॥ अथ परिभाषाप्रकरणम् ॥ [५] ॥ अनुदात्तं पदमेकवर्जम् ॥ (6-1-158) पदशब्दः पदस्थेष्वक्षु लाक्षणिकः, अज्विशेषवाच्यनुदात्तपदसामानाधिकरण्यात्’ । अचां च पदस्थत्वाव्यभिचारात् पदग्रहणम एकपदस्थत्वलाभाय । एकं वर्जयित्वा - एकवर्जम् । ‘द्वितीयायां च’ इति णमुल् । यद्यपि तत्र ‘परीप्सायाम्’ इत्यनुवर्तते, तथापि तत् प्रायिकाभिप्रायमिति-अत्र सूत्रे हरदत्तः । ‘द्वितीयायां च’ इत्यत्र तु ‘अत्रापि परीप्सास्ति’ इति तेनैवोक्तम् । तच्चोत्तरत्रोपपादयिष्यते । एकशब्दस्य संख्येयवाचकस्य तद्विशेषापेक्षायाम्’ अजेव संख्येयत्वेन सन्निधानात् संबध्यते । तत्राप्यनुदात्तस्य वर्जनं व्यर्थमिति तद्विरोधिनावुदात्तस्वरितौ संख्येयाविति पर्यवस्यति । परिभाषेयम् । सा च एकवर्जमिति लिङ्गात् उदात्तस्वरितविधिभिरेकवाक्यतामापद्यते । एकग्रहणं च तत्र तत्र विधीयमानस्य स्वरस्योपलक्षणम् । तेन’ ‘यस्मिन्नेकस्मिन् पढ़े येन सूत्रेण ‘यावन्त उदात्ताः स्वरिता वा विधीयन्ते तावतो वर्जयित्वा शिष्टास्तत्पदस्था अचः अनुदात्ता भवन्तीति सूत्रार्थो निष्पन्नः । अविरोधादेकपदे स्वरितो - दात्तयोर्मेलनम् ॥ स्वरस्य कस्याध्यविधेरनैयत्यमपि कचित् । प्रसक्तं वार्यतेऽनेन ‘सूत्रेणेत्येष निर्णयः ॥ । तथा हि— ‘आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते’ । ‘द॒ध्ना त॑नक्ति’ । ‘घश्चरुम् ’ । ‘गोपाय नः॑ स्व॒स्तये॑’ । ‘क॒र्तव्यं यजु॑ः ’ । ’ चत्वारः’ इत्यत्र तावत् ‘चतेरुरन् ’ इत्यौणादिकोरन्प्रत्ययान्ततया नित्स्वरेण चतुर्शब्दस्यादिरुदात्तः । ‘चतुर-
- वाचकग. घ. ङ. 2. -ण्यानुरोधात् ख. ग. घ.
- -पेक्षया ग.
- यस्मिन् प्रदे क. ख.
- यावतामुदात्तः स्वरितो वा स्व. ग. घ. ङ. च.
-
- दात्तमेलनम् ख ग घ ङ. 7. सूत्रादमुष्मादिति ख. प.च.
सू. ५.]
