०३ परिभाषाप्रकरणम्

॥ अथ परिभाषाप्रकरणम् ॥ [५] ॥ अनुदात्तं पदमेकवर्जम् ॥ (6-1-158) पदशब्दः पदस्थेष्वक्षु लाक्षणिकः, अज्विशेषवाच्यनुदात्तपदसामानाधिकरण्यात्’ । अचां च पदस्थत्वाव्यभिचारात् पदग्रहणम एकपदस्थत्वलाभाय । एकं वर्जयित्वा - एकवर्जम् । ‘द्वितीयायां च’ इति णमुल् । यद्यपि तत्र ‘परीप्सायाम्’ इत्यनुवर्तते, तथापि तत् प्रायिकाभिप्रायमिति-अत्र सूत्रे हरदत्तः । ‘द्वितीयायां च’ इत्यत्र तु ‘अत्रापि परीप्सास्ति’ इति तेनैवोक्तम् । तच्चोत्तरत्रोपपादयिष्यते । एकशब्दस्य संख्येयवाचकस्य तद्विशेषापेक्षायाम्’ अजेव संख्येयत्वेन सन्निधानात् संबध्यते । तत्राप्यनुदात्तस्य वर्जनं व्यर्थमिति तद्विरोधिनावुदात्तस्वरितौ संख्येयाविति पर्यवस्यति । परिभाषेयम् । सा च एकवर्जमिति लिङ्गात् उदात्तस्वरितविधिभिरेकवाक्यतामापद्यते । एकग्रहणं च तत्र तत्र विधीयमानस्य स्वरस्योपलक्षणम् । तेन’ ‘यस्मिन्नेकस्मिन् पढ़े येन सूत्रेण ‘यावन्त उदात्ताः स्वरिता वा विधीयन्ते तावतो वर्जयित्वा शिष्टास्तत्पदस्था अचः अनुदात्ता भवन्तीति सूत्रार्थो निष्पन्नः । अविरोधादेकपदे स्वरितो - दात्तयोर्मेलनम् ॥ स्वरस्य कस्याध्यविधेरनैयत्यमपि कचित् । प्रसक्तं वार्यतेऽनेन ‘सूत्रेणेत्येष निर्णयः ॥ । तथा हि— ‘आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते’ । ‘द॒ध्ना त॑नक्ति’ । ‘घश्चरुम् ’ । ‘गोपाय नः॑ स्व॒स्तये॑’ । ‘क॒र्तव्यं यजु॑ः ’ । ’ चत्वारः’ इत्यत्र तावत् ‘चतेरुरन् ’ इत्यौणादिकोरन्प्रत्ययान्ततया नित्स्वरेण चतुर्शब्दस्यादिरुदात्तः । ‘चतुर-

  1. वाचकग. घ. ङ. 2. -ण्यानुरोधात् ख. ग. घ.
  2. -पेक्षया ग.
  3. यस्मिन् प्रदे क. ख.
  4. यावतामुदात्तः स्वरितो वा स्व. ग. घ. ङ. च.
    • दात्तमेलनम् ख ग घ ङ. 7. सूत्रादमुष्मादिति ख. प.च.

सू. ५.]

परिभाषाप्रकरणम् २१ नडुहोरामुदात्तः’ इति वचनात् ‘आगमोऽप्युदात्त इत्यागमप्रकृतिस्वरयोः समावेशः प्राप्तः । एवं ‘दना’ इत्यत्र ‘नव्विषयस्य’ इति दधिशब्दस्यादिरुदात्तः । ‘अस्थिदधिसक्थ्यक्ष्णामनडुदात्तः’ इत्यनङ्लक्षणो विकारचोदात्त इति विकारप्रकृतिस्वरयोः समावेशः प्राप्तः । ‘गोपाय’ इत्यत्र समानवाक्यस्थपदात् परत्वाभावात् ‘तिङतिङः’ इति निघाताभावे ‘भूवादयः’ इति ‘सनाद्यन्ताः’ इति च विहितमवयवसमुदायनिष्ठं धातुसंज्ञाद्वयमादाय द्विः प्रवृत्तेन ‘धातो:’ इति सूत्रेणोदात्तयोः प्रकृतिस्वरयोः समावेशः प्राप्तः । ‘कर्तव्यम् ’ इत्यत्र धातुस्वरेण आदिरुदात्तः, प्रत्ययस्वरेण द्वितीयः, तित्स्वरेणान्त्यः स्वरित इति प्रकृतिप्रत्ययतित्स्वराणां समावेशः प्राप्तः । सर्वश्चायं सूत्रेणानेन निवर्तते’ । तत्र ‘सतिशिष्टस्वरबलीयस्त्वस्य वक्ष्यमाणत्वात् सतिशिष्टमागमादिस्वरमेकं वर्जयित्वा पदे शिष्टमनुदात्तम् । एकग्रहणं च विधीयमानस्वरोपलक्षणमित्युक्तम् । तेन ‘यात वै’, ‘इन्द्राबृहस्पती’ इत्यत्र द्वयोस्त्रयाणां चवर्जनम् ‘यातवै’ इत्यत्र ‘अन्तश्चतत्रै युगपत्’ इत्याद्यन्तयोर्द्वयोरुदात्तविधानात्, ‘उत्तरत्र ‘देवताद्वन्द्वे च’ इत्युभयपदप्रकृतिस्वरविधानात् । ‘ऋजेन्द्र’ इत्युणादौ रन्प्रत्ययान्तो निपातित इति इन्द्रशब्द आद्युदान्तः बृहस्पतिशब्दे वनस्पत्यादित्वात् द्वावुदात्तौ । ‘एवमनेकाक्षु प्रत्ययेषु धातुषु च ‘सभेयो युव’, ‘ऊर्णोति’ इत्यादौ । ‘आद्युदात्तश्च,’ ‘धातो:’ इति सूत्राभ्यामाद्यन्तयोरुदात्तत्वे इतरेषामचां न कश्चित् स्वरो विहित इत्यनियमे’ यः कश्चित् स्वरः स्यात्, अस्वरकस्योच्चारणायोगात् । तत्र पक्षप्राप्तानुदात्तनियमोऽपि सूत्रस्य फलम् । न चैकं सूत्रं कथं विधिनियमोभयबोधकमिति वाच्यम्, पदग्रहणसामर्थ्यादिति वक्ष्यते । ‘सभाया यः’, ‘ढश्छन्दसि’ इति ढप्रत्ययान्तः’ सभेयशब्दः ॥ , ‘आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च । पृथक्स्वरनिवृत्त्यर्थमेकवर्ज पदस्वरः ॥’

  1. आमागमोऽपि ङ.
  2. प्रकृतिप्रत्ययस्वरयोश्च ग. घ. प्रकृतितित्स्वरयोः च.
  3. निवर्तितः ख. ग. घ. 4. सतिशिष्टमक्षरमेकं वर्जयित्वा
  4. इतरत्र घ.
  5. एवम् घ. 7. -नियमेन ग. नास्ति । घ.
  6. दप्रत्ययान्तः

i. क. नास्ति । २२

स्वर सिद्धान्तचन्द्रिकायाम् [सू. ५. इति’ वार्त्तिकं तु प्रयोजनदिक्प्रदर्शनपरम् । ’ चत्वारः’ इत्यादीनि प्रागुक्तान्येवास्य’’ उदाहरणानि ॥ स्यादेतत्परिभाषेयं सर्वैरुदात्तस्वरितविधिभिरेकवाक्यतामापद्यत इत्युक्तम्, तथा च ’ चत्वारः’ इत्यत्र ‘चिनियादिर्नित्यम्’ इत्यस्मिन् प्रवर्तमाने तेनैकवाक्यतामापद्य आदिवर्जमितरेषामनुदात्ततां गमयति । ‘चतुरनडुहो:’ इत्यनेन त्वेकवाक्यतामापन्ना + आगमवर्जमितरेषामनुदात्ततां गमयति । एवं सर्वत्र । एवं च परस्परविरोधाद्विनिगमनाविरहाच्च कथम् अयं वयं इति व्यवस्थितिरिति । उच्यते— ‘परनित्यान्तरङ्गापवादभावैर्व्यवस्थिते:’ । सतिशिष्टत्वेन चेदं सर्वेभ्यः प्रबलं मतम् ॥’ परत्वेन व्यवस्थायाम् —’ यत्प॑दिबद्धा’, ‘ग्रीवबद्धमैनम्’ इत्युदाहरणम् । अत्र हि ‘तत्पुरुषे तुल्यार्थ’ इति सप्तमी पूर्वपदप्रकृतिस्वरात् ‘परत्वात् ‘गतिकारकोपपदात् कृन्’ इति कृदुत्तरपदप्रकृतिस्वर: । “अक्षशौण्डादिराद्यस्यावकाशः । इध्मसंव्रश्चनीदिर्द्वितीयस्य । नित्यत्वेन व्यवस्थायां मृग्यमुदाहरणम् । ‘पूर्वशालाप्रियः’ इत्यादावन्तरङ्गत्वेन” व्यवस्थेति विप्रतिषेधसूत्रे समर्थसूत्रे च भाष्ये स्थितम् । अत्र हि पूर्वा शाला प्रिया यस्येति त्रिपदबहुव्रीहौ ‘तद्धितार्थोत्तरपद-’ इत्युत्तरपदे परतः पूर्वयोस्तत्पुरुपत्वे तदाश्रित्य समासस्वरः बहुव्रीह्याश्रयणेन पूर्वपदप्रकृतिस्वरश्च प्राप्तः । तत्र ’’ पदत्रयाश्रयबहुव्रीहिस्वरादन्तरङ्गत्वात् “व्याश्रयस्तत्पुरुषस्वरो भवति । तेन शालाशब्दे अन्त उदात्तः । इदं तु न असाधारणमुदाहरणम्,

  1. इति प्रयोजन… वार्त्तिकम् क. 2. वार्त्तिकस्य ख. ग. घ. ङ. ज.
  2. आमागमादिवर्जग.
  3. आपन्नः क. ख. घ.
  4. इत्युदाहरणम् ख. नास्ति । 8. सप्तमीतत्पुरुषात् परत्वात् ग. 9. परत्वात् ख. नास्ति । 10. अक्षशौण्ड इत्यादिः ग, घ, ङ. व्रश्चन इत्यादिः ख. ग. घ. इत्यत्रान्तरङ्गत्वेन ग, घ, ङ.
  5. इति चेत् क. ग. घ. च. ज. 12.
  6. स्थितिः ख. ग. घ. ङ. ज.
  7. तत्र ग. नास्ति ।
  8. द्विपदाश्रयः ख ग घ ङ. P सू. ५.]

