध्योदात्तम् । गतिमता – ’ पर्यावर्तते दक्षिणा पर्यावर्तते 1 अत्र परत्वात् ’ तिङ्कृतिङ:’ इति निघाते ८ , 1 सह ’ तिङन्तस्य उदात्तवत्त्वाभावात् गतिमता तिङन्तेन समासविधिः । भाष्यकृता तु सह सुपा ’ इत्यत्र ‘सह’ इति योगविभागेन अयमर्थः साधितः । इत्यत्र ‘सुप्’ इत्यनुवृत्त्या समर्थपरिभाषोपस्थित्या च सुबन्तं समर्थेन समस्यत इति तदर्थात् तिङन्तेनापि समाससिद्धिः । अत्र कौस्तुभकृतः ’ ’ भाष्य मतमेव अत्र समञ्जसम् । एवं हि योगविभागस्येष्टसिद्धयर्थतया तिङन्तसमासस्य छान्दसत्वम्, तत्रापि वैकल्पितकत्वं च सिध्यति । वार्त्तिकरीत्या तु नित्यसमासत्वापत्तौ ’ सोमच्युत ह्यस्य राध ऐति ’ सम्प्रच्य॑ध्य॒मनु॒ सम्प्रया॑त॒ इत्यादावपि समासप्रसङ्गः । एवं लोकेऽपि तिङन्तसमासे कर्मणा यमभिप्रैति’ इत्यत्रैकपद्यं नेति हरदत्तादिप्रन्थानुपपत्तिः । ’ यथोत्तरं मुनीनां प्रामाण्यम्’ इति । च तिङन्तसमासे समासान्तोदात्तत्वमेव, नाव्ययपूर्वपदप्रकृति- अत्र
- संग्राह्यत्वात् ख.
- कौस्तुभकृत् ङ. CC0. Shri Vipin Kumar Col. Deoband. In Public Domain. स्व -24 १८६
स्वरसिद्धान्तचन्द्रिकायाम् स्वरः, नापि कुत्स्वर इति कैयटहरदत्तयोर्मतम्
[सू. १३७ । तथा तथा हि ‘सह सुपा’ इत्यत्र तावत् कैयट : - ‘अनुव्यचलत्’ इति भाष्योदाहरणे समासविधेः फलम् ‘सिन्नित्यसमासयो:’ इति शाकलप्रतिषेधः । समासान्तोदात्तत्वं तु न भवति, परत्वात् ’ तिङतिङ :’ इति निघातेन बाधितत्वादिति केचिदित्युक्त्वा, एवं सति ‘अनुप्राविशत् ’ इति भाष्योदाहरणं निष्फलं स्यात् तस्मात् सतिशिष्टत्वात् समासान्तोदात्तत्वेन भाव्यमित्यपरे — इत्याह । ‘नित्यं क्रीडा’ इत्यत्रापि ‘अनुव्यचलत्’ इति भाष्यमुपादाय ’ त्रयाणां पदानां समासे कृते समासान्तोदात्तत्वं भवति । ’ तत्पुरुषे तुल्यार्थ’ इत्यनेन तु पूर्वपदप्रकृतिस्वरो न भवति ; ‘गतिर्गतौ’ इत्यनोरनुदात्तत्वात् । ‘तत्पुरुषे तुल्यार्थ ’ इत्यत्र च उदात्तस्वरितग्रहणात् । विशब्दस्य अपूर्वपदत्वात्’ इति स एवाह’ । सर्वमिदं हरदत्तोऽप्यन्ववादीत् । प्रकृतसूत्रेण उत्तरपदप्रकृतिस्वरप्रसङ्गस्तु अत्र कैयटेन नैव स्मृतः । हरदत्तस्तु अत्र सूत्रे आह - ‘अनुव्यचलत्’ इत्यत्र तु न गतित्वनिबन्धनः समासः । किं तर्हि ? ‘सुप्’’ इति योगविभागनिबन्धन इति । लक्षणप्रतिपदोक्तपरिभाषया गतिसंशब्दनेन विहितगतिसमासस्यैव अत्र ग्रहणान्नात्र गतिस्वर इति भावः । एवं हि वदता अनुव्यचलत्’ इत्यादौ ‘सुप्’’ इति योगविभागेनैव’ समासः ; ‘यथोत्तरं मुनीनां प्रामाण्यात् ’ इति द्योतितम् । उक्तवार्त्तिकेन समासे हि अयमपि गतित्वनिबन्धन एव समासः स्यादिति । यत्त्वत्र मनोरमायाम् - हरदत्तेनापि ‘अनुव्यचलत्’ इत्यादौ उत्तरपदप्रकृतिस्वरस्य वार्तापि न कृता इत्युक्तम्, तत् उक्तप्रकृत सूत्रस्थ हरदत्तमन्थापर्यालोचनात्’ । न चैतावता
- आह क. घ. नास्ति ।
- ‘सह’ घ.
- योगविभागादेव घ. 6. -ग्रन्थानालोचनात् क.
- ‘सह’ घ.
- गतिसंज्ञाशब्दनेन घ.
ङ. सू. १३७]
समासस्वरप्रकरणम् । १८७ ‘अनुव्यचलत्’ इत्यादौ परत्वान्निघातः, सतिशिष्टत्वात् समासान्तोदात्तत्वं वा इति सन्दिग्धमेव कैयटेन अभिहितम् इति वाच्यम् ; परत्वात् सतिशिष्टत्वस्य प्रबलत्वेन समासान्तोदात्तत्वमेवेति तदाशयात् । अत एव ‘नित्यं क्रीडा ’ इत्यत्र समासान्तोदात्तत्वमेव तत्र तेन दर्शितम् । यत्र तु तिङन्तनिघाताप्रसक्तिः ‘यत् परियन्ति’ इत्यादौ, तत्र समासान्तोदात्तत्वमनुक्तसिद्धमेव । ‘सह सुपा’ इत्यत्र कौस्तुभे तु - तिङ्समासे समासान्तोदात्तत्वम् इत्ययुक्तम्’ ; ‘कर्तुना प॒र्यभू॑षत् ’ ’ तदे॒वानु॒प्रावि॑शत्’ इत्यादौ कापि अन्तोदात्तपाठादर्शनात् । ’ तिङि चोदात्तवति’ इति गतिनिघातविधानं ज्ञापकं तिङ्समासेऽन्तोदात्तत्वाभावस्य । अन्यथा हि शेषनिघातेनैवेष्ट सिद्धौ तद्वैयर्थ्यम् । भाष्यमते तु – ’ गतिकारकोपपदात्’ इत्यत्र कृद्ग्रहणस्य प्रत्याख्यातत्वान्न कश्चिद्दोषः - इत्युक्तम् । मनोरमायां तु – ’ तिङ्समासेऽयं स्वरो भवति न वा’ इति सन्दिहा, पक्षद्वये दूषणमुपन्यस्य, ’ अत्रेदं तत्त्वम्’ इत्युपक्रम्य सिद्धान्तितम् ‘वार्त्तिकमते तावत् आद्य एव पक्षः ; कृद्ग्रहणस्य प्रत्याख्यानात्, ‘नित्यं क्रीडा ’ इत्यत्र तिङसमासविधानेन तत्पुरुषत्वाभ्युपगमाच्च ’ - इति । एवं च पर्यभूषत्’ इत्यादौ उत्तरपदप्रकृतिस्वरेण सिद्धमिष्टम् । न चैवम् यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ । वि॒त॒न्वतै’ इत्यत्र बहुचानामन्तोदात्तत्वं कथमिति वाच्यम् ; त्रिचक्रादित्वकल्पनात् । ‘अत्यायाहि इत्यत्र तिङन्तस्य निघाते आङा समासः । उत्तरपदस्य स्वरशून्यतया ं गतिस्वराभावात् अव्ययपूर्वपदप्रकृतिस्वरेण आद्युदात्तः । अतिशब्देन समासे कृते कृद्ग्रहणप्रत्याख्यानात् उत्तरपदप्रकृतिस्वरेणेष्टसिद्धिः । भाष्यमते तु तत्पुरुषत्वाभावात् गतिस्वरस्य अव्ययपूर्वपदप्रकृतिस्वरस्य च अभावे समासान्तोदात्तत्वैनेव ’ वितन्वते ’ शश्वत: ’ ततः
- प्राबल्येन क.
- तिनिघाताक.
- इति ङ. नास्ति ।
- उदात्तशून्यतया घ ङ. 6. इष्ट- घ. नास्ति ।
- इत्युक्तम् Shri Vipin Kumar Col. Deoband. In Public Domain. १८८
स्वर सिद्धान्तचन्द्रिकायाम् [सू. १३७ इति सिद्धम् । ‘पर्यभूषत्’ इत्यादौ उत्तरपदप्रकृतिस्वरस्तु, बाहुलकात् समाधेयः ॥ || यत्र अत्रेदं चिन्त्यम् -’ तिङि चोदात्तवति’ चोदात्तवति’ इति गतिनिघातविधानं कथं तिङ्समासे समासान्तोदात्तत्वाभावज्ञापकम् ? उदात्त्वता तिङा गतेर्न समासः भाषायां छन्दस्यपि क्वचित्, तत्र गतिनिघातार्थं तत् इत्युपपत्तेः ‘तिसमासश्छन्दोविषयः, तत्रापि वैकल्पिक:’ इति कौस्तुभ एव समर्थनात् । अथ वार्त्तिकमतेनेदं ज्ञापककथनम्, तत्र च उदात्तवता तिङा गते: सर्वत्र समास एवेति चेत् — एवमपि समासान्तोदात्तत्वं बाधित्वा प्रसक्तमव्ययपूर्वपदप्रकृतिस्वरं बाधितुं तद्विधानोपपत्तेः कथं ज्ञापकम् ? न च अव्ययस्वरमपि बाधित्वा कृद्ग्रहणप्रत्याख्यानात् प्रकृतसूत्रेण उत्तरपदप्रकृतिस्वरे शेषनिघातेनेष्टसिद्धेः पुनस्तद्विधानं ज्ञापकमेव ’ इति वाच्यम् ; ’ वार्त्तिकमते कृद्ग्रहणप्रत्याख्यानं न ’ इति वक्ष्यमाणत्वात् । ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति भाष्यस्यैव सिद्धान्तत्वसमर्थनाच्च । अपि च, नानास्वरप्राप्तौ समासस्वरारम्भात् ज्ञापकेन तदप्रवृत्तौ पदद्वयप्रकृतिस्वरप्रसङ्गः । ततश्च ‘अपादादौ’ इत्यधिकारात् यत्र पादादौ गतेः गतिर्गतौ’ इति ’ तिङि चोदात्तवति’ इति निघाताभाव: ’ तत्र समासे गतेस्तिङन्तस्य च स्वरः पर्यायेण समाविशेत् । यदपि ‘भाष्यमते कृद्ग्रहणप्रत्याख्यानान्न कश्चिद्दोष:’ इति, तदपि कथम ? उत्तरपदप्रकृतिस्वरेण ‘पर्यभूषत्’ इत्यादौ इष्ट- • सिद्धिरिति हि तदाशयः । न चैतद्युक्तम् ; तन्मते ख्यानेऽपि ‘सह सुपा’’ इति योगविभागसाधितस्य तिङ्समासस्य कृद्ग्रहणप्रत्या- 5. -स्वरसम्भवात् क. चोदात्ताभावः
- -स्वरं तु ङ.
- समाधेयं ङ,
- तद्विधिर्ज्ञापक एव घ.
- सुपा घ.
- -प्रवृत्तौ क. घ. नास्ति ।
सू. १३५]
समासस्वरप्रकरणम् १८९ । तत्पुरुषत्वाभावेन प्रकृतसूत्राप्रवृत्तेः । तन्मते तत्र तत्पुरुषत्वाभावश्च कौस्तुभमनोरमयोरेव स्पष्टः । अत्र’ सूत्रे तत्पुरुषानुवृत्तिः सर्वसिद्धा, मनोरमायामपि दर्शिता च 1 यत्तु ‘तिसमासे कापि अन्तोदात्तत्वं न दृश्यते’ इति, तत् मनोरमायाम् ’ वितन्वते ’ इत्यन्तोदात्तत्वं दर्शयता स्वेनैव दूषितम् । यत्तु मनोरमायाम् ‘वार्त्तिकमते कृद्ग्रहणप्रत्याख्यानात्’ इति, तत्कथमिति न विद्मः ; ‘कृत्प्रकृतौ वा गतित्वादधिकार्थं कृद्ग्रहणम्’ इति वार्त्तिकेन तन्मते कृद्ग्रहणसमर्थनात् । भाष्यकृता हि तत्प्रत्याख्यातम् । अत एव कौस्तुभे ‘भाष्यमते कृद्ग्रहणप्रत्याख्यानात्’ इति स्वेनैवोक्तम् । यदपि अत्यायाहि’ इत्यत्र तिनिघाते आङा समासः’ इत्यादि, तदपि मन्दम् ; वार्त्तिकमते उदात्तवता गतिमता वा तिङा गतेः समासविधानेन अनुदात्तेन तिङा गतेः अनुदात्तेन तिङा गतेः समासायोगात् । अन्यथा ‘दिशो व्यभजन्त’ इत्यादावपि तत्प्रसङ्गात् । सति वा समासे कथमव्ययपूर्वपदप्रकृतिस्वरः ? ’ सत्यपि सम्भवे बाधनं भवति’ इति न्यायेन कृत्स्वरेण तस्य बाधात् । अपि च, कृद्ग्रहणप्रत्याख्यानेऽपि कथं तिङ्समासे कृत्स्वरः ? ‘लक्षणप्रतिपदोक्तपरिभाषया गतित्वनिबन्धनसमासस्यैव अत्र ग्रहणात्’’ इति हरदत्तोक्तेः । न च ‘अनुप्राविशत्’ इत्यादिप्रयोगदर्शनात् उक्तपरिभाषा नाश्रीयत इति वाच्यम् ; बाहुलकात् उक्तप्रयोगनिर्वाहसम्भवात् । तदनाश्रयणेऽपि ’ वितन्वते’ इत्याद्यर्थं बहुलग्रहणस्य अवश्योपसेव्यत्वात्’ । तस्मात् तिङ्समासे समासान्तोदात्तत्वमेव । ’ पर्यभूषत्’ इत्यादौ उत्तरपदप्रकृतिस्वरस्तु बहुलग्रहणात् इति युक्तं कैयटादिमतमेव इत्यलं बहुना ॥ 4. ग्रहः ङ.
- तत्र घ.
- पूर्वोक्तवार्त्तिकेन क. ङ.
- हि घ. नास्ति ।
अत्र नाश्रीयते घ. 6. अवश्योपास्यत्वात् ख.
घ. १९०
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १३८ अथ गतेः परं कृदन्तं प्रकृतिस्वरम् इत्यंशस्य अपवाद:- [१३८] ॥ तादौ च निति कृत्यतौ ॥ ( 6–2–50) तकारादिः नित् तुशब्दभिन्नो यः कृत् तदन्ते उत्तरपदे गतिः प्रकृतिस्वरः । ‘अभिजित्यै’ । ‘अनुख्यात्यै’ । चिन्नन्तौ । । । । तादौ किम् ? ’ प्रजल्पाक:’ । ‘जल्पभिक्ष कुट्टलुण्टवृङः षाकन्’ । ’ यस्मिन् विधिस्तदादौ’ इति सिद्धे ‘आदिग्रहणमनर्थकम’ इति हरदत्तः । नितीति किम् ? ’ प्रस्तोता ’ । तृजन्तः ; तृनन्विधौ ’ ऋत्विक्षु चानुपसर्गस्य’ इत्युक्तेः । गतिनैव क्रियावचने आक्षिप्ते परिशेषात् कृदन्तपर्यवसाने च सिद्धे कृद्ग्रहणं कृदुपदेशकालोपलक्षणार्थम् । तेन कृदुपदेशकाले यस्तादिस्तत्रापि भवति । ‘अ॒भिर्भवितुम् ’ । प्रवदितोः ’ । तुमुन्तोसुनौ । स्वरप्रवृत्तिकाले हि एतौ इडादी । अतौ किम् ? ‘आगन्तुः ’ । औणादिकस्तुन्’ । केचित्तु ‘अतौ इति तुमुनोऽपि पर्युदासमिच्छन्ति 1 तन्मते ‘अभिभवितुम् ’ इत्यादिप्रयोगविरोधः । 1 "” अतौ’ इति तुशब्दस्यैव अयं पर्युदासः, न तिशब्दस्य, व्याख्यानात्" इति हरदत्तः । अत भूयाम’ इत्यादौ क्तिन्नन्तेऽयं स्वरो दृश्यते ॥ एव ‘प्रभूतौ [१३९] ॥ तवै चान्तस्य युगपत् ॥ (6-2–51) तवैप्रत्ययान्तस्य अन्त उदात्तः, तस्मिंश्च परतो गतिश्च प्रकृतिस्वरो भवति । उभयमेतत् युगपद्भवति । यद्यपि अत्र ‘उदात्तः’ इति नानुवर्तते ; तथापि तवैप्रत्ययस्य प्रकृत्या यः
- तुन्प्रत्ययान्तः ख.
सू. १४०] स्वरः सोऽन्तो
समासस्वरप्रकरणम् १९१ भवतीति व्याख्यानात् उदात्तलाभ: । ’ तस्मा॑दग्नि- चिन्नाभिचरितवै । ( अन्वेतवा उ ’ । ’ कृत्यार्थे तवै केन् इति तवैप्रत्ययः । युगपदग्रहणं ! युगपदग्रहणं पर्यायनिवृत्त्यर्थम् ॥ [१४०] || अनिगन्तोऽञ्चतावप्रत्यये ॥ (6-2-52) अश्रूयमाणः प्रत्ययः अप्रत्ययः किन्नादिः । तदन्तेऽञ्चतौ परे अनिगन्तो गतिः प्रकृतिस्वरो भवति’ अवनौ त उभौ बाहू’ परावयोः ’ आदिरुदात्तः । ’ प्राचौ किम् ? ’ प्रतीची च’ ’ पूर्वपदान्तोदात्तत्वम् । 6 .f । पराचो हि यन्ति’ । ’ उपसर्गाश्चाभिवर्जम् ’ इति वेद्यसौ’ । अनिगन्तः समीची नामासि’ । अत्र ‘चौ’ इति
यत्तु स्वरमञ्जर्याम् –’ यदन्वं धारयेत्’ प्र॒त्यवा॑वा॒वृ॒त्य॑ ’ इति प्रत्युदाहृतम्, तदयुक्तम् ; अन्तरङ्गत्वाद्य गादेशे अत्रापि अनिगन्तत्वेन + दोषतादवस्थ्यात् । अत एव यण्विषये ‘अनिगन्तस्वरनिवृत्तये वचनमेव’ आहतम् आकरे । गतिः किम् ? अ॒ध॒राक्तास्त्वा॒ दिश॑ः ’ । ’ प्र यः स॒त्राचा॑’ । ’ वि॒श्वाच च घृ॒ताची । ’ दे॒वाच्या॑ कृपा’ । अप्रत्यय इति किम् ? ’ तर्दस्य समनं । प्रत्युदाहृतिषु भसंज्ञाविषयेषु चुस्वरः, अन्यन्त्र कृत्स्वरः । ऋत्विग्दधृक्’ इत्यादिना अ: सुप्युपपदे किन् । ‘अनिदिताम् ’ इति नलोपः । ’ उगिदचाम्’ इति सर्वनामस्थाने नुम् 1 अन्यत्र भसंज्ञायाम् अचः इत्यकारलोपः । ‘चौ’ इति पूर्वपदस्य दीर्घः इत्यादिप्रक्रिया सर्वत्र यथायोगमुन्नेया । अथ कथं च '
- स्यात् घ. 2. उभावयोः घ.
- प्रतीचश्च क. ,
- अनिगन्तसत्त्वेन ङ.
- अनिगन्तप्रकृतिस्वरघ. 6. एव घ. नास्ति ।
ङ. १९२
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १४१ ‘सधिर्यश्र्चो धवध्वे ’ ’ अस्मद्रिय॑ग्वावृधे’’ ‘यद्रिय॑ज्वायुर्वात तद्रिये - ग्निर्दहति ’ इत्यादौ गतेरन्यत्रापि कृत्स्वराभावः ? उच्यते— ’ विष्वग्देवयोश्च टेरद्र्यचतावप्रत्यये’ इति अद्र्यादेश सध्योरन्तोदात्तत्ववचनात् कृत्स्वराभावः 1 तदुक्तम् –’ अद्रिसध्योरन्तोदात्तवचनं कृत्स्वरनिवृत्त्यर्थम्’ इति । एवं च अद्यादेशस्य तन्वादित्वात् इयङादेशः । स च आन्तर्यात् उदात्तः उदात्तादनुदात्तस्य इति ततः परस्य अकारस्य स्वरितत्वम् । केचित्तु अद्रिशब्देकारस्य उदात्तस्य यणादेशे तत: परस्य अकारस्य उदात्तस्वरितयोर्यण: ’ इति स्वरितत्वम् । इकारोपबन्धस्तु + छान्दस इत्याहु: । ’ ये परा॑चः ’ परा॑चीं वाचा’ इत्यादौ सतिशिष्टोऽपि चुस्वरो न भवति, किन्तु अयमेव स्वरः ; वचनबलादिति ‘चौ ’ विष्व॑मे॒व ’ ’ विपू॑ची प्रहरति ’ इत्यादौ इत्यत्र उक्तम् । व्यत्ययात् पूर्वपदप्रकृतिस्वर इति च ॥ 11 [ १४१ ] ॥ न्यधी च ॥ (6-2–53) ८ एतौ प्रकृतिस्वरौ अञ्चतौ अप्रत्यये । ’ यन्न्य॑तं॒ चिनुयात् ’ ‘येः’ । अत्र यणादेशे सति न क्वचित् अस्य स्वरस्य श्रवणम्, ‘नीचा’ इत्यादौ चुस्वरेणापीष्टसिद्धि:, तथापि उदात्तस्वरितयोर्यण:’ इति अञ्चत्यकारस्य स्वरितसिद्धिर्वचनफलम् । अध्यङ्’ । ‘अध्यचौ’ । अधिशब्दस्य निपातत्वादादिरुदात्तः । परस्य ‘उदात्तादनुदात्तस्य’ इति स्वरितत्वम् । ( अश्र्वत्यकारस्य ततः परस्य
- ‘अ॒स्मद्रिय॒क्समि॑िमीहि’। 1 घ. ङ.
