०४ संहितास्वर-प्रकरणम्

॥ अथ संहितास्वर-प्रकरणम् ॥ इत्थं प्रदर्शितं संज्ञापरिभाषमथोच्यते । अपेक्षितत्वात् सर्वत्र संहितागोचरः स्वरः ॥ [११] उदात्तादनुदात्तस्य स्वरितः ॥ (8–4–66) उदात्तात् परस्यानुदात्तस्य स्वरितः स्यात् संहितायाम् । ‘य॒ज्ञस्य॑ घोषदसि’ । ‘कर्मगे वाम्’ | ‘यजयाचयतविच्छप्रच्छरक्षो नङ्’ इति नङ्प्रत्ययान्तो यज्ञशब्दः प्रत्ययस्वरेणान्तोदात्तः । ततः सुत्रनुदात्तः । कृञो ‘मनिन् सर्वधातुभ्यः’ इति मनिन्प्रत्यये कर्मन्शब्दो नित्स्वरेणाद्युदात्तः । ततः सुबनुदात्तः । शेषनिघातः । तयोरनेन स्वरितत्वम् । न च तमाश्रित्य शेषनिघातः शङ्कयः, यथोदेशपक्षाश्रयणेन ‘अनुदात्तं पदम्’ इति परिभाषायास्त्रिपाद्यामप्रवृत्तेः इत्युक्तत्वात्’ । ‘अग्निमीळे’ इत्यादौ पदकाले नायं स्वरितः । ‘तयोर्खावचि’ इति सूत्रादत्र ‘संहितायाम्’ इत्यनुवृत्तेः । अत एव - पुरोहितमिति पुरः ऽ हितम् - इत्यादाववग्रहेऽपि नायं स्वरितः । परसन्निकर्षाभावेन तत्र संहिताविरहात् । अत एव ‘प्रत्यु॑ष्ट॒मित प्रति उष्टम्’ इत्यादाववग्रहे न यणादेशः । यद्यपि – ‘संहितैकपदे नित्यानित्या धातूपसर्गयोः । नित्या समासे’ इत्यादिवचनात् समासे संहिता नित्या, तथापि अवग्रहे पदकारैः अनुक्रियमाणरूपाविनाशाय संहिता न विवक्षितेत्याहुः । बह्वचास्तु’ ‘पुरोहितम्’ इत्यादाववग्रहेऽपि हितशब्द स्वरितं पठन्ति । तत्तत्प्रातिशाख्य वचनादिति + बोध्यम् ॥

  1. अप्रवृत्तेरुक्तत्वात् ग. घ.
  2. तु ङ. ग. नास्ति ।
  3. हिशब्दं ग.
  4. प्रातिशाख्यविशेषवचनात् ग. घ. ज.

४८

स्वर सिद्धान्तचन्द्रिकायाम् [१२] ॥ नोदात्तस्वरितोदयमगार्ग्य काश्यपगाल- वानाम् ॥ (8-4–67 ) [सू. १२ उदयशब्दः परशब्दपर्यायः प्रातिशाख्यादिषु प्रसिद्ध इत्याहुः । उदात्ते स्वरिते वा’ परत उदात्तात् परस्य अनुदात्तस्य स्वरितो न स्यात् । गार्ग्यादीनां तु मते स्यादेव । भाषायामैच्छिकौ भावाभावौ । वेदे तु व्यवस्थितौ । तत्र तैत्तिरीयके उदात्तस्वरितपरत्वे न भवत्येव स्वरितः । तत्प्रातिशाख्ये ‘उदात्तात् परोऽनुदात्तः स्वरितम्’ ( तै. प्रा. अ. १४. सू. २९) इत्युक्त्वा ‘नोदात्तस्वरितपरः’ ( तै. प्रा. अ. १४. सू. ३१) इति सर्वथा निषेधात् । ‘इषे त्वोर्जे त्वा’ । ‘योऽस्य॒ स्वऽग्निः । ’ अन ‘उदात्तस्वरितपरस्य सन्नतरः’ इति वक्ष्यमाणः सन्नतरादेशः । एवं शाखान्तरेऽपि तत्प्रातिशाख्यानुरोधात्’ व्यवस्था बोध्या । अत्र यद्यपि नव्द्वयाभावेऽपि ‘उदात्तस्वरितोदयं गार्ग्यकाश्यपगालवानामेव’ इति नियमाश्रयणादिष्टसिद्धिः, तथापि ‘गार्ग्यदीनामुदात्तस्वरितोदयमेव’ इति विपरीतनियमं वारयितुं नञ्द्वयादरः+ | ‘नोदात्तस्वरितयो:’ इति वक्तव्ये उदयशब्दः मङ्गलार्थं प्रयुक्तः । गार्ग्याद्यनेकमहर्षिग्रहणमपि मङ्गलार्थमेव ॥ [१३] ॥ स्वरितात् संहितायामनुदात्तानाम् ॥ (1–2–39) स्वरितात् परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् । एकश्रुतिः प्रचय’ इति पर्याय इत्युक्तम् । अनुदात्तानामिति जातौ बहुवचनम् ! तेनैकस्य द्वयोर्बहूनां च एकश्रुतिर्भवति । ‘दीक्षितवादं वद॑ति’ । अत्र ‘धातोः ’ इति धात्वकार उदात्तः । शप्तिपौ पित्वादनुदात्तौ । तत्र शबकार ‘उदात्तादनुदात्तस्य’ इति स्वरितः । तत एकस्य अनुदात्तस्यैकश्रुतिः । ‘अम्माविष्णू

  1. च ग. घ.
  2. अथ कं तानूनप्त्रम् ङ,
  3. अनुसारात् ख. छ. ज.
  4. -शब्दः शास्त्रान्ते ग. घ. 6. प्रचयपर्याय इत्युक्तम् ग. 4 प्रचय इत्युक्तम् घ.
  5. नञ्द्रयारम्भः ख.

सू. १३]

प्रत्ययस्वरप्रकरणम् ४९ सजोषसा’ । अत्र आयस्य आमन्त्रितस्य पाष्ठिकेन ‘आमन्त्रितस्य’ इत्यनेन आदिरुदात्तः । तत उत्तरस्य पूर्ववत् स्वरितः । ततः ‘उभयोरनुदात्तयोरेकश्रुतिः । ‘इसे में गङ्गे यमुने सरस्वति’ । इदंशब्द: “फिषोऽन्त उदात्तः’ इत्यन्तोदात्तः । फिषिति प्रातिपदिकस्य प्राचां महा राज्ञा । ततः सुवनुदात्तः । त्यदाद्यत्वम् । अभि पूर्वः । एकादेशस्वरः । मेशब्द: ‘तेमयावेकवचनस्य’ इति अस्मच्छन्दादेशः सर्वानुदान्तः, तत्र ‘अनुदात्तं सर्वमपादादौ’ इत्यधिकारात् । तस्य पूर्ववत् स्वरितः । ततः परेषां गङ्गेप्रभृतीनां त्रयाणामामन्त्रितानाम् ‘आमन्त्रितस्य च’ इत्याष्टमिकेन सर्वानुदात्तत्वम् । अत्र बहूनामेकश्रुतिः । न च द्वितीयादीनां आद्यादिना व्यवधनादेकश्रुत्यसम्भवः, स्वरितातू परत्वाभावादिति वाच्यम् ; अनुदात्तत्वजातेः स्वरिताव्यवहितत्वात् । ‘अनुदात्तानाम्’ इति जाती बहुवचनाश्रयणात् । ननु सर्वत्रात्र ‘उदात्तादनुदात्तस्य’ इति त्रिपादीस्थसूत्रविहितस्य स्वरितस्य प्रथमाध्यायपठितप्रकृतसूत्रेण ऐकत्ये कर्तव्ये असिद्धत्वेन स्वरितात् परत्वाभावः । न च ‘स्वरितात्’ इत्याश्रयणात् सिद्धत्वम् ; ‘कोस्थाहवनीयः’ इत्यादौ सिद्धस्वरितस्थळे तस्य चरितार्थ्यात् । ‘किमोडत्’ इत्यत्प्रत्यये ‘काति’ इति तस्मिन् परतः किमः कादेशे च कशब्दः । तत्र अत्प्रत्ययस्य ‘तित्स्वरितः’ इति स्वरितः । स च पाठात् सिद्धः इति चेत्’सत्यम् ; ‘तस्यादित:’ इत्यादिनवसूत्र्याः प्रथमगताया ‘नोदात्तस्वरितोदयम्’ इत्यतः परत्रोत्कर्षस्य भाष्यादौ ज्ञापितत्वेन तन्मध्यपतितस्य प्रकृतसूत्रस्थापि ‘उदात्तादनुदात्तस्य’ इत्यतः परान तत्स्वरितस्य प्रकृतसूत्र प्रत्यसिद्धत्वाभावात् 1 एतचोत्तरत्र करिष्यते । अथ संहिताग्रहणमनर्थकम् । न च ‘इमं मे गङ्गे’ इत्यादी पदकाले एकश्रुत्यभावाच तत्; ‘स्वरितात्’ इति पञ्चमीनिर्देशेन खरिताव्यवहितान दात्तस्यैव एकश्रुतिविधानात् । पदकाले च कालेन व्यवधानेन