परिभाषाप्रकरणम् २३ सतिशिष्टत्वेनापि सिद्धेः । उत्तरपदे परतस्तत्पुरुषस्य बहुव्रीहिनिमित्तकत्वेन’ तत्स्वरस्य सतिशिष्टत्वात् । अपवादत्वेन व्यवस्था तु ‘आद्युदात्तश्च’, ‘तिस्वरितम्” इत्यादौ सुप्रसिद्धा । ‘तद्वैश्वदेवस्य॑ वैश्वदेव॒त्स्म्’ इत्यादौ सतिशिष्टत्वेन व्यवस्थितिः । अत्र हि ‘वैश्वदेवत्वम्’ इत्यत्राण्प्रत्ययस्य ‘आद्युदात्तश्च’ इति स्वरे सति पश्चादुत्पन्ने त्वप्रत्यये शिष्टः प्रत्ययस्वरस्तं बाधते, सर्वापेक्षया सतिशिष्टस्वरस्य’ प्रबलत्वात् । ‘कृष्णोत्तरासङ्गस्य पुत्रः कृष्णोत्तरासङ्गपुत्र इति बहुव्रीहिगर्भे तत्पुरुषेऽपवादमपि बहुव्रीहिस्वरं बाधित्वा सतिशिष्टत्वात् समासान्तोदात्तता भवति । सतिशिष्टस्वरवलीयस्त्वं च ’ ज्ञापकसिद्धमिति वार्त्तिककृन्मतम् । तथा च समर्थसूत्रे वार्त्तिकम्— ‘एकशितिपात्स्वरवचनं तु ज्ञापकं निमित्तस्वरवलीयस्त्वस्य’ इति । युक्तारो - ह्यादिषु एकशितिपाच्छन्दस्य पाठ इत्यर्थः । तथा हि-अस्ति’ ‘युक्तारोह्यादयश्च’ इति पूर्वपदाद्युदात्तत्वविधायकं सूत्रम् । युक्तारोह्यादिषु च एकशितिपाच्छन्दः पठितः । तत्र हि एकः शितिः पांदे यस्येति त्रिपदे बहुव्रीहौ एकशब्दस्यौणादिककन्प्रत्ययान्ततथा बहुव्रीहिस्वरेणैवादात्तत्वसिद्धेः तत्र पाठोऽनर्थकः । न चोत्तरपदे परतों द्वयोस्तत्पुरुषे सति समासस्वरं व्यावर्तयितुं पाठः, बहुव्रीहिस्वरस्य समासस्वरापवादत्वेनेष्टसिद्धेः । तस्मात् सतिशिष्टमवयवस्वरं" बाधितुं क्रियमाणोऽयं पाठः सतिशिष्टस्वरबलीयस्त्वं ज्ञापयति इति । सतिशिष्टस्वरबलीयस्त्वमेव “निमित्तस्वरबलीयस्त्वेन’’ वार्त्तिके व्यवहृतम् । हरदत्तश्च युक्ता रोह्यादिसूत्रे ‘निमित्तस्वरबलीयस्त्वं तु सतिशिष्टत्वम्’ इति वदन् तयोरभेदं द्योतयामास । भाष्ये तु युक्तारोयादिष्वेकशितिपाच्छन्दपाठः प्रत्याख्यातः । तथा हि–उत्तरपदे परतः 13

  1. निमित्तकसतिशिष्टत्वेन ख.
  2. स्वरितः ग. घ.
  3. सतिशिष्टस्य ग.
  4. एवं कृष्णोच.
  5. तु ख. घ.
  6. च्छब्दपाठः ग. घ.
  7. अस्ति क. ग. ज.
  8. पादः ख. 10. त्रिपदे ग. नास्ति ।
  9. अवयवतत्पुरुषस्वरम् ख. ग. घ. छ.
  10. वार्त्तिके निमित्त-
  11. यस्त्वशब्देन च. छ.
    • त्वादिति ख. ङ. ख. ग. घ. ग. घ. ङ. नास्ति ।
  12. हि ग. घ. ङ. नास्ति ।

२४ स्वर सिद्धान्तचन्द्रिकायाभूust, Delhi [सू. ५. एकशितिशब्दस्य’ तत्पुरुषत्वे ‘संख्यापूर्वी द्विगुः’ इति द्विगुसंज्ञायाम् ‘इगन्तकालकपालभगालशरावेषु द्विगौ’ इति सूत्रेण इगन्तादिषु उत्तरपदेषु द्विगौ पूर्वपदं प्रकृतिस्वरम् इत्यर्थकेन इगन्ते शितिशब्दे परत एकशब्दस्य - प्रकृतिस्वरे सति एकशितिपाच्छब्दे आदेरुदात्तत्वसिद्धौ किं तत्र पाठेनेति । एवं च’ भाष्यमते सतिशिष्टस्वरबलीयस्त्वं वाचनिकमिति समर्थसूत्रे कैयटः । ‘वृत्तिकृता तु वार्त्तिकरीत्या तत्रैकशितिपाच्छन्दपाठमभ्युपगम्य भाष्योक्तरीत्या द्विगुरवेरेणेष्टसिद्धौ पुनस्तत्पाठः ’ शित्यन्तस्योत्तरपदे परे द्विगुस्वरो नेति ज्ञापनाय ; ‘द्विशितिपात्’ इत्यत्र समासस्वरेण शितिशब्दे अन्त उदात्त इति युक्तारोह्यादिसूत्रे भाष्यविरुद्धं वदता सतिशिष्टस्वरबलीयस्त्वं ज्ञापकसिद्धमेवेति स्वमतं दर्शितम् । सतिशिष्टस्वरबलीयस्त्वं न्यायसिद्धमिति ‘हरदत्तभट्टोजियज्वप्रभृतयः । तथा हिपरिभाषेयं सर्वैः स्वरविधिभिरेकवाक्यतामापद्यत इत्युक्तम् । एवं चैकस्मिन् पदे क्रमेणानेकोदात्तस्वरितविधिषु प्रवर्तमानेषु तैरेकवाक्यतामापद्य तत्तत्सूत्रविधेयस्वरवर्ज पदस्यानुदात्ततां बोधयितुं प्रवर्तमाना सा पूर्वपूर्ववाक्यार्थबाधेन # विरोधादुत्तरोत्तरवाक्यार्थ बोधयितुमनीशाना पूर्वपूर्व बाधित्यैवोत्तरोत्तरं बोधयति । चरमस्तु वाक्यार्थो बाधकाभावान्न’ केनचिद्वाध्यत इति स एवावतिष्ठत इति सतिशिष्टस्य बलीयस्त्वमिति । मीमांसकैरपि षष्ठेऽपच्छेदाधिकरणे— ‘पूर्व परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादान्नाद्याबाधेन सम्भवः || इति वदद्भिः ‘पूर्वबोधितवाक्यार्थविरुद्धं " कल्पयदुत्तरं शाखं पूर्वशास्त्रं बाधते’ “इत्ययं न्यायोऽनुसृत इति दिक् ।

  1. एकशितिपाच्छब्दस्य क.
  2. इति तु हरदत्त- ख.
  3. एवं च क. नास्ति ।
  4. प्रवृत्ता ङ.
  5. पदकृता घ.

पुनस्तत्र तत्पाठः ख. ग. 9. 8. - बाधनेनाविरोधात् घ. बाधकत्वान्न छ. 10. घ. च. अर्थ बोधयदुत्तरं स्व. ग. 5. परे ग. घ. ङ. च. नास्ति । ’ घ. ङ. च. 11. अयम् ङ. च. नास्ति ।

सू. ५.]

परिभाषाप्रकरणम् ३५ ननु सतिशिष्टस्वरस्य प्राबल्ये, ‘योऽग्निं चिनुते’, ‘यौ द्वौ स सुनुतः’, ‘पुनीत आ॒त्मानं॒ द्वाभ्या॑म्’ इत्यादी विकरणस्वरः प्रसज्येत, सार्वधातुके परतो विकरणविधानेन तत्स्वरस्य सतिशिष्टत्वात् । सार्वधातुकस्वरश्चात्र श्रूयत इति चेत् — सत्यम् ; विकरणेभ्योऽन्यत्र सतिशिष्टस्वरबलीयस्त्वम्, ‘तास्यनुदात्तेन्ङिददुपदेशात्’ इति लसार्वधातुकानुदात्तत्वविधानाल्लिङ्गात् । अन्यथा परत्वाल्लकारमात्रापेक्षत्वेनान्तरङ्गत्वाच्च तिबादिषु सत्सु लकारविशेषापेक्षस्तासिः कृत इति तत्स्वरस्य सतिशिष्टत्वेन प्राबल्ये शेषनिघातेनैव ‘वो य॒ज्ञे प्र॑यो॒क्तासै’ इत्यादौ लसार्वधातुकानुदात्तत्वसिद्धेः किं तद्विधिनेति ।। अत्र वार्त्तिकानि- ‘विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम् ’ । ‘विभक्तिनिमित्तस्वराच्च’ । ‘यच्चोपपदं कृति नञ् तस्य’ स्वरो बलीयानिति वक्तव्यम्’ ‘सहनिर्दिष्टस्य च’ इति ॥ अत्र तृतीयव्यतिरिक्तानि सतिशिष्टस्वरबलीयस्त्वबाधनार्थानि । तृतीयं तु कृत्स्वरबाधनार्थं नव् स्वरप्राबल्यप्रसङ्गादिह पठितम् । तथा हि’’ अतिस्रः’ इत्यत्र ‘तिसृभ्यो जसः’ इति विहितं विभक्त्युदात्तं सतिशिष्टस्वरं बाधितुमाद्यं वचनम् । तेन ‘तत्र ‘तत्पुरुषे तुल्यार्थ’ इत्यव्ययपूर्वपदप्रकृतिस्वरेण नत्रुदात्तः । ‘अचत्वारः’ ‘अननड्डाह:’ इत्यत्र ‘चतुरनडुहोरामुदात्त:’ इति विहितस्य विभक्तिनिमित्तस्यामो यः स्वरस्तं बाधितुं द्वितीयम् । ‘आक्रोशे नञ्यनिः’ इत्यनिप्रत्ययान्ते ‘अकरणि’ शब्दे ‘नञि’ इति सप्तमीनिर्देशेन तस्योपपदत्वात्, ‘गतिकारकोपपदात् कृत् ’ इति परत्वात् कृदुत्तरपदप्रकृतिस्वरं प्रसक्तं बाधितुं तृतीयम् । ‘अव्यथी’ इत्यत्र ‘जिदृक्षिविश्रीण्वमाव्यथ’ इति इनिप्रत्ययान्ते, ‘अव्यथ’ इति

  1. तस्य……वक्तव्यम् क. नास्ति ।
  2. अत्र… - बाधनार्थानि क. नास्ति । स्व-4
  3. : तथा हि ग. नास्ति । 4. विहितम् ग. घ. नास्ति ।
  4. अत्र ग. घ. ङ. ०

२६

स्वर सिद्धान्त चन्द्रिकायाम् 1 [सू. ४. निपातनाद्धातुना सह निर्दिष्टस्यास्य ननः समासे सति पश्वादिनिः इति सतिशिष्टं तत्स्वरं बाधित्वा’ नञ्स्वरो ं यथा स्यादिति चतुर्थमिति । ‘अव्यये नकुनिपातानाम्’ इति वार्त्तिके निपातत्वादेव सिद्धे नञः पृथग्ग्रहणं क्वचित्तत्स्वरस्य प्राबल्यज्ञापनाय । तेन ‘यच्चोपपदम्’ इत्यादिवार्त्तिकद्वयं नारम्भणीयमिति ‘तत्पुरुषे तुल्यार्थ’ इत्यत्र कैयटः । आद्यमपि न कर्तव्यमिति तत्रैव हरदत्तः । चत्वार्यपि न कर्तव्यानीति तत्रैव मनोरमायाम् ॥ 1 यत्तु स्वरमञ्जय विप्रकीर्णप्रकरणे ऽभिहितम्, ‘अप्रणते॒ स्वाहो’, ‘असेतो वा एष संभूतः’, ‘असंतः सद्ये ततक्षुः’ इत्यादौ, ‘प्राणते स्वाहा’ ‘शृण्व॒ते स्वाहा॑’ इत्यादाविव ‘शतुरनुमो नद्यजादी’ इति विभक्त्युदात्तत्वं न भवति, ‘विभक्तिस्वरान्नञ्स्वरो ‘बलीयान्’ इति वचनात् — इति ॥ तत्तुच्छम् ; समासान्तोदात्तापवादेऽव्ययपूर्वपदप्रकृतिस्वरे सति अप्राणच्छब्दादीनामन्तोदात्तत्वाभावेन ‘शतुरनुमः’ इति विभक्त्युदात्तत्वस्यैवात्राप्रसक्तेः, ‘शतुरनुमः’ इत्यत्र ‘अन्तोदात्तादुत्तरपदात्’ इत्यतः ‘अन्तोदात्तात्’ इत्यधिकारस्य सर्वसंमतत्वात् । स्वरमञ्जर्यामेव ‘अनुम् यः शतृप्रत्ययः तदन्तात् ’ अन्तोदात्तात् ’ इति ‘शतुरनुमः’ इति सूत्रं व्याख्याय, अन्तोदात्तादिति किंम् ? ‘बिभ्रती ज॒राम् ’ ‘जाय॑ते॒ स्वाहा॑ ’ अत्र ‘अभ्यस्तानामादिः ’ ’ इत्याद्युदात्तः इति प्रत्युदाहृतत्वेन पूर्वापरविरोधाच्च । ‘प्राणते’ इत्यत्र तु कृत्स्वरेण शत्रन्तमन्तोदात्तमिति । एतेन यथाश्रुतं स्वरमञ्जरीग्रन्थमिममाम्रेडयन् परिमलकृदपि निरस्तः ॥ प्रसक्तानुप्रसक्त्यालं प्रकृतं चिन्त्यतेऽधुना । पदग्रहणमेतस्मिन् सूत्रे किं फलवन्न वा ॥ 9 अत्र स्वरमञ्जरीकारः – ‘वाक्यव्यावृत्त्यर्थं पदग्रहणम्, अन्यथा वाक्येऽपि एकं वर्जयित्वा’ इतरदनुदात्तं स्यात् ’ इति । तत्र ‘हरदत्तः - ‘आद्युदात्तश्च’

  1. बाधितुं ख.
  2. तत्रैव क. नास्ति ।
  3. बलवान् क.
  4. इत्यादिरुदात्तः च.
  5. एकवर्जमितरत् च.
  6. अत्र ग. तच्चिन्त्यम् च.
  7. अन्तोदात्तात् क. नास्ति । 8.