- ‘सहस्य सभिः’ इत्यादि ङ.
- अद्रिशब्देकारस्य क. ङ. 4. इकाररूपोपजनस्तु घ. ङ. सू. १४१]
समासस्वर प्रकरणम् न च व्यवधानम् ; यणादेशे सति स्वरविधौ १९३ व्यञ्जनस्य अविद्यमानत्वात् । यत्तु परिमलकृता यत्तु परिमलकृता उक्तम् -’ उदात्तादनुदात्तस्य ’ इति अधेरन्त्यस्य स्वरितत्वे यणादेशे ’ उदात्तस्वरितयोर्यणः’ इति अश्र्वत्यकारस्य स्वरितत्वम् इति, तदसम्बद्धम् इति ‘उदात्तस्वरितयोर्यणः’ इत्यत्रैवोक्तम् । इत्यत्रैवोक्तम् । ‘अधीच: ’ इत्यादावपि सतिशिष्टं चुस्वरं बाधित्वा अयमेव स्वरो वचनबलात् ॥ अञ्चतिस्वरनिष्कर्षः पद्यैरेतैः प्रदर्श्यते’ । अनिगन्तः प्रकृत्या स्याद्गतिरप्रत्ययेऽचतौ ॥ प्रत्यङादौ यविषये प्रतिषिद्धमिदं बुधैः । न्यधी न्यधीचेति सूत्रादिगन्तौ प्रकृतिस्वरौ ॥ अत्रोभयत्र नैवेष्टः सतिशिष्टोऽपि चुस्वर: । शिष्टाद्गतेरन्यतश्च परस्मिन्नञ्चतौ सति ॥ कृत्स्वरः स्याद्भसंज्ञायां निमित्तं प्रत्ययो न चेत् । भसज्ञायां तु पूर्वान्तोदात्तत्वञ्चावतद्धिते ॥ बाधित्वा चुस्वरं चैनं विकल्पेन स्वगोचरे । अञ्चेश्छन्दस्य सर्वेति स्याद्विभक्तेरुदात्तता ॥ नलोपाभावविषये नगोश्वन्निति सूत्रतः नैषा निषेधाद्भवति विभक्तेरप्युदात्तता ॥ अन्तोदात्तावद्रिसधी सर्वत्रात्र च वार्त्तिकात् । विषुशब्दे व्यत्ययेन स्याद्वेदे प्रकृतिस्वरः ॥ ॥ इति अव्ययपूर्वपदप्रकृतिस्वरापवादः ॥
- प्रकथ्यते ङ.
- प्राकृतस्वरः _स्व13 क. ङ.
॥ अथ त्रिविधस्यापि कृत्स्वरस्य अपवादः ॥ [१४२] ॥ थाथघञ्क्ताजचित्रकाणाम् ॥ (6–2–144) गत्यादिभ्यः परेषामेतदन्तानां अन्त उदात्तः । थ - ’ एष वै द॑र्शपूर्णमा॒सयो॑रवभृ॒थः ’ । ‘अवे भृञः’ इति क्थनि ‘अवभृथः’ । ’ उद्गीथा उद्गीथ एव’ इत्यादिकं तु थक्प्रत्ययान्तः । तत्र कृत्स्वरस्य अस्य च न विशेषः । पूर्वत्र कृत्स्वरेण’ उत्तरपदमायुदात्तं स्यात् । अथ —— यदा॑वस॒थेऽन्न ँहर॑न्ति’ । ‘प्रवसथमे॒ष्यन् ’ । ’ उपसर्गे वसे: ’ तु व्यत्ययेन कृत्स्वरः । इत्यथप्रत्ययः ‘प्रागथैन’ इत्यत्र ’ यज्ञिय॑स्य॒ कर्म॑णः स ’ यज्ञिय॑स्य विदोह: ’ 1 घन् – ’ प्रमोद आनन्द:’ । क - ’ दूरादागतो ग्रामः’ । कर्मणि क्तः 1 तत्र आडो गतिसमासे ’ गन्तिरनन्तर:’ इति आगतशब्द आद्युदात्तः । ततः स्तोकान्तिकदूरार्थकृच्छ्राणि केन’ इति समासे ‘पञ्चम्याः स्तोकादिभ्यः इत्यलुकि कारकात् परस्य गतशब्दस्य आद्युदात्तता प्राप्ता ‘गतिकारक’ इति सूत्रेण । ‘विशुष्कः ’ । शुषेरकर्मकत्वात् कर्तरि क्तः । । ‘शुष्कघृष्टौ’ इत्याद्युदात्तः । ‘नस्योता नैनीयते’ ओतशब्दः आङ्पूवाद्वेञः क्ते निष्पन्नः गतिस्वरेण आद्युदात्तः 1 ततः सप्तमीसमासः । ’ पद्दन्’ इत्यादिना नासिकाशब्दस्य नसादेश: । ’ तत्पुरुषे कृति’ इत्यलुक् । यत्तु अत्र कृत्स्वर इति वेदभाष्यम्, तदपि थाथादिस्वर इत्येवम्परम् I यन्तु स्वरमञ्जर्यामुदाहृतम् – ‘पुनरुत्सृष्टः ’ ‘शिपिविष्ट आसदितः
इति, तच्चिन्त्यम् ; यथाक्रमम् ’ गतिरनन्तरः’ इति गतिस्वरेण ‘द्वितीया कर्मणि’ इति स्वरेण च अस्य स्वरस्य बाधात् । । अत एव ‘पुनरुत्सृष्टशब्दः प्रवृद्धादित्वात् अन्तोदात्तः । ’ संज्ञायामनाचितादीनाम् '
- कुत्स्वरे नित्स्वरेण आद्युदात्तं क. ङ. 2. ननु. क..
सू. १४३]
समासस्वरप्रकरणम् इत्यनेन अन्तोदात्तः शिपिविष्टशब्दः ’ इति मेवोक्तम् । अच्– ‘प्रत्ययः १९५ स्वरमञ्जर्या- ‘जयः ‘प्रजयः’ । एरच् । ‘क्षयो निवासे ’ करणम्’ इति क्षयजयशब्दौ आद्युदात्तौ । ‘विजयमु॑प॒यन्तेः’ इत्यादौ कृत्स्वरस्य अस्य च न विशेषः । अप् – ‘सवितुः ‘ह्नः प्रेसवे’ ‘विहवेष्वस्तु’ । आद्ये ‘ऋदोरप्’ इत्यप् । अन्यत्र सम्प्रसारण च न्यभ्युपविषु’ इति अप् सम्प्रसारणं च | निश्चयशब्दे तु नायं स्वरः ; ‘एरच्’ इत्यचैव स्वररूपयोः सिद्धौ ’ ग्रहवृदृनिश्रिगमश्च’ इत्यब्विधानसामर्थ्यात् । तेन कृत्स्वरेण मध्योदात्तो निश्चयशब्द इति ग्रहवृह इत्यत्र वृत्त्यादौ । इत्र – ’ तिरः पवित्रमतिनीतः ’ 1 ‘पुवः इति इत्रप्रत्ययः I यः प्रशित्रं प्राश्नाति इति । इगुपधलक्षणः कः । ‘प्रेत्य॑ विक्षिपः ’ ॥ ’ वृषादीनां च’ इत्याद्युदात्तो ॥ इति त्रिविधस्यापि कृत्स्वरस्य अपवादः ॥ ॥ अथ थाथादिस्वरापवादः || संज्ञायाम् ’ ’ प्रवृष : ’ । वृषः । ’ एत्य [१४३] ॥ सप्तमीसिद्धशुष्कपक्कबन्धेष्वकालात् ॥ (6-2-32) सिद्धादिषु उत्तरपदेषु’ अकालवाचिनो या सप्तमी तदन्तं पूर्वपदं प्रकृतिस्वरं स्यात् । ‘साङ्काश्यसिद्ध:’ । वुञ्छणादिसूत्रे ‘ऊकशुष्क : ’ । अवेः कप्रत्यये सङ्काशादिभ्यो ण्यो विहितः । ‘ऊकशुष्कः ’ ज्वरत्वर इत्यूठि ऊकशब्दः । ’ कुम्भीपक: ’ जाति- लक्षणङीषन्तः कुम्भीशब्दः 1 चक्रबन्धः ‘कृञः द्वे च’ । चक्र: । कालात्तु ‘पूर्वाह्णसिद्धः’ ॥
- उपपदेषु क.
१९६
स्वरसिद्धान्तचन्द्रिकायाम् [१४४ ] ॥ अहीने द्वितीया ॥ (6–2–47) [सू. १४४ । अहीनमत्यक्तम्, तद्वाचिनि समासे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं क्तान्ते उत्तरपदे । ‘अग्निरथैौष॑धीरन्त॑गता दहति ’ । ’ कष्टश्रित: ’ अमेस्तन्प्रत्ययेऽन्तशब्दः । कषेः क्तः ‘कष्ट: ’ । ’ कृच्छ्रगहनयोः कषः इति इडभावः । अहीने किम् ? ‘कान्तारातीतः ’ । कान्तारं त्यक्तवानित्यर्थः । ’ अहीने’ इत्यपनीय ‘द्वितीयानुपसर्गे इति वक्तव्यम् ’ इति वार्त्तिकम् । तेनेहापि नायं स्वरः, ‘सुखप्राप्तः’ इत्यादि ॥ [१४५] ॥ तृतीया कर्मणि ॥ ( 6–2–48) तृतीयान्तं प्रकृतिस्वरं भवति कर्मणि क्तान्ते उत्तरपदे । ’ वरु॑णगृहीतं॒ वा ए॒तत्’ । ’ नखनि॑िर्भिन्नम् ’ । ’ कृवृदारिभ्य उनन् ’ इत्युनन्नन्तो वरुणशब्दः । नास्य खमस्तीति ‘नखम्’ । नम्राण्णपात्’ इत्यत्र निपात्यते । ‘नन्सुभ्याम्’ इत्यन्तोदात्तः । कर्मणि किम् ? रथेन यातो ‘रथयातः ॥ [१४६] ॥ इत्थम्भूतेन कृतमिति च ।। (6–2–149) ॥ कश्चित् प्रकारं प्राप्त इत्थम्भूतः । तेन कृतमित्यर्थे यः समास: तत्र कान्तस्य अन्त ‘उन्मत्तप्रलपितम् ’ । ‘तृतीया ‘कृतम्’ इति क्रियासामान्ये तेन ‘सुप्तोत्पादितम् ’ इत्याद्येव पादेन उपहतं ‘पदोपहतम्’ । उदात्तः । ‘सुप्तप्रलपितम्’ । कर्मणि ’ इत्यस्य अपवाद: करोतिर्वर्तते, न तु अभूतप्रादुर्भावे । उदाहार्यमिति न शङ्कयम् पादस्य पदाज्यातिगोपहतेषु ’ इति पदादेशः । तस्य च आन्तर्यात् आद्युदात्तत्वं प्राप्तम् CC-0. Shri Vipin Kumar Coll Deoband. In Pubi Doriain पादशब्दस्य
सू. १४७ ] समासस्वरप्रकरणम् वृषादित्वेन आद्युदात्तत्वात् । अतस्तन्निवृत्तये १९७ पादस्य पदाजि ’ इति सूत्रे अन्तोदात्तः पदादेशो निपात्यत इति भाष्यादौ । तेन ’ पदोपहतम् ’ इत्यत्र तृतीया कर्मणि’ इति पूर्वपदस्य अन्त उदात्तः । तस्यैकादेशः ‘स्वरितो वानुदात्ते’ इति पक्षे स्वरितः । ’ पदाजि: ’ ’ पदातिः’ इत्यादौ तु कृत्स्वरेण निपातस्वरो बाध्यते ; निपात्यमानस्य उपदेशिवद्भावेन’ कृत्स्वरस्य ‘सतिशिष्टत्वात् ॥ [१४७ ] ॥ गतिरनन्तरः ॥ (6–2–49) 11 ।. ‘गतिः’ इति क्विजन्तः, न क्तिन्नन्तः । ’ तेन अनन्तरशब्दस्य पुंस्त्वम् । ‘न क्तिचि दीर्घश्च’ इत्यनुनासिकलोपनिषेधस्तु न ; निपातनात् इत्याहु: । कर्मणि क्तान्ते क्तान्ते उत्तरपदे अनन्तरो गतिः प्रकृत्या भवति । ‘‘क्रीतः सोम उपनद्धो मित्रः’ । ‘उप’ इत्ययमाद्युदात्तः ; ‘उपसर्गाश्राभिवर्जम्’ इत्युक्तेः । कर्मणीति किम् ? ‘प्रकृतः कटम् ’ । ‘आदिकर्मणि क्तः कर्तरि च’ इति कर्तरि क्त इति वृत्त्यादौ । यत्तु ‘उत्थिताय स्वाहा’ ‘विपृक्ताय स्वाहा’ इत्यादौ कर्तरि केऽपि गतिस्वरश्रवणम्, तत् व्यत्ययेन प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरेण वा बोध्यम् । अनन्तरः किम् ? ‘विद्युत् सूर्ये समाहिता’ । अत्र व्यवहितगतौ नैष स्वरः । ’ गतिर्गतौ इति निघातः परत्वादत्र बाधको भविष्यतीति चेत् — एवमपि पादादिस्थस्य गतेर्व्यावृत्त्यर्थमनन्तरग्रहणम् । तत्र हि न गतिनिघातः ; ’ गतिर्गतौ ’ इत्यत्र ‘अपादादौ ’ इत्यधिकारात् । अत एव ’ उप प्रेत जयंता नरः’ इत्यादौ न गतिनिघातः । न च क्तान्तपरकत्वाभावादेव
- -वचनेन ङ. 2. अनन्तरं इति पुंल्लिङ्ग- निर्देशात् क. ङ.
- प्रकृतिस्वरः क. ङ. व्यवहितगतौ नातिप्रसङ्ग इति
- ’ उद्गृहीताय स्वाहा 1 ’ विवृत्ताय स्वाहा’ । उद्वी आयु- दात्तौ । उपसर्गाश्च घ.
१९८ Digitized by Madhuban Trust Delhi स्वरसिद्धान्तचन्द्रिकायाम् [सू. १४० वाच्यम् ; ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति परिभाषय व्यवहितगतेरपि क्तान्तपरकत्वात् । व्यवहितनिवृत्त्यर्थं क्रियमाणमिदमनन्तरग्रहणमेव एकदेशद्वारा परिभाषायामस्यां ज्ञापकम् । न चैवं कृतेऽप्यनन्तरग्रहणे उक्तपरिभाषयैत्र गतिव्यवहितगतौ दोषतादवस्थ्यमिति वाच्यम् ; अनन्तरग्रहणसामर्थ्यात् धात्वानन्तर्यस्यैव अत्राश्रयणात् । उक्तपरिभाषाफलं तु ‘नखनिर्भिन्नम्’ इत्यादी ’ तृतीया कर्मणि’ इत्यादिस्वरसिद्धिः ||
स्यादेतत् – ‘विद्युत् सूर्ये समाहिता’ इत्यादौ कथमाङः स्वरः ? थाथादिस्वरौचित्यात् । न च तमपि बाधित्वा गतिस्त्रर इति युक्तम् ; आङा हितशब्दस्य समासे तं बाधित्वा गतिस्वरप्रवृत्तावपि समा आहितशब्दस्य समासे थाथादिस्वरस्यैव प्रसङ्गात् । न च पुनराङ गतिस्वरः प्रवर्त्यः ; द्वितीयसमासे तस्य अपूर्व पदत्वात् । तस्मात् ’ समाहिता’ इत्यादौ थाथादिस्वरबाधनाय अनन्तरग्रहणम् अपूर्वस्य’ गतेरनन्तरस्य प्रकृतिभावविध्यर्थं व्याख्येयम् । न चैवम् ‘दूरादागतो प्राम: ’ इत्यादौ कारकपूर्वेऽप्यपूर्वपदे गतौ गतिस्वरः थाथादिस्वरं बाधेतेति वाच्यम् ; अनेकगतिसन्निधावेव अपूर्वपदस्य गतेः स्वरप्राप्त्यर्थम् अनन्तरग्रहणमिति व्याख्यानात् । तदेवमन्यार्थं क्रियमाणमनन्तरग्रहणं कथं उक्तपरिभाषाज्ञापकमिति । अत्रोक्तम् आकरे —’ कारकाद्दत्तश्रुतयो:’ इत्यत्र ’ कारकात्’ इति योगो विभज्यते । गतिग्रहणं तग्रहणं च तत्र अनुवर्तते । तदयमर्थः – कारकात् परं सगतिकं तान्तमन्तोदात्तमिति । थाथादिस्वरेणैव सिद्धे नियमार्थमिदम्’कारकात् परमेव सगतिकं क्तान्तमन्तोदात्तं भवति’ न गतेः परमिति । तेन समाहितादौ थाथादिस्वराभावे कृत्स्वरेण सिद्धमाङादेरुदात्तत्वम् ।
- गतिङ. नास्ति । 2. अपूर्वपदस्यापि गतेः घ,
- थाथादिसूत्रेणैव घ.
- कारकात् परमेव क्तान्तं ङ.
सगतिकमन्तोदात्तं न गतेः परमिति समाहिता घ. 990 5. भवति ङ. नास्ति ।
सू. १५०]
समासस्वरप्रकरणम्. १९९ दूरादागतादौ तु थाथादिम्वर एव । एवं च अनन्तरग्रहणं पूर्वोक्तरीत्या व्यवहितगतिनिवृत्त्यर्थं सत् उक्तपरिभाषाज्ञापकमेवेति’ दिक् ॥ क्तान्ते [१४८] ॥ क्ते नित्यार्थे ॥ ( 6–2–61) 1 परतः पूर्वपदं प्रकृतिस्वरं नित्यार्थे समासे नित्यमाभीक्ष्ण्यम् । नित्यं प्रहसित: ‘नित्यप्रहसितः’ । कर्मणि द्वितीया ; अकर्मक धातुभिर्योगे’ इति कालस्य कर्मत्वात् ‘काला:’ इति द्वितीयासमासः । त्यब्नेर्ध्रुवे’ इति त्यबन्तो निराशब्दः । नित्यार्थे किम् ? ‘मुहूर्त प्रहसितः’ ॥ [१४९] ॥ सूपमानात् क्तः ॥ (6–2–145) 1 सोः उपमानवाचिनश्च परं क्तान्तमन्तोदात्तम् । ‘सूक्तं च॑ मे सुकृतं च मे’ । वृकैरिव अवलुप्तम् ‘वृकावलुप्तम्’ । कर्मणि क्तः । कर्तृकरणे कृता’ इति समासः 1 गतेरित्येव । ’ सुप्रीत सुभृ॑तमकर्म ’ । अत्र ‘सुः पूजायाम्’ इति सुः कर्मप्रवचनीयः, न गति: । ‘स्वती पूजायाम्’ इति समासः । अव्ययपूर्वपदइति सोः प्रकृतिस्वरः प्रकृतिस्वरः । यत्तु अत्र ’ गतिरनन्तर: ’ इति वेदभाष्यम्, तच्चिन्त्यम् ; उपमानांशे इत्यस्य अपवादः सुशब्दाद्गतिस्वरस्य । व्यत्ययेन गतिस्वरः ॥ C तृतीया कर्मणि ’ ’ सोम सुषुतम्’ इत्यत्र तु [१५०] ॥ संज्ञायामनाचितादीनाम् ॥ (6-2-146) गत्यादेः परस्य कान्तस्य अन्त उदात्त: संज्ञायाम्, न तु आचितादीनाम् । ’ तद्विष्णुः शिपिविष्टः ’ । शिपयो रश्मयः, तैर्विष्टः,
- -भाषां ज्ञापयत्येवेति । क.
२०० स्व सिद्धान्तचद्रिका, Delhi [सू. १५१ उन्नत ऋषभः अग्न्यादिनाम’ इत्याहु: । ‘परिवित्तो वीरहा ’ इत्यादौ तु कृत्स्वरेणापि इष्टसिद्धिः । आचितादौ तु न’ । ‘आचितम् ’ " ‘ आस्थापितम् ’ इत्यादि । ‘ यवाचि॒तम॑च्छावा॒काय॑ ’ इत्यत्र वेदभाष्यम् — यवा अस्मिन्नाचीयन्ते, यवैर्वा आचितं यवाचितं शकटमुच्यते । ’ संज्ञायामनाचितादीनाम्’ इत्यन्तोदात्तत्वं व्यत्ययेनेति ॥ 2 ‘संहिता गवि’ इति गणसूत्रम् । संहिताशब्दो यदा गोः संज्ञा तदा अन्तोदात्तः । अन्यस्य संज्ञा चेन्न अन्तोदात्तः । स॒दि॒तानि॑ विश्वरूपीः ’ । अग्रमपि ’ तृतीया कर्मणि गतिस्वरस्य च अपवादः ॥ [१५१] ॥ कारकाद्दत्तश्रुतयोरेवाशिषि ॥ (6-2-148) , इत्यस्य कारकात् परयोर्दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्त आशिषि संज्ञायाम् । देवा एनं देयासुः इति प्रार्थितै देवैर्दत्तः ‘देवदत्तः ’ । विष्णुरेनं श्रूयात् ‘विष्णुश्रुत:’ । ‘आशिषि लिङ्लोटौ ’ । ’ क्तिच्क्तौ च संज्ञायाम् ’ इति ते ‘दोदद्धो:’ । पूर्वेण प्राप्ते नियमः । तेन ‘देवपालितः ’ इत्यादौ ’ तृतीया कर्मणि’ इत्येव स्वर: 1 इष्टतोऽवधारणार्थ एवकारः । अत्र च दत्तश्रुतयोराशिष्येव ’ इति नियम आश्रीयते सूत्रावृत्त्यादिना । तेन ‘नानाहितं नदति देवदत्तः’ इत्यादौ अन्तोदात्तत्वम् । देवदत्तोऽत्र धनञ्जयशङ्खः । अत्र आशीरभावात् ‘तृतीया कर्मणि’ इत्येव स्वरः । तदुक्तम् — सिद्धं तूभयनियमात् इति ॥
- अग्न्यादीनाम् एकतमः ङ.
