०५ धातुस्वरः

॥ अथ धातुस्वरः ॥ [१९] ॥ धातोः ॥ (6–1–162) ‘कर्षात्वत:’ इत्यतः ‘अन्त उदात्तः’ इत्यनुवर्तते । अस्वरस्याच उच्चारणासंभवात् अनियमेन यः कश्चित् स्वरः प्राप्त इति सर्व एव स्वरविधिर्नियमार्थः । धातोरन्त उदात्त एव भवति । ‘अनुदात्तं पदम्’ । इति नियमाच्छिष्टमनुदात्तमेव । यत्र धातोर्विहितः प्रत्ययः अनुदात्तो लुप्तो वा, तत्रास्य स्वरस्य श्रवणम् । अन्यत्र सतिशिष्टत्वात् प्रत्ययस्वरादिः । यथा— ‘भव॑त्या॒त्मन’ । अत्र शप्तिपावनुदात्तौ । ‘यद्यज॑ते’ । अत्रापि शप् पित्वादनुदात्तः । ततः परं लसार्वधातुकमदुपदेशात् परत्वात् ‘तास्यनुदात्तेन्ङिददुपदेशात्’ इत्यनुदात्तम् । सर्वत्र ‘उदात्तादनुदात्तस्य’ इत्यनुदात्तस्य स्वरितत्वं ‘स्वरितात् संहितायाम् ’ इत्यैकश्रुत्यं च यथायथं बोध्यम् । समानवाक्यस्थपदात् परत्वाभावात् ‘भवति’ इत्यत्र तिनिघाताभावः । ‘निपातैर्यद्यदि’ इति यद्योगात् ‘यजते ’ इत्यत्र निघाताभाव: । ‘वार्गस्यैन्द्री’ । अत्र ‘किव्वचि’ इति विहितस्य किपो लोपाद्धातुस्वर: । नन्वन्तग्रहणानुवृत्तिरफला’, ‘अलोऽन्त्यस्य’ इत्येव धात्वन्तस्यान्तोदात्तत्वसिद्धेरिति चेत् —न ; चेत् — न ; ‘स्वरविधौ सङ्घातः कार्यो’ इति परिभाषया स्वरविधौ ‘अलोऽन्त्यस्य’ इत्यादेरप्रवृत्तेरुक्तत्वात् । एवं चान्तग्रहणाननुवृत्तौ प्रथमातिक्रमे कारणाभावात् धातोरादेरुदात्तत्वप्रसङ्गः । अत एव ‘किं धातोरन्त उदात्तो भवति आहोस्विदादिः’ इत्यादिरूपे प्रकृतसूत्रगते ‘अनुदात्तस्य च यत्र’ इति सूत्रगते च भाष्यवार्त्तिके ‘यद्यन्तग्रहणमभिसंबध्यते, ततोऽन्तस्योदात्तेन भवितव्यम्’ ; अथ नानुवर्तते तदा क्रमानुल्लङ्घनादादेर्भवितव्यमिति पक्षद्वयसंभवः’ इति कैयट उपापीपदत्’ । | अनेनैवाभिप्रायेण अन्तग्रहणानुवृत्तिर्वृत्तिकृतापि आश्रिता’ । यद्यप्येकाक्षु .

    • अनुवृत्तिरपि किमर्था घ. 2. उदात्तत्वेन ग. घ.
  1. भाव्यम् छ. स्व5
  2. उदपीपदत् छ.
  3. अत्राश्रिता ख. ग. घ. ङ.