सू. ५. ]

परिभाषाप्रकरणम् २७ ‘घातोः’ इत्यादिभिरस्यैकवाक्यतायां प्रत्ययादावादिरन्तो वा उदात्तो भवति, तमेकं वर्जयित्वा इतरदनुदात्तमित्यर्थो भवति । तत्र च सन्निधानात् प्रत्ययप्रभृतिष्वेव ‘इतरदनुदात्तमिति लाभेन वाक्ये तदप्रसक्तेः — इति । उच्यते— अचामेकपदस्थानां सर्वेषामनुदात्तता । यथा स्यादिति कर्तव्यं पदग्रहणमन्यथा ॥ प्रत्ययादिष्वनेकाक्षु प्रत्येकमनुदात्तताम् । एकवर्जं सूत्रमेतत् सन्निधानेन बोधयेत् ॥ ततश्च प्रत्ययादीनां प्रसज्येत पृथक्स्वरः । अनैयत्यनिवृत्तिश्च पूर्वोक्तो नोपपद्यते ॥ सूत्रेणैकेन नियमो विधानं च कथं भवेत् । पदग्रहणसामर्थ्यलभ्यमेतद्द्द्वयं ततः ॥ यतः पूर्वोक्तरीत्या सन्निधानाद्धातुप्रत्ययादिष्वेकैकमचं वर्जयित्वा शिष्टमनुदात्तमिति सूत्रार्थः प्रसक्तः; अत एव पदग्रहणं सर्वस्य पद्गतस्य अचोऽनुदात्तत्वार्थं क्रियते । इतरथा हि प्रकृतिप्रत्यययोः पृथक्स्वरप्रसङ्गः । यत्तु स्वरमञ्जर्यामुक्तम् -‘आद्युदात्तश्च’, ‘धातो:’ इत्यादिभिरस्यैकवाक्यतायां ’ प्रत्ययादावादिरन्तो वा उदात्तो भवति । तमेकं वर्जयित्वा इतरदनुदत्तं स्यादिति हरदत्तः । तत्रैकैकस्य उदात्तविधानेन अनेकोदात्तप्रसक्त्यभावात् प्रकृतौ प्रत्यये च प्रत्येकमेकवर्जं शिष्टमनुदात्तमिति सूत्रार्थ एव न भविष्यतीति न तदर्थ पदग्रहणम् - इति । तन्मन्दम् ; अनेकाक्षु फगादिषु प्रत्ययेषु गोपायतीत्यादिषु धातुषु प्रातिपदिकेषु चार्थील्लक्षणेन च बहुळमनेकोदात्तादिप्रसक्तेः । एवं ‘पदग्रहणाभावे यत्र न कश्चित् स्वरो विहितः तत्रानुदात्तत्वनियमः सूत्रस्य फलम्’ इति यदुक्तम्, तदपि नोपपद्यते ; ‘एकेन सूत्रेण विधिनियमयोः कर्तुमशक्यत्वात् । सति पदग्रहणे तत्सामर्थ्यात् कृत्स्नस्य पदस्यानुदात्तत्वार्थं वचिद्विधित्वं क्वचिन्नियमत्वं 1. तदनुदात्तम् ङ. 2. इत्यादिभिरेकैकस्यैवोदात्तविधा- नेन अनेकोदात्तप्रसक्त्यभावात् ग. घ. च. 3. न घ. नास्ति । 4. एतेन घ.

२८

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ५. क्वचिदुभयविधित्वं च सूत्रस्याश्रीयत इति सिद्धमिष्टम् । अथ सति पदग्रहणे पदसंज्ञानन्तरमेव शेषनिघातेन भाव्यमिति कुवलशब्दात् ‘ग्रामादीनां च’ इत्याद्युदात्तात् गौरादित्वान्ङीषि सत्यपि पदत्वाभावात् शेषनिघाताभावेऽनुदात्तादित्वाभावात् कुवल्या विकारः कौवलमित्यत्र ‘अनुदात्तादेश्च’ इत्यञ् न स्यात् । कथं वा सति पदग्रहणे ‘धातोः’ इत्यादिषु धात्वाद्युपदेशानन्तरमेव प्रवर्तमानेषु तदेकवाक्यतया इयं परिभाषा ‘शेषनिघातं बोधयेत् ? तदा तत्र पदसंज्ञाविरहादिति चेत् — सत्यम् ; अत एव अनुपपत्त्या पदशब्दस्य पदीभविष्यति लक्षणाभ्युपगम्यते । ‘एङ: पदान्तात्’ इत्यतः पदाधिकारे पुनः पदग्रहणमपि तस्य गौणत्वे लिङ्गम् । अपि च, ‘एकवजम्’ इति परीप्सायां विहितो णमुलपि तत्र लिङ्गम् । परीप्सा - त्वरा, तत्र विहितश्च णमुल् यन्त्रोदात्तादिर्विधीयते तत्र तत्सम - कालमेव शिष्टमनुदात्तं कर्तव्यम्, न विलम्बितमिति + द्योतयति । न च पदग्रहणस्य पदीभविष्यति लक्षणां विना तत्संभवतीति तां कल्पयति । एवं च ‘धातो:’ इत्यादिभिरस्य’ एकवाक्यतायामयमर्थो भवति - धातोरन्त उदात्तः, तं वर्जयित्वा तद्धातुघटितस्य यावतः समुदायस्य इतः परं पदसंज्ञा भविष्यति तद्गताः सर्वे चानुदात्ताः - इति । एवं च कुवलीशब्देऽपि पदसंज्ञायाः पूर्वमेव शेषनिघाते न पूर्वोक्तदोष: । ‘एकवर्जम्’ इति पदं तु परिभाषाप्रवृत्तिविषयप्रदर्शनाय । ‘अनुदात्तं पदम् ’ इत्युक्तौ हि किंविषयेयं परिभाषेति न ज्ञायेत । ‘एकवर्जम्’ इत्यनेन तु स्वरितोदात्तवर्जमिति तदर्थपर्यवसानात् तद्विधिष्वेवास्याः प्रवृत्तिरिति प्रदर्श्यते । सूत्रस्य परिभाषात्वे ‘एकवर्जम्’ इति पदमेव लिङ्गम् । अधिकारत्वे तद्वैयर्थ्यात्, तत्सूत्रविधेयानां” विधिसामर्थ्यादेव निघाताप्रवृत्तेः । यद्यप्यधिकारत्वेऽपि अस्य षाष्ठखरे प्रतियोगमस्योपस्थितौ 4

  1. शेषग. नास्ति । 2. पदे क. ग.
  2. इत्यत्र घ.
  3. विलम्बितं कर्तव्यमिति विलम्बितव्यमिति ग. च. ज.
  4. इत्यादिभिस्तस्याः छ. 7. पदं तु ग. नास्ति ।
  5. इयं ख. नास्ति । क.
  6. सूत्रस्यास्य ग. घ. घ.

तद्वैयर्थ्यम् ख. 11. तत्तत्सूत्रविधेयानाम् ङ. च. 5. पदे क.

सू. ५.]

परिभाषाप्रकरणम् २९ न कश्चिद्दोष: ; ततश्च ‘एकवर्जम्’ इति न कर्तव्यमिति’ लाघवम् ; तथापि स्थलान्तरवर्तिषु ‘आद्युदात्तश्च’ इत्यादिष्वस्यानुपस्थानात् शेषनिघातो न स्यादिति दोषात् परिभाषात्वमाश्रितम् ॥ स्यादेतत् - यदीयं परिभाषा तर्हि ‘कार्यकालं संज्ञापरिभाषम्’ इति अस्यास्त्रिपादीस्थैरपि स्वरितादिविधिभिरेकवाक्यत्वे ‘य॒ज्ञस्य॑ घोषत्’, ‘दश॒ हस्त्या अङ्गुल॑यः’ इत्यादौ ‘उदात्तादनुदात्तस्य’ इति स्वरितमाश्रित्य शेषनिघातप्रसङ्गः । न च तस्यासिद्धत्वम्, अस्यापि तत्रोपस्थाने तदभावात् । न च सन्निपातपरिभाषया उदात्तमाश्रित्य प्रवृत्तः स्वरित उदात्तविघातकस्य शेषनिघातस्य निमित्तं न स्यादिति वाच्यम् ; स्वरविधौ सन्निपातपरिभाषाया अनित्यत्वात् अप्रवृत्तेः । अन्यथा ‘अन्तोदात्तादुत्तरपदाद्न्यतरस्याम्’, ‘ह्रस्वनुड्भ्यां मतुप्’ इत्यादिभिरपि स्वरे कृते शेषनिघातानापत्तेः । अपि च ‘अजा होग्नेः’ इत्यादौ ‘उदात्तस्वरितयोर्यण:’ इति स्वरितमाश्रित्य शेषनिघातप्रसङ्गः । न त्वत्र सन्निपातपरिभाषाविरोधशङ्केति ॥ " उच्यते—यथोद्देशपक्ष एवात्र परिभाषायामाश्रीयते, लक्ष्यानुसारात् केषांचित् स्वरसूत्राणामसिद्धकाण्डपाठाल्लिङ्गाच्च । तथा चास्याः परिभाषायास्त्रिपादीस्थस्वरविधिभिरेकवाक्यत्वाभावेऽस्यां कर्तव्यायां तत्रत्यस्वरितादेरसिद्धत्वान्न कश्चिद्दोषः । न चैवं स्वरविधिभिरस्यैकवाक्यतेति तत्र पूर्वोक्तं विरुध्येतेति वाच्यम् ; इदानीमपि तैरेकवाक्यत्वानपायात् । इयांस्तु विशेषः – कार्यकालपक्षे तैरस्याः पदैकवाक्यता, ‘यथोद्देशपक्षे वाक्यैकवाक्यता—इति । यत्तु ‘गुरोरनृतोऽनन्त्यस्य’ इति सूत्रे हरदत्ते - नास्याः कार्यकालत्वं दर्शितम्, तत् उक्तयुक्तिविरोधात् ‘न मुने’ इति

  1. वक्तव्यमिति ख. ग. ङ,
  2. ह्यत्र ख. ग. घ. च. छ.
  3. शङ्केति चेत् क. घ.
  4. नचैवं यथोद्देशपक्षाश्रयणे ङ. षाष्ठ… वाक्यता नेति वाच्यम् क. ङ. 5. तै: ग. नास्ति ।
  5. यथोद्देशपक्षे तु म.
  6. कार्यकालपक्षत्वम् क. ' ३०