- इदं वाक्यं ख नास्ति । ●
सू. १५३]
समासस्वरप्रकरणम् | [१५२] ॥ प्रवृद्धादीनां च ॥ (6–2–147) ॥ २० एषां सम्बन्धिनः क्तान्तस्य अन्त उदात्तः । ’ प्रवृद्धं यानम् ‘प्रयुक्ताः सक्तवः’ इत्यादि । ’ कविशस्त:’ इत्यादौ’ कविभिः शस्तः कविशस्तः । असंज्ञार्थं सूत्रम् । आकृतिगणोऽयम् । तेन ‘घृतानु- षिक्ताम्’ ‘पुनर्निष्कृतो रथेः ’ इत्यादि सिद्धम् । अयमपि ‘तृतीया कर्मणि’ इत्यस्य गतिस्वरस्य च अपवादः ॥ , ॥ इति थाथादिस्वरापवादः ॥ ॥ अथ कृत्स्वरस्यैव ं अपवादः ॥ [१५३ ] ॥ अनो भावकर्मवचनः ॥ (6–2–150) कारकात् परस्य भावकर्मवचनस्य अनान्तस्य अन्त उदात्तः । ‘ओदनभोजनम् ’ । ‘कर्मणि च येन संस्पर्शात ’ इति कर्मण्युपपदे भावे ल्युट् । उपपदसमासः । राजभोजनाः । ‘प्रातरसवनस्य॑ गायत्रछेन्दसः ’ । प्रातः सूयत इति प्रातस्सवनः सोमः बाहुलकात् कर्मणि ल्युट् । ‘अ॒ग्नेस्त॑षा॒धान॑ वा॒यव॑त॒पान॑म् ’ । ’ शलाको - पधानरज्जवस्तूषाः । तंत्र तन्तूनामानं पुणं तूषाधानम् । सेचनानि पाययित्वा वातेन पानं शोषण व पानम् । उभयत्र’ व्यत्ययेन’ कृत्स्वरः ’ इति वेदभाष्यम् । अनः किम् ? ’ तस्मा॑द॒नो वाह्य॑म् ’ । भावकर्मवचनः किम् ? ’ तद॑स्य समञ्चनं च’
- इत्याह घ. सकसमार्जनानि’ । कारकात् किम् ?
- उभयत्रात्र घ.
- एवं घ. 1. i
- व्यत्ययेन घ. नास्ति । । स्व-26
२०२ Digitized by Madhuban Tr elhi [सू. १५४ स्वरसिद्धान्तचन्द्रिकाय pिhi [१५४] ॥ मक्तिन्व्याख्यानशयनासनस्थानयाजकादि- । क्रीताः ॥ (6-2-151 ) कारकात् परेषां मन्नन्तादीनामन्त उदात्तः । वृतेरधिकरणे मनिन् । कर्तरि षष्ठ्या 1 ’ रथवर्मा ’ समासः । क्तिन्—’ पाणिनि- ‘धिये पूषन् ’ । वाजः अनं सद्यते जनसन’ इति आत्वम् । अत्र कृति:’ । ’ वाज॑सातये ’ लभ्यतेऽस्याम् इत्यधिकरणे क्तिन् । 6 , दासीभारादित्वात् पूर्वपदप्रकृतिखर इति वेदभाष्यम् । ‘छन्दोव्याख्यानम्’ । ‘अधिकरणे ल्युट् । ‘राजशयनम्’ । ‘द्विजासनम् ’ । गोस्थानम्’ । ‘रा॒च्छ॒ ग॒स्थान॑म्’ इत्यत्र तु ‘परादिश्छन्दसि बहुलम् ’ इति स्वर इति वेदभाष्यम् | शयनादौ अधिकरणे ल्युट् । ‘द्विजयाजकः ’ । ‘द्विजपूजक:’ । ’ याजकादिभिश्व’ इति षष्ठीसमासः । त एवेह गृह्यन्ते । ‘गोक्रीतः ’ । इह ‘तृतीया कर्मणि’ इत्येतत् प्राप्तम् । कारकात् किम् ? ’ प्रभूतौ भूयामं ते ’ इत्यादौ ’ तादौ च निति ’ इति पूर्वपदप्रकृतिस्वरः । एतेन ’ अग्ने जनामि सुष्टुतिम् ’ ‘सुक्षिति:’ इत्यादौ चिन्त्यम् ; अत्र < मन्क्तिन्’ इत्यन्तोदात्तत्वम् इति वेदभाष्यम् ‘कारकात्’ इत्यनुवृत्तेः । अत एव “ स्याम ते सुमतावपि’ इत्यत्र क्तिचि कृत्स्वरः, क्विनि ’ तादौ च’ इति बाधित्वा व्यत्ययेन वा कृत्स्वरः ’ इति वेदभाष्य एव स्थितम् ॥ ’ अन्तः [१५५] ॥ आदिरुदात्तः ॥ (6–2–64) इत्यतः प्राक् आद्यधिकारः । उदात्ताधिकारस्तु’ आ पादपरिसमाप्तेः ॥
- करणे घ. ङ.
- उदात्ताधिकारस्तु घ नास्ति |
सू. १५९]
11 समासस्वरप्रकरणम् [१५६ ] || अके जीविकार्थे ॥ (6–2–73) २०३ जीविकारूपे अकान्ते उत्तरपदे पूर्वपदस्य आदिरुदात्तः समासप्रवृत्तिनिमित्ते । ’ दन्तलेखकः " । ’ नित्यं क्रीडाजीविकयोः ’ इति षष्ठीसमासः । अक्रे किम् ? ’ चारुकर्ता’ । जीविकार्थे किम् ? इक्षुभक्षिकां मे धारयति । ’ पर्यायाहर्ण ’ इति ण्वुच् ॥ [१५७] ॥ प्राचां क्रीडायाम् ॥ (6–2–74) प्राग्देशवर्तिनी या क्रीडा तद्वाचिनि समासे पूर्वपदस्य आदिः उदात्तः अकान्ते उत्तरपदे 1 उद्दालकपुष्पभञ्जिका’ पुष्पान्तात् कर्मणि षष्ठी । ‘नित्यं क्रीडा ’ ’ संज्ञायाम्’ इति ण्वुल् ॥ ॥ इति समासः । [१५८] ॥ अणि नियुक्ते ॥ (6–2–75) 11 नियुक्तोऽधिकृतः । तद्वाचिनि समासे पूर्वपदस्य आदिरुदात्तः अणन्ते उत्तरपदे । ’ तूणीधार:’ । ‘कर्मण्यण् ’ ॥ [१५९ ] ॥ संज्ञायां च ॥ ( 6–2–77) अकृञो योऽण् तदन्ते उत्तरपदे संज्ञायाम् । पूर्वपदस्य आदिरुदात्तः ? ‘वालवायो नाम गिरिः’ । अकृनः किम् 1 ‘रथकारो नाम ब्राह्मण:’ इति वृत्तौ ॥
- दन्तलेखनेन जीविका यस्य घ. अधिकम् ।
५ २०४
[सू. १६० स्वरसिद्धान्तचन्द्रिकायाम् || [१६० ] ॥ णिनि ॥ (6–2–79) णिन्यन्ते उत्तरपदे पूर्वपदस्य आदिरुदात्तः । ‘फलहारी ब्रह्म दिनों वदन्ति’ इत्यादौ उत्तरपदान्तोदात्तत्वं व्यत्ययात् ( ’ । अत एव ब्रह्मचार्यसि’ इत्यादौ प्रवृद्धादित्वात् अन्तोदात्तत्वम्, बहुलग्रहणात् इत्यपरे इति ‘बहुव्रीहौ प्रकृत्या’ इत्यत्र हरदत्तः । ‘ऊर्ध्वम॑न्थिनो ब॑भूवुः’ इत्यत्र वेदभाष्यम् - ऊर्ध्वं मनन्ति इति ऊर्ध्वमन्थिनः, ऊर्ध्वरेतसः । ‘णिनि’ इति पूर्वपदप्रकृतिस्वरः । विभक्त्युदात्तत्वं तु च्छान्दसम् - इति ॥ [१६१ ] ॥ उपमानं शब्दार्थप्रकृतावेव ॥ ( 6–2–80) उपमानवाचिनः पूर्वपदस्य आदिरुदात्तः शब्दन क्रियार्थो धातुर्यस्य प्रकृतिस्तस्मिन्नेव णिन्यन्ते उत्तरपदे । उष्ट्र इव क्रोशति उष्ट्रकोशी’ । ‘कर्तर्युपमाने’ इति णिनिः । पूर्वेण प्राप्तौ नियमात् इह न । ‘प्रष्टिवाही रर्थः ’ । ’ त्रिपादाधारविशेष: प्रष्टिः । तद्वाही अश्वत्रययुक्तो रथ:’ इति वेदभाष्यम् । प्रकृतिग्रहणं यत्र प्रकृतिरेव उपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात्, यत्र धातूपसर्गसमुदायस्य शब्दार्थकत्वं तत्र मा भूदिति । तेन ‘कोकिलव्याहारी’ इत्यादावपि कृत्स्वर एव 1 एवकार इष्टतोऽवधारणार्थः ॥ . [ १६२ ] ॥ दीर्घकाशकुशभ्राष्ट्रवटं जे ॥ (6-2–82) दीर्घान्तस्य काशादीनां च आदिरुदात्तो जशब्दे उत्तरपदे । ‘कुटीज: ’ ‘काशेज:’ इत्यादि । ‘सप्तम्यां जनेर्ड: ’ । दीर्घादि इति किम् ? ‘अप्सुजो वैतसः’ । अब्जा गोजाः’ इत्यादौ तु न
1 सू. १६३]
समासस्वरप्रकरणम् २०५ जशब्द उत्तरपदम्, किन्तु ’ जनसनखनक्रमगमो विद्’ ‘विडूनोः ’ इत्यात्वे ‘जा’ इत्याकारान्तम् ॥ [१६३] || अन्त्यात् पूर्वं बह्वचः ।। (6–2–83) ‘मन्दुरज: ’ . बह्वचः पूर्वपदस्य अन्त्यात् पूर्वम् उदात्तं जशब्दे उत्तरपदे । 1 ’ वाजिशाला तु मन्दुरा’ । ’ ङयापोः’ इति ह्रस्वः 1 ’ आमलकीज:’ इत्यादौ दीर्घकाश’ इत्यतः परत्वात् अनेन अन्त्यात् पूर्वं उदात्तः । ‘कर्मण्यण् ’ इत्यत्र वार्त्तिके- ॥ शीलिकामिभियाचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ईक्षिक्षमिभ्यां च || । इति । अणि प्रकृते णविधिर्डीबभावाय । कृत्स्वरापवादः पूर्वपदप्रकृतिस्वरविधिः । ’ मांसशीला’ | ‘पुत्रकामा ’ । ‘इन्द्रियकामो वीर्यकामः ’ 1 ‘इन्द्रियमिन्द्रलिङ्गम् ’ इत्यत्र घप्रत्ययान्तोऽन्तोदात्त इन्द्रियशब्दो निपातितः 1 वीर्यशब्दो यदन्तः तित्स्वरितः 1 ‘प्र॒जाप॒शुमो वा’ इत्यत्र व्यत्ययादाद्युदात्तत्वम् । अदेवताद्वन्द्वत्वान्न पदद्वयप्रकृतिस्वर इति वेदभाष्यम् । ‘मांस भिक्षा’ । कल्याणा- । ‘सुखप्रतीक्षा’ । बहुक्षमा’’ ॥ चारा ’ ।। इति कृत्स्वरस्यैव अपवादः ||
- अधिकक्षामा घ.
॥ अथ औणादिककृत्स्वरापवादः ॥ [१६४] ॥ समाने ख्यः स चोदात्तः ॥ (उ) 11 समानशब्दे उपपदे ख्याधातोरिण्प्रत्ययः, यलोपश्च । समानस्य सादेशः, स डिच, च त चोदात्तः । डित्वात् आकारलोपः । ’ सखा सखिभ्यः ’ ॥ [१६५ ] ॥ आङि श्रिहनिभ्यां हस्वश्च ॥ (उ) इण् स्यात्, स च डित्, आङ ह्रस्वश्च । इत्यनुवृत्तेरानुदात्त इति स्वरमञ्जर्याम् । ‘अहिरसि ‘उदात्तः ’ बुनिर्यः ’ इत्यत्र वेदभाष्येऽपि एवमाश्रितः । ‘अहि:’ । ’ अग्निष्ठाश्रिस्संमिता’ । ‘अर्हिरिव भोगैः ’ ॥ [१६६ ] ॥ गतिकरकोपपदयोः पूर्वपदप्रकृति- स्वरत्वं च ॥ (उ) मिथुनेऽसि: पूर्ववच्च सर्वम्’ इत्यसिप्रत्ययप्रकरणस्थमिदं सूत्रम् । असिप्रत्ययान्ते परतः गतिकारकयोः प्रकृतिस्वरः कृत्स्वर - बाधनाय विधीयते । ‘विश्वो॒ विहा॑या अर॒तिः ’ । ’ शोणा धृष्णू नृ॒वाह॑सा’ । ’ वि॒श्वधा॑या असि पर॒मे’ । ‘जा॒तवे॑दा मर्जय॑न्त्या पुनातु’ । ‘मिथुनेऽसि:’ इति असिप्रत्ययान्तो विहायश्शब्दः । इदं च सूत्रं सिद्धान्तकौमुद्यादौ इत्थं व्याख्यातम् – उपसर्गविशिष्टो
। सू. १६७ ]
समासस्वरप्रकरणम् २०७ धातुर्मिथुनम् । तत्र असुनोऽपवादोऽसिप्रत्ययः स्वरार्थः ’ । ‘पूर्ववत् ’ पूर्वप्रकृतासुनन्विषये यद्यत् कार्यम्, तत्सर्वमतिदिश्यते इत्यादिना असिप्रत्यये । पूर्वत्र ’ वहिहाधाञ्भ्यश्छन्दसि ’ इत्यसुविधौ हाधातोरसुन्प्रत्ययस्य णित्वं विहितमिति तस्य इह अतिदेशात् ’ आतो युक्’ इति युकि ‘विहाया:’ इति रूपम् । नृवाहसा ८ जातवेदाः’ इत्यसुन्नन्ताः । अत्र कारकाणां प्रकृति- । C ‘विश्वधायाः ’ स्वरः । वहेर्धानश्च असुनो णित्वात् उपधावृद्धिर्युगागमश्च । यद्यपि विश्वशब्दः कन्नन्त आद्युदात्तः, तथापि पूर्वपदप्रकृतिस्वरवचनं बहुव्रीहिस्वरोपलक्षणार्थम् । तेन बहुव्रीहौ विश्व संज्ञायाम् ’ इति विश्वशब्दस्य अन्त उदात्त इति वेदभाष्यकृतः । स्वरमञ्जरीकारस्तु ‘मिथुनेऽसिः पूर्ववच्च सर्वम् गतिकारकयोः पूर्वपदप्रकृतिस्वरत्वं च’ इति सूत्रद्वयमेकीकृत्य पठित्वा ‘सर्वधातुभ्यो गतिकारकयोरुपपदयोः मिथुने स्त्रीपुंसयोरसिप्रत्ययः पूर्वपदप्रकृतिस्वरत्वं च’ इति व्याख्याय ’ पावकव॑र्चा: ’ ’ विश्वो विहाया अरति:’ इत्याद्युदाजहार ॥ [ १६७ ] ॥ गौः सादसादिसारथिषु ॥ (6—2—41) एषु परतो गौः प्रकृत्या भवति । ‘गोसाद:’ । घयन्तेन षष्ठीसमासः । सदेर्ण्यन्तात् कर्मण्यण वा । ‘गोसादी’ । णिनिः । ‘गोसारथिः ’ । आद्ययोः कृत्स्वरस्य अपवादः अन्त्ये समास- , स्वरस्य, इति हरदत्तः । गौरिव सीदति गोसादी इत्यत्र पूर्वपदप्रकृतिस्वरार्थं सादिग्रहणम् । अन्यत्र ‘णिनि’ इति पूर्वपदाशुदात्तत्वेन इष्टसिद्धि: 1 उक्तस्थले तु न तेनेष्टसिद्धिः ;
- असिः स्वरार्थः ङ.
- पूर्वप्रक्रान्तासुन्प्रत्ययविषये घ ङ.
२०८
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १६८ ‘उपमानं शब्दार्थप्रकृतावेव’ इति नियमात् । ’ राजसूयसूर्य’ इति सूत्रे कृष्टपच्यशब्दः कर्मकर्तरि बिन्तो ऽन्तोदात्तो निपातितः तत्र कृत्स्वरेण धातोरुदात्तत्वे प्राप्ते इदम् अन्तोदात्तनिपातनम् । कृष्ठे स्वयमेव पच्यन्ते कृष्टपच्याः । ’ कृष्टपच्यं च मेऽकृष्टपच्यं चं’ । ’ कृत्योकेष्णुच्’ इति अकृष्टपच्येऽन्त उदात्तः । एवं च वेदभाष्ये—’ तस्मा॑दकृष्टपच्या -’ तस्मादकृष्टपच्या ओष॑धयः पच्यन्ते’ इत्यत्र पच्याः’ इति बहुव्रीहि: ’ 1 नञ्सुभ्याम्’ इत्यन्त उदात्तः, तत्पुरुषत्वे व्यत्ययेन न अव्ययपूर्वपदप्रकृतिस्वरः इति किमर्थमुक्तम् इति चिन्त्यम् ॥ ॥ इति औणादिककृत्स्वरापवादः ॥ अकृष्ट- ॥ अथ चत्वारो योगा अव्ययस्वरस्य कृत्स्वरस्य वा अपवादाः || ‘प्रत्यंशुः ’ [१६८ ] ॥ प्रतेरंश्वादयस्तत्पुरुषे ॥ (6-2-193) प्रतेः परेषामंश्वादीनामन्त उदात्तः तत्पुरुषे । प्रतिगतोंऽशुः प्रतिराजा’ । इह राजन् शब्दपाठः समासान्तस्य अनित्यत्वे लिङ्गम् ; अन्यथा ‘राजाह:’ इति टचश्विस्वेनैव अन्तोदात्तत्वसिद्धौ तद्वैयर्थ्यात् ॥ ‘अश्वादयोंऽशुराजोष्ट्रखे टकाजिरकृत्तिकाः । आर्द्राश्रवणमर्धश्च पुरमित्युदिता दश ॥ '
- निपात्यते ङ.
सू. १७१]
समासस्वरप्रकरणम् २०९ [ १६९ ] ॥ उपाद्द्यजजिनमगौरादयः ॥ (6-2–194) उपात् परस्य द्व्यचः अजिनस्य च अन्त उदात्तः गौरादीन् विना ’ उपगतो देवम्’ ’ उपदेवः ’ । ’ उपाशुहुत्वा’ । ८ यदु॑पा॒शुः ’ । ’ उपाजिनः ॥ गौरस्तैषो’ लेटलौटौ जिह्वा कृष्णगुडस्तथा । कन्या कल्पः पाद इति दश गौरादयः स्मृताः ॥’ [ १७० ] ॥ सोरपक्षेपणे’ ॥ ( 6–2–195) [200] 11 सोः परस्य अन्त उदात्तो निन्दायाम् । इह खलु इदानीं सुस्थण्डिले सुस्थण्डिले सुस्फिगाभ्यां ‘सुप्रत्यवसित: ’ 1 ‘स्वती पूजायाम्’ इति कर्मप्रवचनीयस्य सोः समासः । तेन । तेन सुप्रत्य- अनर्थे उपस्थिते सुखाय- वसिते थाथादिस्वरेण नेष्टसिद्धिः । यस्तु मान आस्ते, तं प्रति इयमुक्तिरिति क्षेपो गम्यते ॥ [ १७१ ] ॥ विभाषोत्पुच्छे || (6–2–196) [202] 11 अस्य वा अन्त उदात्तः । उत्क्रान्तः पुच्छात् ‘उत्पुच्छ: ’ । अव्ययस्वरेण बाधात् अप्राप्तम् अन्तोदात्तत्वम् अत्र विकल्प्यते । पुच्छमुदस्यति उत्पुच्छयते । ततः पचाद्यच् । उत्पुच्छ: ’ इत्यत्र तु थाथादिस्वरेण नित्यं अन्तोदात्तत्वं विकल्प्यत इति उभयत्र विभाषेयम् इत्याहुः ॥ ॥ इत्यव्ययपूर्वपदप्रकृतिस्वरकृत्स्वरयोरपवादः ॥
- देशम् उपदेशः घ.
- अवक्षेपणे घ.
- -तौषः ङ.
- निरूपणम् घ. स्व-14
रु.