६६

स्वरसिद्धान्तचन्द्रिकायाम् [सू. १९ धातुषु आदेरुदात्तत्वेऽपि न दोषः, अनेकाक्ष्वपि अभ्यस्तसंज्ञकेषु ‘यदि जाग्र्यदि स्वप्नै’, ‘मन॑सा दीध्यान:’ ‘जहात्येनाम्’, ‘ददातु वीरम्’ इत्यादौ ‘अभ्यस्तानामादि:’ ‘अनुदात्ते च’ इति इष्यत एव आद्युदात्तत्वम् । एवं सन्नन्तेषु च ‘यः संग्रामं जिगीषति’, ‘यो वा बुभूषेत्’ इत्यादौ नित्स्वरेणायुदात्तत्वमपि इष्यत एव । ‘य एवं वि॒द्वान् विचिकित्स॑ति ’ इत्यत्र तु व्यत्ययात् ककारेकार उदात्तः । णिजन्तेषु तु ‘यो याजय॑ति’ ‘यत् साधयति’ इत्यादौ ‘चितः’ इत्येव सिद्धमन्तोदात्तत्वम् ; तथापि ‘यज्ज॑ब्ज॒भ्यते॑’, ‘जज्जभ्यमा॑नो ब्रूयात्’, ‘चङ्क्रम्यमा॑णाय स्वाहा’, ‘यदि कामयैत’ ‘कण्डूयमा॑नाय॒ स्वाहो’, ‘यद्धस्तेन कण्डूयेत’, हि॒नस्ति॒ वै सं॒ध्यर्ध॑तम्’, ‘पू॒र्वार्धेना॑न॒ङ्खान्भुनक्ति’’, ‘गोपायः स्व॒स्तये॑’ यथ॑ष॒भाय॑ वाशितान्या॑विच्छ॒ायति॑’ इत्यादौ यङन्ते णिङन्ते’ कण्ड्डादियगन्ते श्नम्प्रत्ययगर्भधातौ गुप्धातौ आयप्रत्ययान्ते ऊर्णोतीत्यादिषु चान्तोदात्तत्वार्थमन्तग्रहणम् । अन्यथा उक्तरीत्या आद्युदात्तत्वप्रसङ्गः । जभी जृभि — गात्रविनामे ।

‘लुपसद्रचरजपजभ’ इति जभेर्यङि ’ सन्यङोः’ इत्यादिना द्विर्वचनादौ ’ जपजभ इत्यभ्यासस्य नुकि लडादौ जञ्जभ्यतेशब्दः । तत्र शपो लसार्वधातुकस्य चानुदात्तत्वात् धातुस्वरः । जञ्जभ्यतेर्लट: शानचि आने मुकि लसार्वधातुकानुदात्वे च जञ्जभ्यमानेत्यत्रापि स एव स्वरः । चडू चडूम्यमाणायेति क्रमेर्यङि ‘नुगतोऽनुनासिकान्तस्य’ इति नुक् । इतरत् पूर्ववत् । यत्तु स्वरमञ्जर्याम्-यङन्ते णिजन्ते च प्रत्ययस्वरेणैवान्तोदात्तत्वसिद्धेर्न तदर्थमन्तग्रहणम् — इति, तदसत् ; अन्तग्रहणाभावे प्रत्ययस्वरं बाधित्वा परत्वात् सतिशिष्टत्वाच्च ‘धातोः ’ ’ इति आद्युदात्तत्वप्रसङ्गात् । एतेन ’’ गोपायति’ इत्यादावसत्यन्तग्रहणे प्रत्ययादिराकार उदात्तः स्यात्’ इति तत्रोक्तं प्रत्युक्तम् । यदि च परिभाषाप्रकरणोक्तरीत्या ‘स्वरविधौ सङ्घातः कार्यो’ इति परिभाषा नाश्रीयते, तदा नात्रान्तग्रहणस्य किंचित् फलमिति मन्तव्यम् ।

  1. णिजन्ते क.
  2. श्नम्प्रत्ययान्ते क.
  3. ऊर्णोतीत्यादिषु च 4. इत्युभयत्र छ,

क. नास्ति । सू. १९.]