परिभाषाप्रकरणम् २१ नडुहोरामुदात्तः’ इति वचनात् ‘आगमोऽप्युदात्त इत्यागमप्रकृतिस्वरयोः समावेशः प्राप्तः । एवं ‘दना’ इत्यत्र ‘नव्विषयस्य’ इति दधिशब्दस्यादिरुदात्तः । ‘अस्थिदधिसक्थ्यक्ष्णामनडुदात्तः’ इत्यनङ्लक्षणो विकारचोदात्त इति विकारप्रकृतिस्वरयोः समावेशः प्राप्तः । ‘गोपाय’ इत्यत्र समानवाक्यस्थपदात् परत्वाभावात् ‘तिङतिङः’ इति निघाताभावे ‘भूवादयः’ इति ‘सनाद्यन्ताः’ इति च विहितमवयवसमुदायनिष्ठं धातुसंज्ञाद्वयमादाय द्विः प्रवृत्तेन ‘धातो:’ इति सूत्रेणोदात्तयोः प्रकृतिस्वरयोः समावेशः प्राप्तः । ‘कर्तव्यम् ’ इत्यत्र धातुस्वरेण आदिरुदात्तः, प्रत्ययस्वरेण द्वितीयः, तित्स्वरेणान्त्यः स्वरित इति प्रकृतिप्रत्ययतित्स्वराणां समावेशः प्राप्तः । सर्वश्चायं सूत्रेणानेन निवर्तते’ । तत्र ‘सतिशिष्टस्वरबलीयस्त्वस्य वक्ष्यमाणत्वात् सतिशिष्टमागमादिस्वरमेकं वर्जयित्वा पदे शिष्टमनुदात्तम् । एकग्रहणं च विधीयमानस्वरोपलक्षणमित्युक्तम् । तेन ‘यात वै’, ‘इन्द्राबृहस्पती’ इत्यत्र द्वयोस्त्रयाणां चवर्जनम् ‘यातवै’ इत्यत्र ‘अन्तश्चतत्रै युगपत्’ इत्याद्यन्तयोर्द्वयोरुदात्तविधानात्, ‘उत्तरत्र ‘देवताद्वन्द्वे च’ इत्युभयपदप्रकृतिस्वरविधानात् । ‘ऋजेन्द्र’ इत्युणादौ रन्प्रत्ययान्तो निपातित इति इन्द्रशब्द आद्युदान्तः बृहस्पतिशब्दे वनस्पत्यादित्वात् द्वावुदात्तौ । ‘एवमनेकाक्षु प्रत्ययेषु धातुषु च ‘सभेयो युव’, ‘ऊर्णोति’ इत्यादौ । ‘आद्युदात्तश्च,’ ‘धातो:’ इति सूत्राभ्यामाद्यन्तयोरुदात्तत्वे इतरेषामचां न कश्चित् स्वरो विहित इत्यनियमे’ यः कश्चित् स्वरः स्यात्, अस्वरकस्योच्चारणायोगात् । तत्र पक्षप्राप्तानुदात्तनियमोऽपि सूत्रस्य फलम् । न चैकं सूत्रं कथं विधिनियमोभयबोधकमिति वाच्यम्, पदग्रहणसामर्थ्यादिति वक्ष्यते । ‘सभाया यः’, ‘ढश्छन्दसि’ इति ढप्रत्ययान्तः’ सभेयशब्दः ॥ , ‘आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च । पृथक्स्वरनिवृत्त्यर्थमेकवर्ज पदस्वरः ॥’
- आमागमोऽपि ङ.
- प्रकृतिप्रत्ययस्वरयोश्च ग. घ. प्रकृतितित्स्वरयोः च.
- निवर्तितः ख. ग. घ. 4. सतिशिष्टमक्षरमेकं वर्जयित्वा
- इतरत्र घ.
- एवम् घ. 7. -नियमेन ग. नास्ति । घ.
- दप्रत्ययान्तः
i. क. नास्ति । २२