  1. द्वयोः छ.
  2. फिड । फोङ. ञ.
  3. चरितार्थत्वात् ग. व.

T घ. नास्ति । । ङ. 5. इति चेत् ग. ध. ङ, छ. नास्ति । 6. व्यत्ययेन क. स्व-C4-0. Shri Vipin Kumar Col. Deoband. In Public Domain. ५०

स्वर सिद्धान्तचन्द्रिकायाम् [सू. १४ तदभावात् । सत्यम् ; ‘अन्यत्र पञ्चमीनिर्देशे कालो न व्यवधायकः ’ इति ज्ञापनाय संहिताग्रहणम् । तेन ‘तिङतिङ : ’ इति निघातः पद॒पाठे ‘वायवः॑ः । स्थ’, ‘अग्निम् | ईळे’ इत्यादौ भवति, वस्नसादयश्च युष्मदस्मदादेशा इति हरदत्तादयः । ‘उदात्तादनुदात्तस्य’ इति स्वरितत्वं तु संहिताधिकारान्न पदकाले भवतीत्युक्तम् ॥ [१४] ॥ उदात्तस्वरितपरस्य सन्नतरः ॥ ( 1–2–40) उदात्तः स्वरितो वा यस्मात् तस्यानुदात्तस्य सन्नतर:अनुदात्ततर आदेशो भवति । स्थान्युदात्तापेक्षः प्रकर्षः । अत्र’ वृत्त्यादिग्रन्थपर्यालोचनया उदात्तस्वरितान्यतरपरकस्यानुदात्तस्य सर्वस्याप्यादेशः सन्नतरः प्रतीयते । प्रातिशाख्ये तु उदात्तस्वरितप्रचयानामन्यतमपूर्वकस्यैव तथाविधस्यानुदात्तस्य विक्रमसंज्ञाविधिपूर्वकं सन्नतरत्वं विहितम् । तथा हि- ।। ‘स्वरितयोर्मध्ये यत्र नीचं स्यादुदात्तयोर्वान्यतरतो वा उदात्तस्वरितयोः स विक्रमः’ ( तै. प्रा. अ. १९. सू. १) ॥ ’ ’ अन्यतरतो वा’ इत्यस्य स्वरितोदात्तयोर्वा इत्यर्थः ’ इति त्रिभाष्यरत्नम् । तथा च स्वरितयोः उदात्तयोः स्वरितोदात्तयोः उदात्तस्वरितयोर्वा मध्ये योऽनुदात्तः स विक्रमसंज्ञ इत्यर्थः ॥ ॥ ’ प्रचयपूर्वश्च कौण्डिन्यस्य’ (तै. प्रा. अ. १९. सू. २) ॥ चकारात् ‘उदात्तस्वरितान्यतरपरकः’ इति लभ्यते । तथाविधः प्रचयपूर्वकश्चानुदात्तो विक्रमसंज्ञः । एवं विक्रमसंज्ञां विधाय तस्यानुदात्त- विहितम्— ’ स्वारविक्रमयोदृर्ट प्रयत्नतरः प्रा. अ. १७. सू. ६) इति ६) इति सूत्रान्तरेण । स्वार:स्वरितः । अत्र यद्यपि दृढप्रयत्नतरशब्दो न सन्नतरे तरत्वं तथा सति दृढप्रयत्नतरः स्वरितस्यापि स्वरितस्यापि सन्नतरविध्यापत्तेः, क्रियमाणः स्वरिततरः

  1. यस्मात् परस्तस्य घ. पौष्करसादेः , ( तै.

रूढः ; तथापि स्वरितो स्वरिततर: संपद्यते, अनुदात्तश्च तथा 2. अत्र च सूत्रवृत्त्यादिख. घ. ङ. ।

सू. १४]

प्रत्ययस्वरं प्रकरणम् ५१ क्रियमाणोऽनुदात्ततर इति पर्यवसानगत्या तथा लाभः । एवं च प्रातिशाख्यमते उदात्तस्वरितान्यतरपरकस्यापि उदात्तपूर्वकस्य ‘अपूर्वकस्य चानुदात्तस्य ‘इ॒षे त्वा॑’, ‘दे॒वासुराः’ इत्यादौ न सन्नतरत्वमिति फलितम् । व्याकरणपर्यालोचने तु तत्रापि तद्भवतीति प्रतीयते । दर्शितं च तथाविधम् ‘अग्निः ’ ’ ‘कन्या’ इत्यादिकं सन्नतरोदाहरणं हरदत्तभट्टोजियज्वप्रन्थेषु । त्रिभाष्यरत्नकृता तु ‘स्वारविक्रमयोः’ इति सूत्रमनिष्टंमिति ब्रुवता तैत्तिरीयके न क्वापि सन्नतर इत्यनुसृतः तृतीयः पन्थाः । किमत्र तत्त्वमिति चेत् — तत्र केचिदाहुःप्रातिशाख्यसूत्रानुसरणमेवात्र रमणीयम् ; तद्विषये ‘तस्मा॒द्वा ए॒तस्मा॑त् ’ इत्यादौ सन्नतराध्ययनस्य सर्वसिद्धत्वात् । न ह्येवम् ‘इषे त्व’ ‘देवासुराः’ इत्यादौ तदविषये सन्नतरत्वमनुभूयते । अत एव परिमलकृता ‘‘जुहवानी’ इत्यत्र जुशब्दे न सन्नतरत्वम्’ इति वदता प्रातिशाख्यमेवानुसृतम् । व्यकरणं तु अन्यत्रापि सन्नतरं विधत् शाखान्तराभिप्रायं भाषाभिप्रायं वेति नेतव्यम् । त्रिभाष्यरत्नं तु चिन्त्यमेवेति । तत्र व्याकरणरीत्या उदात्तपरः सन्नतर उदात्तानु- पूर्वत्र स्थितौ कस्याप्यभावे दात्तस्वरितप्रचयानामन्यतमस्य सम्भवतीति पञ्चविधः । एवं स्वरितपरोऽपीति च दशविधः सन्नतरः । प्रातिशाख्यरीत्या तु उदात्तस्वरितप्रचयानामन्यतमपूर्वत्वेन उदात्तपरसन्नतरस्त्रिविधः । एवं स्वरितपरोऽपीति षडेव भेदाः । षण्णां क्रमेणोदाहरणानि –‘जुहवानी ३’ | ‘भवत्यात्मानो’ । ‘इमं गङ्गे यमुने सरस्वति शुतुद्रि’ । ‘तेन केोऽर्हति स्पर्धेतुम्’ । ‘योऽस्य स्वोऽग्निः’ । ‘ब्रह्मवादिनो॑ वद॒न्ति॒ न्य॑ग्निः’ । ननु ’ वदन्ति न्यङग्निः’ इत्यत्र कथं स्वरितपरत्वम् ? निपूर्वादः किनि व्युत्पादिते न्यङ्शब्दे ‘न्यधी च’ इति पूर्वपदप्रकृतिस्वरे यणादेशे च ‘उदात्तस्वरितयो:’ इति सूत्रविहितस्य स्वरितस्य ‘पूर्वत्रासिद्धम्’ इति सन्नतरं प्रत्यसिद्धत्वादिति चेत् —न ; नवसूत्रयुत्कर्षेण सन्नतरस्यास्य उक्तस्वरितसूत्रात् परत्वेन तं प्रति उक्तस्वरितसूत्रविहितस्वरस्य ं पूर्वत्वेन असिद्धत्वाभावात् । नन्वेवं सति ‘स्वरितात् संहितायाम्’

  1. अविद्यमानपूर्वकस्य ङ.
  2. स्वरितस्य ग. घ.