धातुस्वर प्रकरणम् ६७ अथान्तग्रहणे सति ‘पाघ्राध्मा’ इति विहिते पिबादेशे स्थानिवद्भावेन ‘धातोः’ इत्यन्तस्याकारस्योदात्तत्वं स्यात् ; ‘पिबति’ इत्यादौ लघूपधगुणनिवृत्तये तस्यादन्तत्वाश्रयणात् । ततश्च ‘या पर्णेन पिब॑ति’, ‘अञ्जलिन वा॒ पिबेत्’ इत्यादौ आद्युदात्तत्व श्रवणविरोधः, शपा सहैकादेशे’ एकादेशस्वरेण द्वितीयस्योदात्तत्वप्रसङ्गादिति चेत् — न ; ‘पाघ्रा’ इति सूत्रे ‘पिब’ इत्याद्युदात्तत्वनिपातनाश्रयणादिति भाष्यादौ । स्वरमय तु पिचिरदन्त एव न । लघूपधगुणाभावस्तु ‘लोपः पिबतेः’ इति निपातनात् । अतो न कश्चिद्दोषः - इत्युक्तम् । नन्वेवमपि ‘पिबेत्’ इत्यत्र कथमाद्युदात्तत्वम् ’ ? ’ यासुद् परस्मैपदेषूदात्तो ङिच्च’ इति यासुट उदात्तत्वेन तत्स्थानिकस्य ‘अतो येयः’ इतीयादेशस्याप्युदात्तत्वेन तेनैकादेशस्य एकादेशस्वरेणोदात्तत्वौचित्यादिति चेत् — ‘अत्रोक्तं स्वरमञ्जर्याम् — यासुट उदात्तत्वेऽपि स्थानिवद्भावेन इयादेशस्य नोदात्तत्वम् ; ’ स्थानिवदादेशः ’ इत्यत्र हि उक्तम् ‘धात्वङ्गकृत्तद्धिताव्यय सुप्तिङ्पदादेशाः प्रयोजनम्’ इति । न ह्यत्र ‘धात्वाद्यादेशा धात्वादिवद्भवन्ति’ इतिवत् ‘आगमादेशा आगमवद्भवन्ति’ इति ‘अभिहितम् - इति, तत्तुच्छम् । न हि ‘धात्वङ्गकृत्तद्धित’ इत्यादि वार्त्तिकं भाष्यं वा । किं तु वार्त्तमिदं वाक्यम् । तदपि प्रयोजनदिक्प्रदर्शनपरम्, न तु परिगणनपरम्, सिच्क्सचङङादीनां श्रादेशस्य शानचश्च स्थानिवद्भावानापत्तेः । ‘घात्वङ्ग’ इत्यादावपाठात् । हरदत्तेनापि ‘प्रयोजनदिक् प्रदर्शनमेतत् ’ इत्युक्तत्वाच्च’ । अपि च आगमादेशस्यागमवद्भावाभावे ‘अग्रहीत्’ इत्यत्र ‘पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति न्यायेन प्रथमं ‘ग्रहोऽलिटि दीर्घः’ इतीटो दीर्घत्वे कृते स्थानिवद्भावेन ‘इट ईटि इति

  1. सह तस्यैकादेशे ङ.
  2. क्वचिद्दोषः ङ.
  3. कथमादिरुदात्तः घ.
  4. शपा सह तदेकादेशस्य ख. ग. अन्यथा
  5. अत्रोक्तम् घ. नास्ति । 6. अभिहितमिति क. ख. घ. नास्ति ।
  6. हरदत्तेन… उक्तत्वाच्च क. ग. घ. ङ. नास्ति ।