॥ अथ समासस्वरस्यैव अपवादः ॥ [ १७२ ] ॥ वर्णो वर्णेष्वनेते ॥ (6–2–3) एतभिन्नवर्णवाचिनि उत्तरपदे वर्णवाची प्रकृत्या स्यात् । अरुणब॑ञ्जः ’ । ’ धूम्रलोहितः , अर्तेश्चिच्च’ इत्युनन्नन्तश्चित्स्वरेण अन्तोदात्तः अरुणशब्दः । धूम्रशब्द: फिट्स्वरेण । अनेते इति किम् ? ‘कृष्णैताय स्वाहा’ । एतः शबलः ॥ [ १७३ ] ॥ गाधलवणयोः प्रमाणे ॥ ( 6–2–4 ) अनयो:’ पूर्वपदं प्रकृतिस्वरं भवति इयत्तापरिच्छेदवाचिनि जलम् ’ तत्प्रमाणम् तत्पुरुषे 1 ‘शम्बगाधं शमेर्बन्’ । शम्बः । इत्यर्थः । आद्युदात्तः । ‘गोलवणम्’ । यावद्भवे दीयते तावदित्यर्थः । षष्ठी तत्पुरुषावेतौ ॥ ॥ [ १७४ ] || दायाद्यं दायादे || (6–2–5) दातव्यं दायः । तमादत्ते दायादः । मूलविभुजादित्वात् कः । तस्य भावः दायाद्यम् । इह लक्षणया दाय एवोच्यते । तद्वाचि पूर्वपदं दायादशब्दे परे प्रकृतिस्वरं प्रकृतिस्वरं भवति’ । धनदायादः ’ । ‘नब्विषयस्य’ इति धनशब्द आद्युदात्तः । दायाद’ इति तत्पुरुषः ॥
- परतः ङ. अधिकम्
- भवति ङ. नास्ति । ‘स्वामीश्वराधिपति- 3 षठ्या न समास: षष्ठ्या तत्पुरुषः '
घ. रु. सू. १७८]
समासस्वरप्रकरणम् [ १७५ ] ॥ प्रतिबन्धि चिरकृच्छ्रयोः ।। (6–2–6) २११ कार्यसिद्धिमवश्यं प्रतिबनातीति प्रतिबन्धी । आवश्यके णिनिः । तद्वाचि प्रकृतिस्वरं भवति चिरकुच्छ्रयोः परतः । ‘गमनचिरम् ’ । ‘गमनकृच्छ्रम् ’ । चिरकृच्छ्रशब्दौ कालविशेषदुःखयोर्वाचकौ अत्र लक्षणया तद्युक्ते गमने वर्तेते इति विशेषणसमासे मयूरव्यंसकादित्वात् विशेष्यस्य पूर्वनिपातः । गमनं हि चिरकालभावि कृच्छ्रयोगि वा सत् कार्यसिद्धेः प्रतिबन्धकं भवति ॥ अपदेशो [PUG] 1 [ १७६ ] ॥ पदेऽपदेशे ॥ (6-2–7) व्याजः । तद्वाचिनि पदशब्दे परे पूर्वपदं प्रकृतिस्वरम् । ’ मूत्रपदेन प्रस्थितः मूत्रशब्दः आद्युदात्तः ; ‘सिविमुच्योष्टेरू च’ इति ष्ट्रनन्तत्वात् । समासः प्राग्वत् ॥ || [ १७७ ] ॥ निवाते वातत्राणे ॥ ( 6–2–8) [200] 11 वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं निवातशब्दे परे । निवातो वाताभावः 1 ‘कुटीनिवातम्’ । कुटीहेतुके निवाते तत्र कुटीशब्द इति समानाधिकरणसमासः । कुटीशब्दो गौरादिङीषन्तः 1 वातत्राणे किम् ? ‘राजनिवाते सुखं वसति’ । निवातशब्दोऽत्र पार्श्वे रूढः । षष्ठीसमासः ॥ [ १७८ ] ॥ शारदेऽनार्तवे ॥ (6–2–9) [POC] ऋतौ भवमार्तवम्, तदन्यवाचिनि शारदशब्दे परे पूर्वपदं प्रकृतिस्वरमृ!’ रज्जुशारदं जलम् | शारदशब्दः प्रत्यप्रवाची ।
6 २१२
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १७९ रज्जूद्धृते रज्जुशब्दः । ततः कर्मधारयोऽस्वपदविग्रहः । सद्यो रज्जूद्धृतम् अनुपहतं जलम् इत्यर्थ: । ’ सृजेरसुम् च’ इति उप्रत्यये रज्जुशब्दः । रज्जुशब्दः । तत्र ‘नित्’ इत्यनुवृत्तेराद्युदात्तः ॥ [ १७९ ] ॥ अध्वर्युकषाययोर्जातौ ॥ (6-2-10) अनयोः परतः पूर्वपदं प्रकृतिस्त्ररं जातिवाचिनि तत्पुरुषे । ‘प्राच्याध्वर्युः’ ! ‘माषपुष्पकषायः ’ ’ । ‘प्राच्यशब्दो यदन्तः । कर्मधारयः समानाधिकरणसमासः चरणविशेषनियत: 6 अन्यः षष्ठीतत्पुरुषः । माषपुष्पशब्दः समासस्य ’ इत्यन्तोदात्तः । इमौ समासौ जातिवचनौ । जाताविति किम् ? ‘परमाध्वर्युः ’ । परमकषायः ’ ॥ [ १८० ] ॥ सदृशप्रतिरूपयोः सादृश्ये ॥ (6-2-11) [860] 11 प्रकृतिस्वरेण अनयो: परतः पूर्वपदं प्रकृतिस्वरं सादृश्यार्थकतत्पुरुषे । ‘वृषल्याः सदृश:’ । ’ तुल्यार्थैरतुलोपमाभ्याम्’ इति षष्ठी । ’ षष्टी ’ इति समासः । ’ षष्ठ्या आक्रोशे’ इत्यलुक् । ‘पितृसदृश’ इति नोदाहृतम्, पूर्वसदृश’ इति तृतीयासमासे तृतीया पूर्वपदअन्यथासिद्धिशङ्कया । न चैवं षष्ठीसमासेनैव स्वररूपयोः सिद्धौ तृतीयासमासविधानानर्थक्यं शङ्कचम् ; मनसासदृशः’ इति समस्तपदे ‘मनसः संज्ञायाम्’ इति अलुकि तृतीया- तद्विधेरावश्यकत्वात् इति दिक् । । ‘पितृप्रतिरूप:’ । जातिलक्षणङीषन्तो वृषलीशब्दः । पितृशब्दः औणादिकतृजन्तः सादृश्ये किम् ? ‘परमसदृशः ’ । यत्र सादृश्यप्रतियोगिसमर्पकं पूर्वपदं तत्रैव सादृश्यं समासार्थ इति सादृश्यग्रहणसामर्थ्याश्रयणादिह न ॥ श्रवणाय 1. माषपुष्टकषायः 2. प्राच्य… तत्पुरुषः घ. ख. नास्ति ३. अत्र ङ. सू. १८२]
" समासस्वरप्रकरणम् || ॥ [१८१ ] ॥ द्विगौ प्रमाणे ॥ (6–2–12) २१३ द्विगौ उत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृति- स्वरम् । सप्तशमाः प्रमाणमस्य सप्तशमः । । ’ प्रमाणे लो द्विगोनित्यम्’ इति मात्रचो लुक् । प्राच्यशब्द उक्तवरः । ‘प्राच्य सप् तशमः ।
- कर्मधारयः । द्विगौ किम् ? ‘व्रीहिप्रस्थः ’ । यत्तु द्विषहस्रं चिन्वीत ’ इत्यत्र वेदभाष्यम् – “द्वे सहत्रे प्रमाणमस्य द्विषाहरूम् । ’ प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि ’ इति तदन्तविधेः ’ शतमानविंशतिक ’ इत्यण् । अध्यर्धपूर्वात्’ इति लुक् तु न ; ‘विभाषा कार्षापणसहस्राभ्याम्’ इति विकल्प- संख्यायाः संवत्सरसंख्यस्य च’ इत्युत्तरपदवृद्धिः नात् । सुषामादित्वात् षत्वम् । ‘द्विगौ प्रमाणे ’ इति पूर्वपदप्रकृतिस्वरः इति, यदपि ‘द्विर्भाग इन्द्र:’ इत्यत्र ८ I तत्रैवोक्तम् – द्वयोर्भागयोः समाहारः द्विभागम् । ‘द्विगौ प्रमाणे’ इति, तदुभयं चिन्त्यम् ; ‘द्विगावुत्तरपदे
इति पूर्वपदप्रकृतिस्वर तस्मात् पूर्वपदस्य पूर्वपदस्य स्वर: इति सूत्रार्थस्य आकरे स्थितत्वात् अत्र द्विगोरुत्तरपदत्वाभावात् । ‘द्विषाहस्रम् ’ इत्यत्र सतिशिष्टत्वेन अण्स्वरप्रसंगाच । सहस्रम् अस्य अस्तीति ‘साहस्र:’ इष्टका समुदायः 1 ‘aq: सहस्राभ्यां विनीनी’ ’ अण् च’ इत्यण् अण् च’ इत्यण् । द्वौ साहस्रौ यस्य सः ‘द्विषाहस्रः ‘, द्वौ भागौ यस्य सः ‘द्विभागः’ समुदाय इति अत्र स्वरनिर्वाहो बहुव्रीहेः, व्यत्ययाद्वा [ बोध्यः ॥ || १८२] ॥ गन्तव्यपण्यं वाणिजे ॥ (6-2-13) वणिगेव वाणिजः । प्रज्ञाद्यण् । तस्मिन् परे गन्तव्यवाचि पण्यवाचि च प्रकृतिस्वरम् । ‘भद्रवाणिज: '
- अवस्थानात् घ. ङ. । योगविभागात्
२१४ Diसद्धान्तान्द्रिकायाम् elhi [सू. १८३ सप्तमीसमासः । मद्रान् गत्वा व्यवहरति इत्यर्थ: । मद्रशब्दो रक्प्रत्ययान्तः अन्तोदात्तः । ‘गोवाणिजः’ । षष्ठीसमासः ॥ एषु [१८३] ॥ मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ (6-2-14) परतः पूर्वपदं प्रकृतिस्वरं नपुंसके तत्पुरुषे ‘समुद्रमात्रं सरः । मात्रशब्दः तुल्यपर्यायः वृत्तिविषये तुल्यप्रमाणे वर्तते 1 तत्र समुद्रतुल्यप्रमाणम् इति अस्वपदविग्रह: 1 षष्ठीसमासः । समुद्रशब्दः सागरार्थत्वात् अन्तोदात्तः । ’ व्याड्युपज्ञम् ’ | ‘नन्दोपक्रमम् ’ 1 ‘इषुच्छायम्’ । एतेऽपि षष्ठीसमासाः । व्याडिशब्द’ आद्युदात्तः । नन्दशब्दः पचाद्यजन्तः । ‘धान्ये नित् ’ इत्यनुवृत्तौ ’ ईषे: किच्च’ इत्युप्रत्यये इषुशब्दः आद्युदात्तः । मात्रशब्दान्तः स्वभावान्नपुंसके । इतरत्र ’ उपज्ञोपक्रमम् ’ इति ’ छाया बाहुल्ये’ इति च क्लीवता ॥ 11 [१८४ ] ॥ सुखप्रिययोर्हिते ॥ (6-2-15) अनयोः परयोः पूर्वपदं प्रकृतिस्वरं हितार्थे तत्पुरुषे । ‘व्याकरणसुखम् ’ 1. ‘व्याकरणप्रियम्’ । अत्र अत्र सुखप्रियशब्दौ तद्धेतौ आययां परिणामे’ प्रीतिकरे वर्तेते । ततः समानाधि- करणसमासः ॥
- इञन्तः ङ. अधिकम् ।
- परिणामे घ. ह नास्ति ।
सू. १८७ ]
‘समासस्वरप्रकरणम [१८५ ] ॥ प्रीतौ च ॥ (6-2–16) २१५ अस्यां च गम्यायां सुखप्रिययोः परतः पूर्वपदं प्रकृतिस्वरम् । ‘ब्राह्मणसुखं पायसम् ’ । ’ छात्रप्रियोऽनध्यायः’ । ब्राह्मणशब्दोऽणन्तः । ‘ब्राह्मोऽजातौ’ इति निषेधाट्टिलोपाभावः । ‘छत्रादिभ्यो णः’ इति णान्तः छात्रशब्दः । ‘आयत्यां परिणामसमये प्रीतिकरं यद्धितं तद्विषयं पूर्वसूत्रम् । ददं तु प्रीतिविषयम् । यद्यपि ‘सुखप्रिययो: ’ इत्युक्त्वा ‘हिते च’ इति सूत्रेणापि इष्टसिद्धिः, सुखप्रिययोः प्रीत्यव्यभिचारात् पूर्व योगेनैव स्वरसिद्धेः, तथापि ’ प्रीतौ च ’ इति पृथग्वचनम् प्रीत्यतिशय एव स्वरः यथा स्यादित्येवमर्थम् । एवं च इह प्रीतिग्रहणं प्रीत्यतिशयप्रतिपत्त्यर्थम् इति वृत्तौ ॥ ॥ [१८६ ] ॥ स्वं स्वामिनि ॥ ( 6–2–17) स्ववाचि प्रकृतिस्वरं स्वामिशब्दे परतः 1 ‘गोस्वामी ? ॥ [ १८७ ] ॥ पत्यावैश्वर्ये ॥ (6–2–18) [?<0] ऐश्वर्यवाचिनि पतिशब्दे तत्पुरुषे परतः त्वया॑ गृ॒हप॑तिना भूयासम् ’ । स्वरम् । ’ अ॒हं ’ गेहे कः’ इति कान्तो गृहशब्दः । इति डप्रत्यये टाबादौ च पूर्वपदं प्रकृति- ’ प्रजापतिः । ’ उपसर्गे च संज्ञायाम् ’ कृत्स्वरेण प्रजाशब्दो ऽन्तोदात्तः । प्रजाशब्दोऽन्तोदान्तः । ऐश्वर्ये किम् ? ’ वृषलीपतिः’ । धवपर्यायोऽत्र पतिशब्दः ||
- आयत्यां प्रीतिकरं हि तद्विषयम् घ. ङ.
- पूर्वभागेनैव घ. ङ.
२१६ स्वरका pelhi [सू. १८८ [१८८ ] ॥ न भूवाक्चिद्दिधिषु ।। (6–2–19) दिधिषूशब्दः पूर्वसूत्रप्राप्तं निषिध्यते 1 ‘भूपतिः ’ । ’ वाक्पतिः ’ । ‘चित्पतिः ’ । ‘दिधिषूपतिः’ । ‘अन्दूदृन्भू’ इति उणादिसूत्रे ऊप्रत्ययान्तो निपातितः । सूत्रे तु समाहारद्वन्द्वे नपुंसकह्रस्वत्वेन ह्रस्वनिर्देशः । ‘भूप॑तये॒ स्वाहा॑’ इत्यादौ पूर्वस्य पदस्य आद्युदात्तत्वम् । ’ चि॒त्पति॑स्त्वा पुनातु’ । ’ वा॒पति॑स्त्वा पुनातु’ । ’ अराध्यै दिधिषूपर्तिम्’ व्यत्ययात् ॥ । इत्यादौ उत्तरपदाद्युदात्तत्वम् [१८९ ] ॥ वा भुवनम् ॥ (6–2–20) इदं वा प्रकृतिस्वरम् पत्यावैश्वर्ये । ’ अहं भुवनपति:’ । ‘भूसूध भ्रस्जिभ्यश्छन्दसि’ इति क्युन्नन्तो’ भुवनशब्दः ॥ [१९० ] ॥ आशङ्काबाघनेदीयःसु संभावने ॥ (6-2-21) एषु परतः पूर्वपदं प्रकृतिस्वरं संभावनावाचिनि तत्पुरुषे । अस्तित्वनिश्चयः संभावनम् । ‘गमनाशङ्कं वर्तते । एवं ‘गमनाबाधम्’ । ‘गमननेदीय:’ । आशङ्कयत इति आशङ्कम् । छन् । एवमाबाधम् । अन्तिकशब्दात् ईयसुनि ’ अन्तिकबादयोर्नेदसाधौ ’ इति नेदादेशे नेदीयः । समानाधिकरणसमासः । आशङ्कयमानं गमनं संभाव्यत इत्याद्यर्थः ॥
- किन्नन्तो .
सू. १९३]
समासस्वरप्रकरणम् [१९१] ॥ पूर्वे भूतपूर्वे ॥’ (6–2–22) 1 २१७ पूर्वशब्दे परे पूर्वपदं प्रकृतिस्वरं भवति भूतपूर्ववाचिनि तत्पुरुषे । आढ्यो भूतपूर्वः ‘आढ्यपूर्वः’ । मयूरव्यंसकादिः । आङ्कपूर्वकात् ध्यायतेः ’ घञर्थे कविधानम् ’ इति कप्रत्यये आढ्य सुभग’ इति निपातनात् धकारस्य ढकारे च थाथादिस्वरेण अन्तोदात्त आढ्यशब्दः ॥ " [१९२] ॥ सविधसनीड समर्याद सवेश सदेशेषु सामीप्ये ॥ (6-2-23) समीपार्थेष्वेषु परतः पूर्वपदं प्रकृतिस्वरम् । मद्राणां सविधं ’ मद्रसविधम् ‘, ’ मद्रसनीडम्’ इत्यादि । सविधादिशब्दा: सामीप्ये रूढाः । मद्रशब्दो रगन्तः ॥ [१९३ ] || विस्पष्टादीनि गुणवचनेषु ॥ (6-2-24) इमानि प्रकृतिस्वराणि गुणोपसर्जनद्रव्यवाचिषु परत: 1 विस्पष्टं पटुः ‘विस्पष्टपटुः’ । विस्पष्टता च अत्र पाटवादिप्रवृत्तिनिमित्तविशेषणम्, सामानाधिकरण्याभावात् । ‘सुप्’ इति योगविभागात् समासः । प्रवृत्तिनिमित्तविशेषणत्वादेव विग्रहे विस्पष्टम् इति क्लीत्वम् । स्पशतेर्ण्यन्तात्’ ते, ‘वा दान्त’ इत्यादिना ‘इडभावनिपातनात् स्पष्टः । ततो गतिसमासे विस्पष्टः । ’ गतिरनन्तरः ’ ।
- ‘सह ’ घ.
- स्पाशयतेः घ, ।
- ण्यन्तात् घ. घ. नास्ति । 4. इडभावघ. नास्ति । स्व 62& Shri Vipin Kumar Col. Deoband. In Public Domain. ३१८
स्वरसिद्धान्तचन्द्रिकायाम् [सू. १९४ इकारस्य यणादेशे ‘विचित्रम्’ । प्रादिसमास: । ‘विचित्तम्’ इत्यन्ये । बहुव्रीहिरयम् । ‘व्यक्तम्’ । विपूर्वादनक्तेः ते गतिस्वरः । ‘उदात्तस्वरितयोर्यण:’ इति ततः परस्य स्वरितः । थाथादिस्वर: । ‘फलीपटी’ इति उप्रत्यये पटुः । ’ संपन्न : ’ पडि । पडि गतौ इत्यतः क्ते ‘पण्डित:’ । कुशं लातीति ’ कुशल: ’ । ‘आतोऽनुपसर्गे कः । कृत्स्वरः । ‘चुपेरञ्चोपधायाः’ इति ‘लच्प्रत्यये ‘चपलः 1 स च चित्त्वात् अन्तोदात्तः । ’ निपुण:’ । पुण कर्मणि शुभे । इगुपधत्वात् के थाथादिस्वरः ॥ [१९४] ॥ श्रज्यावमकन्पापवत्सु भावे कर्मधारये ॥ (6-2-25) श्र, ज्य, अवम, कन्, इत्येतेषु पापवति च उत्तरपदे भाववाचि प्रकृतिस्वरं कर्मधारये । श्र, ज्य, कन्, इति प्रशस्यस्य श्रः ‘, ज्य च ‘, ’ युवाल्पयोः कन्’ इत्यादेशा गृह्यन्ते । सामर्थ्यात् तद्वदुत्तरपदग्रहणम् । ‘गमनश्रेष्ठम् ’ । ’ गमनश्रेयः’ । वचनश्रेष्ठम् ’ । वचनज्यायः’ । । ’ गमनावमम्’ । ‘गमनकनिष्ठम् ’ । गमनकनीयः’ । ‘गमनपापिष्ठम्’ । ’ गमनपापीयः’ । अत्र ‘विन्मतोर्लुक्’ इति मतुपो लुक् । मयूरव्यंसकादयः । भावग्रहणात् करणे ल्युटि न । कर्मधारये किम् ? श्रेयो ‘गमनश्रेयः ’ ॥ [१९५] ॥ कुमारश्च ॥ (6–2–26) गमनस्य पूर्वपदभूतः अयं प्रकृतिस्वरः कर्मधारये । ‘कुमार श्रमणा ‘कुमारश्रमणा’ । लिङ्गविशिष्टपरिभाषया कुमारीशब्दस्य पुंवद्भावः । ‘कुमार क्रीडायाम् '
- खलप्रत्यये ङ.