५२

स्वर सिद्धान्तचन्द्रिकायाम् [सू. १४ स्यात् । ततश्च इति पूर्वसूत्रं प्रकृतसूत्रं चासिद्धकाण्डान्तर्गतं सरस्वतीकारस्य पूर्वसूत्रेणैकश्रुत्यमस्तु, आहोस्वित् शुतुद्रिशब्दोकारे पादादित्वेनाष्टमि कनिघाताभावे सति षाष्ठेन ‘आमन्त्रितस्य च’ इति सूत्रेण उदात्ते परे सन्नतरोऽनेनास्तु इति विचारे पूर्वेणैकश्रुत्यमेव स्यात् । न च परत्वादनेन सन्नतरः शङ्कयः ; ‘पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति न्यायात् । न चैवं सन्नतरस्य निरवकाशत्वम् ; यत्र ‘स्वरितात् संहितायाम्’ इत्यस्य न प्रसक्तिः, पूर्वस्य स्वरिताभावात्, तादृशस्थलेषु’ ‘जुहवानी’ इत्यादौ तस्य चरितार्थत्वात् । न च तत्रापि ‘उदात्तादनुदात्तस्य’ इति स्वरितेत बाधान्निरवकाशत्वम्; ‘नोदात्तखरितोदयम्’ इति तन्निषेधात् । यत्र पूर्वत्रोदात्तत्याप्यभावेन ‘उदात्तात्’ इति स्वरिताप्रसङ्गः, तत्रापि सन्नतरस्य चरितार्थत्वात् । ‘अभिः’ ‘कन्या’ इत्यादौ तादृशस्थलेऽपि व्याकरणरीत्या सन्नतरस्योक्तत्वादिति चेत्’ -अत्र हरदत्तादयः नमुने’ इत्यत्र ‘न’ इति योगविभागात् सन्नतरस्य नासिद्धत्वम्, ततश्च सन्नतरत्वमिति न चैवं ऐकश्रुयात् परत्वात् सरस्वतींकारे ‘नोदात्तस्वरितोदयम्’ इति प्रतिषेधोऽनर्थकः, परत्वात् सन्नतरेण स्वविषये ’ उदात्तादनुदात्तस्य’ इति स्वरितस्य बाधेनैवेष्टसिद्धेरिति वाच्यम् ; ‘अगार्ग्यकाश्यपगालवानाम्’ इति प्रतिप्रसवार्थं तदारम्भात् । न चैवं अजा ह्यनेः’ इत्यादौ ‘उदात्तस्वरितयोर्यण: ’ इति स्वरितात् परत्वादनेन सन्नतरः स्यादिति वाच्यम् ; योगविभागस्येष्टसिद्धयर्थतया कचिदेव अस्यासिद्धत्वाभावात् । एवं च अस्य सन्नतरस्य ‘अग्निः ’ ‘कन्या’ इत्यादिर्निबधोऽवकाशः । ’ तस्माद्वा एतस्मात्’ इत्याद्यपि । न चात्र ‘उदात्तादनुदात्तस्य’ इति स्वरितप्रसङ्गः ; ‘नोदात्तस्वरितोदयम्’ इति निषेधात् । एवं लब्धावकाशश्चायमुक्तरीत्या परत्वादैकनुत्यं स्वविषये बाधत इति निष्कर्षः । एतेन ‘स्वरितात् संहितायाम्’ इत्यैकश्रुत्ये ‘उदात्तादनुदात्तस्य’ इति स्वरिते च प्राप्ते सन्नतरविधिरिति वदन् स्वरमञ्जरीकारः ‘सन्नतरविधेरपवादत्वमाह” इत्यादिना अमुं अमुं ग्रन्थं ग्रन्थं व्याचक्षाणेन

  1. प्रवृत्तिः ग. घ. ङ.
  2. तादृशस्थले ज.
  3. अपवाद्यद्वयम् ग. व. छ. ज.
  4. चेत् ग, घ. ङ. नास्ति । सू. १४]

प्रत्ययस्वरप्रकरणम् ५३ परिमलकृता सह निरस्तः ; ‘नोदात्तस्वरितोदयम्’ इति निषेधेनोक्तस्वरितस्य सन्नतरविषयेऽप्रसङ्गात्, ऐकश्रुत्यस्यापि परत्वात् सन्नतरबाध्यत्वेनास्य तदपवादत्वाभावादिति ॥ यत्तु प्लुतस्वरप्रकरणे परिमलकृता ‘‘जुहवानी’ इत्यत्र कथं ‘वा’ शब्दस्य सन्नतरः ? अनुदात्तस्य हि सन्नतरो विधीयते । न चायं वाशब्दोऽनुदात्तः ; तस्य प्रागेव ‘उदात्तादनुदात्तस्य’ इति स्वरितविधानात्’ इत्याशङ्कय परिहृतम्, ‘नैष दोषः परत्वात् स्वरितस्यासिद्धौ सन्नतरविधिप्रवृत्तेः’ इति । तत्राक्षेपस्तावदयुक्तः ; ‘नोदात्तस्वरितो - दयम्’ इति निषेधेन तत्र वाशब्दे ‘उदात्तादनुदात्तस्य’ इति स्वरिताप्रसङ्गात्, ‘सन्नतरविधेरपवादत्वमाह" इत्यनन्तरोक्तस्वग्रन्थविरोधाच्च । न हि सन्नतरविधेरुक्तस्वरितापवादत्वे तद्विषये तत्प्रवृत्तिरुपपद्यते ; अपवादविषयपरिहारेणोत्सर्गप्रवृत्तेः 1 परिहारोऽपि नवसूत्रयुत्कुर्षविस्मरणविजृम्भितः ; तदुत्कर्षे परत्वात् स्वरितस्यासिद्धत्वकथनायोगात् । यदपि सन्नतरप्रकरणे स्वरमञ्जर्यामुक्तम् ’ ‘पूर्वत्रासिद्धम्’ इति सन्नतरादेशे कर्तव्ये स्वरितत्वमसिद्धं भवेत् । अत्रोच्यते - आश्रित्य विधानान्नासिद्धत्वम्’ इति । तत्राक्षेपस्तावदनुपपन्नः । अयं हि तस्याभिप्रायः परिमलकृता दर्शितः:‘तेन कौऽर्हति स्पर्धितुम्’ ‘रथो वध्वा याद॑मानः’ इत्यादौ ‘स्वरितो वानुदात्ते’ इति ‘उदात्तस्वरितयोर्यणः’ इति च विहितस्य स्वरितस्य असिद्धत्वेन स्वरितपरत्वाभावात् कथं सन्नतरः स्यात् — इति । न चैतद्युक्तम् ; प्रकरणोत्कर्षेण स्वरितस्यासिद्धत्वाभावात् । ‘आश्रित्य विधानात्’ इति परिहारोऽपि हेय: ; ‘अथ कास्य’ इत्यादौ सिद्धे तित्स्वरिते परतः सन्नतरप्रवर्तनेन वचनस्य चरितार्थत्वादिति । यच्चान्यत् सन्नतरप्रकरणे तत्र’ बहु प्रलपितम्, तत्सर्वमत्यन्तासम्बद्धत्वान्नेहानूद्य निराक्रियते । अथ ‘उदात्तस्वरितयोः सन्नतर:’ इत्येवास्तु ; ‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति परिभाषयैव ’ परतः’ इति लाभात् । तथा च परग्रहणमनर्थक- 3. तत्र ग. नास्ति ।

  1. अपवाद्यद्वयम् छ. ज. 2. स्वरितत्वं कथं सिद्धं भवेत् ग.