[सू. ५. स्वरसिद्धान्तचन्द्रिकायाम् सूत्रस्थस्वोक्तिविरोधाच्चोपेक्ष्यम् । तत्रत्यं भाष्यमपि तथाविधमापातत: प्रवृत्तमिति मन्तव्यम् । एतच्च तत्रैव स्पष्टयिष्यते ॥ यत्तु अस्यां `परिभाषायां यथोद्देशपक्षाश्रयणे ‘यतोऽनाव:’ इति सूत्रं ज्ञापकमिति मनोरमायामुक्तम् तच्चिन्त्यम् ; अयं हि तस्याशयः– ‘यतोऽनाव:’ इति हि’ सूत्रं यत्प्रत्ययान्तस्य द्व्यचः ‘तित्स्वरितम्’ इत्यन्त्यस्वरितत्वे प्राप्ते आद्युदात्तत्वार्थमारभ्यते । तच्चात्र कार्यकालपक्षाश्रयणेऽनर्थकम्, सत्यप्याद्युदात्तत्वे शेषनिघाते ‘उदात्तादनुदात्तस्य’ इति तस्य स्वरितत्वे तमाश्रित्य पुनः शेषनिघाते चान्त्यस्वरितस्यैवावस्थानेनाद्युदात्तत्वस्य क्वाप्यश्रवणात् — इति । एतच्च वार्तम् ; अन्त्यस्य निघाते सति यत्र ‘नोदात्तस्वरितोदयम्’ इति निषेधात् सन्नतरेण ‘उदात्तस्वरितपरस्य सन्नतरः’ इति सूत्रविहितेन बाधितत्वाद्वा, ‘उदात्तादनुदात्तस्य’ इति नान्त्यस्य’ स्वरितत्वम्, किंतु सन्नतरः, तत्राद्युदात्तश्रवणार्थं तदारम्भात्, तत्रान्त्यस्य स्वरितत्वाभावेन तदादायाद्यस्य निघाताप्रवृत्तेः । श्रूयते चैत्रम् — ‘गाय॑ते॒ न देयं गाथा हि’, ‘न देय सौऽग्निः’ इत्यादौ । यदपि तव्यतस्तित्त्वमस्यां परिभाषायां यथोद्देशपक्षाश्रयणे लिङ्गम् । तद्धि ‘कर्तव्यम्’ इत्यत्रान्तस्वरितत्वार्थम् । अत्र कार्यकालपक्षाश्रयणे च तित्त्वं विनाप्येतत् सिद्धम् ; तव्यस्य प्रत्ययस्वरेणायुदात्तत्वे शेषनिघाते ‘उदात्तादनुदात्तस्य’ इति’ स्वरितत्वे तमाश्रित्य शेषनिघातादिति, तदप्यत एवं निरस्तम् ; यत्र तव्यस्योदात्तस्वरितपरत्वम् ‘क॒र्तव्य॑ यजुः’ इत्यादौ तत्र सन्नतरेण ‘उदात्तादनुदात्तस्य’ इति स्वरितत्वस्य बाधितत्वेन आद्युदात्तस्य अन्ते सन्नतरस्य च श्रवणप्रसङ्गात् । ततश्च तं वारयितुं तित्त्वमित्युपपत्तेः कथमिदं तज्ज्ञापकमिति’ दिक् ॥

  1. हि ग. नास्ति ।

नास्य ग. 2. एतच्च वार्त्तिकमन्त्यस्य ख. 4. इति तस्य स्वरितत्व ग घ च च. ज एतच्च सूत्रम् ङ, 5. इदम् ग. घ. नास्ति । 6. इत्येषा दिक् ग. घ. ङ. एतच्च अन्त्यस्य. क. घ च. छ. ज.

खू. ६.]

परिभाषाप्रकरणम् [६] ॥ एकादेश उदात्तेनोदात्तः ॥ (8–2–5) । ३१ ‘परिभाषेयम्’ इति ‘न मु ने’ इति सूत्रे कैयटहरदत्तौ । सा च ‘एकादेश:’ इति लिङ्गात् ‘आद्गुण:’ इत्याद्येकादेशविधिषु उपतिष्ठते । ‘उदात्तस्वरितयो:’ इति पूर्वसूत्रात् ‘अनुदात्तस्य’ इत्यनुवर्तते । तेनायमर्थःआदचि गुण एकादेशो भवति, उदात्तानुदात्तयोरेकादेशो गुणो भवन् उदात्तो भवतिइति । एवमेकादेशशास्त्रान्तरेऽप्यूह्यम् । उदात्तानुदात्तयोरेकादेश आन्तर्यात् स्वरितः प्रसज्येतेति वचनम् । ‘जातौ विश्वस्य भुव॑नस्य गोपौ’ । ‘ब्रह्म॑ यच्छा’’ | ‘अरुन्धतेऽसत्रम्’ । ‘जात’ शब्द: क्तप्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तः । सुबनुदात्तः । अतो’ ‘वृद्धिरेचि’ इत्येकादेश उदात्तः । ‘यच्छ’ इति ‘तिङ्ङतिङ : ’ इति निघातः । ‘रुन्धते’ इत्यत्राप्येवम् । ‘उपसर्गाश्चाभिवर्जम्’ इति ‘अप’ इत्यस्य’ आदिरुदात्तः । ‘असत्रम्’ इत्यत्र अव्ययपूर्वपदप्रकृतिस्वरेणादिरुदात्तः । तयोरुभयोः एकादेश उदात्तः । उदात्तेनेति किम् ? अनुदात्तयोः स्वरितानुदात्तयोर्वा एकादेश उदात्तो मा भूत् । ‘मा त्वान्यक्’ । ‘अथ॒ वा॑स्याहवनीयः’ । अनुदात्तयोरेकादेश आन्तर्यादनुदात्तः । स्वरितानुदात्तयोः स्वरितः । अनुदात्तस्येति किम् ? उदात्तस्वरितयोरेकादेश उदात्तो मा भूत् । उदात्तयोस्त्वेकादेश आन्तर्यादुदात्त एव । यथा’मैत्रावरुणीत्याह ’ ॥ ननु ‘अनुदात्तस्य’ इति पदमुदात्तस्वरितयोरेकादेश उदात्तो मा भूदित्येवमर्थमित्ययुक्तम्, तस्याप्युदात्तत्वदर्शनात् । यथा - ‘सवनमुखे सेवनमुखे । ‘कार्य’ शब्दः कार्येति’, ‘अथोक्थ्योऽथातिरात्रः’, ‘याज्येवैन॑म्’ । ‘ऋहलोर्ण्यत्’ इति ण्यत्प्रत्ययान्तः ‘तित्स्वरितेनान्तस्वरितः । ततष्टाबनुदात्तः । तयोरेकादेश आन्तर्यात् स्वरितः । तस्य ‘इति’ शब्देकारेण उदात्तेनैकादेशः । उक्थ्यशब्दः ’ तित्स्वरेणान्त्यस्वरितः । स ह्युक्थशब्दात्

  1. ततः ग.
  2. उपेत्युपसर्गे ख. ग. घ. ङ.
  3. तदुभयत्र ख. ग. घ.
  4. उक्थ्यशब्दे ग. घ.
  5. उकथ्यशब्दः क. ख. च. छ. ज.

ङ. . ३२

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ६. } ‘वर्चों निष्केवलोक्थ’ इति स्वार्थे यति निष्पन्नः । ततः सुप्प्रत्ययः । रुत्वोले । सुप्त्वादुकारोऽनुदात्त: ’ ; हलः स्रंसनधर्मित्वेन तत्स्थाने स्रंसनधर्मिणोऽनुदात्तस्यैवोकारस्यान्तर्यात् प्रवृत्तेर्वा । ततः ‘आद्गुण:’ इत्येकादेशः पूर्ववत् स्वरितः । पश्चात् ‘अथ’ शब्दाकारेण तस्य ‘एङ: पदान्तादति’ इत्येकादेशः । ‘अथ’ शब्दश्व’ ‘निपाता आद्युदात्ताः’ इति स्वरितान्तः आद्युदात्तः ण्यत्प्रत्ययान्तः ‘याज्य’ शब्दोऽपि / ततष्टापि पूर्ववत् याज्याशब्दोऽपि अन्तस्वरितः । तत आडुपसर्गेणैकादेशः । ‘चजोः कुधिण्ण्यतो:’ इति कुत्वं तु याज्याशब्दे न भवति ; ‘यजयाच’ इति निषेधात् । प्रातिशाख्येऽपि ‘उदात्तमुदात्तवति’ (तै. प्रा. अ. १०. सू. १०) इत्येकादेशोदात्तत्वसूत्रे अनुदात्तस्येति न विशेषणं दत्तम् । उदात्तधर्मवति पूर्वत्र परत्र वा स्थिते य एकादेशः स उदात्तमापद्यत इति सूत्रार्थः । बहुचा अपि ‘कावरम्’ इत्यादौ स्वरितोदात्तयोरेकादेशमुदात्तमधीयते । बहुचप्रातिशाख्येऽपि 1 ‘उदात्तवत्येकीभाव उदात्तं सांध्यमक्षरम् ’ ‘लक्ष्य- इत्यत्रानुदात्तग्रहणं न कृतम् । कृतम् । तस्मादनुदात्तस्येत्यनुवृत्तौ प्रातिशाख्यविरोध इत्यभिप्रेत्य स्वरमञ्जर्याम् अनुदात्तस्येत्यनुवृत्तिः ’ अनाश्रिता । एतदेव ‘न सुब्रह्मण्यायाम्’ इति सूत्रस्थ कौस्तुभे उक्तम्’ । अत्र सिद्धान्तकौमुदीमनोरमयोश्चानुमोदितम् इति चेत् —‘तदुभयं चिन्त्यम् ; वृत्तिहरदत्तग्रन्थभाष्य कैयट ‘विरोधात् । तथा हि-प्रकृतसूत्रे वृत्तिहरदत्तग्रन्थयोरनुदात्तानुवृत्तिः स्पष्टमभिहिता । ‘न सुब्रह्मण्यायाम्’ इति सूत्रभाष्य” वार्त्तिकपर्यालोनयाप्यनुदात्तानुवृत्तिः प्रतीयते । तत्र हि

  1. सुप्त्वादनुदात्तः क. ख. 2. इति शब्दोऽथशब्दश्च ख. ग.
  2. अनुवृत्तिरत्र ख. घ. छ. ग. घ. ङ. . च. छ ज.