- समासे घ. ङ. अधिकम् ।
सू. १९७]
समासस्वरप्रकरणम् इत्यतः पचाद्यच् । ’ कुमार:’ । ’ केचिदत्र इति ’ प्रतिपदोक्तकर्मधारयस्य २१९ ‘कुमार श्रमणादिभिः ’ ग्रहणमिच्छन्ति 1 अन्ये पुनः कर्मधारयमात्रस्य ’ इति वृत्तौ । । चकारस्य पुनर्विधानार्थत्वात् कर्मधारयमात्रग्रहणपक्षसिद्धि:’ इति हरदत्तः ॥ || [१९६] ॥ आदिः प्रत्येनसि ॥ (6–2–27) ‘आदि: ’ इति षष्ठ्यर्थे प्रथमा | पूर्वत्र कुमारशब्दस्य प्रकृतिभावेन यः स्वरः प्राप्तः स आदेर्भवति प्रत्येनसि उत्तरपदे कर्मधारये । एवं व्याख्यानात् उदात्तग्रहणाभावेऽपि अत्र आदिरुदात्त इति फलितम् । ‘कुमारप्रत्येनाः ’ । प्रतिगत एनसा प्रत्येनाः 1 अवादयः कुष्टाद्यर्थे’ इति तत्पुरुषः । प्रतिगतमेन: अस्य इति बहुव्रीहिर्वा ॥ [१९७] ॥ पूगेष्वन्यतरस्याम् || (6–2–28) नानाजातीया अनियतवृत्तयः’ अर्थकामप्रधानाः सङ्घाः पूगाः । तद्वाचिनि उत्तरपदे कुमरस्य वा आदिरुदात्तः । ‘कुमारचातकाः । V ‘कुमारलोहितध्वजाः’ । ‘कुमारजीमूताः’ । चातकादिभ्यः ‘पूगात् योऽप्रामणीपूर्वात्’ इति यः । बहुषु’ इति बहुषु लुक् । पक्षे प्रकृतिस्वरः । तत्र समासान्तोदात्तत्वमेव ॥
- नियतवृत्तयः घ. च व्यादयस्तद्राजा:’ । ’ तद्राजस्य ‘कुमारश्च’ इति पूर्वपद- प्रतिपदोक्तस्यैव ग्रहणमिति मते तु
२२० स्वर सिद्धान्तचान्द्रकायाम् [सू. १९८ [१९८] ॥ इगन्तकालकपालभगालशरावेषु द्विगौ ॥ (6-2-29) 6 द्विगौ पूर्वपदं प्रकृतिस्वरमिगन्ते उत्तरपदे कालवाचिनि च कपालादिषु च । ‘पञ्चरनिं तस्मै॑ वृश्चेत्’ इत्यादि । पञ्च रत्नयः प्रमाणमस्य इति ‘पञ्चारत्नि:’ । तद्धितार्थे द्विगु: । ‘द्विगोर्नित्यम्’ इति मात्रचो लुक् । ‘पञ्चरत्नयः ’ इत्यत्र ‘जसि च ’ इति गुणस्य बह्वपेक्षत्वेन’ बहिरङ्गस्य अत्र स्वरेऽसिद्धत्वात् अस्ति इगन्तत्वम् इति भवत्ययं स्वरः । एवं पश्चारत्त्यः ’ इत्यत्रापि यणो बहिरङ्गस्य असिद्धत्वात् । ‘जसादिषु छन्दसि वावचनम् ’ इत्यत्र यण् 1 कालवचन: -पञ्चमासान् भृतो भूतो भावी वा पञ्चमास्यः’ । ‘तमधीष्टे ’ इत्यधिकारे ‘द्विगोर्यप् ’ इति वचनाद्यप् । ‘पञ्चवर्षः’ । ’ वर्षाल्लुक् च ’ ‘चित्तवति नित्यम् ’ इति भूताद्यर्थेषु उत्पन्नस्य ठञो लुक् । ‘पुत्रस्तै दश॒मास्यः ’ इत्यत्र व्यत्ययात् उत्तरपदाद्युदात्तत्वम् । ‘पञ्चकपालम् ’ । ‘दशभगाल: ’ । ‘पञ्चेशरावमोद्नम्’ । पञ्चसु कपालेषु संस्कृत इति विवक्षायाम् ’ संस्कृतं भक्षाः ’ । इत्यणः ’ द्विगोर्लुगनपत्ये’ ’ वस्संख्यायाः’ इति पञ्चन्नादय आद्युदात्ताः ( इति लुक् 1 I यत्तु इगन्तस्य उदाहृतम् –’ दर्शहोता चतुर्होता’ पञ्च॑होता षड्ढौता सप्त- होता’ । ’ दिक्संख्ये तच्चिन्त्यम् ; दिक्संख्ये संज्ञायाम्’ इति सामास इति, संज्ञायाम् ’ इति समासस्य द्विगुत्वाभावात् । लोकेऽपि सप्तर्षिशब्दे नायं स्वरः, द्विगुत्वाभावात्
- सुबपेक्षत्वेन घ. ङ. इत्युक्तेः अत्रापि यण् न घ.
- ‘जसादिषु छन्दो वा वचनम् '
- उत्तरपदादिरुदात्तः घ द
सू. २०१]
समासस्वर प्रकरणम् २२१ इति कैयटवचनाच्च । स्वरस्तु स्वरस्तु दशहोत्रादिशब्दानां व्यत्ययात् । अत एव ‘पञ्चहोतृशब्दे दिवोदासादित्वात् पूर्वपदाद्युदात्तत्वम् ’ इति ’ संख्यापूर्वी द्विगु:’ इत्यत्र भाष्ये स्थितम् ॥ [१९९] ॥ बह्वन्यतरस्याम् ॥ ( 6–2–30) पूर्वसूत्रविषयेऽयं विकल्पः । ’ बह्वरनिः ’ । ‘बहुमास्यः’ । ‘बहुकपाल: ’ । बहुभगाल:’ । बहुशराव:’ । ’ लङ्घिबह्योर्नलोपश्च इति उप्रत्ययान्तो बहुशब्दः । पक्षे समासस्वरः ॥ [२००] ॥ दिष्टिवितस्त्योश्च ॥ (6–2–31) इगन्तत्वात् प्राप्तं विकल्प्यते । ’ पञ्चदिष्टि: ’ वितस्ति:’ । द्विगोर्नित्यम्’ इति मात्रचो लुक् ॥ । ‘पा- [२०१] ॥ महान्त्रीह्यपराह्नसृष्टीष्वासजाबालभारभारत है लिहिलरौरवप्रवृद्धेषु ॥ (6-2-38) महच्छब्दः प्रकृतिस्वर: व्रीह्यादिषु दशसु परत: 1 निर॑त्रपन्म॒हाव्रहीणाम्” । एवम् ‘महापराह्न : ’ महेष्वासः ’ | ‘महाहैलिहिलम्’ । ‘वर्तमाने पृषदुबृहन्महत्’ इत्यादि 1 निपातित इति हरदत्तः’ ।
- इति हरदत्तः घ. नास्ति । इति उणादौ महच्छन्दोऽन्तोदात्तो
२२२. ब्रीह्यादिष्विति किम् ?
स्वर सिद्धान्तचन्द्रिकायाम् [सू. २०२ ‘महेन्द्रस्य ’ । ’ सन्महत्’ इति प्रति- ’ महेन्द्रस्य ’ । पदोक्तकर्मधारय इह गृह्यते । तेन ’ महद्व्रीहि:’ इति षष्ठी- तत्पुरुषे नायं स्वरः ॥ [२०२] ॥ क्षुल्लकच वैश्वदेवे ॥ (6–2–39) ॥ क्षुल्लकशब्दो महच्छब्दश्श्र्च प्रकृतिस्वरः वैश्वदेवे परे ‘क्षुल्लकवैश्वदेवः’ । ‘महावैश्वदेवः’ । क्षुधं लाति इति क्षुल्लः आतोऽनुपसर्गे कः ’ । ततः अज्ञातादिषु ’ प्रागिवात् कः ’ ॥ · [२०३] ॥ उष्ट्रः सादिवाम्योः ॥ (6–2–40) ’ प्रकृत्या’ इत्येव । ’ उष्ट्रसादी’ । ‘उष्ट्रवामी’ । । ’ उषिखनिभ्यां कित्’ इति ष्ट्रनि उष्ट्रः । कर्मधारयः षष्ठीतत्पुरुषो वेति वृत्तिः । आद्ये अश्वारोहे अश्वायां च प्रसिद्धयोः सादिवामिशब्दयोः उष्ट्रे गौणी वृत्तिरित्याहुः ॥ [२०४] ॥ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढ- रूपा पारेबडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ॥ (6–2–42) ‘कुरुगार्हपत ’ इत्यादीनि अष्टौ समासपदानि समासपदानि व्यस्तानि अत्र निर्दिश्यन्ते 1 तत्र आदितो द्वयोः पष्ठ्याः सौत्रो
- इत्याशयः स्व.
समासस्वरप्रकरणम् सू. २०४] लुक् । ततः पच ‘एकवचनान्तानि २२३ । षष्ठ्यर्थे च प्रथमैकवचनम् | ‘दासीभाराणाम्’ इति बहुवचननिर्देशात् आद्यर्था- वसाय: । एषां पूर्वपदं प्रकृतिस्वरम् । कुरूणां गार्हपतं ‘कुरुगाई’ कुप्रोरुच्च ’ इति कुप्रत्यये कुरुशब्दः ॥ पतम् ’ । (वा) || कुरुवृज्योर्गार्हपत इति वाच्यम् ॥ 1 वृजी वर्जने 1 वृजीनां गार्हपतम् ’ वृजिगार्हपतम्’ इगुपधात् किञ्च’ इति इन्प्रत्यये ’ वृजि:’ । ‘रिक्तगुरुः’ । ‘असूतजरती ’ 1 ‘अश्लीलदृढरूपा ’ I एते कर्मधारयाः 1 रिक्तो विभाषा’ इति रिक्तस्य आदिरुदात्तः । असूताश्लीलयोः नव्स्वरः । पारे बरडवेव ‘पारेबडवा’ । निपातनात् इवार्थे समासः | डेरलुक् च । पारशब्दो घृतादिः । तैतिलानां कद्रूः ‘तैतिलकद्रूः’ । तिलशब्दान्मत्वर्थे इनिः । ‘तिली’ । पृषोदरादित्वात्तिशब्दस्य द्वित्वम् । ततोऽपत्येऽण् । ’ नस्तद्धिते ’ इति टिलोपः । ’ तैतिल : ’ 11 ॥ पण्यकम्बलः संज्ञायाम् ॥ इति वार्त्तिकम् । तत्र पण्यशब्दस्य ’ अवद्यपण्यवर्याग’ इति यदन्ततया ‘द्वितीया कृत्याः’ इत्येव सिद्धे संज्ञायामेवेति नियमार्थं पण्यकम्बलग्रहणम् । अपर आह—कम्बल एवोत्तरपदे पण्यशब्दः प्रकृतिस्वरो यथा स्यात् । ’ पण्यहस्ती’ इत्यत्र मा भूदिति भाष्यम् । तद्वृत्तौ तु - " ’ कृत्यतुल्याख्या अजात्या ’ इति प्रतिपदोक्तसमास एव द्वितीयाकृत्यास्वरः ; पण्यकम्बलशब्दे च नैवं समासः, किं तु ‘विशेषणं विशेष्येण इति । एवं च
- प्रथमैकवचनानि ङ. 1 ,
- संज्ञायामेव नान्यत्रेति घ.
३२४ [सू. २.०५ विध्यर्थमेव स्वरसिद्धान्तचन्द्रिकायाम् पण्यकम्बलग्रहणम् । ‘संज्ञायाम्’ इति वचनात् ततः अन्यत्र ’ पण्यकम्बले न एष स्वरः । पण्यहस्त्यादौ प्रसक्तिरेव न" इति स्थितम् । ननु अजात्या ’ इति प्रतिषेधसामर्थ्यात् ’ विशेषणं विशेष्येण ’ इत्यप्यत्र समासो दुर्लभ इति चेत्अत्राहु: - ’ अजात्या’ इति न जातिप्रतिषेधार्थम्, किं तु न्यायसिद्धार्थानुवादमात्रम् । न च अनुवादस्य सर्वथा नैष्फल्यम् ; गुणक्रियावाचिनामनियमेन पूर्वनिपातप्रसङ्गे कृत्यान्तस्य पूर्वनिपातार्थं सूत्रम् इति व्युत्पादनेन चारितार्थत्वात् – इति । दास्या भारः ’ दासीभार:’ । ’ दंसेष्टो न आ च’ इति टप्रत्यये ‘टिड्डू’ इति ङीपि उदात्तनिवृत्तिस्वरेण दासीशब्देऽन्त उदात्तः । ‘अस्यां दे॒वहू॑त्याम्’ । ‘ओष॑धीः ’ । ओषः धीयतेऽस्याम् । ‘कर्मण्यधिकरणे च’ इति किः । उष दाहे । घन् । ओषः । ‘चन्द्रे मो डिच’ इत्यसिप्रत्ययः । चन्द्र इति इव मीयते ‘चन्द्रमाः ’ । ’ स्फायितचि’ इति , ‘चन्द्रमाः I रजतनाम । स रकि चन्द्रः । आकृतिगणोऽयम् । तेन ‘भ्रातृ॑व्याभिभूत्यै’ ‘दे॒ववी॑तये ’ इत्यपि सिद्धम् । ‘भ्रातुर्व्यच्च ’ ’ व्यन् सपत्ने । भ्रातृव्यः 11 [२०५] ॥ चतुर्थी तदर्थे ॥ (6-2–43) चतुर्थ्यन्तं प्रकृतिस्वरं चतुर्थ्यन्ताभिधेयं यत् यत् तदर्थवाचिनि उत्तरपदे । यूपाय दारु । यूपाय दारु ‘यूपदारु ’ । यूपशब्द आद्युदात्तः । ‘कुयुभ्याम्’ इत्यत्र ‘नित्’ इत्यनुवृत्तेः ॥ [२०६] ॥ अर्थे ॥ (6–2–44) अर्थशब्दे उत्तरपदे चतुर्थ्यन्तं प्रकृतिस्वरम् । देवतायै इदम् देवतार्थम्’ । तलन्तो देवताशब्दः । पूर्वेणैव सिद्धेऽयमारम्भो
सू. २०८] ज्ञापयति
समासस्वरप्रकरणम् ‘पूर्वविधिः प्रकृतिविकृतिभाव’ २२५ एव इति | तेन महाराजबलाः ’ 1 ‘अश्वनेता’’ इत्यादौ सत्यपि तादये अयं स्वरो न भवति ॥ [२०७] ॥ क्ते च ॥ (6–2–45) क्तान्ते च उत्तरपदे प्रकृतिस्वरं चतुर्थ्यन्तम् । ‘गोहितम् ’ । ‘गोरक्षितम् ’ ॥ 11 [२०८ ] ॥ कर्मधारयेऽनिष्ठा || (6–2–46) अनिष्ठान्तं प्रकृतिस्वरं कान्ते उत्तरपदे कर्मधारये श्रेणीकृत:’ । ’ पूगकृत:’ । ’ श्रिञो नित्’ इति औणादिको निः । श्रेणि:’ । पूञो गक् । ‘पूगः ’ । ’ श्रेण्यादयः कृतादिभिः ’ इति प्रतिपदोक्तकर्मधारयस्य इह ग्रहणम् । तेन दक्षिणा दीयते ’ इत्यत्र न पूर्वपदप्रकृतिस्वरः ब्रीद्यपराह्न ’ इत्यत्र भाष्यम् 1 ’ महानिरष्टो इति ‘महान् इदं च शाखान्तरीयं वाक्यम् ; ‘दीयते’ इति वाक्यशेषात् । तैत्तिरीयके ‘महानिरष्टा दक्षिणा समृद्धचै’ इत्यादौ व्यत्ययेन पूर्वपदप्रकृतिस्वरः । अत एव कथितम् – महानिरष्टः पीडितवृषणो अत्रैव वेदभाष्ये कथितम् – महानिरष्टः
गौ: गौः । यस्य विभाषा’ इति इट्प्रतिषेधः । कर्मधारयः । दासीभारादिः बहुव्रीहिर्वा — इति । अत्र श्रेण्यादिसमासग्रहणादेव अश्रोतेः निष्ठायाम् ८ महान् ब्रीद्यपराह्न ’ इत्यत्र प्रवृद्धग्रहणं सफलम् अन्यथा ‘महावृद्ध:’ इत्यत्र अनेनैव स्वरसिद्धेस्तद्वैफल्यात् । यत्तु स्वरमञ्जर्याम् नव॑नीतेना॒भ्य॑ङ्क्ते ’ इति प्रकृतसूत्रे उदाहृतम्, तच्चिन्त्यम् ;
-
- विषयः घ.
- अश्वघासः घ.
- लि. Shi Vipin Kumar Col. Deoband. In Public Domain. स्व. 15 २२६
स्वरसिद्धान्तचन्द्रिकायाम् [सू. २०९ श्रेण्यादिसमासस्यैव अत्र ग्रहणात् । नवशब्दस्य च श्रेण्यादिषु अपाठात् । ’ श्रेण्यादयः पठ्यन्ते, कृतादिः आकृतिगणः’ इति भाष्यात् । ’ श्रेण्यादिषु च्व्यर्थवचनम्’ इत्युक्तेः नवं च तन्नीतं च इति तत्र विग्रहासाङ्गत्याच्च । तस्मात् दासीभारादिः नवनीतशब्द इति भाष्यरत्नावलीकृतः । युक्तं चैतत् ; वेदभाष्येऽपि— दासीभारादिरयम् । नवं नीतमस्य इति बहुव्रीहिर्वा - इत्युक्तेः । अनिष्ठा किम् ? ’ कृताकृतम्’ । ‘क्तेन नञ्विशिष्टेनानञ्’ इति समासः । ’ अनिष्ठा’ इत्यनुच्यमाने इहैव स्यात् ; अयं हि तसंशब्दनेन विहितः श्रेण्यादिसमासादपि प्रतिपदोक्तः ॥ [२०९] ॥ ईषदन्यतरस्याम् ॥ (6–2–54) इदं पूर्वपदं वा प्रकृतिस्वरम्’ । ’ ईषत्कडारः ’ 1 ईषच्छब्दः स्वरादिः फिट्स्वरेण अन्तोदात्तः 1 ’ ईषद्भेद: ’ इति खलि परत्वात् कृत्स्वरः । ’ ईषदकृता’ इति प्रतिपदोक्तसमासस्यैव अत्र ग्रहणात् उपपदसमासे प्रसङ्ग एव न इत्यन्ये इति हरदत्तः ॥ [२१०] ॥ हिरण्यपरिमाणं धने ॥ (6-2-55) परिमाणविशिष्टहिरण्यवाचि प्रकृतिस्वरम् धनशब्दे उत्तरपदे । द्वयोः सुवर्णयोः समाहारः द्विसुवर्णं पात्रादि । तश्च तद्धनं द्विसुवर्णधनम्’ । बहुव्रीहावपि परत्वादयं विकल्प इत्याहुः । परिमाणे किम् ? घ ८ काञ्चनधनम्’ । काननशब्दो हिरण्यवचनः, न तु परिमाणविशिष्टहिरण्यवचनः ॥
- प्रकृत्या घ.
सू. २१४] 11
समासस्वरप्रकरणम् [२११] ॥ प्रथमोऽचिरोपसंपत्तौ ॥ (6–2–56) || २२७ नूतनोपसंपत्तौ प्रथमशब्द: पूर्वपदं वा प्रकृतिस्वरम् । ’ प्रथमवैयाकरणः ’ । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथेरमच्’ । प्रथमः ॥ [ २१२] ॥ कतरकतमौ कर्मधारये ॥ (6-2-57) इमे पूर्वपदे वा प्रकृतिस्वरे । कतरकठः’ । ‘कतमकठः’ । ’ कतरकतमौ जातिपरिप्रश्ने ’ इति प्रतिपदोक्तसमासग्रहणादेव सिद्धे कर्मधारयग्रहणमुत्तरार्थम् । डतरच्डतमजन्तौ अन्तोदात्तौ ॥ [२१३] ॥ आर्यो ब्राह्मणकुमारयोः ।। (6–2–58) वा प्रकृत्या । ’ कर्मधारये ’ इति वर्तते । ‘आर्यब्राह्मण:’ । ‘आर्यकुमार:’ । आर्यशब्दो ण्यदन्तस्तित्स्वरः ॥ 11 [२१४] ॥ राजा च ॥ (6–2–59) पूर्वपदं वा प्रकृतिस्वरं ब्राह्मणकुमारयोः परतः कर्मधारये । राजब्राह्मण:’ । ’ राजकुमारः ’ । राजन्शब्दो ब्राह्मणे लाक्षणिकः । कनिन्नन्तो राजन्शब्दः । यथासंख्यनिवृत्त्यर्थः उत्तरत्र राजमात्रानुवृत्त्यर्थश्च योगविभागः ||
२२८
स्वरसिद्धान्तचन्द्रिकायाम् [२१५] षष्ठी प्रत्येनसि ।। (6–2–60) [सू. २१५ षष्ठ्यन्तो राजशब्दो वा प्रकृतिस्वरः प्रत्येनसि उत्तरपदे । राज्ञः प्रत्येनाः ’ । ’ षष्ठ्या ’ षष्ठ्या आक्रोशे आक्रोशे ’ इत्यलुक् ॥ [२१६] ॥ ग्रामः शिल्पिनि ॥ (6–2–62) शिल्पिवाचिनि उत्तरपदे ग्रामशब्दो वा प्रकृत्या’ । ’ ग्राम- नापित:’ । ’ ग्रामकुलाल: ’ ग्रामशब्द आद्युदात्तः 1 ग्रामः किम् ? ‘परमनापित: ’ । शिल्पिनि किम् ? ग्रामरथ्या 11 [२१७] ॥ राजा च प्रशंसायाम् ।। (6–2–63) पूर्वपदं राजशब्दो वा प्रकृत्या शिल्पिवाचिनि उत्तरपदे परतः प्रशंसायाम् । राजनापित: ’ 1 ‘राजकुलाल: 1 कर्मधारये ८ राजगुणारोपेण उत्तरपदार्थस्य प्रशंसा । षष्ठीसमासे कर्मप्रवीणत्वात् राजार्हतया प्रशंसा | [२१८] ॥ आदिरुदात्तः ॥ (6–2–64) व्याख्यातम् ॥ [२१९] ॥ सप्तमीहारिणौ धर्म्येऽहरणे ॥ (6-2-65) देयं स्वीकुर्वन् हारी । आवश्यके णिनिः । अनुवृत्त आचारों धर्मः । धर्मादनपेतः धर्मेण प्राप्यो वा ‘धर्म्य:’ । ’ धर्मपथ्यर्थ
- प्रकृतिस्वरः ङ.