५४

स्वरसिद्धान्तं चन्द्रिकायाम् [सू. १५ मिति । अत्र हरदत्तः — ‘परग्रहणं बहुव्रीहावेकत्वविवक्षार्थम्, तेन ‘इ॒मं मै’ इत्यादौ गङ्गेप्रभृतीनां सन्नतराभावः - इति । यद्यपि निर्दिष्टग्रहणस्य नैरन्तर्यार्थतया परग्रहणाभावेऽपि उक्तपरिभाषया अव्यवहितपूर्व एव कार्यं भविष्यति, गङ्गेप्रभृतिषु च न तत्प्रसक्तिः तथापि पूर्वत्र ‘अनुदात्तानाम्’ इति जातिपरो निर्देश इति स्थितमिति तत्रेव अत्रापि व्यवहितानामपि कार्यं प्रसक्तम् ; तस्यैव पदस्य अत्रानुवृत्तेः । परग्रहणेन वार्यत तच यदि तु अत्र अनुवृत्तस्य तस्य पदस्य परग्रहणं शक्यमकर्तुम् । पदकाले च नायं इत्यनुवृत्तेः । यद्यप्यत्र तरबर्थातिशयो न " 2 इति हरदत्ताशयः । व्यक्तिपरत्वमुच्यते, तदा सन्नतरः ; ‘संहितायाम् ’ विवक्षित इत्यपि पक्षो भाष्ये’ दर्शितः, तथापि अध्ययनानुसारात् हरदत्तादिग्रन्थानुसाराच्च विवक्षापक्ष एव प्रबलः ॥ [१५] ॥ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ॥ (8-2-4) उदात्तस्य स्वरितस्य वा स्थाने यो यण् ततः परस्य अनुदात्तस्य स्वरितः स्यात् 1 ‘अ॒जा ह्य॑ग्मेः’ । ‘वैश्वदेव्यों वै प्रजा:’ । ‘निपाता आद्युदात्ताः’ इति फिट्सूत्रात् ‘हि’शब्द उदात्तः । अङ्गेर्न लोपश्च’ इति निप्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तत्वादनुदात्तादिरनिशब्दः । विश्वदेवशब्दादणि ङीपि उदात्तनिवृत्तिस्वरेण वैश्वदेवीशब्दोऽन्तोदात्तः । ततो जसनुदात्तः । उक्तयोरुदात्तयोर्यणादेशे ततः परयोरनुदात्तयोरुदात्तयणः परत्वात् स्वरितत्वम् 1 अस्य स्वरितस्य त्रैपादिकत्वेन ‘अनुदात्तं पदम्’ इति परिभाषां प्रत्यसिद्धत्वात् ‘अजा मेः’ इत्यत्र शेषनिघाताभावः 1 अथ स्वरितयणः परस्योदाहरणम् । खलळ्याशा । खलपूशब्दः कृत्स्वरेणान्तोदात्तः ।

  1. परग्रहणस्य…. विवक्षार्थत्वात् ग.
  2. हरदत्तादयः घ.
  3. भाष्ये घ. नास्ति ।

मू. १५]

प्रत्ययस्वरप्रकरणम् ५५ ततः सप्तम्येकवचनं ङिः सुप्त्वादनुदात्तः । तस्मिन् परे ‘ओः सुपि’ इति खलपूशब्दोकारस्य उदात्तस्य यणादेशः । उदात्तयणः परत्वात् ‘वैश्वदेव्यः’ इत्यादाविव प्रकृतसूत्रपूर्वभागेनैव ङेः स्वरितत्वम् । मच ‘उदात्तयणो हस्पूर्वात्’ इति विभक्त्युदात्तत्वप्रसङ्गः ; ‘नोधात्वोः’ इति निषेधात् । आशाशब्दः ‘आशाया अदिगाख्या चेत्’ इति सूत्रेणान्तोदात्तत्वात् अनुदात्तादिः । अतो ङेः स्वरितस्य यणादेशे स्वरितयणः परत्वादाशाशब्दे आदिमाकारस्य स्वरितत्वम् । उदात्तस्वरितयोरिति किम् ? ‘सर्वं ह्यस्थ॑रिणाभ्यश्नुते’ । ‘हि च’ इति निषेधात्ति निघाताभावे ‘अश्नुते’ इति प्रत्ययस्वरेणान्तोदात्तं पदम् । सतिशिष्टोऽप्यत्र न विकरणस्वरः ; ‘सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः’ इत्युक्तेः । ‘तिङि चोदात्तवति’ इति गतेरभेर्निघातः । अतोऽयमनुदात्तयण् । अनुदात्तस्येति किम् ? ‘अति ह्यवत’ । ‘सर्वं ह्यस्थूरिणाभ्यश्नुते’ । यण्प्रहणमुदात्तादिस्थानिकेभ्य आवादिभ्यः परस्य मा भूदिति । ‘तावेवास्मै’ । ‘त इ॒मं य॒ज्ञम॑वन्तु’ । उदात्तादिस्थानिकस्य यण इति व्याख्यानादिह न । ‘प्रजानन् वाज्यर्पि’ । ‘के वः सद्भयः’ । इतरथा ह्युदात्तस्वरितसमीपवर्तियणः परस्येत्यपि सम्भवेनात्र ‘वा" वः ‘शब्दयोरपि स्वरितत्वं प्रसज्येत । यद्यप्यनुवादे षष्ठी स्थाने’ इति परिभाषा न प्रवर्तते ; ‘गुणानां च परार्थत्वात्’ इति न्यायात्, अत एव ‘उदीचामातः स्थाने’ इत्यत्र स्थानेग्रहणं कृतम्, तथापि व्याख्यानात् स्थानषष्ठ्येषेति हरदत्तः । स्यादेतत् – ‘खलव्याशा’ इति न स्वरितयणोऽनुदात्तस्य स्वरितत्व उदाहरणम् ; यणादेशे कर्तव्ये प्रकृतसूत्रपूर्वभागविहितस्य ङे: स्वरितस्य ‘पूर्वत्रासिद्धम्’ इति असिद्धत्वेन यणः स्वरितस्थानिकत्वाभावात् । न च ‘स्वरितयणः’ इत्याश्रयणात् सति सिद्धत्वं भविष्यति रुत्वमिवोत्व इति वाच्यम् ; तथा ‘उदात्तादनुदात्तस्य’ इति विहितस्यापि सिद्धत्वापत्त्या तद्यणः परस्यापि स्वरितत्वप्रसङ्गात् । न चेष्टापत्तिः ; ‘आश्रयात् सिद्धत्वमिति चेत् उदात्तात् स्वरिते दोष:’ इति वार्त्तिके दोषत्वकथनेन तदनिष्टत्वोन्नयनात् । परस्य अनुदात्तस्य ‘वस्व॒स्मभ्य॑म्’ इत्यादौ उदात्तात् स्वरितयणः स्वरितत्वदर्शनाच । तस्मादाश्रयात् सिद्धत्वाश्रयणे अतिप्रसङ्ग इति