उक्तम् ख. ङ. नास्ति । 3. इत्युक्त- 8. इत्युक्तङ. इति तदुभयं क. ख. ग. 4. नोक्तम् क. 5. उक्तलक्ष्ये प्रातिशाख्ये ख. ग. घec-0. Shri Vipin Kumar Col. ङ. च. छ. ज. 9. -वार्त्तिकविरोधात् ग. घ. ज. Deoband वाचिक fic Domain. नास्ति । 10. वार्त्तिक-कसू. ६]

परिभाषाप्रकरणम् I ३३ ‘तस्यादित:’ इत्यादिनवसूत्रयुत्कर्षस्य प्रयोजनमभिदधद्वार्त्तिकं ‘स्वरितो - दात्तार्थं च’ इति । ‘न सुत्रह्मण्यायां स्वरितस्य तूदात्तः’ इति यदिदं सुब्रह्मण्यानिगदे स्वरितस्योदात्तत्वं विधीयते तदर्थमपि नवसूत्रयुत्क्रष्टव्या । अनुत्कर्षे ‘इन्द्रागच्छ’ इत्यादौ ‘उदात्तादनुदात्तस्य’ इति योऽयं स्त्ररित आकारः तस्यासिद्धत्वेन स्वरितस्योदात्तविधानं न स्यादिति वार्त्तिकाशयः । अत्र च वचनबलात् स्वरितस्य सिद्धत्वं भविष्यतीत्याशङ्कञ्ज्याभिहितं भाष्ये ‘यः सिद्धः स्वरितः तदर्थमेतत् स्यात्, यथा सुब्रह्मण्योम्’ इति । अयमाशयः - सुब्रह्मणि साधुः सुब्रह्मण्यः । ‘तत्र साधुः इति यत्प्रत्ययः । तित्त्वादन्तः स्वरितः । ततष्टापा सह एकादेश आन्तर्यात् स्वरितः ततो निपातेन ‘ओ’ शब्देन ‘ओमाङोच’ इति पररूपम् । तच्चोदात्तस्वरितयोः स्थाने भवदान्तर्यात् स्वरितात्मकम् । तस्य असिद्धत्वाभावात् तदर्थं ‘स्वरितस्य तूदात्तः’ इति वचनं स्यात् — इति वात्तिकाभिप्राय इति । एतञ्चात्रानुदात्तानुवृत्तिं ज्ञापयति । अन्यथा ‘ओमाङोश्च’ इति पररूपस्य उदात्तस्वरितस्थानिकस्य प्रकृतसूत्रेणैवोदात्तत्वसिद्धौ ‘स्वरितस्य तूदात्त:’ इति वचनस्य कथं तदर्थता स्यादिति । उक्तश्चायं भाष्याशयः कैयटेन दर्शित इति तस्याप्येतदनुमतम् । नन्वनुगुणलक्ष्याभावात् उदाहृतलक्ष्यविरोधाच सर्वोऽप्ययं ग्रन्थ आपातत इति कल्प्यत इति चेत्-त ; लक्ष्याभावस्तावत् कुतोऽवगत: ? उक्तशाखाद्वयेऽनुपलम्भादिति चेत् — तत् किं शाजाद्वयमेव व्याकरणस्य विषयः ? येन तत्रानुपलम्भात् तदभावो निर्णीयेत । न हीदानीं तद्भिन्नास्वपरिमितासु शालासु भाषायां वा काप्युदाहृतभाष्यवार्त्तिकानुगुणलक्ष्यं नास्तीति पितामहेनापि निश्चेतुं शक्यम् । पश्यामश्च परिदृश्यमानलक्ष्यविरुद्धमर्थं परिकल्प्य तत्साध्यं लक्ष्यं शाखान्तरीयमुदाह्रियमाणं भाष्यकृता । तद्यथा - ‘कर्मधारये निष्ठा’ इति सूत्रे ’ श्रेण्यादय: कृतादिभि:’ इति प्रतिपदोक्तकर्मधारयस्य ग्रहणम्, तेन महानिरष्टशब्दे पूर्वपदप्रकृतिस्वर उक्तसूत्रेण नेति ‘महान् व्रीह्मपराह्न ’ इत्यत्र भाष्ये स्थितम् । इदं च परिदृश्यमानलक्ष्यविरुद्धम्, ‘वारुणं दशकपालं 3. तस्य स्वरितस्य ग. घ.

  1. वार्त्तिककारः ग.
  2. स्वरितस्य क. नास्ति । स्त्रce-a3shri Vipin Kumar Col. Deoband. In Public Domain. ३४ Digitized by Madhuban Trust, Delhi. स्वरसिद्धान्तचन्द्रिकायाम् [सू. ६ मह निरष्टो दक्षिणा समृद्धयै’ इत्यादौ पूर्वपदप्रकृतिस्वरदर्शनात् । उदाहृतं च भाष्ये ‘महानिरष्टो दक्षिणा दीयते’ इति शाखान्तरीयं वाक्यम् । तथा उल्लूकशब्दस्य यदुलूको वदति’ ‘इत्थादुर्लुकः’ इत्यादावाद्युदात्तपाठदर्शनाच्छान्दसमाद्युदात्तत्वम् । लोके तु ‘लधावन्ते’ इति लक्षणवशान्मध्योदात्ततेति ‘खण्डिकादिभ्यश्च’ इति ‘सूत्रे भाष्ये कौस्तुभे च दर्शितम् । सूत्रकारश्च ‘न भूवाक्चिद्दिधिषु’ इति ‘पत्यावैश्वर्ये’ इति प्राप्तं पूर्वपदप्रकृतिस्वरं निषेधति । अधीयते च भूशब्दे प्रकृतिस्वरम् ‘भूपतये स्वाहो’ ‘अहं भूपतिः’ इत्यादौ । एवं कार्तकौजपादिषु याज्यानुवाक्याशब्दं पूर्वपदप्रकृतिस्वरार्थं पठति’ । ‘समानी योज्यानुवाक्यै भवत:’ इत्यादौ चाकस्मिकमन्तस्वरितत्वं दृश्यते । एतादृशानि सूत्राणि बहूनि सुप्रसिद्धान्येव । न ह्येतावतां ‘सूत्राणामापाततः प्रवृत्तिः कल्प्या । यदि च शाखान्तरविषयत्वेन भाषाविषयत्वेन च सूत्राणामुपपत्तिः, अस्मदादिपरिदृष्टानि तु कतिपयानि लक्ष्याणि प्रातिशाख्यादिभिर्बहुलग्रहणाद्वा साधनीयानीत्युच्यते, तर्हि प्रकृतेऽपि दीयतां दृष्टिः । अत एव लक्ष्यविरोधोऽपि निरस्तः । न च भाषायां स्वरनियमो नेति मन्तव्यम् ; मनोरमादिष्वेव ‘भाषायां ‘स्वरनियमो नेति भ्राम्यन्तः परास्ताः’ इत्यसकृदभिधानात् । स्वरविधौ छन्दोऽधिकाराभावात् । ’ विभाषा भाषायाम्’ इत्यादिस्वरसूत्राणामानर्थक्यप्रसङ्गाच्च । तस्मात् त्रिचतुरविरुद्धलक्ष्यदर्शनेन भाष्यवार्त्तिकाद्यन्यथाकरणमतिसाहसमित्युपेक्ष्यम् ॥ 1 अथास्य परिभाषात्वे किं मानं ? किं च तत्फलम् ? । लक्ष्याणि साधयेदेव स्वतन्त्रोऽपि ह्ययं विधिः ॥ अत्रोच्यते सनुमुकस्य प्रतिषेधः शतृस्वरे । प्रमाणं परिभाषात्व इति प्रोवाच कैयटः ||
  3. इत्यत्र भाष्यादौ ख. ङ.

सूत्राणामपि ङ. 5. भाषाविषयत्वेन च क. ख. छ. ज. 2. प्रापितम् ख. नास्ति । 3. इति ग. अधिकम् । 6. स्वरानुरोधः ख.

सू. ६]

परिभाषाप्रकरणम् अयादिषु स्वरस्यास्य सिद्धत्वं तु प्रयोजनम् । ३५ अन्तोदात्तादनुमः शत्रन्तात् परस्या नद्या अजादिविभक्तेश्चोदात्तविधायकः ‘शतुरनुमो नद्यजादी’ इति स्वरविधिः शतृस्वरः । तत्र ‘अनुमः’ इति सनुमुकस्य प्रतिषेधोऽस्य परिमाषात्वे प्रमाणम् । स हि निषेधो ‘वक्ष्यन्तीव’ इत्यादौ नद्युदात्तत्वाभावाय क्रियते । अत्र च स्यप्रत्ययस्य प्रत्ययस्त्रेरणोदात्तत्वे शतुरदुपदेशात् परत्वाल्लसार्वधातुकानुदात्तत्वे च तयोरेकादेशस्वरेण शत्रन्तस्यान्तोदात्तत्वमाश्रित्य शतृस्वरप्रवृत्तिः । ‘शतुरनुम:’ इत्यत्र ‘अन्तोदात्तात्’ इयनुवृत्तेः । यदि चेयं परिभाषा न स्यात् तदा एकादेशस्वरस्य ‘पूर्वत्रासिद्धम् ’ इति शत्रुस्वरेऽसिद्धत्वेन अन्तोदात्ताभावादेव ‘अत्र शतृस्वराभावे ‘अनुमः’ इति प्रतिषेघो निष्फलः स्यात् । न ह्येकादेशस्वरं विना शत्रन्तं सनुमूकं च क्वचिदन्तोदात्तमस्ति यदर्थः प्रतिषेधः स्यात् । अथापि क्रियमाणोऽयं निषेधः स्वसाफल्यायास्य परिभाषात्वं ज्ञापयति । तथा हि’आद्गुणः ’ इत्यादिभिरस्य विधेरेकवाक्यत्वेनासिद्धकाण्डानन्तर्गतत्वादेकादेशस्वरस्यासिद्धत्वाभावे ‘वृक्ष्यन्तीव’ इत्यादिव्यावृत्तये नुमो निषेधः कर्तव्य इति । परिभाषात्वे फलं तु अयादिष्वस्य स्वरस्यासिद्धत्वाभावः । स्वतन्त्रविधित्त्रे हि ‘त इ॒मं य॒ज्ञम॑वन्तु॒ त इदं क्षेत्र॑म्’ इत्यादौ प्रातिपदिकान्तविभक्त्योरुदात्तानुदात्तयोरेकादेशे तत्स्वरस्यायादेशे कर्तव्येऽसिद्धत्वं स्यात् । ततश्चान्तर्याभिनिर्वृत्तस्वरितबुद्धचैव प्रवर्तमानोऽयादेश आन्तर्यात् स्वरितः स्यात् । एवम् ‘तावे॒वास्मै’ इत्यादावावादेशोऽपि । इष्यते चोभयत्रोदात्तत्वम् । तथा ‘तैऽब्रुवन्’, ‘तैऽब्रुवन्’, ‘सौऽत्रवीत् ‘, ‘ते॑ऽमृत॒त्वम॑कामयन्त,’ ‘गाङ्गेऽनूपे’ इत्यादौ पूर्ववत् प्रातिपदिकान्तविभक्त्योरेकादेशस्वरस्य ‘एङ: पदान्तादति’ इति द्वितीये एकादेशे कर्तव्येऽसिद्धत्वेन द्वितीय एकादेशः पूर्ववदान्तर्यात् स्वरित एव स्यात् । इष्यते च ‘स्वरितो वानुदात्ते पदादौ’ इत्युत्तरसूत्रेण ‘तेऽब्रुवन्’ इत्यादौ

  1. अत्र घ. नास्ति ।
  2. भवति छ.
  3. न हि न हि ग. घ. नास्ति ।
  4. तथापि, तथा च ग. 5. अयं ख. ग. घ. छ.

३६

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ६ स्वरितत्वम्, ‘गाङ्गेऽनूपे’ इत्यादौ च पाक्षिकोदात्तत्वम् । गङ्गाशब्दादणि गाङ्गशब्दः प्रत्ययस्वरेणान्तोदात्तः । ततः सप्तम्येकवचनेनैकादेशः । अनुगता आपो यस्मिंस्तदनूपम् । ‘ऋक्पू: ’’ इत्यकारः समासान्तः । ‘ऊदनोः’ इत्यूकारः । ‘अनोरप्रधानकनीयसि’ इत्युत्तरपदस्यान्तोदात्तत्वात् अनुदात्तादिरयम् । एवम् ‘जागरिष्यते स्वाहा’ इत्यादौ ‘लुट: सद्वा’ इति शतरि ‘स्यतासी’ इति स्यप्रत्ययेऽदुपदेशाल्लसार्वधातुकानुदात्तत्वे एकादेशे एकादेशस्वरे च ‘शतुरनुमः’ इति विभक्त्युदात्तस्वं न स्यात् । एकादेशस्वरस्यासिद्धत्वेन शत्रन्तस्यान्तोदात्तत्वाभावात् । तथा च’ ‘उत्सृजन्त्य॑नु॒ सव॒नम्’, ‘स्वामे॒व तद्योनिं प्रविशन्ति’ इत्यत्र शविकरणाददुपदेशात् परस्य लसार्वधातुकस्यानुदात्तत्वे तदकारेण शविकरणाकारस्योदात्तस्यैकादेशे तत्स्वरस्यासिद्धत्वाद्यथाक्रमं शेषनिघातः तिनिघातश्च न स्यात् । ततश्चाद्योदाहरणे धातोरप्युदात्तत्वं द्वितीयस्मिन् एकादेशस्वरश्च प्रयोगे श्रूयेत । परिभाषात्वे च सर्वत्रैकादेशस्य सिद्धत्वात्, उक्तस्थले सर्वमिष्टं सिध्यतीति अयादिषु स्वरस्य सिद्धत्वं परिभाषात्वफलम् एवं च ‘एकादेशस्वरोऽन्तरङ्गः सिद्धो भवतीति वक्तव्यम्, अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानु दातथम्’ इति वार्त्तिकं न कर्तव्यम् । उक्तान्येव वार्त्तिकोदाहरणानि । अवादेशे उदाहरणं नेति भाष्यम् । अयादेशस्य तु ‘पौर्णमाझ्या आज्यं निर्वपति’ इत्यादिकमुदाहरणम् । ‘पूर्णमासादण् वक्तव्य : ’ इति अणन्तान्ङीपि ‘पौर्णमासी’ शब्द उदात्तनिवृत्तिस्वरेणान्तोदात्तः । ततो ङेप्रत्ययस्याडागमे उदात्तस्य ङीपो यणादेशे ‘उदात्तयणो हल्पूर्वात्’ इत्याट उदात्तत्वे आडेकारयोरुदात्तानुदात्तयोरेकादेशस्वरस्य सिद्धत्वात् आयादेश उदात्तो भवति । अन्यथा स्वरितः स्यादिति वार्त्तिकाशयः । अन्तरङ्गत्वादाडेकारयोरनुदात्तयोरेव पूर्वमेकादेशः, तत ‘उदात्तयणो हल्पूर्वात्’ इति तस्योदात्तत्वमिति न्याय्यमिति’ नेदं प्रयोजनमिति भाष्यकृतः । यद्यप्यस्य स्वतन्त्रविधित्वम् ‘अङ्गीकृत्य ‘अनुमः’ इति निषेध एकादेशस्वरस्य

  1. च क. नास्ति ।
  2. न्त्र ग. घ. नास्ति
  3. एकादेशस्वरस्य ग. घ.