’ सू. २२०]
समासस्वरप्रकरणम् २२९ इति यत् । नौवयोधर्म’ इति वा यत् । सप्तम्यन्तस्य हारिवाचिनश्च आदिरुदात्तः हरणशब्दात् अन्यस्मिन् धर्म्यवाचिनि उत्तरपदे । ‘स्तूपेशाणा:’ । ‘मुकुटेकार्षापणा:’ । ’ संज्ञायाम्’ इति सप्तमीसमासः । ’ कारनाम्नि च’ इति डेरलुक् । ’ याज्ञिकाश्वः ’ | क्वचित् अयमाचारः स्तूपादिषु शाणादि दातव्यम्, याज्ञिकनाम् अश्वादि । धर्म्ये इति किम् ? ‘कर्मकरवर्धितक:’ । मूले स्थूलः अग्रे सूक्ष्मः ओदनपिण्डो वर्धितकः कर्मकराय दीयते अन्यथा कर्म न कुर्यादिति, न त्वयं धर्म्यः । अहरणे इति किम् ? बाडबहरणम्’ । बडबाया अयं बाडबः । तस्या गर्भाधानानन्तरं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणम् । क्वचिच्च अयमाचारो व्यवस्थितः । हरणशब्दः कर्मसाधनः । तेन अस्मिन् स्वरे निषिद्धे कृत्स्वरापवादः ‘अनो भावकर्मवचनः’ इत्ययं स्वरो भवति । न च परत्वादेव अयं स्वरो भविष्यतीति किं हरणनिषेधेनेति वाच्यम् ; परमपि कृत्स्वरं बाधित्वा ‘बाडबहार्यम्’ इत्यादौ ‘पूर्वविप्रतिषेधेन हारिस्वर एव’ इति ज्ञापनार्थत्वात्’ । अहरण इति प्रतिषेधः — येन केनचिल्लक्षणेन प्राप्तस्वरस्य हारिस्वरो बाधकः - इति ज्ञापयति ॥
11 [२२० ] ॥ युक्ते च ॥ (6–2–66) समाहितो यः कर्तव्ये तत्परः स युक्तः । युज समाधौ इत्यतः क्तः । युक्तवाचिनि समासे पूर्वपदस्य आदिरुदात्तः । गोवल्लवः ’ 1 ‘अश्ववल्लवः’ । वल्लवः पालकः । गां सञ्चष्टे गोसंख्यः’ । ’ समि ख्यः इति कः । अत्र थाथादिस्वरात् वार्त्तिकम् ॥ ८ पूर्वविप्रतिषेधेन अयं स्वर इति
- ज्ञापनार्थत्वादिति घ.
- विवेकः क.
२३० Digitस्वर सिद्धान्तवद्रिकाय [२२१] ॥ विभाषाध्यक्षे || (6–2–67) । [सू. २२१ पूर्वपदस्य आदिरुदात्तः । ‘अश्वाध्यक्षः ’ । अध्यक्षशब्दस्य समासे युक्ते च’ इति पूर्वेण प्राप्तस्य विकल्पः ॥ C [२२] ।। शिल्पिनि चाकृञः ।। (6–2–68) ह्वावामश्च ’ व्यत्ययात् शिल्पिवाचिनि समासे अणन्ते उत्तरपदे पूर्वपदस्य आदिरुदात्तः, सोऽण कृञः परो न चेत् । ’ तन्तुवायः ’ । इत्यण । ‘मन्यवैऽयस्तापम्’ ‘वीणावादङ्गणकम्’ इत्यादौ अन्तोदात्तत्वम् । अकृञः किम् ? अयस्कारः ’ 1 हिरण्यकारम्’ । ’ युक्ते च ’ प्रतिषेधार्थमिति हरदत्तः ॥ ॥ ’ वर्णीय इत्येव सिद्धे वचनमिदं कृनः [२२३] ॥ पापं च शिल्पिनि ॥ ( 6–2–68) पापस्य आदिरुदात्तः शिल्पिवाचिनि उत्तरपदे । ‘पापनापित: ’ । पापकुलाल:’ । ‘पापाणके कुत्सितैः इति प्रतिप्रदोक्तसमास इह गृह्यते । तेन ‘पापनापित:’ इति षष्ठीसमासे समासस्वर एव ॥ [२२४] ॥ गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे || (6-2-69) क्षेपवाचिनि समासे पूर्वपदस्य आदिरुदात्तः अपत्यान्तेवासिनो र्माणवत्राह्मणयोश्व परतः ‘भार्यासौश्रुतः ’ । । सुश्रुतोऽपल
सू. २२६]
समासस्वरप्रकरणम् २३१ श्रद्धाया- ‘सौश्रुतः ’ । । सः भार्याप्रधानतया क्षिप्यते । ‘ओदनपाणिनीया: ’ । पाणिनेः शिष्याः पाणिनीयाः । ये तत्प्रोक्ते ग्रन्थे मसत्यामपि ओदनलाभाय तदन्तेवासिनः, त एवं क्षिप्यन्ते । एवम् ‘कुमारीदाक्षा: ‘कम्बलपारायणीयाः’ ’ इत्यादि 1 ‘भिक्षामाणवः’ । भिक्षां लप्स्ये इति यो माणवको भवति सः । भयत्राह्मणः । यो राजदण्डादिभयेन ब्राह्मणाचारं करोति । माणवब्राह्मणयोरपत्यवाचित्वेन प्रसिद्धयभावात् पृथक्करणम् । ’ तस्येदम ’ इत्यणन्तयोर्ग्रहणम्, निपातनाच्च माणवे णत्वम् इत्यन्ये ॥ [२२५] ॥ अङ्गानि मैरेये ॥ (6–2–70) मैरेयशब्दे उत्तरपदे तदर्थाङ्गवाचिनां पूर्वपदानाम् आदिरुदात्तः । ‘गुडमैरेयम्’ । सुराव्यतिरिक्तं सर्वं मद्यं मैरेयम् । तच्च गुडेन निष्पाद्यमिति गुडस्य तदङ्गत्वम् ॥ [२२६] ॥ भक्ताख्यास्तदर्थेषु ॥ (6–2–71) अन्नावेशेषवाचिनाम् आदिरुदात्तः तदर्थवाचिषु उत्तरपदेषु भिक्षाकंसः’ । ’ श्राणाकंसः ’ ’ । चतुर्थीसमासः । तत्र प्रकृति विकृतिभाव एवेति पक्षे षष्ठीसमास एवेति हरदत्तः । आख्याग्रह मन्नविशेषवाचिपरिग्रहाय ||
- कम्बलचारयणीयाः घ.
- ग्रासकंसः घ.
- पृथग्ग्रहणम् क. ङ.
- चतुर्थीसमासः ङ.
२३२ Diवर सिरभित्र plhi सू. २२७] [२२७] ॥ गोबिडालसिंहसैन्धवेपमाने ॥ (6-2-72) उपमानवाचिषु गवादिषु उत्तरपदेषु पूर्वपदस्य आदिरुदात्तः । ‘धान्यगवः ’ धान्यगवः’ । व्याघ्रादिः । गवाकृत्या स्थितं धान्यादिकमुच्यते । एवमुत्तरत्रापि ज्ञेयम् । ‘भिक्षाबिडाल: ’ । धान्यं गौरिव ‘तृणसिंह: ’ / सक्तुसैन्धवः’ ॥ [२२८] ॥ गोतन्तियवं पाले ॥ (6–2–78) गवादीनाम् आदिरुदात्तः पालशब्दे उत्तरपदे । ‘गोपाल: पुष्ट्यै गोपालम्’ इत्यत्र व्यत्ययात् । ’ तन्तिपाल: ’ । तनोतेः क्तिनि: तन्तिः - वत्सानां बन्धनरज्जुः / यवपालः ’ ॥ [२२९] ॥ युक्तारोह्यादयश्च ॥ (6–2–81) ‘आगता- ‘णिनि ’ एषां पूर्वपदस्य आदिरुदात्तः । अत्र ’ युक्तारोही ’ रोही’ इत्यादयः केचन णिन्यन्ताः पठिता: । ते इत्यस्य उदाहरणार्थाः । केचित्तु — यत्र युक्तादीन्येव पूर्वपदानि आरोह्यादीन्येव उत्तरपदानि तत्रैव यथा स्यादिति नियमार्थः पाठः - इति आहुरिति वृत्तौ । तेन ‘वृक्षारोही ’ ‘युक्ताध्यायी ’ । बहुव्रीहिः कर्मधारयो वा । ‘भगिनीभर्ता ’ । याजकादी । ’ ग्रामगोधुक् ’ । इत्यादौ न । ‘क्षीरहोता ’ ’ आगतमत्स्यः , सू. २३१] (
समासस्वरप्रकरणम् अश्वत्रिरात्र:’ । ‘व्युष्टित्रिरात्र: ’ । हमे षष्ठीसमासाः २३३ ’ गर्गत्रिरात्रः ’ । ‘गणवादः 1 ( 1 एक शितिपात् ’ 1 त्रिपदबहुव्रीहिः । संख्यासुपूर्वस्य’ इति पादशब्दान्तलोपः तत् ‘अनुदात्तं पदम्’ इत्यत्र अवोचम् ॥ । यदत्र वक्तव्यम्, ८८ || पात्रेसमितादयश्च ॥ एतेऽपि युक्तारोह्यादयः । संपूर्वात् इणो गयर्थात् कर्तरि क्तः । समितः संगतः । ’ पात्रेसमित: ’ । मकार द्वित्वपाठस्तु प्रामादिक इत्याहुः इति भाष्यरत्नावल्याम् । ‘अधिकशतवर्ष: ’ तु न सिध्यति, कर्तव्योऽत्र यत्नः " इति समर्थसूत्रे भाष्यम् । अयमाशयः - अधिकं शतं वर्षाणि यस्य इति त्रिपदे बहुव्रीहौ ’ अधिकग्रणं चालुकि चालुकि’ इति अधिकशब्दस्य संख्यासंज्ञायां ’ तद्धितार्थ’ इति अधिकशतयोः तत्पुरुषे सतिशिष्टत्वाद्बहुव्रीहिश्वरं बाधित्वा तत्पुरुषान्तोदात्तत्वं प्राप्नोतीति । तस्मात् युक्तारोह्यादिषु द्रष्टव्योऽयमिति कैयटः ॥ [२३० ] ॥ ग्रामेऽनिवसन्तः ॥ ( 6–2–84) निवसन्ति अस्मिन्निति निवसन्तः । अधिकरणे औणादिको झच् । ’ अनिवसन्तः’ इति च्छेदः । ग्रामशब्दे उत्तरपदे पूर्वपदस्य आदिरुदात्तः न चेन्निवसन्तवाची ग्रामशब्दः । मल्लग्रामः’ । समूहेऽत्र ग्रामशब्द: । ’ देवग्रामः’ । देवस्वामिकत्वमत्र विवक्षितम्, न तु देवनिवसन्तत्वम् इति भवति स्वरः । अनिवसन्तः किम् ? ’ दाक्षिग्रामः ’ । यत्र दाक्षयो वसन्ति ॥ [२३१] ॥ घोषादिषु च ॥ (6–2–85) पूर्वपदस्य आदिरुदात्तः । ’ दाक्षिघोषः ’ ।
२३४ श्रखिखद्रिका pelhi [सू. २३२ ‘घोषgat हृदाश्वत्थपिशङ्गकबरीतृणाः । ‘शललीशिल्पिमुरयः कूटः शालेत्ययं गणः ॥ ’ । तेन ‘अनिवसन्त: ’ इत्यस्य असंबन्धार्थो योगविभागः निवसन्तवाचिष्वपि घोषादिषु अयं स्वरः । अनिवसन्तानुवृत्तिमते तु शब्दादिवाचिष्वेव घोषादिषु अयं स्वरः । ततो’ योगविभागो वैचित्र्यार्थः ॥ [२३२ ] || छात्र्यादयः’ शालायाम् ॥ (6-2-86) एषाम् आदिरुदात्तः । ’ छात्रिशाला ’ छात्रिशाला’ ’ । ’ छात्रिशालम्’ इत्यादौ ‘विभाषा सेना’ इति क्लीवत्वपक्षेऽपि ‘तत्पुरुषे शालायाम्’ इत्युत्तरपदाद्युदात्तत्वात् पूर्वविप्रतिषेधेन अयमेव स्वरः । ऐलिगॉण्डिव्याडि - आपिशलिआखण्डिआखादिगोमि ॥ [२३३] ॥ प्रस्थेऽवृद्धमकर्यादीनाम् ॥ (6-2-87) मालादीनां च ’ इति आरम्भसामर्थ्यात् ‘अवृद्धम्’ इति च्छेदः । कर्यादिभिन्नस्य अवृद्धस्य आदिरुदात्तः प्रस्थशब्दे उत्तरपदे । इन्द्रप्रस्थः / तिलप्रस्थः ’ । कर्कीमखीमकरी कर्कन्धूशमीकरीराकटुककुवलबदराः । अमी कर्यादयः ॥ 6
- शल्मलीघ.
- रात्रिशाला घ.
- ततः घ. नास्ति ।
- -भाण्डिङ.
रात्र्यादयः घ.
सू. २३७]
समासस्वरप्रकरणम [२३४ ] || मालादीनां च ॥ (6–2–88) २३५ प्रस्थे उत्तरपदे आदिरुदात्तः । ’ मालाप्रस्थः । शोणा द्राक्षा धाक्षी काची एका । वृद्धार्थमिदम् । ‘एका’ ‘शोणा’ इत्यनयोः ‘एड् प्राचां देशे’ इति वृद्धत्वम् ॥ [२३५ ] || अमहन्नवं नगरेऽनुदीचाम् ॥ (6-2-89) महन्नवभिन्नस्य पूर्वपदस्य आदिरुदात्तः नगरशब्दे उत्तरपदे, तश्चेन्नगरमुदीचां न भवति । ‘विराटनगरम् ’ । अमहन्नवेति किम् ? ‘महानगरम् ’ । नवनगरम् ’ । उदीचां तु ‘नन्दिनगरम् ’ ॥ । [२३६ ] || अमें चावर्णं यच्त्रयच् ॥ (6-2-90) अवर्णान्तस्य व्यचः त्र्यचश्च आदिरुदात्तः अर्मशब्दे उत्तरपदे । ’ दत्तार्मम्’ । ’ कुक्कुटार्मम्’ । अवर्णं किम् किम् ? ‘बृहदर्मम्’ । " अनित्यत्वात् इह ’ स्वरविधौ व्यञ्जनमविद्यमानवत्’ इति न महार्मम्’ । प्रवर्तते । " इति हरदत्तः । ’ अमहन्नवम्’ इत्येव । ‘नवार्मम्’ ॥ [२३७] ॥ न भूताधिकसंजीवमद्राश्मकज्जलम् ॥ (6-2-91) पूर्वसूत्रप्राप्तं निषिध्यते । ‘भूतार्मम्’ । ’ अधिकार्मम् ’ सञ्जीवार्मम्’ । ’ मद्राश्मर्मम्’ । " मद्राश्मग्रहणं संघातविगृहीतार्थम्’ । ‘मद्रार्मम्’ । ’ अश्मार्मम् ’ " इत्यप्युदाहृतं वृत्तौ ।
- नदीनगरम् घ. ।
२३६ तत्र ’ अश्मार्मम्’ रसिकायाम्lhi इत्यनुदाहरणम् ; अश्मशब्दस्य च नलोपे सति अवर्णान्तत्वम् ; ८८ [सू. २३८ नान्तत्वेन प्राप्त्यभावात् । न ’ नलोपः सुप्स्वर’ इति नलोपस्य असिद्धत्वात् । अत एव पश्चाम् इत्यत्र नलोपस्य असिद्धत्वान्नायं स्वरः" इति ’ नलोपः सुप्स्वर इत्यत्र वृत्तौ । मद्राश्मशब्दस्तु अनोऽश्मायस्सरसां जातिसंज्ञयो: ’ इत्यचि अवर्णान्त एव । ’ मद्राश्मग्रहणं संघातविगृहीतार्थम्’ इति वचनमेव मिथ्या ; मुनित्रयानुक्ते:’ इति’ हरदत्तः । ’ कज्जलार्मम् ’ । (वा) | आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ॥ ‘दिवोदासाय गायत | ‘दिवश्च दासे’ इत्यलुक् ॥ अधिकार: ॥ [ २३८ ] ॥ अन्तः ॥ ( 6–2–92) [२३८] ॥ [२३९] ॥ सर्वं गुणकात्स्न्यें ॥ (6–2–93) ॥ ( ’ । गुणकार्यवृत्तेः सर्वशब्दस्य अन्त उदात्तः । ’ सर्वश्वेतः सर्वमहान् ’ । ‘पूर्वकाल’ इति समासः । इह ‘सर्वशुद्धवाल: ’ इत्यत्र सर्वश्वासौ शुद्धश्च इति समासः 1 तत्र अनेन सर्वस्य अन्त उदात्तः । ततः सर्वशुद्धो वालो यस्य इति बहुव्रीहिः । पूर्वपदप्रकृतिस्वरः " इति केचित् । एतच्च अवग्रहविरुद्धम् । यदि च बहुव्रीहावपि एतद्योग प्रवृत्तिः, तदा त्रिपक्बहुव्रीह्यभ्युपगमेन अत्र स्वरसिद्धिः । अवग्रहे च न दोषः ॥
- ऋषित्रयानुक्तेरित्यपरे इति घ.
- अधिकारोऽयम् ङ.
i सू. २४३]
समासस्वरप्रकरणम् [२४० ] ॥ संज्ञायां गिरिनिकाययोः ॥ (6–2–94) २३७ पूर्वपदस्य अन्त उदात्तः । ’ अञ्जनागिरिः । ’ वनगिर्योः’ इति दीर्घः । ’ शिल्पितिकायः ’ ॥ [२४१] ॥ कुमार्यां वयसि ॥ (6–2–95) पूर्वपदस्य अन्त उदात्तः । ‘वृद्धकुमारी ’ 1 अत्र कुमारीशब्दः पुंसंयोगाभावपरः, न तु प्रथमवयोवचन इति वृद्धशब्देन सामानाधिकरण्यात् विशेषणसमास: । ‘पुंवत् कर्मधारय ’ इति पुंवद्भावः । न च कुमारीशब्दस्य वयः परत्वाभावे इत्यनन्वयः ; समस्यमानपदान्तरेण चेद्वयो ’ वयसि ’ गम्यते इति तदर्थात् । अत्र च वृद्धपदेन वयःप्रतीतेः । यत्र तु पदान्तरेण न वयोऽन्तरप्रतीतिः, तत्र नैव स्वरः । ’ परमकुमारी’ ॥ [२४२] ॥ उदकेऽकेवले ॥ (6–2–96) 1 अकेवलं द्रव्यान्तरसंपृक्तम्, तद्वाचिनि समासे पूर्वपदस्य अन्त उदात्तः उदकशब्दे उत्तरपदे । ‘गुडोदकम् ’ । परत्वात् कृते स्वरे एकादेशः । स च ‘स्वरितो वानुदात्तेपदादौ ’ इति पक्षे स्वरितः । अकेवले किम् ? ’ शीतोदकम् ’ ॥ गर्गाणां [२४३] ॥ द्विगौ क्रतौ ॥ (6-2–97) क्रतुवाचिनि समासे पूर्वपदस्य अन्त उदात्तः द्विगावुत्तरपदे । त्रिरात्रः ‘गर्गत्रिरात्र: ’ । तिसृणां रात्रीणां समाहारः ’ त्रिरात्र: ’ अहः सर्वैकदेश’ इत्यच् ॥
१३८ स्वर सिद्धान्तचन्द्रिकायाम् [२४४] ॥ सभायां नपुंसके ॥ (6–2–98) 11. [सू. २४४ नपुंसके समासे पूर्वपदस्य अन्त उदात्तः सभाशब्दे परे । गोपालसभम्’ । ’ अशाला च’ इति क्लीबत्वम् ॥ [२४५] ॥ पुरे प्राचाम् ॥ (6–2–99) 11 पूर्वपदस्य अन्त उदात्तः प्राचां देशे पुरे परे । ‘दत्तपुरम्’ । प्राचां किम् ? ’ कार्तपुरम् ’ । ‘उदपुरमन्नैन’ ॥ 11 [२४६] ॥ अरिष्टगौडपूर्वे च ॥ (6–2-100) अस्मिन् समासे पूर्वपदस्य अन्त उदात्तः पुरशब्दे । अरिष्टपुरम् ’ । ‘गौडपुरम् ’ । । ’ अरिष्टगौडयो:’ इति वक्तव्ये पूर्वग्रहणम् अरिष्टगौडौ पूर्वौ यस्मिन् समासे इति बहुव्रीहिलाभाय । ‘गौडभृत्यपुरम्’ इत्यत्रापि अरिष्टगौडयोरयं तेन ‘अरिष्टश्रितपुरम्’ स्वरः सिद्धः ॥ [२४७] ॥ न हास्तिनफलकमार्देयाः ॥ (6-2-101) ’ पुरे प्राचाम् ’ इत्यस्य निषेधः । ’ हास्तिनपुरम् ’ 1 ‘फलकपुरम्’ । ‘मार्देयपुरम्’ । मृदोरपत्यं मार्देयः । शुभ्रादिः । ‘ढे लोपोऽकवाः ’ ॥ सू. २५०]
समासस्वरप्रकरणम् [२४८ ] ॥ कुसूलकूपकुम्भशालं बिले ॥ (6-2-102) २३९ एषामन्त उदात्तः । ‘कुसूलबिलम् ’ C कूपबिलम् ’ । कुम्भबिलम् ’ ’ । ’ शालाबिलम्’ । लिङ्गविशिष्टग्रहणात् ‘कुसूली- बिलम्’ ॥ [२४९] || दिक्शब्दा ग्रामजनपदाख्यान चानराटेषु ॥ (6-2-130) दृष्टः दिक्शब्द इति कालवाचिनामपि ग्रहणम् ; दिशि शब्दः इत्याश्रयणात् । तेषामन्त उदात्तः प्रामजनपदाख्यानार्थेषु चानराटशब्दे च उत्तरपदेषु । ’ पूर्वेषुकामशमी पूर्वेषुकामशमी’ । ’ दिक्संख्ये संज्ञायाम् ’ इति समासः । जनपद—’ पूर्वपाञ्चालाः ’ ‘पूर्वापरप्रथम’ इति समासः । आख्यान – ‘पूर्वयायातः ’ ययातिमधिकृत्य कृतो ग्रन्थः ‘यायातः ’ 1 । ततः कर्मधारयः । अत्र पूर्वशब्दः काले । ‘पूर्वचानराट: ’ ॥ [२५०] ॥ आचार्योपसर्जनश्चान्तेवासिनि ॥ (6-2-104) दिक्शब्दानां अन्त उदात्तः आचार्योपसर्जनकान्तेवासिनि उत्तरपदे । सूत्रे प्रथमा सप्तम्यर्थे । ‘पूर्वपाणिनीया:’ । पाणिनेः छात्रा: पाणिनीयाः’ । अत्र शिष्याः प्रधानं आचार्य उपसर्जनं शाब्दबोधे । आचार्योपसर्जनं किम् ? ’ पूर्वशिष्याः ’ ॥
- इदं ख. नास्ति ।
- इदं घ.