५६

स्वर सिद्धान्तचन्द्रिकायाम् [सू. १५ प्रकृतसूत्रपूर्वभागविहितस्य स्वरितयणः परस्य स्वरितत्वमिष्यते । तच्च यणं प्रति स्वरितस्यासिद्धत्वाद्दुर्लभमिति । अत्र वार्तिककृतः प्रकृतसूत्रपूर्वभागविहितस्वरितो यणं प्रति सिद्धो वक्तव्य, तेन नातिप्रसङ्गः, इष्टसिद्धिश्चेति । तथा च वार्त्तिकम् - “यणः स्त्ररो यणादेशे सिद्धो वक्तव्यः स्वरितयण्स्वरार्थम्’ इति । भाष्यकृतस्तु वचन- । मन्तरेणैवामुमाक्षेपं द्वेधा समादधुः । तथा हि-योगविभागः क्रियते । ‘उदात्तयणः स्वरितोऽनुदात्तस्य’ इत्येको योगः । ततः ‘स्वरितयणः ’ इति द्वितीयः । अत्र ‘उदात्तयणः’ इत्यनुवर्तते । तेनोदात्तयण इत्येवमभिनिर्वृत्तो यः स्वरितः तस्य स्थाने यो यण् ततः परस्य अनुदात्तस्य स्वरितत्वमिति द्वितीययोगार्थः । एवं च प्रकृतसूत्रपूर्वभागविहितस्वरितस्यैवाश्रयणादस्यैवाश्रयात् सिद्धत्वम्, न तूदात्तात् स्वरितस्यापि इतीष्टसिद्धिः । अथ वा स्वरितयणग्रहणं न कर्तव्यम् ; ‘खलण्याशा’ इत्यादौ ‘उदात्तयणः’ इत्येव स्वरितसिद्धेः । खलपूशब्दो कारस्थानिकोदात्तयणः सत्त्वात् । न च ङेर्यणादेशेन व्यवधानम् ; ‘स्वरविधौ व्यञ्जनस्याविद्यमानवद्भावात्’ इति । वृत्तिकारस्तु उक्तरीत्या ‘खलप्व्याशा’ इति स्वरितयण उदाहृत्य यणं प्रति स्वरितस्यासिद्धत्वात् कथमिदमुदाहरणम् ? न चाश्रयात् सिद्धत्वम् ; ‘दध्याशा’ इत्यादावुदात्तात् स्वरितयणः परस्यापि स्वरितत्वप्रसङ्गादित्याक्षिप्य, ‘तस्मादयमेव यण्स्वरो यणादेशे सिद्धो वक्तव्यः’ इति वार्त्तिकमतेन स्वयं परिहृत्य पश्चात् ‘केचित्तु ब्रुवते’ इत्युपक्रम्य ‘उदात्तात् स्वरितयणोऽपि परस्यानुदात्तस्य स्वरितत्वं दृश्यते । तथा हितैत्तिरीयके ‘यास्ते विश्वः समिधः सन्त्यग्ने’ इत्ययमकारः स्वरितः पठ्यते । तथा ब्राह्मणेऽपि ‘दध्याशयति’ इत्याकारः स्वरितः पठ्यते’ इति केषांचिन्मतमुपन्यस्य ‘यथा तु वार्त्तिकं भाष्यं च तथोदात्तात् स्वरितयणः परस्यानेन स्वरितत्वं न भवतीति स्थितम्’ इति उदाहृतभाष्यवार्त्तिकविरोधात् तन्मतं दूषितवान्’ | हरदत्तोऽपि ‘आश्रयात् सिद्धत्वाश्रयेण उदात्तात् स्वरिते दोष इत्युद्भावितमतिप्रसङ्गं केषांचिन्मतेन परिहरति — केचित्विति’ इत्युदाहृतं 1. यण्स्वरः ग. घ. छ. 3. दूषितम् ग. घ. छ. 2. ततः ग. नास्ति ।

1 सू. १५]

प्रत्ययस्वरप्रकरणम् ५७ वृत्तिग्रन्थमवतार्य’ ‘सन्त्यग्ने’ ‘दध्यशयति’ इत्यादौ उदात्तात्स्वरितयणः परस्य अनुदात्तस्य स्वरितत्वमनेन दृश्यत इति वृत्तिकृदुपन्यस्ते केषाञ्चिन्मते दूषणमित्थं प्रदर्शितवान् । तद्यथा – ‘सन्त्यग्ने’ इत्यादावुदात्तात् स्वरितयणः परस्य न प्रकृतसूत्रेण स्वरितत्वम्, अपि तु यणादेशे सति ‘उदात्तादनुदात्तस्य’ इति । न च यणा व्यवधानम् ; स्वरविधौ व्यञ्जनस्य अविद्यमानवद्भावात् । न च प्रकृतसूत्रेणैवात्र स्वरितत्वमस्त्विति वाच्यम् ; तथा सति ’ वस्वस्मभ्यमार्भर’, ‘अन्वग्निरुषसाम्’, अन्वग्निरुषसम्’, यन्मध्वग्नौ जुहोति’ इत्यादावपि तत्प्रसङ्गात् । ‘उदात्तादनुदात्तस्य’ इति स्वरितस्तु नात्र भवति ; ‘नोदात्तस्वरितोदयम्’ इति निषेधात् । न च प्रकृतसूत्रस्याप्ययं निषेधोऽस्तु, अतो नातिप्रसङ्ग इति वाच्यम् ; ‘अनन्तरस्य’ इति न्यायेन ‘नोदात्तस्वरितोदयम्’ इत्यस्य ‘उदात्तादनुदात्तस्य’ इत्येतन्निषेधकत्वात् । अत एव ’ दहाशसौ रक्षसः पाह्यस्मान्’ इत्यादौ उदात्तपरस्याप्यनुदात्तस्य प्रकृतसूत्रेण स्वरितत्वं दृश्यते । तस्मात् ‘उदात्तात् स्वरिते दोष:’ इत्युद्भावितातिप्रसङ्गस्य नेदं व्यभिचारदर्शनमित्येव दूषणं प्रदर्श्य, ’ तस्माच्चिन्त्यमेतत्’ इत्युक्त्वा ’ निराकरिष्यमाणत्वाद्वा नात्र सुष्ठु निबन्ध: कर्तव्यः । तन्निराकरणं दर्शयति-यथा त्विति’ इत्युत्तरवृत्तिग्रन्थमुपादाय तत्रोक्तं केषाञ्चिन्मते भाष्यवार्त्तिकविरोधं स्पष्टमुपपादयामास । एवं स्थिते प्रकृतसूत्र मनोरमायाम् - उदात्तात् स्वरितयणः परस्मिन्ननुदात्ते स्वारेतत्वप्रसङ्गवारणाय योऽयं भाष्यकृता योगविभागेन परिहारो दर्शितः, स किल ‘सन्त्य॑ग्ने’ इत्यादिप्रयोगदर्शनेन वृत्तिकृता न सङ्गच्छत इति दूषित इति वृत्ति - हरदत्तोक्तदूषणोद्भावनेन, ‘सोऽयं वृत्तिकृतो कृन्मतमुपन्यस्य तत्र महान् व्यामोह इति मात्सर्यमुत्सार्य सुधीभिराकलनीयम्’ इत्युक्तम्, तदेतदपरिशीलितवृत्त्यादिप्रन्थव्यामोहनमात्रम् । वृत्तौ भाष्योक्तयोगविभागपक्षस्यैव ‘अनुपक्षेपाददूषणाच्च । ‘तस्मादयमेव यण्स्वरो यणादेशे सिद्धो वक्तव्यः’ इति वार्त्तिकमतस्यैव तत्रोपन्यासात् । प्रत्युत

  1. वृत्तिग्रन्थमेवमवतार्य ङ.
  2. उपदर्शितवान् ङ.
  3. अनाक्षेपात् ग. स्व_8-0. Shri Vipin Kumar Col. Deoband. In Public Domain. ५८