वाच्यम् घ. 5. इति न्याय्यमिति घ. नास्ति । 6. स्वीकृत्य ग

CT सू. ७]

परिभाषाप्रकरणम् ३ सिद्धत्वे लिङ्गमिति कल्पनेऽपि न कश्चिद्दोष:, उक्तवार्त्तिकमपि न तथापि परिभाषात्वकल्पनमेव ज्यायः, एवं कर्तव्यमिति तुल्यम्, सत्य सिद्धत्वशङ्काया ‘अप्यनुन्मेषात् । ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्यायादिति कैयटाशयः । न च परिभाषाले बहिरङ्गस्याप्येकादेशस्वरस्य सिद्धत्वप्रसङ्गः । ततश्च ‘यजतेऽप्यन्यम्’, ‘छिनत्तीति होवाच’ इत्यादौ पदद्वयापेक्षवहिरङ्गैकादेशस्वरस्य सिद्धत्वे तमाश्रित्य शेषनिघातप्रसङ्ग इति वाच्यम् ; ‘असिद्धं वहिरङ्गमन्तरङ्गे’ इत्येव तस्यासिद्धत्वादिति । एवं च एकादेशस्वरविधेः त्रिपादपठने फलं चिन्त्यम् । न चानुदात्तस्येत्यपेक्षणाय तदिति वाच्यम्’’ ; ‘अनुदात्तस्य च’ इत्यनन्तरपठनेऽपि तत्सिद्धेः । अपि चैवम् उदात्तग्रहणमप्यत्र न कार्यम्, ‘कर्षात्वत:’ इत्यतस्तदधिकारादित्यपरमप्यनुकूलम् । एवं सति स्वतन्त्र विधित्वमप्यस्य सुवचमिति || [७] स्वरितो वानुदात्ते पदादौ ॥ (8-2-6) पदादावनुदात्ते सति उदात्तेन तस्य य एकादेशः स स्वरितो वा वति । पक्षे पूर्वेणोदात्तः । भाषायासैच्छिको विकल्पः । वेदे तु योगस्य व्यवस्थितत्वाद्व्यवस्थितो विकल्पः । तत्रोकारयोरेकादेशे ‘एङ: ‘दान्तादति’ इत्येतद्विषये च स्वरितत्वम्, इतरत्रोदात्तत्वमिति तित्तिरि- खायां व्यवस्था । तथा च प्रातिशाख्यसूत्राणि - ‘ऊभावे च’ ( तै. प्रा. अ. १०. सू. १७) । उदात्तादुकारात् [रस्यानुदात्तोकारस्य ऊभावे – ऊकाररूपैकादेशे—सति य ऊकारः स त्वरित इत्यर्थः ।।

  1. एवानुन्मेषात् ग. घ.
  2. इति वाच्यम् ख. ग. घ. नास्ति ।

३८

स्वरसिद्धान्तचन्द्रिकायाम् [सू. ८ ‘तस्मिन्ननुदात्ते पूर्व उदात्तः स्वरितम्’ (ते. प्रा. अ. १२. सू. ९) यस्याकारस्य ‘एङः पदान्तादति’ इति पूर्वरूपं विहितं व्याकरणे, तस्य प्रातिशाख्ये लोपो विहित इत्युक्तम् । तस्मिन्ननुदात्ते लुप्ते सति यः पूर्व उदात्तः स स्वरिततामापद्यत इत्यर्थः ।। ‘उदात्तमुदात्तवति’ । व्याख्यातमिदं सूत्रम् । 1 एवं शाखान्तरेऽपि यथायथं व्यवस्था बोध्या । ‘सून्नीयमिव’, ‘सूद्वाता’, ‘तैऽब्रुवन्’, ‘आदित्यो॑ऽस्मिन् ’ । इतरत्रोदात्तत्वम् । यथा ‘सविता प्रापयतु’, ‘दिवीव चक्षुः’ । अनुदात्त इति किम् ? ‘यन्नैका रशनाम् ’ । पदादाविति किम् ? ‘इमौ देवौ’ । उदात्ते विकल्पिते आन्तर्यादेव पक्षे स्वरिते सिद्धे स्वरितग्रहणमफलम् । न चैवम् ‘ते॑ऽमृत॒त्वम॑कामयन्त’, ‘गाङ्गेऽनूपे’ इत्यादावान्तर्यात् प्राप्तस्य स्वरितस्यासिद्धत्वाभावात्तमाश्रित्य . शेषनिघातः स्वादिति वाच्यम् ; बहिरङ्गत्वेन तस्य ‘असिद्धत्वसम्भवात् । ‘कन्यानूपे’ इत्यादौ स्वरितानुदात्तयोरेकादेशे आन्तर्यात् स्वरिते शेषनिघाताय बहिरङ्गत्वेनासिद्धत्वस्य अवश्याश्रयणीयत्वाच्चेति ॥ [८] ॥ युष्मदस्मदोर्डसि ॥ (6-1–211 ) अनयोरादिरुदात्तो भवति ङसि । ‘मम’ नाम तवं च जातवेद:’ । ‘युष्यसिभ्यां मदिक्’ इति मदिक्प्रत्ययान्ते । युष्मदस्मदी प्रत्ययस्वरेणान्तोदात्ते । ताभ्याम् ’ ’ युष्मदस्मद्भयां ’ युष्मदस्मद्भयां ङसोऽश’ इति अशादेशः । ‘तव’ ममौ ङसि’ इति तयोर्मपर्यन्तस्य तवममादेशौ । ‘शेषे लोपः’ इत्यन्तलोपः । ‘अनुदात्तौ सुप्पितौ’ इत्यनुदात्तेन विभक्त्यव रेण प्रकृत्यकारस्य ‘अतो गुणे’ इति पररूपैकादेशः ।

  1. असिद्धं बहिरङ्गमन्तरङ्गे इत्य- सिद्धत्वसम्भवात् छ.
  2. अवश्याङ्गीकर्तव्यत्वाच्च ख.
  3. ‘मम॒ नाम॑ प्रथ॒मं जातवेदः’ ग. क. छ. ताभ्यां ङसः ग. घ.
  4. तव ममौ पररूपैका- .. देशः घ. नास्ति ।
  5. मदिक्प्रत्ययातौ युष्मदस्मदोumar Col. Deoband. In Public Domain. । सू. १०]

परिभाषाप्रकरणम् ३९ तस्यैकादेशस्वरे प्राप्ते आद्यदात्तत्वाय’ अयमारम्भ इति हरदत्तः । यदापि ’ शेषे लोपटिलोपः इति पक्षः तदापि ‘अनुदात्तस्य च यत्रोदात्तलोपः’ इति विभकेरुदात्तत्वे तवममादेशाकारेणानुदात्तेन पूर्ववदेकादेशे एकादेशस्वर एव प्राप्त इति सर्वथैकादेशस्वरापवादोऽयं योगः । ङसि किम् ? ‘यस्याहमस्मि पु॒रोहि॑तः ’ ॥ [९] ॥ ङयि च ॥ (6–1–212) युष्मदस्मदोरादिरुदात्तो भवति ङेप्रत्यये परतः । ’ तुभ्यं ता अङ्गिरस्तम’ | ‘मह्यं त्वादु:’ । ‘ड़े प्रथमयोः’ इति डेरमादेशः । “तुभ्यमद्यौ’ इति युष्मदस्मदोस्तुभ्यमह्यावादेशौ । अत्रापि पूर्ववदेकादेशस्वरः प्राप्तः । योगविभागो यथासङ्ख्यशङ्कानिवृत्त्यर्थः ‘युष्मदस्मदोर्डस्डयोः’ इत्युक्तौ हि यथासङ्खयशङ्का स्यात् ॥ 1 [१०] ॥ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ॥ (8–1–27)

आष्टमिकमिदं सूत्रं विभज्य ‘तिङो गोत्रादीनि ’ इत्ययमंशो विधित्वेन, ‘कुत्सनाभीक्ष्ण्ययोः’ इत्ययमंशः परिभाषात्वेन व्याख्यातो भाष्यादौ । तत्र परिभाषांशे पूर्वभागात् ‘गोत्रादीनि’ इत्यनुवर्तते । तेनायमर्थ:-इह शास्त्रे तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्यविषयाण्येव ग्रहीतव्यानि – इति । तेन ‘चनचिदिव गोत्रादितद्धिताम्रेडितेष्वगतेः’ इत्यादौ एतत्सूत्रपूर्वभागे’ च कुत्सनाद्यर्थकस्यैव गोत्रादेर्ग्रहणं सिद्धम् । एकयोगत्वे तु प्रकृतसूत्र एव तथाविधस्य ‘ग्रहणं स्यात्, न तु ‘चनचिदिव’ इत्यादौ, इति योगविभागेन परिभाषात्वमाश्रितम् । एवं च ‘तिङो गोत्रादीनि’ इति विधीयमानं तिङः

  1. आद्युदात्तार्थः ङ.