नास्ति । २४०
स्वरसिद्धान्तचन्द्रिकायाम् ।। [सू. २५१ [२५१] ॥ उत्तरपदवृद्धौ सर्वं च ॥ (6-2-105) ।। ’ ’ उत्तरपदस्य ’ इत्यधिकृय या वृद्धिर्विहिता तद्वति उत्तरपदे सर्वशब्दस्य दिक्शब्दानां च अन्त उदात्तः । ’ सर्वपाञ्चालकः ’ ‘पूर्वपाञ्चालकः ’ । ‘अवृद्धादपि बहुवचनविपयात्’ इति जनपदलक्षणो वुञ् । ‘सुसर्वार्धदिक्शब्देभ्यो जनपदस्य’ इति तदन्तविधिः । ‘सुसर्वार्धाज्जनपदस्य ’ ’ दिशो मद्राणाम्’ इत्युत्तरपदवृद्धिः अधिकारविज्ञानात् ‘सर्ववैद्यः ’ ’ सर्वभासः’ इत्यादौ नैष स्वरः ।। (वा) || पूर्वपदान्तोदात्तप्रकरणे मरुद्द्धादीनां छन्दस्युपसंख्यानम् ॥ ’ उत्तरपदादिः ’ ’ इत्यनुवर्तमाने- ॥ [२५२] ॥ कंसमजशूर्पपाय्यकाण्डं द्वौ || (6-2-122) द्विगुसमासे एतानि उदात्तानि । ‘द्विकसः’ । आर्हीयस्य ठकः ‘अध्यर्ध’ इति लुक् । ‘द्विमज:’ । पूर्ववत् ठको लुक् । शूर्पादञन्यतरस्याम्’ इत्यत्रः ठञो वा लुक् । पाय्यशब्दो मानवाची पाय्यसान्नाय्य इति द्विशूर्पः’ । द्विपाय्यम्’ । निपातित: ¡ ततः द्विकाण्डम् ’ । ठञो लुक् । द्वे काण्डे प्रमाणमस्य ’ प्रमाणे लो द्विगोर्नित्यम्’ इति लुक् ॥
- उत्तरपदादिः ङ. नास्ति ।
- दिगावुत्तरपदानामेषांमादिरुदात्तः ङ.
- द्विमन्थः ङ.
सू. २५६]
समासस्वरप्रकरणम् [२५३ ] ॥ तत्पुरुषे शालायां नपुंसके, (6-2-123) शालान्ते नपुंसके तत्पुरुषे उत्तरपदस्य आ ‘द्विजशालम्’ । ’ विभाषा सेनासुरा’ इति कीबत्व [२५४] कन्था च ॥ (6–2–124) नपुंसके तत्पुरुषे कन्थाशब्दस्य उत्तरपदस्य सुशमस्य अपत्यं सौशमिः । तस्य कन्था ‘सौश संज्ञायां कन्थोशीनरेषु’ इति क्लीबत्वम् ॥ [२५५] आदिचिहणादीनाम् ॥ (5-2- क्कीबे कन्थान्ते तत्पुरुषे एषाम् आदिरुदात्तः । पूर्वपदाद्युदात्तार्थम् । ‘चिहणकन्थम्’ । चिहणो ‘मन्थरश्चैव मधुरो वैतुलस्तथा । भवेत् पटत्को दैवाहिः कर्णं कुक्कुट चिक्कणश्चिकणेत्यन्ये त एते चिहणादयः [२५६] || चेलखेटकटुककाण्डं गर्हाय (6-2-126) एषाम् उत्तरपदानाम् आदिरुदात्तो गर्हायाम् । ‘पुत्रचेलम्’ । चेलवत् तुच्छम् इत्यर्थः । ‘उपानत्खेटम 1. मरसश्चैवमत्रो ङ. 2. वैडाहिकर्णिः ङ. बैड स्वC-9. Shri Vipin Kumar Col. Deoband. In Public Domain. २४२
स्वर सिद्धान्तचन्द्रिकायाम् [सू. २५७ तद्वदुर्बला उपानत् । ‘दधिकटुकम्’ । कटुकमस्वादु । ‘भूतकाण्डम् ’ । काण्डं शरः, तद्वत् सत्त्वपीडाकरं भूतम् । व्याघ्रादय एते ।। [२५७ ] ॥ चीरमुपमानम् ॥ ( 6–2–127) अस्य उत्तरपदस्य आदिरुदात्तः । वस्त्रं चीरमित्र ‘वस्त्रचीरम्’ । व्याघ्रादिः || [२५८] || पललसूपशाकं मिश्र ॥ (6–2-128) एषाम् आदिरुदात्तो मिश्रवाचिनि तत्पुरुषे । गुडेन मिश्रं पललम् ‘गुडपललम्’ । ’ घृतसूप:’ । ’ घृतशाकम् ’ । ’ भक्ष्येण मिश्रीकरणम्’ इति समासः 11 [२५९] कूलसूदस्थलकर्षाः संज्ञायाम् ॥ (6-2-129) एषाम् उत्तरपदानाम् आदिरुदात्तः । ’ दाक्षिकूलम्’ । ‘भाजीसूदम्’ । ‘असम्मृष्टोऽसि हव्यमूर्दः । ‘हव्यानि हृदयानि सूदयति पाचयतीति ‘हव्यसूद:’, अग्निविशेषस्य नाम । षूद् क्षरणे । क्षरणं पाकविशेषः । — कर्मण्यण्" इति वेदभाष्यम् | ‘नाडायनस्थली’ । ’ दाक्षिकर्षः ’ । ग्रामविशेषस्य एताः संज्ञाः । ‘भाजी’ ‘स्थली’ इति ‘जानपद’ इति ङोष् ॥ [२६० ] || अकर्मधारये राज्यम् ॥ (6–2–130) राज्यस्य ‘ब्राह्मणराज्यम् उत्तरपदस्य आदिरुदात्तः कर्मधारयभिन्ने तत्पुरुषे । । ‘पितरौ यमराज्य’’ ! सू. २६३]
समासस्वरप्रकरणम् (वा) || चेलराज्यादिस्वरात् अव्ययस्त्ररः पूर्वविप्रतिषेधेन ॥ २४३ ‘कुचेलम्’ । ‘कुराज्यम्’ । आदिशब्दात् ‘वर्यादयश्च’ इति वक्ष्यमाणस्वरो गृह्यत इत्याहु: । ’ कुचयः’ इत्यादि ॥ , [२६१] ॥ वर्ग्यादयश्च ॥ (6-2-131) एषाम् उत्तरपदानाम् आदिरुदात्तः पूर्वविषये । वासुदेववर्ग्यः ’ | ‘वर्यादयः प्रतिपदं गगे न पठिताः । दिगादिषु तु वर्ग, पूग, गण, इत्यादयो ये पठिताः त एव यत्प्रत्ययान्ता वर्ग्यादय इति इह प्रतिपत्तव्याः’ इति वृत्तौ ॥ [२६२ ] ॥ पुत्रः पुम्भ्यः ॥ ( 6–2–132) ॥ पुंशब्देभ्य उत्तरपदस्य पुत्रस्य आदिरुदात्तः । ’ दामकपुत्रः ’ । लिङ्गविशिष्टग्रहणात् पुत्रीशब्देऽपि अयं स्वरः 1 कुसूलीबिलम् ’ ’ नाडायनस्थली ’ इत्यादिवत् । इत्यादिवत् । ’ सूतपुत्री’ । शार्ङ्गरवादिङीनन्तः पुत्रीशब्दः । सूतोयराज भोजकुलमेरुभ्यो दुहितुः पुत्रडवा’ इति विहितस्तु पुत्रशब्दो न अनेन गृह्यते, सानुबन्धकत्वात् । ‘सूतपुत्री’ । । एवं विस्पष्टे स्वरभेदे ‘स्वरभेदो दुरुपपाद इति नारभ्यम्’ इत्यादि शार्ङ्गरवादिसूत्र कौस्तुभोक्ति- समासन्तस्वरः पुत्रडादेशवार्त्तिकं नारभ्यम्’ श्चिन्त्या । पुम्भ्यः किम् ? ’ प्र॒मुदै कुमारीपुत्रम् ’ ॥ [२६३] ॥ नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः॥ (6-2-133)
संयुक्ताः – स्त्रीसंबधिनः स्यालादयः । ज्ञातयः – पितृसंबन्धिने बान्धवाः । आख्याग्रहणस्य आचार्यादिभिः प्रत्येकं संबन्धात्
- प्रातिष्ठकिshpin umar Tel. Deoband. In Public Domain. २४४ पर्यायविशेषयोरपि
स्वरसिद्धान्तचन्द्रिकायाम् ग्रहणम् । एतेभ्यः परस्य उदात्तः । ’ आचार्यपुत्रः ’ । ’ उपाध्यायपुत्रः [सू. २६४ पुत्रस्य आदिर्न । ’ शाकटायन- पुत्रः’ । श॒तेन॑ राजपुत्रैः’ । एवमितरत्रापि उदाहार्यम् ॥ [२६४] ॥ चूर्णादीन्यप्राणिषष्ठ्याः ॥ (6–2–134) ’ मुद्गचूर्णम्’ अप्राणिवाचिनः षष्ठ्यन्तात् परेषां एषाम् आदिरुदात्तः । प्राणिषष्ठ्यास्तु ‘मत्स्य चूर्णम्’ । ‘चूर्णादीनि अप्राण्युपग्रहात्’ इति पाठान्तरम् । तत्रापि उपग्रहशब्देन षष्ठ्यन्तमेव पूर्वाचार्यप्रसिद्धया गृह्यत इति वृत्तौ ॥ ‘चूर्णादिश्चूर्णकरिपकरिवाः शाखिनस्तथा । शाकटिश्व’ तथा द्राक्षा भवेतां द्राक्षा भवेतां कुस्त कुन्दमौ ॥ दलपश्चमसी च स्याच्चणकचङ्कणेत्यपि । वृत्तावमी प्रपठिताश्चौळश्चेति त्रयोदश ॥’ [२६५] ॥ षट् च काण्डादीनि ॥ (6-2–135) ’ काण्डं गर्हायाम्’ इत्यारभ्य ये प्रागुक्ताः काण्डचीरपललसूपशाककूलशब्दाः षट्, अप्राणिषष्ठ्याः परेषाम् एषाम् आदिरुदात्तः । ( शरकाण्डम् ’ । ’ कुशचीरम् ’ । ’ लवणपललम् ’ । ‘मुद्द्रसूपः 1 ‘कटुकशाक:’ । ‘नदीकूलम् ’ ॥ [२६६] ॥ कुण्डं वनम् ॥ (6–2–136) वनार्थकस्य कुण्डस्य उत्तरपदस्य आदिरुदात्तः । ’ शरकुण्डम् ’ रसमुदायः । वनं किम् ? ’ मृत्कुण्डम् ’ मृत्कुण्डम्’ । भाजनविशेषः 1. शाकटाश्व क. ङ. 2. - कुन्दुमौ ख.
सू. २६७] समासस्वरप्रकरणम् २४५ कुण्डशब्दः समुदायभाजन विशेष योस्तटाकादिशब्दवद्विशिष्टाधारे जले च वर्तते । वनशब्दोऽपि समुदायजलयोः । । तत्र ‘वनम्’ इति विशेषणात् भाजनवचनकुण्डशब्दनिवृत्तावपि जलवचनकुण्डशब्देऽतिप्रसङ्ग एवेति तं वारयितुं वार्तिकम् - ॥ कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् ॥ इति । तच्छब्देन च अत्र समस्यमानपूर्वपदार्थो गृह्यते । समुदाय- वाची अत्र वनशब्दः, न तु उदकार्थ इत्यर्थः । तेन ’ , मृत्कुण्ड: इत्यत्र उदकवचनेऽपि नातिप्रसङ्ग इति केचित् । अन्ये तु तत्समुदायशब्देन वनसमुदायो गृह्यते । तेन वनसमुदाये वाच्ये कुण्डशब्दस्य स्वरः, न तु वनमात्रे इति वार्त्तिकाशयमाहुः ॥ [२६७ ] ॥ प्रकृत्या भगालम् ॥। (6–2–137) भगालार्थं उत्तरपदं प्रकृतिस्त्ररम् । ’ कुम्भीभगालम् ’ । कुम्भी कपालम् ’ । ‘कुम्भीनदालम्’ । भगालादयो मध्योदात्ताः ; ’ लघावन्ते ’ इति फिट्सूत्रात् ॥ ॥ इति तत्पुरुषस्वरः ॥
॥ अथ अव्ययीभावस्वरः || [ २६८ ] ॥ परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ॥ (6-2-33) एते वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि च उत्तरपदे प्रकृतिस्वरा भवन्ति । अव्ययीभावार्थोऽयमारम्भः । तत्पुरुषे तु तत्पुरुषे तुल्यार्थ’ इति सिद्ध: । बहुव्रीहावपि ’ बहुव्रीहौ प्रकृत्या ’ इति । ‘परित्रिगर्तं वृष्टो देवः’ । ’ अपत्रिगर्तम् ’ । ’ अपपरी इति ‘पञ्चम्यपापरिभिः ’ इति इत्यव्ययीभावः 1 वजने’ इति कर्मप्रवचनीयसंज्ञायाम पञ्चमी 1 ‘अपपरिबहिरञ्चवः पञ्चम्या ’ प्रतिपूर्वाह्नम् ’ । ‘लक्षणेनाभिप्रती’ इत्यव्ययीभावः । ’ उपपूर्वाह्नम् ’ । सामीप्ये अव्ययीभावः 1 प्रतिपूर्वरात्रः ’ । ’ उपापररात्रम् ’ तत्र अपपरी वर्जने वर्तेते इत्येतयोर्वर्ण्यमान उदाहृतः, नेतरयोः । अहोरात्रावयवा अपि तयोर्वर्ण्यमाना एव इति पृथङ्नोदाहृताः ॥ [२६९] ॥ कूलतीरतूलमूलशालाक्षसममव्ययीभावे ॥ (6-2-121) एषाम् उत्तरपदानाम् आदिरुदात्तः अव्ययीभावे । ‘अनुकूलम् ’ । ‘अनुतीरम्’ । ‘अनुमूलम्’ । ‘अनुतूलम्’ । ‘अन्वक्षम् प्रत्यक्षम् ’ । ’ प्रतिपरसमनुभ्योऽक्ष्णः ’ इत्यच् समासान्तः । ’ परिप्रत्युपापा: ’ इत्यतः परत्वात् ’ पर्यक्षम् ’ इत्यत्र अयमेव स्वरः । ‘सुषमम्’ । ‘विषमम्’ । ‘दुःषमम्’ । समस्य शोभनत्वम्, विगतत्वम्, दुष्टत्वम्, इति विग्रहमाहुः । तिष्ठद्गुरभृतित्वात् एष्पव्ययीभावत्वम् 1 सुविनिर्दुः सुपिसूतिसमाः’ इति इति षत्वम् ‘दहति पुण्यसम तस्य असिद्धत्वात् समशब्द एव अयम् । भवति यदि न दहति पाप॒सम॑म् ’ । ‘इ॒मावपि तिष्ठद्गुप्रभृतिषु 1
- उभावपि ख.
1 ‘सू. २६९] पठितौ 1
समासस्वरप्रकरणम् पुण्यानुरूपम्, पापानुरूपम् " २४७ इत्यर्थः इति वेदभाष्यम् । अव्ययीभावे इति किम् ? ‘सहस्राक्षः बहुव्रीहौ सक्ध्यक्ष्णोः’ इति षचि चित्स्वरः 1 अस्याः पृथिव्या अध्य॑क्षम् ’ । ‘विषम आर्लभेत विषमाः ’ । तत्पुरुषत्वात् इह अव्ययपूर्वपदप्रकृतिस्वर इत्याहु: । यत्तु – ’ परोक्षम्’ इत्यत्र अनेन उत्तरपदाद्युदात्तत्वम् इति, तच्चिन्त्यम् ; परोक्षे लिट् ’ हि भाष्ये परोक्षशब्द इत्थं व्युत्पादित:- ‘परोभावः परस्याक्षिण परोक्षे लिटि दृश्यताम् । । समासः इत्यत्र उत्वं वादेः परादगः सिद्धं वास्मान्निपातनात् ॥’ इति । तत्र कैयटः — अक्ष्णः परमिति विग्रहे मयूरव्यंसकादित्वात् योगविभागात् अच्प्रत्यन्ववपूर्वात्’ इत्यत्र I — अच् समासान्तः 1 अत एव निपातनाद्वा’ ’ प्रतिपरसमनुभ्योऽक्ष्ण: ’ इत्यच् । स यद्यपि अव्ययीभावे विधीयते, तथापि परशब्दस्य अक्षिशब्देन अव्ययीभावासंभवात् समासान्तरे विज्ञायते इति । वृत्तिविषये अक्षिशब्दः सर्वेन्द्रियवचनः, न चक्षुर्वचनः । अन्यथा इन्द्रियान्तरविज्ञातं परोक्षमापद्येत । एवं च ’ अक्ष्णोऽर्दशनात्’ इत्येव अच् समासान्त इति हरदत्तः । एवं च परोक्षशब्दस्य अव्ययीभावअयं स्वरः ? केचित्तु — अव्ययीभावाधिकारे त्वाभावात् कथमत्र प्रतिपरसम्’ इत्यविधिसामर्थ्यात् परोक्षशब्दस्यापि अव्ययीभावत्वं विज्ञायते—इति । ‘तेष्वेव परोक्षं जुहोति’ इत्यत्र वेदभाष्ये तु - अक्षाण्यतीत्य वर्तत इति ‘अव्ययं विभक्ति’ इत्यादिना अत्ययेऽव्ययीभावः इति स्थितम् । यद्वा ’ सिद्धं वास्मान्निपातनात्’ इत्यत्र ‘निर्भाग: समुदाय इन्द्रियागोचरार्थवाची निपात्यते ’ इति कैयटोक्तेः अखण्डपरोक्षशब्दे ‘लघावन्ते’ इति मध्योदात्तता ॥
- यद्वा ॥ इति अव्ययीभावस्वरः ॥ घ. अधिकम् ।
॥ अथ द्वन्द्वस्वरः ॥ | ॥ राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु ॥ (6-2-34) चनां बहुवचनान्तानां यो द्वन्द्वः अन्धकवृष्णिषु पदप्रकृतिस्वर: । ’ श्वाफल्कचैत्रकाः ’ ऋष्यन्धक ‘शिनिवासुदेवा:’ । शिनिशब्द आद्युदात्तः तदपत्येषु अन्धकवृष्णीनां क्षत्त्रियत्वाव्यभिचारात् राजन्यग्रहणे यग्रहणम् अभिषिक्तक्षत्त्रियवंश्यत्वलाभाय । तेनेह न, । द्वीपे भवा द्वैप्या: । ‘द्वीपादनुसमुद्रं यन् ’ । यताः । एतेऽन्धकवृष्णिवंश्यराजन्याः, न तु अभिन इति किम् ? ’ संकर्षणवासुदेवौ’ । द्वन्द्व इति मारा: ’ वृष्णिकुमाराः ’ । अन्धकवृष्णिषु किम् ? यान्ति ॥ १] ॥ संख्या ॥ (6–2–35) द्दं प्रकृतिस्वरं द्वन्द्वे । ‘एकादश च मे त्रयोदश 1 दश च इति द्वन्द्वः । ’ प्रागेकादशभ्यः इभीका’ इति कन्नन्त एकशब्दः । ’ त्रेत्रयः ’ त्तो निपात्यत इत्याहु: । ’ सप्तविशति: ’ ‘लिङ्गमशिष्यम्’ इति न क्लीबत्वम् । यमपदलोपिसमासाश्रयणे तु पूर्वपदप्रकृति- स्थितम् ॥
सू. २७४]
समासस्वरप्रकरणम् [२७२] ॥ आचार्योपसर्जनश्चान्तेवासी ॥ (6-2-36) २४९ आचार्योपसर्जनकान्तेवासिवाचक सर्वावयवकद्वन्द्वे पूर्वपदं प्रकृति- स्वरम् । ‘आपिशलिपाणिनीयाः’ । आपिशल्या अपत्यमापिशलिः । तस्य छात्रा: ‘आपिशला: ’ । इञश्च’ इत्यण् । पाणिनेः छात्राः ‘पाणिनीया: ’ । आचार्योपसर्जनकान्तेवासिवचनत्व मवयवद्वारा द्वन्द्वस्य विशेषणम्, न तु पूर्वपदस्य । तेन यत्र पूर्वपदमात्रं तथाभूतं तत्र नैष स्त्ररः । ’ पाणिनीयदेवदत्तौ ’ ॥ [२७३ ] ॥ कार्तकौजपादयश्च ॥ (6–2–37) एषु द्वन्द्वेषु पूर्वपदं प्रकृतिस्वरम् । ‘कार्तकौजपौ’ कृतकुजपाभ्याम् ऋष्यण् यजेः ण्यति ( यजयाच टाबादि । ’ याज्या ’ 1 ८ 1 इह याज्यानुवाक्याशब्दः पठितः । इति न कुत्वम् । तित्स्वरित: 1 समानी य॑ज्यानुवाक्यै भवतः पि॒तॄणां या॑ज्यानुवा॒क्या॑भिः ’ इत्यादौ व्यत्ययात् अन्तस्वरितः दोषावस्तः शब्दो द्वन्द्वः 1 कार्तकौजपादिः । रात्रावहनि च इत्यर्थः ’ । निपातेन एतेन निपाताद्युदात्तत्वम्’ इति ‘दोषव- स्तर्धिया’ इत्यत्र वेदभाष्यम् । ’ यत्सायम्प्रातः ’ कौजपादयो विस्तरभयान्न लिख्यन्ते ॥