स्वरसिद्धान्तचन्द्रिकायाम् [सू. १५ ‘केचित्तु ब्रुवते’ इत्यादिना भाष्यविरुद्धपक्षं केषाञ्चिन्मतत्वेन’ उपक्षिष्य निराकुर्वता भाष्यपक्ष एव समर्थितः । ‘केचित्तु’ इत्यस्वरसोद्भावनेन हरदत्तोकदोषश्च तन्मते सूचित इति न कश्चिद्वृत्तिकृतो व्यामोह इति विद्वद्भिर्विलोकनीयम् । यत्तु वृत्तौ – ‘खलण्याशा’ इत्यादौ ‘उदात्तयणः ’ इति स्वरितत्वं न सिद्धयति, पूर्वस्मादपि विधौ ङेर्यणादेशस्य स्थानिवद्भावेन अचा व्यवधानात् । न च स्वरविधौ स्थानिवद्भावनिषेधः ; ‘स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत्’ इति वचनात् । तस्मात् स्वरितयण्ग्रहणं कर्तव्यम् — इत्युक्तम्, तद्यद्यपि ‘पूर्वत्रासिद्धे न स्थानिवत्’ इति निषेधात् स्थानिवद्भावाप्रसक्त्या न युक्तम्, तथापि ‘पूर्वत्रासिद्धे न स्थानिवत्’ इत्यस्य अनित्यत्वेन इष्टानिष्टविभागस्य लक्षणैकचक्षुष्कैर्दुर्ज्ञेयतया च मन्दबुद्धयनुग्रहाय सूत्रकृता स्वरितग्रहणं कृतमिति स्वरितग्रहण कृतवतः सूत्रकृतः 1 तात्पर्यकथन्नमात्रपरमिति न कश्चिद्दोषः । ‘पूर्वत्रासिद्धे न स्थानिवत्’ इत्यस्यानित्यत्वं तु स्थानिवदाह्निके कौस्तुभ एव स्पष्टम् । एतेन ‘इत्या॑ह’, ‘दध्या॑शयति’ इति स्वरितयण्ग्रहणस्योदाहरणं दर्शयन् स्वरमञ्जरीकारः प्रत्युक्तः । न च उदात्तात् स्वरितयणः परस्यानेन स्वरितत्वम्, ‘वस्वस्मभ्य॑म्’ इत्यादावतिप्रसङ्गात् । भाष्यवार्त्तिकादि| सकलग्रन्थविरोधाच्च । ’ इत्याह’ इत्यादौ तु ‘उदात्तादनुदात्तस्य’ इति स्वरितत्वमित्युक्तत्वात् । यदपि तत्रोक्तम्— ‘दध्याशयति” इत्यादौ यणादेशे सति ‘अनुदात्तमुदात्तात् परं स्यात् । ततश्च ‘उदात्तादनुदात्तस्य’ इत्येव स्वरितसिद्धेरिदं विधानमनर्थकमिति चेत् — अत एव भाष्यकारः स्वरितग्रहणं प्रत्याख्यातवान् — इति, तद्भाष्यापरिचयविजृम्भितम् । न हि भाष्यकारः ‘उदात्तादनुदात्तस्य’ इत्येव स्वरितसिद्धेरत्र’ सूत्रे स्वरितग्रहणं प्रत्याख्यातवान् । अपि तु ‘उदात्तयणः’ इति प्रकृतसूत्रैकदेशेनैव

  1. -मतेन ग. घ.
  2. न्यायात् ङ.
  3. दुर्ज्ञानतया च ग. ङ.

कुर्वतः सूत्रकारस्य ङ. 5. यद्यनुदात्तम् ग. ▸ 6. सिद्धेः प्रकृतसूत्रे ग घ ङ

सू. १६] तत्सिद्धेरिति । तथा

प्रत्ययस्वरप्रकरणम् च भाष्यम् –’ अथवा स्वरितग्रहणं ५९ म करिष्यते । केनेदानीं स्वरितयणः परस्यानुदात्तस्य स्वरितो भवति ? ‘उदात्तयणः’ इत्येव’ इति । न वा ‘खलव्यत्ति’ ‘खलव्यश्नाति’ इति भाष्याभिमतोदाहरणे ‘उदात्तादनुदात्तस्य’ इति स्वरितसम्भवः ; उदात्तात् परत्वाभावात् । यत्र तु तत्सम्भवः ‘दध्याशा’ ‘मध्वाशा’ इत्यादौ, तत्र स्वरितत्वं नैव भाष्याभिमतम्, न वा तत्र तेनैव’ सूत्रेण स्वरितसम्भवः, ‘नोदात्तस्वरितोदयम्’ इति निषेधादित्यास्तां विस्तरः ॥ [१६] ॥ उदात्तयणो हल्पूर्वात् ॥ (6-1–174) L उदात्तस्य स्थाने यो यण् हल्पूर्वस्तस्मात् परा नदी अजाद्यसर्वनामविभक्तिश्चोदात्ता भवति । पूर्वसूत्रेण स्वरितत्वप्राप्तौ अयमुदात्त विधिः । ‘चोद॒यि॒त्री सू॒नृतानाम्’ । ‘अह्नां नेत्री जेनि॒ित्री प्र॒जाना॑म् ’ । ‘धात्रे पु॑रो॒डाश॑म्’ । ‘अनु॑मतमे॒वैनं॑ मा॒त्रा पि॒त्रा’ । चोदयितृशब्दादयस्तृजन्ताश्चित्स्वरेणान्तोदात्ता इति यणत्रोदात्तस्थानिकः । ‘ऋनेभ्यो ङीप्’ । ‘स्वाद्वीं त्वां’ । ‘मृद्वीं कृत्वा’ । ‘उर्वी पृथ्वी बहुले’ । स्वादुशब्दः ‘कृपावाजिमिनिस्वदि’ इत्युण्प्रत्ययान्तः । पृथुमृदुशब्दौ ‘प्रथिश्रदिभ्रस्जां संप्रसारणं सलोपश्च’ इति कुप्रत्ययान्तौ । उरुशब्दोऽपि ‘महति ह्रस्वश्व’ इति कुप्रत्ययान्तः । सर्वेऽपि प्रत्ययस्वरेण अन्तोदात्ताः । ततो ‘वोतो गुणवचनात्’ इति ङीषि प्राप्ते ‘गुणवचनान्ङीबाद्युदात्तार्थः’ इति वचनान्ङीप् । ततो यणि प्रकृतसूत्रेण ङीबुदात्तः । न चैवं ‘गुणवचनान्ङीबाद्युदात्तार्थः’ इति वचनवैफल्यम् ; यत्र ङीष्प्रकृतेराद्युदात्तत्वं तत्र उदात्तयणभावेन प्रकृतसूत्राप्रवृत्त्या साफल्यात् । यथा ‘वस्वी चासीत्याह’ | ‘arat करोति’ । वसुशब्दो हि ‘धान्ये निच्च’ इत्यतो निदित्यनुवृत्तौ ‘शृवृष्णिहितृप्यसिवसिहनिक्लिदेबन्धिमनिभ्यश्च’ इति उप्रत्यये निष्पन्न’ आद्युदात्तः । ’ ङीबाद्युदात्तार्थः’ इति वचनाभावे हि अत्र ङीषि सतिशिष्टेन प्रत्ययस्वरेणान्तोदात्तत्वं प्रसज्येत ।