६८

स्वर सिद्धान्तचन्द्रिकायाम् [सू. १९ सिज्लोपो न स्यात् । व्यक्तं च स्थानिवत्सूत्रस्थयोः ’ ‘सामान्यातिदेशे विशेषानतिदेशः’ इति वार्त्तिकभाष्यकैयटयोः ‘अग्रहीत्’ इत्यत्र स्थानिवद्भावेन ईट इट्त्वमाश्रित्यैव सिज्लोप इति । यत्तु ‘धात्वङ्ग’ इत्यादिवृत्तिकृद्वचोऽर्थप्रदर्शिकां स्वरमञ्जरीं व्याचक्षाणेन परिमळकृताभिहितम् — लेशतो वार्त्तिकार्थमाहधात्वादेश इति । न ह्यत्रेति । अस्मिन् वार्त्तिक इत्यर्थः – इति, तत् वृत्तिकृद्वचने वार्त्तिकत्वभ्रान्त्या । यदपि तेनैवाभिहितम् – ‘धात्वङ्ग’ इत्यादिस्वरमञ्जर्यभिहित समाधानमभ्युच्चयमात्रम् । स्वरविधेरल्विधित्वात् ‘अनल्विधौ ’ इति निषेधादेव इयादेशस्य स्थानिवत्त्वनिवृत्तिरिति वास्तवः परिहारःइति, तदपि मन्दम् ; ‘अनल्विधौ’ इति निषेधो हि स्थान्यलाश्रये कार्ये भवति । यथा ‘द्यौः ’ ‘पन्थाः’ इत्यादौ । अत्र हि ‘दिव औत् ’ ’ पथिमध्यभुक्षामात्’ इति विहितयोरौकाराकारयोः स्थानिवत्वेन हल्त्वमाश्रित्य ‘हलङयाभ्यः’ इति सुलोपो न । न चात्र इयादेशस्य उदात्तत्वं स्थान्यलाश्रयम् ; येत प्रतिषेधः स्यात् । न च अलि विधीयमाने स्थानिवत्त्वं ‘अनल्विधौ’ इति निषिध्यते तच्चेहाप्यस्तीति युक्तम् ; ‘अरुदिताम्’ ‘अरुदितम्’ इत्यादौ तसाद्यादेशस्य तामादेः स्थानिवत्त्वेन सार्वधातुकत्वमाश्रित्य ‘रुदादिभ्यः सार्वधातुके’ इति इडभावप्रसङ्गात् । अस्ति हि अत्र इड्रूपस्य अलो विधिरिति निषेधापत्तेरित्यादिना भाष्यादावेवास्य पक्षस्य दूषितत्वात् । अत एव फिट्सूत्रेण अन्तोदात्तस्य त्रिशब्दस्य स्थाने भवन् तिसृशब्दः स्थानिवद्भावेनान्तोदात्त इति ‘तिसृभ्यो जस: ’ इत्यत्र कैयटादयः । अपि च मास्त्वागमादेशस्यागमवद्भावः, तथापि इयादेशस्योदात्त्वं दुर्वारमेव ; स्थानेऽन्तरतमपरिभाषया उदात्तवतो यासुट: स्थाने तथाविधस्यैव इयादेशस्य भावादिति । तर्हि ‘पिबेत्’ इत्यत्र कथमाद्युदात्तत्वमिति चेत् — इत्थम् ; ‘तास्यनुदात्तेन्ङिददुपदेशात्’ इति लसार्वधातुकानुदात्तत्वं शत्रूपाददुपदेशाद्भवत् यासुटो भवति, लसार्वधातुकरूपागमिग्रहणेन तस्य ग्रहणादिति यासुटोऽनुदात्तत्वे तत्स्थानिकस्य इयादेशस्याप्यनुदात्तत्वेन एकादेशस्याप्यनुदात्तत्वे

  1. सूत्रगतयोः छ. धातुस्वरस्यैवावस्थाना-
  2. फिट्स्वरेण ग. घ. ङ.

धातुस्वरप्रकरणम् ६९ सू. २०] दिति । एवमेव ‘यत्र स्कन्दैत्’, ‘यदि बलि हरेत्’, ‘स येन॑ य॒ज्ञक्र॒तुना॑ य॒जये॑त्’ इत्यादावपि धातुस्वरो बोध्यः । ’ यद्येकं कपालं नश्येत्’ इत्यादौ श्यन्विकरणेऽपि नित्त्वाद्धातुस्वर: । यन्नावद्येत्’ इत्यादौ तु ‘ओतः श्यनि’ इत्योकारलोपे नित्स्वरेणोदात्तनिवृत्तिस्वरेण वान्तोदात्तत्वम् । ‘यद॑स॒ङ्गं वृश्चेत्’, ‘यदि॒ हिर॑ण्य॒ न विन्देत्’ इत्यादौ अदुपदेशाल सार्वधातुकमनुदात्तमिति यासुटोऽनुदात्तत्वेऽपि शविकरणस्योदात्ततया एकादेशस्वरेणान्तोदत्तत्वं बोध्यम् । इदं त्ववधेयम् - अस्ति हन्तेर्वधादेशः ‘हनो बध लिङ’ ‘लुङि च’ इति सूत्रविहितः । तस्य चाद्युदात्तनिपातनम्’ आश्रितम् ‘अवधीत् ’ ‘अवधिष्ट’ इत्यादौ इण्णिषेधाभावाय । अन्यथा हन्तेरुपदेशेऽनुदात्तत्वादेकाच्त्वाच स्थानिवद्भावेन ‘अवधीत्’ इत्यादौ ‘एकाच उपदेशे’ इति इष्णिषेवप्रसङ्गात् । एवं च ‘यदा वधिषीष्ट’ इत्यादौ स निपातनस्वरः प्रत्ययस्वरं बाधेतर, आर्धधातुके परतो वधादेश इति तन्निपातनस्वरस्य सतिशिष्टत्वात् इति । स्यादादेशे’ निपातनस्वरस्य सतिशिष्टत्वं यद्यार्धधातुके परतो वधादेशः, न त्वेवम् ; ‘आर्धधातुके’ इति विषयसप्तम्याश्रयणात् । एवं चार्धधातुकोत्पत्तेः पूर्वमेव’ वधादेशे पश्चात् आर्धधातुकम् इति प्रत्ययस्वरस्यैव सतिशिष्टत्वात् इष्टसिद्धि:’ इति दिक् ।। [२०] | अनुदात्ते च ॥ (6–1–190) न विद्यते उदात्तो यत्र तन्त्र’ लसार्वधातुके परतोऽभ्यस्तानां आदिरुदात्तः स्यात् । ‘अभ्यस्तानामादि:’ इति सिद्धे अनजाद्यर्थोऽयमारम्भः | ‘ददातु वीरम्’ । ‘याभिर्ददसि’ । पित्त्वात्तिसिपौ अनुदात्तौ । ‘यद्यजु॑षा॒ मिमीते’ । ङितः परत्वाल्लसार्वधातुकमनुदात्तम् ।