ख. ग. घ. ज. सूत्रभागे ग. 5. गोत्रादेर्ग्रहणं ङ. 2. यदा तु ग. घ. 3. तुभ्यमह्यौ ङयि । अत्रापि

४०

स्वर सिद्धान्तचन्द्रिकायाम्

  1. [सू. १९ परेषां गोत्रादीनामनुदात्तत्वम्, ‘पचति गोत्रम्’, ‘जल्पति गोत्रम् ’ इत्यादौ यत्र भोजनार्थं गोत्रं ज्ञापयति’ तत्रैव भवति । ‘न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत्’ इति मनुस्मरणेन अत्र कुत्सनप्रतीते: । ‘जल्पति गोत्रमाचार्येण पृष्ठ:’ इत्यादौ न भवति, कुत्सनाद्यभावात् । एवं चनादिशब्देषु अगतेः परस्य तिङन्तस्य ‘तिङतिङ : ’ इति प्राप्तनिघातनिषेधः ‘चनचिदिव’ इ. क्रियमाणः उक्तरीत्या कुत्सनादिप्रतीतावेव भवतीति ॥ परतः (प) हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् ॥ परिभाषेयम् ‘समासस्य’ इति सूत्रे वार्त्तिककृता पठिता । फलं तु ‘समासस्य’ इत्यन्तोदात्तत्वस्य ‘विश्वामित्र जमदग्नी’ इत्याद्यजन्तेष्विव ‘अवभृथ जूषि’ इत्यादौ हलन्तेऽपि प्रवृत्तिः 1 अन्यथा योऽत्र समासस्यान्तः स नोदात्तधर्मयोग्यः, यच योग्यो नासौ समासान्त इति हलन्तेषु न समासस्वरः स्यात् । यद्युच्येत — उदात्तादिशब्दा इहाज्विशेषे संकेतिताः, ततश्च ‘अष्टन आ विभक्तौ’ इत्यादौ हल: स्थाने आकारविधिवदन्त्यस्य हल: स्थाने उदात्ताद्यविशेषविधिः सम्भवतिइति । एवमपि नेष्टसिद्धि: ; अन्त्यस्य हल: स्थाने उदात्तप्रसङ्गात् । अचः स्थाने चोदात्तादेशस्येष्यमाणत्वात् । व्यञ्जनस्याविद्यमानवद्भावे तु हलन्तेष्वप्यजेव शास्त्रदृष्ट्या अन्त इति सिद्धमिष्टम् । एवम् ‘वातो:’ इत्यन्तोदात्तत्वस्य ‘यज॒तेऽप्य॒न्यम्’ इत्यादौ हलन्तधातौ प्रवृत्तिरपि फलम् । अन्यथा भूप्रभृतिष्वजन्तेष्वेव तत् स्यात् । ‘एवम् ‘लिति’ इति प्रययात् पूर्वस्योदात्तत्वम् ‘जनता॑मे॒ष्यन् ’ इत्यादौ ’ ग्रामजन’ इति तत्प्रत्ययान्ते यथा भवति तथा ‘सदने सीद’ इत्यादौ ल्युडन्ते हव्यवधानेऽपि
  2. ज्ञापयतीत्यर्थः क. ङ, छ. ज.
  3. मनुस्मरणात् ग.
  4. इत्यादौ तु न ङ. ग.
  5. इति सूत्रेण 5. धातौ ग. ख. घ. नास्ति ।
  6. एवम् घ. नास्ति ।

सू. १०]

परिभाषाप्रकरणम् ४१ भवति, तस्याविद्यमानवत्त्वात् । तथा ‘त्रिनित्यादिर्नित्यम्’ इति यथा ‘औद्दालकिरकामयत’ ‘तदिष्टीनाम्’ इत्यादाविञन्ते क्तिन्नन्ते चाजादौ भवति, एवम् ‘साय॑कामिरुवाच’, ‘वृ॒ष्टिर्वै वि॒िश्वधा॑याः’ इत्यादौ हलादावपि भवति’, व्यञ्जनस्याविद्यमानवत्त्वात् अत्रापि अच एवादित्वादिति ।। अथ ‘स्वरविधौ व्यञ्जनमविद्यमानवत्’ इत्येवास्तु, इत्येवास्तु, हलिति किमर्थम् ? उच्यते । तथा सति ‘मरुत्वा इन्द्र’ इत्यादौ ‘हस्वनुडभ्यां मतुप्’ इति मतुबुदात्तत्वप्रसङ्गः, मरुच्छन्दतकारस्याविद्यमानवत्त्वेन ’ मतुपोऽत्र ह्रस्वात् परत्वात् । ‘हल्स्वरप्राप्तौ’ इत्युक्तौ तु उक्ततकारस्यात्र स्वराप्रसङ्गेन विद्यमानेन तेन व्यवधानेन ह्रस्वात् परत्वाभावान्न दोष:’ । ननु’ हल्ग्रहणे सति ‘दधि’ इत्यादौ ‘उदात्तादनुदात्तस्य’ इति स्वरितत्वं न स्यात्, धकारेण व्यवधानात् । तस्यात्र स्वरप्राप्त्यभावेनाविद्यमानबत्त्वाभावात् । तथा अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेव्र्व्यञ्जनान्ताच्च न स्यात् । ततश्च कुवल्या विकार: ‘कौवलम्’ इत्यत्र ‘अनुदात्तादेः’ इत्यञ् न स्यात् । ‘औदुम्बरम्’ इत्यादावेव तु स्यात् । ‘अन्तोदात्तादुत्तरपदात्’ इति विभक्त्युदात्तत्वं ‘परमवाचा’ इत्यादौ न स्यात् । ‘परमभूभ्याम्’ इत्यादावेव तु स्यात् । ‘स्वरविधौ व्यञ्जनम्’ इत्युक्तौ तु स्वरसम्बन्धी भवति सर्वोऽप्ययं विधिरिति व्यञ्जनस्याविद्यमानवत्त्वात् सिध्यतीष्टमिति चेत्-न; ‘उदात्तादनुदात्तस्य’ इत्यत्र - न विद्यते उदात्तो यस्मिन् स सङ्घातोऽनुदात्तः, तस्योदात्तात् परस्य स्वरितः - इति व्याख्यानादाद्यदोषाभावात् । ‘दधि’ इत्यत्र ‘धिशब्दस्य तादृशसमुदायस्योदात्तात् परत्वात् । न चैवं सङ्घातस्य स्वरितप्रसङ्गः । ‘आदेः परस्य’ इति ‘धि’ शब्देकारे तत्प्रवृत्तेः । ‘हल्स्वरप्राप्तौ’ इति धकारस्याविद्यमानवत्त्वात् । ‘स्वरविधौ सङ्घातः कार्यो’ इति परिभाषाभ्युपगन्तृमते तु वचनमेवात्र इष्टसिद्धयर्थमाश्रयणीयमित्याहुः । नापि द्वितीयो दोषः ; ‘नोत्तरपदेऽनुदात्तादौ ’ नास्ति । 4. न दोषः

  1. भवति घ. 2. अविद्यमानत्वेन घ.
  2. अविद्यमानवद्भावेन क. ख. ग. नास्ति ।
  3. अथ ख. ग. घ. छ. ज.
  4. दधिशब्दस्य क. ङ. ग. हव6

४२

स्वर सिद्धान्त चन्द्रिकायाम् [सू. १० इति देवताद्वन्द्वोभयपदप्रकृतिस्वरं प्रतिषिध्य ‘अपृथिवीरुद्रपूषमन्थिषु’ इति तत्प्रतिषेधाल्लिङ्गात् अनुदात्तादेः’ उच्यमानस्य व्यञ्जनादावपि प्रवृत्तेः । इयं च परिभाषा ‘यतोऽनाव:’ इति नौप्रतिषेधात् भाष्ये ज्ञापिता । स हि प्रतिषेधः ‘नौवयोधर्म’ इति यति नाव्यमित्यत्राद्युदासत्वाभावाय क्रियते । यदि च व्यञ्जनमविद्यमानवत्र स्यात्, तर्हि योऽत्रादिर्नकारः नासौ स्वरयोग्यः, यश्च योग्योऽकारः नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् । वृत्तिकारस्तु ‘स्वरविधौ व्यञ्जनमविद्यमानवत्’ इत्येव परिभाषा - मशिश्रियत् । ‘हस्त्रनुभ्यां मतुप् ’ इत्यत्रेयं’ परिभाषा नाश्रीयते । तेन ‘मरुत्वान्’ इत्यत्र न दोष इत्याह । अत्र च परिभाषानाश्रयणं वाचनिकमेवेति हरदत्तः । परिभाषेयमनित्येति ‘अ चावणं व्यच्च्यच्’ इति सूत्रे स एव । तत्र हि वृत्तौ ’ अवर्णमिति किम् ? बृहदर्मम्’ इति प्रत्युदाहृतम् । तत्र व्यञ्जनस्याविद्यमानवद्भावात् तद्दोषतादवस्थ्यं आशङ्कमानो हरदत्तः ‘अनित्यत्वात् ’ स्वरविधौ व्यञ्जनमविद्यमानवत्’ इत्यत्र न प्रवर्तते’ इत्याह । एवं चानित्यत्वादेव ‘मरुत्वान्’ इत्यादावियं परिभाषा न प्रतर्तत इति न तदर्थं वचनं कर्तव्यमिति बोध्यम् । अर्मशब्दे परेऽवर्णान्तं द्व्यच्त्र्यच् पूर्वपदमायुदात्तमिति ’ अर्मे च ’ इत्यादिसूत्रार्थः ॥ (प) स्वरविधौ सप्तम्यस्तदन्तसप्तम्यः ॥ स्वरविधौ सप्तम्यो यस्याः प्रकृतेः परत्वेनोत्पन्नाः तत्प्रकृत्यन्तस्य’ कार्यित्वबोधिकाः, न तु तत्प्रकृत्यर्थे परतः पूर्वस्य बोधिकाः । यथा ‘उपोत्तमं रिति’ इत्यत्र ‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति परिभाषया रिति परतः पूर्वस्य कार्यित्वं प्राप्तम् । अनया तु परिभाषया रिदन्ते उपोत्तममुदात्तमिति रिदन्तस्य कार्यित्वं बोध्यते । तेन जुहोतेर्बाहुलकादधिकरणेऽनीयप्रत्ययेन निष्पन्नस्य हवनीयशब्दस्य आङा सह गतिसमासे आहवनीयशब्दे कृदुत्तरपदप्रकृतिस्वरेण ईकारस्योदात्तत्वं सिद्धम् । इतरथा ‘त्र्यादीनामन्त्यमुत्तमं तत्समीपमुपोत्तमम्’ इति वचनात् अत्र रिति प्रत्यये परतः पूर्वत्रोपोत्तमाभावान्नायं स्वरः स्यात् । न चानीयरो रित्त्ववैफल्यम् । बह्रक्षु

  1. अनुदात्तायादेः ङ.
  2. इत्यत्र चेयं ग. ङ.
  3. तत्प्रकृत्यर्थान्तस्य ख. ग घ. घ. छ. ज. सू. १०]

परिभाषाप्रकरणम् ४३ धातुषु चरितार्थत्वात् । न चैवं ‘चतुरः शसि’ इत्यत्रापि शसन्तस्य कार्यित्वे तस्यान्तोदात्तप्रसङ्गः । ततश्च ‘चतुर: ’ पदः प्र॑ति॒दध॑त्’ इत्यादौ मध्योदात्तत्वं न स्यादिति वाच्यम् । ‘चतुर: शसि’ इति पृथग्योगकरणसामर्थ्यात् अत्रोक्तपरिभाषाप्रवृत्तेः 1 अन्यथा ‘ऊडिदं पदाद्ययुद्युभ्यः’ इत्यत्रैव ‘द्युचतुर्भ्यः’ इति चतुरशब्दमपि पठेत् । न चैवमत्र ‘असर्वनामस्थाने’ इत्यनुवृत्तेः शसतिरिक्तस्यापि असर्वनामस्थानस्योदात्तत्वप्रसङ्गः ; इष्टत्वात् । ’ षट्त्रिचतुर्भ्यो हलादि:’ इति सिद्धान्तेऽपि चतुरो हलादिविभक्तेरुदात्तत्वविधानात् । ‘झल्युपोत्तमम्’ इत्यनेन तु झलादौ विभक्तौ तद्बाध्यत’ इति । इदानीमपि तत्तुल्यम् । तस्मात् पृथग्योगकरणात् ‘चतुरः शसि’ इत्यत्रेयं’ न प्रवर्तत इति सिद्धम् । इयं च परिभाषा ‘भीहीभृहुमदजनदरिद्राजागरां प्रत्ययात् पूर्वम्’ इति सूत्रे पूर्वग्रहणाद्भाष्ये ज्ञापिता । तत्र हि ‘पिति’ इति सप्तमीनिर्देशादेव ‘तस्मिन्निति’ परिभाषया पूर्वस्य कार्यित्वे सिद्धे पुनः पूर्वग्रहणं पिदन्तस्य कार्यित्वव्यावृत्त्यर्थं क्रियमाणम् ’ स्वरविधौ सप्तम्यस्तदन्तस्य कार्यित्वबोधिकाः’ इति ज्ञापयति । न चैवम् ‘रित: ’ ‘चङः’ इति सर्वत्र षष्ठ्येवोच्चार्यताम्, तदाक्षिप्तविशेषणेन ‘येन विधिः’ इति तदन्तविधिनैव तदन्तस्य कार्यित्वसिद्धेरिति वाच्यम् ; लाघवाय सप्तमीनिर्देशादित्याहुः । इदं च ज्ञापकं यत्र तदन्तसप्तम्यां परसप्तम्यां च फलभेदः ‘रिति’ इत्यादौ तत्रैव’ | ‘‘चतुरः शसि’ इत्यत्र तु न फलविशेष इति न तत्र भवतीति केचित्’ । सार्वत्रिकमेवेत्यपरे ॥ स । (प) स्वरविधौ संङ्घातः कार्थी ॥ स्वरविधौ यः समुदायः कार्यभाक्तेन षष्ठ्यादिना निर्दिष्टः एव कार्यो, न तु ‘अलोऽन्त्यस्य’ इत्यादिना तदेकदेशः