  1. एव ग. नास्ति ।
  2. व्युत्पन्नः ग घ. छ

६०

स्वरसिद्धान्तचन्द्रिकायाम् ‘परिवृक्त्यै गृहे’ इत्यत्र परिवृक्तिशब्दो राज्ञो [सू. १६ मध्यमपत्नीवाची परिपूर्वात् वृणातेः। क्तिच्तौ च संज्ञायाम्’ इति क्तिच्प्रत्ययान्तः । अत्र प्रकृतसूत्रेण विभक्त्युदात्तत्वं न भवति, व्यत्ययात् । तेन ‘उदात्तस्वरितयोः ’ इति स्वरित एवेति वेदभाष्यकृतः । छवीं छव्य’ इत्यत्रापि व्यत्ययादेव’ विभक्तेः छव्यौ पाकृताय ’ इत्यत्र एकादेशोऽपि व्यत्ययेनैव स्वरितः उदात्तयण ‘दोग्ध्री’ धेनुः’ 1 स्वरितत्वम् । 1 इति किम् ? दुहेस्तृन्नन्तो दोग्धृशब्द आद्युदात्त इति उदात्तयणभावः । हल्पूर्वादिति किम् ? बहुतितवा ब्राह्मण्या । ‘तनोतेर्डउः सन्वच्च’ इति इउप्रत्ययान्तस्तित उशब्द: । ’ चालिनी तितउः पुमान्’ इत्यमरः । बहवः तितवः इत्युत्तर’बहोर्नब्वदुत्तरपदभूम्नि’ यस्या इति बहुव्रीहिः । पदान्तोदात्तत्वम् । ‘ब्राह्मण्या’ इति स्त्रीलिङ्गोपादानं नाभावनिवृत्त्यर्थम् । अत्र वार्त्तिकम् – ‘उदात्तयणि हल्ग्रहणं नकारान्तार्थम्’ इति । उदात्तयणः’ इत्यपनीय ‘उदात्तहल:’ इति सूत्रं पठितव्यम्, उदात्तस्थानिको यो नकारः तदन्तान्ङीपि उदात्तत्वार्थम् इत्यर्थः । वाचः पतिः स्त्री वाक्पत्नी । समासस्वरेण वाक्पतिशब्दे अन्त उदात्तः । ’ पत्यावैश्वर्ये ’ इति पूर्वपदप्रकृतिस्वरस्तु न ; ‘न भूवाक्चित्’ इति निषेधात् । ‘विभाषा सपूर्वस्य’ इति तस्योदात्तस्य नकारादेशः । नान्तत्वान्ङीप् । तस्योक्तवार्त्तिकबलादुदात्तत्वम् । वृत्तिकारस्तु ‘नकारग्रहणं च कर्तव्यम्’ इति इदमेव वार्त्तिकमर्थतः पठति स्म । ‘सुपत्नीरुप॑सेदिम’ इत्यत्र शोभनः पतिर्यस्या इति बहुव्रीहावपि ‘नञ्सुभ्याम् ’ इत्युत्तरपदान्तोदात्तत्वं न ; ‘आद्युदात्तं व्यच्छन्दसि’ इति उत्तरपदाद्युदात्तत्वेन बाधितत्वात् । तेनात्र ’ विभाषा सपूर्वस्य’ इति नकारस्योदात्तस्थानिकत्वाभावान्नानेन वार्त्तिकेन ङीप उदात्तत्वम् ॥

  1. वृणक्तेः ङ. वृणुतेः छ.
  2. स्वरितत्वमेव ग. घ.
  3. बहवः पुमान् छ.

सू. १७]

प्रत्ययस्वरप्रकरणम् [१७] ॥ नोङ्धात्वोः ॥ ( 6–1–175 ) ६१ ऊङो धातोश्च सम्बन्धी य उदात्तयण् हल्पूर्वस्तस्मात् परा अजाद्य सर्वनामस्थानविभक्तिर्नोदात्ता भवति ‘नद्यजादी’ इत्यनुवृत्तावपि ऊङ्घातुयणः परा नदी न संभवतीत्येवं व्याख्यातम् । ब्रह्मबन्ध्वा । ब्रह्मबन्धूशब्दो बहुव्रीहिः वृत्तस्वाध्यायहीनायां ब्राह्मणजातौ वर्तते । ततः ‘ऊडुतः’ इति ऊङ्प्रत्ययः’ प्रत्ययस्वरेणोदात्तः । ततः प्रकृत्युकारेणैकादेश एकादेशस्वरेणोदात्तः । अलावा । कर्कन्ध्वा । यद्यपि अलाबूकर्कन्धूशब्दाभ्याम् ‘ऊडतः ’ इति ऊङ्प्रत्ययो ऊङ्प्रत्ययो न भवति’, तत्र ‘इतो मनुष्यजाते: ’ इत्यतः मनुष्यजातेरित्यनुवृत्तेः अनयोर्मनुष्यजातिवाचित्वाभावात्, तत्र कर्कन्धूशब्दस्य+ ‘अन्दूदृम्भू’ इत्युणादिसूत्रे कूप्रत्ययान्ततया निपातनेनोदात्ताभावाच्च । अलाबूशब्दोऽपि ‘नञि लम्बेर्नलोपश्च ’ इति ऊप्रत्ययान्तत्वेन अनुदात्तः, तथापि अप्राणिजातेश्चारज्ज्वादीनाम्’ इति वार्त्तिकात् ऊङ्प्रत्ययः । अत्र वार्त्तिके ‘उत:’ इति नापेक्ष्यते ; अलाबूरित्यादिभाष्योदाहरणात् । रज्ज्वादिपर्युदासेन उवर्णान्तेभ्य इति लभ्यते । ऊकारान्तेभ्योऽपि ऊङ्प्रत्ययविधिरनेन सूत्रेण विभक्त्युदात्तत्वनिषेधार्थ एव । अयं निषेध ऊङ्प्रत्ययविषयः, न तूकारान्तमात्रविषयः‍, ‘ऊडुतः’ इत्यत्र प्रकृतसूत्रे च ङकारोपादानसामर्थ्यात् । अत एव ‘ऊङत:’ इत्यत्र भाष्ये – ङकारः ‘नोङ्वात्वो:’ इत्यत्र विशेषणार्थः । ‘नोधात्वो:’ इतीयत्युच्यमाने ‘यवाग्वे’ ‘यवाग्वै’ इत्यत्रापि प्रसज्येत — इत्युक्तम् । ननु ‘यवाग्वै’ इति कथं ङकारग्रहणस्य प्रत्युदाहारणम् ? ‘सृयुवचिभ्योऽन्युजागूजक्नुचः’ इत्यागूचप्रत्ययान्तात् यवागूशब्दात् ‘अप्राणिजातेश्व’ इति वार्त्तिकात् ऊङ्प्रत्यय संभवादिति चेत् — सत्यम् ; अत एव भाष्यात् यत्रागूशब्दो नोङ्प्रत्ययान्त

  1. -प्रत्ययः

रज्ज्वादित्वात् नास्ति । 4. तत्र कर्कन्धूशब्दस्य ग. ग. घ. 2. ततः ग. नास्ति । 3. सम्भवति ग. घ. छ. नास्ति । इति घ. 5. नतु विषयः छ. नास्ति । …

६२

स्वरसिद्धान्तचन्द्रिकायाम् [सू. १७ गम्यते । एतेन यत्र’ स्वरमञ्जर्याम् ऊङ उदाहरणं दर्शितम् ‘यवाग्वा ग्रामकामस्य’ इति, तच्चिन्त्यम् ; यदपि तत्र’ ‘ध्व यामान:’ इत्युदाहृतम्, तदपि चिन्त्यम् ; वधूशब्दस्य ‘वहेर्धश्च’ इति ऊत्यन्तत्वेन प्राणिवाचकत्वेन चोङ्प्रत्ययाविधायक सूत्रवार्त्तिकयोरप्रवृत्तेः ऊङन्तत्वायोगात् । स्वरनिर्वाहस्तु उभयत्र व्यत्ययादेव । यदि तु यवागूशब्दो न श्राणावाची, किं तु भाष्योदाहरेण यवागूशब्दो यौगिकः क्रियाशब्दः । तेन जातिवाचकत्वाभावात् ‘अप्राणिजातेश्व’ इति नोङ्प्रसङ्गः । स्वरमञ्जर्यां तु श्राणावाची उदाहृतेति कल्प्येत तदा न विरोधः । यत्तु तत्रैव ‘अच्छिद्रया जुह्वा’ इत्युदाहृत्य ‘यज्जुह्वां गृह्णाति॑’, ‘च॒तुर्जुह्वां गृह्णाति’ इत्यादौ व्यत्ययाद्विभक्त्युदात्तत्वमित्युक्तम्, तत्र जुहूशब्दस्य जातिवाचकत्वे ‘अप्राणिजातेश्व’ इत्येव तत ऊङ बोध्यः । ‘कुहैं चरुम्’, ‘कुह्वा वाचं’ दधाति’ इत्यादौ कुहूशब्दस्यो अन्तत्वाद्विभक्त्युदात्तत्वनिषेध इति तत्रैव । राजसूयत्राह्मणे ‘कुह्वै चरुम्’ इत्यत्र वेदभाष्ये तु – जुहोतेह्वयतेर्वा किपि ‘नोधात्वो:’ इति धातुयणः कुहूः, परत्वाद्विभक्त्युदात्तत्वनिषेधे ‘उदात्तस्वरितयोर्यण:’ इति विभक्तिः स्वर्यत इत्युक्तम् । अथ धातुयण उदाहरणम् ; ‘सेनान्ये॑ दि॒शां च॑’ । ‘सेनान्यो॑ गृहे’ | ‘ग्रामण्यो गृहे’ । ‘सत्सूद्विष’ इति सेनादावुपपदे नयतेः क्विपि कृदुत्तरपदप्रकृतिस्वरेण सेनान्यादिरन्तोदात्तः । ’ एरनेकाचः’ इति यण् । यत्तु स्वरमञ्जर्याम्—ऊङो धातोश्व तृतीयादिविभक्तिरुदात्ता नेति सूत्रं व्याख्यातम्, तन्मन्दम् ; ‘तृतीयादि:’ इत्यननुवृत्तेः । ‘शतुरनुमो नद्यजादी’ इति हि प्रकृतम् । न च तृतीयादिरिति सम्भवद्विषयप्रदर्शनम् ; शसोऽसंग्रहप्रसङ्गात् । ऊङन्ताच्छन्दसि ‘ब्रह्मबन्धू:’ इत्यादौ पूर्वसवर्णदीर्घेण यणभावेऽपि ‘खलप्वै’ इत्यादौ धातुयणः परस्य शसः सङ्ग्राह्यत्वादिति ॥