  1. -निपातनम् घ. नास्ति ।

  2. इष्टसिद्धेः घ

  3. स्यादेवं निपाग. घ. ङ.

  4. तत्र ग. नास्ति ।

  5. प्रागेव ङ. B

  6. स्यात् ग घ ङः नास्ति ।

७० योगानारम्भे तु अत्र द्विर्वचनं षाष्ठम्’ इति

स्वर सिद्धान्तचन्द्रिकायाम् [सू. २१ धातुस्वरेण उदात्तस्य द्विर्वचने ‘द्विः प्रयोगो सिद्धान्तात् दळद्वयमपि उदात्तम्, ‘अनुदात्तं पदम्’ इत्युक्तेः पर्यायो वा स्यात् । ‘अनुदात्ते’ इतेि बहुव्रीहिनिर्देशा-’ श्रयणादिहापि भवति । ‘मा ‘हि स्म दधात्’ । ‘जहात्येनाम्’ । ‘नीचैरनुदात्तः’ इति पारिभाषिकग्रहणे तु न स्यात् । नित्यत्वात् अन्तरङ्गत्वाच्च ‘इतश्च’ इति इकारलापे यणि च सति अनुदात्ताभावात् । धाञः ‘स्मोत्तरे लङ् च’ इति लङि ‘दधात्’ इति रूपम् ॥ [२१] ॥ भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वं पिति ॥ (6-1–192) एषामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात् पूर्वमुदात्तं भवति । पूर्वापवादः । बिभेति । जिह्रेति । ‘य अण्डकोशे भुवनं विभति’ । ‘विभर्भ्यस्तवे’ इत्यत्र तु व्यत्ययेनायुदात्तत्वम् । ‘यो॑ऽग्निहो॒त्रं जु॒होति॑’ । ‘म॒मत्त॑ नः परि॑ज्मा’ । माद्यतेर्लोटस्तिप् । ‘बहुलं छन्दसि’ इति इयनः श्लुः । मदेः शपः श्लुः इत्यन्ये । ‘ज॒जन॒दिन्द्र॑म्’ । ‘द॒ध॒न॒द्धाने॑ष्ठाः’ । जन–जनने । धन-धान्ये । लिङ लेट् । तिप् । इतश्च लोपः परस्मैपदेषु । शपः श्लुः । द्विर्वचनादि । ‘लेटोऽडाटौ’ इत्यट् । ‘अभ्यस्तानामादि:’ इत्येतदपि अत्र परत्वाद्वाध्यते । दरिद्राति । जागर्ति । ‘भीही’ इत्यादि किम् ? ‘ददातु वीरम्’ पिति किम् ? दरिद्रति । परत्वात् ‘श्रभ्यस्तयोरातः’ इत्याकार लोपे इकार उदात्तः स्यात् । पूर्वग्रहणं ‘सौवर्यः सप्तम्यस्तदन्त सप्तम्यः’ इत्यस्य ज्ञापकम् । प्रत्ययग्रहणं तु ‘स्वरविधौ सङ्घात कार्यो’ इत्यस्य । उभयमेतत् परिभाषाप्रकरण एव प्रदर्शितम् ॥ ॥ इति धातुस्वरप्रकरणम् ॥ नास्ति ।

  1. हि घ. 2. भवति घ नास्ति ।
  2. द्वित्वादि घ.