  1. बाध्यत इतीदमपि तुल्यम् ग, 2. इत्यत्र नेयं परिभाषेति ख. घ. ङ. छ.
  2. सर्वत्र स्वरविधौ ख. ग. घ. छ. अधिकम् । ख. ग. घ.
  3. तद्विषयमेव ग. ङ. छ.
  4. ‘ञिनित्यादिर्नित्यम्’ इत्यादौ तु उभयथा न फलविशेषः ख. ग. घ.
  5. केचित् घ. नास्ति ।

1 ४४ 1

स्वर सिद्धान्तचन्द्रिकायाम् [सू. १० एवं च ‘अलोऽन्त्यस्य’ ‘आदेः परस्य’ इति स्वरविधौ न प्रवर्तत इत्युक्तं भवति 1 इयमपि परिभाषा ‘भीही’ इत्यत्रैव प्रत्ययग्रहणेन भाष्ये ज्ञापिता । तत्र हि ‘पिति पूर्वम्’ इत्येतावतैव प्रत्ययात् पूर्वस्योदात्तत्वं ‘सिद्धम्, पितः प्रत्ययस्याव्यभिचारात् । क्रियते तु पुनः प्रत्ययग्रहणं प्रत्ययात् पूर्वस्य चोदात्तत्वं यथा स्यात्, सङ्घातस्य मा भूदिति । यदि च स्वरविधौ सङ्घातः कार्यो भवति तन्निवृत्त्यर्थमिह प्रत्ययग्रहणमर्थवद्भवतीति भवति प्रत्ययग्रहणं ज्ञापकम् । सङ्घातस्य च तत्र कार्यित्वे पर्यायेणोदात्तत्वं’ ‘बिभेति’ इत्यत्र प्रसज्येतेति कैयटः । प्रयोजनं च ‘आसीन शयानः’ इत्यादौ ‘चित्स्वरात्तास्यादिस्वरो विप्रतिषेधेन’ इति वार्त्तिकोक्तविप्रतिषेधोपपत्तिरिति ‘तास्यनुदात्तेत्’ इत्यत्र ‘भीही’ इत्यत्र च भाष्यकैयटादौ स्थितम् । तथा हि’आसीनः’ ‘शयानः’ इति शानजन्ते ‘चित:’ इत्यन्तोदात्तापेक्षया परत्वात् तास्यनुदात्तेन्ङिददुपदेशात् लसार्वधातुकम्’ इति लसार्वधातुकानुदात्तत्वं भवतीत्युक्तविप्रतिषेधवार्त्तिकाशयः । अयं च विप्रतिषेधः ‘स्वरविधौ सङ्घात: कार्यो’ इति परिभाषाभावे नोपपद्यते । ‘आसीनः’ इत्यादौ ‘चित:’ इत्यन्तस्योदात्तत्वम्, ‘अदुपदेशात्’ इति पञ्चमीनिर्देशात् ‘तस्मादित्युत्तरस्य’ ‘आदेः परस्य’ इति लसार्वधातुकस्यादेरनुदात्तत्वमिति भिन्नविषयत्वेनाविरोधादुभयोः प्रवृत्तिसम्भवात् । न च ‘लसार्वधातुकम् ’ इत्यत्र षष्ठीनिर्देशाभावात् ‘आदेः परस्य’ इत्यस्य कथं प्रवृत्तिः इति वाच्यम्, ‘अदुपदेशात्’ इति पञ्चम्या ‘लसार्वधातुकम्’ इति प्रथमायाः षष्ठीप्रकल्पनात् । ’ आमि सर्वनाम्नः’ इत्यत्र सर्वनाम्न इति पञ्चम्या आमीति सप्तम्याः षष्ठीप्रकल्पनवत् । न च षष्ठीप्रकल्पनं’ सप्तम्यन्तस्येति नियमः, मानाभावात् । ‘दिवादिभ्यः’ इति पञ्चमी शबिति प्रथमायाः षष्ठीं प्रकल्पयतीति भाष्याच्च । तस्मात् स्वरविधौ सङ्घातस्य कार्यित्वाभावे उक्तरीत्या विप्रतिषेधोऽयमनुपपन्नः । तस्य कार्यित्वे चोपपद्यते । तदानीम् ‘आदेः परस्य’ इत्यस्याप्रवृत्त्या ‘आसीनः '

  1. सिद्धमपि ततः पूर्वस्याव्यभि- चारात् ख.
  2. भवति तदा ङ,
  3. पर्यायेणान्तोदात्तत्वं क. 4. - प्रत्यापत्तिः ख. -प्रक्लप्तिः छ.

सू. १०]

परिभाषाप्रकरणम् ४५ इत्यादावानस्य’ सर्वस्यानुदात्तत्वं प्राप्तम् । ‘चित:’ इति चान्तोदात्तत्वमिति तयोरेकविषयत्वेन विरोधात् । यत्तु ‘लसार्वधातुकमनुदात्तम्’ इति सामानाधिकरण्येनान्वयात् तत्रत्यस्य सर्वस्याचोऽनुदात्तत्वं सिध्यति । अनुदात्तत्वं च ’ चादयोऽनुदात्ताः’ इत्यादिवत् । ततश्च स्वरविधौ सङ्घातस्य कार्यित्वाभावेऽपि विप्रतिषेध उपपन्न इति, तदेतन्निरस्तम् । ‘तस्मादित्युत्तरस्य’ इति षष्ठीप्रक्लृप्त्या सामानाधिकरण्यायोगात् । स्वरविधौ सङ्घातस्य कार्यित्वादेव ‘किं धातोरन्त उदात्तः, आहोस्वित् आदि: ?’ इति भाष्यम्, ‘धातोरन्त उदात्त इति चेत्’ इत्यादि वार्त्तिकं च ‘धातो:’ इति सूत्रस्थं सङ्गच्छते । यदि ‘अन्तः’ इति वर्तते ‘कर्षात्वत:’ इत्यतः तदा अन्त उदात्त इति पक्षः, अथ निवृत्तं तदा क्रमानुलङ्घनात् आदिरुदात्त इति पक्ष इति भावस्तयोस्तत्र कैयटेन दर्शितः । एतच सङ्घातस्य कार्यित्वाभावे न घटते । ‘अन्त:’ इत्यस्य निवृत्तावपि ‘अलोऽन्त्यस्य’ इत्यन्त्यस्यैवोदात्तता स्यादिति पक्षान्तरानुन्मेषात् १ सङ्घातस्य कार्यित्वादेव ‘कर्षात्वत:’ इत्यत्र अन्तग्रहणं कृतम् । अन्यथा ‘अलोऽन्त्यस्य’ इत्येव सिद्धेस्तद्वैफल्यात् । एवं च ‘कर्षात्वत:’ इति सूत्रे यत् हरदत्तेनोक्तम्’अलोऽन्त्यस्य’ इति सिद्धे अन्तग्रहणमुत्तरार्थम् - इति, यच्च तदेव भाष्यरत्नावल्यामनूदितम्, यच्च ‘तित्स्वरित:’ सूत्रे तव्यप्रत्यये ‘अलोऽन्त्यस्य’ इत्यन्तः स्वरित इति स्वरकौमुद्यामुक्तम्, यदपि मनोरमायाम् ‘भीही’ इत्यत्र ‘न लुमताङ्गस्य ’ कौस्तुभे च – ‘भीही’ इत्यत्र पूर्वग्रहणाभावे तदन्तस्य कार्यित्वे प्रत्ययान्तानां भ्यादीनामुदात्त इति अलोऽन्त्यपरिभाषया प्रत्ययान्त एवोदात्तः स्यात् — इत्युक्तम्, यश्च ‘अनुदात्तं सर्वमपादादौ’ इत्यत्र वार्त्तिकं ‘सर्ववचनमनादेरनुदात्तार्थमिति चेत् ल्युटि प्रतिषेधात् सिद्धमलोऽन्त्यप्रसङ्गस्तु’ इत्यादि, यच्च तद्विवरणभाष्यं’, यदपि कैयटहरदत्तयोस्तत्र तदनुसरणम्, यच्च ‘अवुना’ इति सूत्रे - इमोश्भावो धुना च प्रत्ययः इति पक्षे ‘ऊडिदम्’ इत्यादिना विभक्तिस्वरः, स च ‘आदेः परस्य’ इत्यादेरिति इत्यत्र

  1. इत्यत्रासीनस्य सर्वानुदात्तत्वम् ग. 4. पक्ष इति क. नास्ति ।
  2. तद्विवरणपरं भाष्यम् ग. घ.
  3. सिद्धमिति ग. घ.
  4. प्रतिपत्त्या ख. ङ.

४६

स्वर सिद्धान्तचन्द्रिकायाम् मध्योदात्तत्वम् ‘अधुना’ शब्दस्य - इति हरदत्तेनोक्तम्, [सू. १० तेषामेतेषां ‘सङ्घातः कार्यो’ इति परिभाषाविरोधः कथमुद्धर्तव्य इति विपश्चिद्भिश्चिन्तनीयम् । अत्र केचिदाहुः - परिभाषेयं मास्तु, फलाभावात् । न चोक्तविप्रतिषेधोपपत्तिः फलम् ; ‘तास्यनुदात्तेत्’ इत्यत्र ‘कर्षात्वत:’ इत्यतः अन्तग्रहणस्य, ’ षट्त्रिचतुभ्र्यो हलादि:’ इत्यत आदिग्रहणस्य चानुवृत्त्या तांस्यादिभ्यः परस्य लसार्वधातुकस्यादिरन्तश्चोदात्त इति व्याख्यानात् लसार्वधातुकस्य सर्वस्यानुदात्तत्वप्राप्तौ विनापि परिभाषां विप्रतिषेधोपपत्तेः । यदि तु लसार्वधातुकस्य क्वचिद्बह्वच्त्वशङ्का तदा ‘झल्युपोत्तमम्’ इत्यत उपोत्तमग्रहणमप्यनुवर्तितव्यम् । एवं चानेनैवाभिप्रायेण सर्वोऽप्ययं ग्रन्थः प्रवृत्त इति न कश्चिद्विरोधः । ‘धातो: ’ इत्यादिसूत्रस्थभाष्यादयस्तु प्रौढिवादप्रवृत्ता इति । अत्र पक्षे ‘भीही-’ इत्यत्र प्रत्ययग्रहणमफलम्, ‘कर्षात्वत:’ इत्यत्रान्तग्रहणस्य, ‘तास्यनुदात्त-’ इत्यत्रानुवृत्तिः ’ फलम् । अनेनैवाभिप्रायेण तत्र हरदत्तेनोक्तम्’अलोऽन्त्यस्य’ इति सिद्धेऽन्तग्रहणमुत्तरार्थमिति | ॥ इति परिभाषाप्रकरणम् ॥

  1. विद्वद्भिः ग. घ. ज.
  2. अत्र ग. घ ङ नास्ति ।
  3. च ग. ध. ङ.
  4. अपि तत्रानुवर्त्यम् ग. घ. ङ. ज,
  5. अनुवृत्तिः ग.

घ. नास्ति ।