  1. सूत्रे ग. अधिकम् ।
  2. इदं वाक्यं क. ख. घ. ङ. नास्ति । ग. सू. १८]

प्रत्ययस्वरप्रकरणम् [१८] ॥ तिसृभ्यो जसः ॥ (6–1–166) ६३ ‘अन्त उदात्तः’ इत्यनुवर्तते । ’ तेषा॒मसु॑राणां ति॒स्रः पुरं आसन’ । ‘यत्ति॒स्रुश्चित॑यः’ । त्रिशब्द: फिट्सूत्रेण’ अन्तोदात्तः । ‘त्रिचतुरोखियां तिसृचतसृ’ इति तत्स्थाने विहितः तिस्रादेशोऽपि स्थानिवद्भावादन्तोदात्तः । ततो जस् सुप्त्वात् अनुदात्तः । ’ अचि र ऋतः ’ इति तिसृशब्दान्त्यस्य रादेशे ‘उदात्तस्वरितयोर्यण:’ इति जसः स्वरितत्वं प्राप्नोतीति वचनम् । ‘ति॒स्रऽनुष्टुभ॑ः’ इत्यत्र ‘स्वरितो वानुदात्ते पदादी’ इति एकादेशः स्वरितः । न च ’ उदात्तयणो हल्पूर्वात्’ इत्यनेनैव जस उदात्तत्वं सिद्धमिति वाच्यम् ; तत्र ‘असर्वनामस्थानम्’ इत्यनुवृत्तेदर्शितत्वात् । ‘वैश्वदेव्यौ वै प्रजाः’ इत्यादौ जसि अतिप्रसङ्गवारणाय तदनुवृत्तेरावश्यकत्वात् । अथ जसो ग्रहणमनर्थकम् ; तथा हि-न तावत् एकवचनादिनिवृत्त्यर्थं तत् ; तिसृशब्दस्य बहुवचनविषयत्वात् । नापि शस्व्यावृत्त्यर्थम् ; ‘उदात्तयणो हल्पूर्वीत्’ इति तत्र विभक्त्युदात्तत्वस्य इष्यमाणत्वात् । अत एव तथैव प्रयोगः । ‘सतिस्रः पुरो’ भित्त्वा’, ‘तस्मा॑ - ति॒स्रो रात्र: ’ इत्यादौ । नापि तदन्यहलादिव्यावृत्त्यर्थम् ; ‘षत्रिचतुर्भ्यो हलादि:’ इति ‘झल्युपोत्तमम्’ इति स्वरेण तत्र भाव्यत्वात् । एतेन ‘जस इति किम् ? ’ ति॒सृभि॑रस्तुवत’’ इति स्वरमञ्जरी निरस्ता ; परत्वात् ‘झल्युपोत्तमम्’ इति स्वरेणास्य बाधान् इष्टसिद्धेः’ इति ‘चेत् — उच्यते । अतिक्रान्तौ तिस्र: ‘अतितिस्रौ’ इत्यत्र तिसृशब्दात् पराया औकारविभक्तेरुदात्तनिवृत्त्यर्थं जस्ग्रहणम् । न च ’ तिसृभ्यः’ इति बहुवचननिर्देशात्तिस्रर्थप्राधान्य एवायं स्वरः, ’ ’ षड्भ्यो लुक्’ इत्यादिबहुवचननिर्देशविषये तथाभ्युपगमादिति वाच्यम् ; ‘उपसमस्तार्थमेके जस्ग्रहणमिच्छन्ति’ इति भाष्यानुसारेणात्र तथानाश्रयणात् । अर्थगतं बहुत्वं शब्दे समारोप्य ‘तिसृभ्यः’ इति बहुवचननिर्देश इति कैयटादयः । न च ‘तिसृभ्यो 6

  1. फिट्स्वरेण ग. घ. 2. सुवचम् ग. घ.
  2. हलादिविभक्तिनिवृत्त्यर्थम् ग. घ.
  3. इष्टसिद्धेः क.
  4. चेत् ङ.
  5. स्वरितः ङ.

ख. नास्ति । नास्ति । 1 ६४

स्वरसिद्धान्तचन्द्रिकायाम् [सू. १८ विहितस्य’ इत्याश्रयणात् ‘अतितिस्रौ’ इत्यत्र नातिप्रसङ्ग इति वाच्यम् ; अस्मादेव भाष्यात् तथाप्यनाश्रयणात् । अत एव ‘अतितिस्रः’ इत्येतत् ‘विभक्तिस्वरान्नञ्स्वरो बलीयान्’ इत्यस्योदाहरणमिति प्राग्दर्शितम् । एवं च ‘अतितिस्रौ’ इत्यत्रानेन विभक्त्युदात्तत्वाभावे ‘अतेरकृत्पदे’ इति सूत्रेण अतितिसृशब्दस्यान्तादोत्ततया रादेशे ‘उदात्तस्वरितयोर्यण: स्वरितः’ इत्यौकारः स्वरितः । ’ अतितिस्रः’ इत्यत्र जसि तु अनेन विभक्त्युदात्तत्वमेव । ‘अवङ् स्फोटायनस्य’ इत्यत्र अवङादेश आद्युदात्तो निपात्यते । तेन ‘चित्रगवाप्रादौ बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वासिद्धिः । अन्यथा फिट्स्वरेण उदात्त गोशब्दस्य स्थाने भवतोऽवङादेशस्यान्तर्यादुदात्ताच्कत्वेऽपि तदीयस्य आदिमस्यैव अच उदात्तत्वे मानाभावादन्त्यस्यापि कदाचित्तथात्वे गवायादौ आद्युदात्तनियमो न स्यात् । न चैवं गवायादौ तत्पुरुषे समासान्तोदात्तत्वं न स्यात्, परत्वात्तस्मिन् कृते प्रवर्तमानस्यावस्वरेण सतिशिष्टेन बाधादिति वाच्यम् ; अवङ उपदेशिवद्भावेन पूर्वमवङि पश्चात् समासस्वरे इष्टसिद्धेः । एतच्च षाष्ठभाष्यादौ स्थितम् || ॥ इति प्रत्ययस्वरप्रकरणम् ॥

  1. चित्रगवाग्रम् ङ. ज.
  2. स्पष्टम् क. ख. घ. ङ.
  3. उदात्तस्य गोशब्दाचः ङ.