। कार्त- [२७४ ] ॥ देवताद्वन्द्वे च ॥ (6–2–141) अत्र पूर्वोत्तरपदे युगपत् प्रकृतिस्वरे स्तः । ’ इन्द्रा॒वरु॑णयोर॒हम्’ । ’ ताव॑त्र॒ताम॒ग्नीषोमाँ। ‘इन्द्राबृह॒स्पत’’ । ‘ऋजेन्द्र’
- इत्यर्थे निपातितः ख. स्व-32 २५० स्वर सिद्धान्तचान्द्रकायाम् Digitized by Madhuban Trust Delhi [सू. २७४ । इति रन्नन्तः इन्द्रशब्दो निपातितः । उनन्नन्तो वरुणशब्दः अग्निशब्दो व्युत्पादितः । मन्नन्तः वनस्पत्यादित्वात् द्वौ उदात्तौ । सोमशब्द: । बृहस्पतिशब्दे मित्रावरुणा शरद इत्यत्र षाष्ठमामन्त्रिताद्युदात्तत्वम् । ‘आ नौ मित्रावरुणा’ इत्यादौ आष्टमिको निघातः । यत्तु स्वरमञ्जर्याम् — यत्रो भयोरेकस्मिन् हविषि देवतात्वं तत्रैव अयं युगपत् प्रकृतिस्वरः, नान्यत्र, यथा ‘सूर्याचन्द्रमसौ धाता’ – इति, यच्च व्याख्यातम् - न ह्यत्र अनयोरेकस्मिन् हविषि मिलितयोर्देवतात्वं संभवति, सृष्टिप्रस्तावनादिति भावः 1 न चैवम् देवताद्वन्द्वे च’ इति आनङपि अत्र न स्यात् इति वाच्यम् ; स्वरविधौ एवं नियमाश्रयणात् — इति, तदुभयं निष्प्रमाणकम् ; मुनित्रयानुक्तेः । वृत्त्यादावपि अस्य अर्थस्य अदर्शनात् । ‘नोत्तरपदेऽनुदात्तादौ’ इति निषेधेनैव उक्तलक्ष्यनिर्वाहाच्च । एवं नियमाश्रणे द्यावा॑पृथि॒वी स॒हस्ता॑म्’, ‘मि॒ित्रावरु॑णौ त्वोत्तर॒तः परिधत्ताम्’ इत्यादौ वेदे लोके च एतत्स्वराभावप्रसङ्गाच्च अत्र प्रकरणे द्युप्रभृतीनामेकस्मिन् हविषि देवतात्वासंसवात् । एतेन ’ देवताद्वन्द्वे च ’ इति आनङ्विधाविव एकहविर्भागित्वादिना प्रसिद्ध साहचर्यदेवतायुगवाचिनि द्वन्द्व एव अयं स्वर इति ‘सूर्याचन्द्रमसौ’ इत्यत्र न दोष:’ इति स्वरमञ्जर्थभिप्रायवर्णनमपास्तम् । तत्र हि " आनङ् ऋतो द्वन्द्वे ’ इति प्रकृते पुनः ‘देवताद्वन्द्वे च’ इति द्वन्द्वग्रहणमुक्तदेवताद्वन्द्वविशेषपरिग्रहाय । तेन ‘ब्रह्मप्रजापती’ इत्यादौ न आनङ्” इति आकरे स्थितम् । न ह्येवं प्रकृते किञ्चिन्नियामक सांस्त । अत एव अत्र वृत्त्यादौ नायमर्थः प्रदर्शितः । अत एव च ‘नोत्तरपदेऽनुदात्तादौ ’ इत्यत्र ’ उत्तरपदग्रहणाभावे सति अनुदात्तादित्वं द्वन्द्वविशेषणं स्यात् । ततश्च ‘चन्द्रसूर्यौ’ इत्यादौ अयं निषेधः स्यात्, द्वन्द्वस्य अनुदात्तादित्वात्’ इति हरदत्तः । अत्रापि चन्द्रसूर्ययेोरेकहविर्भागित्वेन प्रसिद्धयभावात् ’ तत्र द्वन्द्वविशेषपरिग्रहे निषेधः स्यात् '
सू. २७५] समासस्वरप्रकरणम् २५१ इत्यनुपपन्नम् । अत एव आनङपि अत्र न कृतः । अपि च एवं विवक्षायामपि ‘सूर्याचन्द्रमसौ’ इत्यत्र न दोष इति निरास: अयुक्त:’ ; ’ सूर्याचन्द्रमोभ्यां वेहतमालभेत ’ इत्यापस्तम्बसूत्रेण तयोरपि एकहविर्भागित्वात् । ‘ता सूर्याचन्द्रमसा विश्वधृत्त॑मा मह॒त् ’ इत्यादितत्पशुयाज्यादिरूपैकमन्त्रस्तुत्यत्वाच्च इति ॥ [२७५] ॥ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्र- पूषमन्थिषु ॥ (6-2–142) स्ता॑म्’ । ’ दिवो पृथिव्यादिभिन्ने अनुदात्तादौ उत्तरपदे देवताद्वन्द्वस्वरो न 1 ’ इद्राग्नी वा ए॒तस्य॑ ’ । ’ इन्द्रवायू हि’ । ‘कृपावा’ इत्युणन्तो वायुशब्दः । उत्तरपदे इति किम् ? ‘अनुदात्तादौ’ इत्येतदुत्तरपदविशेषणं यथा स्यात्, द्वन्द्वविशेषण मा भूदिति । हि सति ‘मित्रावरुणौ’ ‘चन्द्रसूर्यौ’ इत्यत्रापि निषेधः प्रसज्येत । अपृथिव्यादिष्विति किम् ? द्यावा॑पृथि॒वी द्यावा’ इत्यत्र द्यावाशब्द आद्युदात्तो निपातितः संप्रसारणं च ’ । षित्त्वात् ङीषि ‘पृथिवी ‘रोदेर्णिलुक् च ’ इति रकि रुद्रशब्दः । ’ इन्द्रापूषणौ’ । ’ श्वन्नुक्षन्’ इत्यादौ पूषनशब्दोऽन्तोदात्तो निपातितः । सोमापूषभ्यां जनत्’ इत्यादौ व्यत्ययेन अन्तोदात्तः । ’ अपृथिवी ’ इत्यादिपर्युदासो लिङ्गम् ’ स्वरविधौ व्यञ्जनमविद्यमानवत्’ इत्यत्र । ८८ C , । ’ प्रथेष्टिवन् लीमरुद्रा’ । 1 अनुदात्तादेश्व ’ इत्यब्बाधनार्थो बिल्वादिभ्योऽश्विधिर्लिङ्गम्’ इति परिभाषावृत्तौ । “शुक्रामन्थिनवगृह्णन्’ । ‘ऋज्ञेन्द्र ’ इत्यत्र शुक्र- शब्दोऽन्तोदात्तो निपातितः । मन्थोऽस्य अस्तीति इन्, ‘मन्थी’ '
- अयुक्तः ख. नास्ति ।
२५२ ८. इति
स्वरसिद्धान्तचन्द्रिकायाम् [सू. २७६ स्वरमञ्जर्याम् ; शुक्रमन्थिशब्दयोरिह ग्रहविशेषवचनत्वम्, न तु देवतावचनत्वम् इति प्राप्तिरेव न इति उभयपदप्रकृतिस्वरत्वं तु अस्य वनस्पत्यादित्वात् ॥ [२७६] ॥ उभे वनस्पत्यादिषु युगपत् ॥ (6-2-140) ‘प्रकृत्या’ इति वर्तते । ’ दे॒वो इति वनस्यादिरुदात्तः । पातेः इतिः । तथा हि- वन॒स्पति॑ः ’ । ‘नब्विषयस्य ’ पतिः । पारस्करादित्वात् सुट् । ‘बृह॒स्पति॑र्नः परि॑पातु प॒श्चात्’ । ’ वर्तमाने पृषद्वृहत् ’ तस्य अत्र केचित् इति अतिप्रत्ययान्तो बृहच्छब्दोऽन्तोदात्तः । आयुदात्तत्वं वर्णयन्तीति वृत्तौ । वर्णयन्तीति वृत्तौ । ‘तदबृहतोः करपत्योश्चोरदेवतयोः सुद् तलोपश्च’ । ’ क्रत्वा शचीपतिः’ । शचेः । शचेः क्तिन्नन्तात् ५ कृदिकारादक्तिन:’ इति ङीषि शची’ । शार्ङ्गरवादिषु पठतां ‘शची । तु ङीनन्तत्वान् आद्युदात्तः । । । तनूनपा॑त्’ । ’ कृषिचमितनि ’ इति ऊप्रत्यये तनूशब्दः । तस्य आद्युदात्तत्वं निपातनात् । न पाति न पातयतीति वा ‘नपात्’ । क्वित्रन्तः । ’ नम्राण्णपात्’ इत्यत्र आद्युदात्तो निपातितः 1 तन्त्रा नपात् ‘तनूनपात् ’ । नरा ‘नराश सः ’ अस्मिन्नासीनाः शंसन्तीति वा व्युत्पत्त्या देशविशेषः, शंसन्ति, नरा 1 एनं अग्निर्वा । नृ नये । ऋदोरप्’ बाहुलाकात् कर्तरि ’ नरः ’ । कर्मण्यधिकरणे वा घञि ’ शंसः’ । निपातनादीर्घः । ‘शुनःशेर्पाः 1 शुन इव शेपोऽस्य । ‘शेपपुच्छलाङ्गूलेषु’ इति षष्ठ्या अलुक् । श्वन्शब्दः ’ श्वन्नुक्षन्’ इति कनिनन्तः । शेपशब्दः सित्वात् आद्युदात्तः । शण्डामकौ’ । ’ उभौ घञन्तौ’ इति स्वरमञ्जर्याम् ।
रुजायाम । पचायच्hri Vipin पड़: Col be समाद्रि Publl सर्चयतेः Domain “शडि ‘इण् -सू. २७७ ]
समासश्वरप्रकरणम् २५३ भीका’ इति कनि ‘मर्क : ’ " इति हरदत्तादयः । ’ तृष्टावरूत्री’ । तृषेः क्ते निपातनान्नेट् । ‘तृष्ट:’ । ‘निष्ठा च व्यच्’ इत्याद्युदात्तः । प्रसितादिसूत्रेण अन्तोदात्तः, ‘वरूत्री’ । ’ अन्येषामपि ’ इति दीर्घः । ‘बम्बाविश्ववयसौ’ । लबि अवस्रंसने । । पचाद्यचि अन्तोदात्तः 1 निपातनाल्लस्य बः । विश्वानि वयांसि अस्य ‘विश्ववया:’ । ’ बहुव्रीहौ विश्वम्’ इति विश्वशब्देऽन्त उदात्तः । प्राग्वद्दीर्ध: । ’ मर्मृत्युः ’ मर्मृत्युः’ । मृङः ‘अन्येभ्योऽपि ’ इति विच् । ‘मर्’ । ‘भुजिमृज्भ्यां युक्त्युकौ’ । ‘मृत्युः ’ । मदेवतार्थ: अनुदात्ताद्युत्तरपदार्थश्च पाठः 11 ॥ इति द्वन्द्वस्वरः ॥ इह द्वन्द्वाना- ॥ अथ बहुव्रीह्यादिस्वरापवादः || [२७७] ॥ वनं समासे ॥ (6–2–178) उपसर्गात् परस्य वनस्य अन्त उदात्त: समासे । ’ ‘यदि प्राणेभिः स॒जोष॑सः । ’ प्रनि- वा ताव॑त् प्रव॒णम्’ । ’ प्रावणेभिः रन्तश्शर इति णत्वम् । इत्यत्र सांहितो दीर्घः । ( ‘निपातस्य च’ इति ’ प्रावणेभिः ’ अत्र अव्ययपूर्वपदप्रकृतिस्वरः प्राप्तः । ‘अपवनम्’ परिवनम्’ इत्यत्र ’ परिप्रत्युपापा:’ इत्यव्ययीभावस्वरस्यापि अयमपवादः । समासग्रहणं समासमात्रे यथा स्यात्, बहुव्रीहिपदानुवृत्तिशङ्का’ मा भूत् इति ॥ दानुषक्तिशङ्का क.
-
- पदानुषुक्ति Kumar Col. Deoband. In Public Domain. ३५४
स्वरसिद्धान्तचन्द्रिकायाम् [२७८] ॥ अन्तः ॥ (6–2–179) पचम्यर्थे प्रथमा । अन्तश्शब्दात् परस्य [सू. २७८ वनस्य अन्त उदात्तः । ’ अन्तर्वणो देश:’ । पूर्ववण्णत्वम् । अनुपसर्गार्थ- मिदम् ॥ [२७९] ॥ अन्तश्च ॥ (6–2–180) उपसर्गात् परस्य’ अन्तशब्दस्य अन्त उदात्तः । ’ प्रान्तः ‘पर्यन्तः ’ । बहुव्रीहिः प्रादिसमासो वा । ’ समन्तं पर्यव॑द्यति ’ समन्तमेव’ । ’ उपान्ते तस्य व्यतिषजेत्’ ॥ [ २८०] न निविभ्याम् || (6–2–181) पूर्वसूत्रेण उक्तस्य निषेधः । न्यन्त:’ । ‘व्यन्तान् करोति पूर्वपदप्रकृतिस्वरः । यणादशे ’ उदात्तस्वरितयोः ’ इति स्वरितत्वम् ॥ [२८१] ॥ परेरभितोभावि मण्डलम् ॥ (6-2-182) अभितः उभयतो भवतीति अभितोभावी । णिनिः । परेरुत्तरस्य अभितोभवनस्वभावकूलादिवाचिनो मण्डलशब्दस्य अन्त उदात्तः ‘परिकूलम्’ । ‘परिमण्डलम्’ । बहुव्रीहिः प्रादिसमासोऽव्ययीभावो वा अव्ययीभावे परिप्रत्युपापा:’ इति स्वरो बोध्यः । ‘ऋषभौ परिमरौ’ । ’ परितः उत्तराधरयोर्मरौ ययोस्तौ
- उत्तरस्य घ्C-0. Shri Vipin Kumar Col. Dषरित 1. मातसिं ॥ ययेस्ली. घ.
सू. २८३] समासस्वरप्रकरणम् २५५ । प्रकृतसूत्रेण अन्तोदात्तः ’ परिमरौ, मृतानुजौ मृतपूर्वजों वा इति वेदभाष्यम् । एवम् ‘देवानां परिषूतमसि’ इत्यत्र । परिषूतं परिगृहीतम् ॥ [ २८२] ॥ प्रादस्वाङ्गं संज्ञायाम् ॥ (6–2-183) प्रात् परस्य अस्वाङ्गवाचिनोऽन्त उदात्तो नाम्नि 1 प्रग्रहम्’ । ’ प्रद्वारम् ’ । बहुव्रीहिः प्रादिसमासो वा । अस्वाङ्गं किम् ? ’ प्रपदम् ’ ॥ [ २८३] || निरुदकादीनि च ॥। (6–2–184) एषामन्त उदात्तः । ’ निरुदकम् ’ ‘निर्मशक्रम्’ इत्यादि । बहुव्रीहिः प्रादिसमासो वा ॥ ॥ परेहस्तपादकेशकर्षाः संज्ञायाम् ॥ इति गणसूत्रम् । ‘परिहस्त: ’ इत्यादि । हरिरिव केशो यस्य ‘हरिकेश:’ । ‘हरिकेशायोपवीतिनै’ इत्यत्र पूर्वपदप्रकृतिस्वर एव दृश्यते । आकृतिगणोऽयम् । तेन “ “सा द्विरूपा वशाभवत्’ इत्यत्र द्विरूपाशब्दस्य अवाशृङ्ग शब्दस्य ‘निर्मन्ध्यं क्षुधो रूपम्’ इत्यादौ निर्मन्ध्यादिशब्दानां च निरुदकादित्वम्” इति वेदभाष्यम् उपपन्नम् ॥
- अस्मिश्च पक्षे प्रवृद्धादित्वादन्तोदात्तः
- नाम्नि घ. नास्ति । ङ.co. अधिकम kumar Col. Deoband. In Public Domain. २५६
स्वर सिद्धान्तचन्द्रिकायाम् [ २८४] अभेर्मुखम् ॥ (6–2–185) अभेः परस्य मुखस्य अन्त उदात्तः बहुव्रीहिः प्रादिसमासो वा [सू०. २८४ ‘अभिमुखम् ’ । । ’ उपसर्गात् स्वाङ्गं ध्रुवम्’ इति सिद्धे वचनम् अबहुव्रीह्यर्थम् अनुवार्थम् अस्वाङ्गार्थं ‘अभिमुखा शाला अत्र ( १ [२८५] ॥ अपाच्च ॥ (6–21–86) च’ 1 मुखमन्तोदात्तम्’ इत्येव । ’ अपमुखम् ’ । अव्ययीभावोऽपि प्रयोजयति । तत्र हि ’ परिप्रत्युपापा:’ प्रकृतिस्वर’ आरब्धः ॥ । [ २८६] || स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीर- नामनाम च ॥ (6–2–187) इति पूर्वपद- अपात् परेषामेषामन्त उदात्तः । ’ अपस्फिगम्’ । ’ अपपूतम् ’ । ‘अपवीणम्’ । ‘अपाञ्ज:’ । ‘अपाध्वा 1 उपसर्गादध्वनः ’ इत्यच् समासान्तो न कृतः ; अनित्यत्वात् । अध्वग्रहणमेव च अनित्यत्वे लिङ्गम् । अन्यथा चित्त्वादेव अन्तोदात्तत्वे सिद्धे तद्ग्रहणवैयर्थ्यात् । ‘अपकुक्षि’ । ‘अपसीरम्’ । ‘अपलाङ्गलम् ’ । अपनाम ’ | सर्वत्र प्रादिसमासो बहुव्रीहिः अव्ययीभावो वा । उपसर्गात् स्वाङ्गम्’ इति सिद्धे स्फिगपूतकुक्षिग्रहणं पूर्वपदबहुव्रीह्याद्यर्थम् । नामग्रहणं सीरशब्देनैव संबध्यते, स्फिगादिभिः ; स्फिगपूतकुक्षीणां पृथग्ग्रहणात् ॥ न तु
- परस्य घ. नास्ति ।
बहव्रीह्यर्थं स्वाङ्गार्थं प्रवार्थ च 3. - प्रकृतिस्वरार्थः घ. घ.
सू. २९० ] .
समासस्वरप्रकरणम् [२८७] । अधेरुपरिस्थम् ॥ (62–188) 11 २५७ अधेः परस्य उपरिस्थवाचिनोऽन्त उदात्तः । ’ अधिदन्तः’ । ’ अधिकर्णः ’ । अध्यारूढो दन्त इति प्रादिसमासः । दन्तस्य उपरि योऽन्यो दन्तो जायते स उच्यते । उपरिस्थं किम् ? 6 , यद॑धिषव॑णे ’ ॥ [ २८८] || अनोरप्रधानकनीयसी ॥ (6-2-189) अनाः परस्य अप्रधानवाचिनः कनीयसश्च अन्त उदात्तः । अनुगतो ज्येष्ठम् ’ अनुज्येष्ठः ’ । अत्यादय:’ इति समासः 1 ‘पित्रा सोम॑मनुष्वधं मदा॑य’ । स्वधा अन्नम् । सोमविशेषणमेतत् । सुषामादित्वात् षत्वम् । ‘अनूकाशमेवैतानि’ । अनुगतः कनीयान् ‘अनुकनीयान् । प्रधानार्थं कनीय शब्दग्रहणम् ॥ [२८९] || पुरुषश्चान्वादिष्टः ॥ (6–2–190) ॥ अनोः परस्य अन्वादिष्टवाचिनः पुरुषस्य अन्त उदात्तः । ‘अनुपुरुष: ’ 1 अन्वादिष्ट :अप्रधानशिष्टः, अन्वाचित इति यावत् । कस्मिंश्चित् प्राक्कथिते योऽन्यः पश्चात् कथ्यते स वा’ ॥ [२९०] ॥ अतेरकृत्पदम् ॥ (6–2-191) अतेः परस्य अकृदन्तस्य पदशब्दस्य अन्त उदान्तः । अत्यङ्कुशो नागः’ । ’ ‘अतिपदा शकरी ’ । इह अव्याप्त्यतिव्याप्ति-
- एवम् एवम् क. सर्वम् ख.
- -पदे घ.
- त्रिपदा घ. स्व17C-0. Shri Vipin Kumar Col. Deoband. In Public Domain.
स्वरसिद्धान्तचन्द्रिकायाम् २५८ परिहाराय ’ ’ अकृत्पदम् ’ इत्यपनीय [सू. २९१ ‘अतेर्धातुलोपे इति वक्तव्यम् इति वार्त्तिकम् । यथान्यासे तु कारकमतिक्रान्तः ‘अतिकारकः’ इत्यत्र अव्याप्तिः । शोभनो गार्ग्यः ‘अतिगार्ग्य: ’ इत्यत्र अतिव्याप्तिश्च । अत्यङ्कुशादौ वृत्तिविषये अतिशब्दोऽतिक्रान्तार्थवृत्तिरिति क्रमेरप्रयोग एव लोपः ॥ ॥ [२९१] ॥ नेरनिधाने ॥ (6–2–192) निधानमप्रकाशता । तद्भिन्नार्थान्नेः परस्य उत्तरपदस्य अन्त उदात्तः । ‘निर्मूलं तृणम्’ । बहुव्रीहिः प्रादिसमासो वा 1 ‘निवात ऐषामभ॑ये स्याम’ । निर्गतो वातो यस्मात्तन्निवातम् । ’ वातोऽपि यत्र स्पन्दितुं न शक्नोति तत्र भयरहितस्थले’ वयं स्याम वर्तेमहि’ इति वेदभाष्यम् ॥ ॥ इति समासस्वरप्रप्रकरणम् ॥ ॥ हरिः ओम् ॥
-
- वारणाय घ. ङ.
- निर्मूल: उ
- अपि क. नास्ति ।
- रहिते Cc-d. Shri Vipin Kumar Col. Deoband. In blic Domain.