स्वर सिद्धान्तचन्द्रिकायाम् [सू. ५. इति’ वार्त्तिकं तु प्रयोजनदिक्प्रदर्शनपरम् । ’ चत्वारः’ इत्यादीनि प्रागुक्तान्येवास्य’’ उदाहरणानि ॥ स्यादेतत्परिभाषेयं सर्वैरुदात्तस्वरितविधिभिरेकवाक्यतामापद्यत इत्युक्तम्, तथा च ’ चत्वारः’ इत्यत्र ‘चिनियादिर्नित्यम्’ इत्यस्मिन् प्रवर्तमाने तेनैकवाक्यतामापद्य आदिवर्जमितरेषामनुदात्ततां गमयति । ‘चतुरनडुहो:’ इत्यनेन त्वेकवाक्यतामापन्ना + आगमवर्जमितरेषामनुदात्ततां गमयति । एवं सर्वत्र । एवं च परस्परविरोधाद्विनिगमनाविरहाच्च कथम् अयं वयं इति व्यवस्थितिरिति । उच्यते— ‘परनित्यान्तरङ्गापवादभावैर्व्यवस्थिते:’ । सतिशिष्टत्वेन चेदं सर्वेभ्यः प्रबलं मतम् ॥’ परत्वेन व्यवस्थायाम् —’ यत्प॑दिबद्धा’, ‘ग्रीवबद्धमैनम्’ इत्युदाहरणम् । अत्र हि ‘तत्पुरुषे तुल्यार्थ’ इति सप्तमी पूर्वपदप्रकृतिस्वरात् ‘परत्वात् ‘गतिकारकोपपदात् कृन्’ इति कृदुत्तरपदप्रकृतिस्वर: । “अक्षशौण्डादिराद्यस्यावकाशः । इध्मसंव्रश्चनीदिर्द्वितीयस्य । नित्यत्वेन व्यवस्थायां मृग्यमुदाहरणम् । ‘पूर्वशालाप्रियः’ इत्यादावन्तरङ्गत्वेन” व्यवस्थेति विप्रतिषेधसूत्रे समर्थसूत्रे च भाष्ये स्थितम् । अत्र हि पूर्वा शाला प्रिया यस्येति त्रिपदबहुव्रीहौ ‘तद्धितार्थोत्तरपद-’ इत्युत्तरपदे परतः पूर्वयोस्तत्पुरुपत्वे तदाश्रित्य समासस्वरः बहुव्रीह्याश्रयणेन पूर्वपदप्रकृतिस्वरश्च प्राप्तः । तत्र ’’ पदत्रयाश्रयबहुव्रीहिस्वरादन्तरङ्गत्वात् “व्याश्रयस्तत्पुरुषस्वरो भवति । तेन शालाशब्दे अन्त उदात्तः । इदं तु न असाधारणमुदाहरणम्,
- इति प्रयोजन… वार्त्तिकम् क. 2. वार्त्तिकस्य ख. ग. घ. ङ. ज.
- आमागमादिवर्जग.
- आपन्नः क. ख. घ.
- इत्युदाहरणम् ख. नास्ति । 8. सप्तमीतत्पुरुषात् परत्वात् ग. 9. परत्वात् ख. नास्ति । 10. अक्षशौण्ड इत्यादिः ग, घ, ङ. व्रश्चन इत्यादिः ख. ग. घ. इत्यत्रान्तरङ्गत्वेन ग, घ, ङ.
- इति चेत् क. ग. घ. च. ज. 12.
- स्थितिः ख. ग. घ. ङ. ज.
- तत्र ग. नास्ति ।
- द्विपदाश्रयः ख ग घ ङ. P सू. ५.]
परिभाषाप्रकरणम् २३ सतिशिष्टत्वेनापि सिद्धेः । उत्तरपदे परतस्तत्पुरुषस्य बहुव्रीहिनिमित्तकत्वेन’ तत्स्वरस्य सतिशिष्टत्वात् । अपवादत्वेन व्यवस्था तु ‘आद्युदात्तश्च’, ‘तिस्वरितम्” इत्यादौ सुप्रसिद्धा । ‘तद्वैश्वदेवस्य॑ वैश्वदेव॒त्स्म्’ इत्यादौ सतिशिष्टत्वेन व्यवस्थितिः । अत्र हि ‘वैश्वदेवत्वम्’ इत्यत्राण्प्रत्ययस्य ‘आद्युदात्तश्च’ इति स्वरे सति पश्चादुत्पन्ने त्वप्रत्यये शिष्टः प्रत्ययस्वरस्तं बाधते, सर्वापेक्षया सतिशिष्टस्वरस्य’ प्रबलत्वात् । ‘कृष्णोत्तरासङ्गस्य पुत्रः कृष्णोत्तरासङ्गपुत्र इति बहुव्रीहिगर्भे तत्पुरुषेऽपवादमपि बहुव्रीहिस्वरं बाधित्वा सतिशिष्टत्वात् समासान्तोदात्तता भवति । सतिशिष्टस्वरवलीयस्त्वं च ’ ज्ञापकसिद्धमिति वार्त्तिककृन्मतम् । तथा च समर्थसूत्रे वार्त्तिकम्— ‘एकशितिपात्स्वरवचनं तु ज्ञापकं निमित्तस्वरवलीयस्त्वस्य’ इति । युक्तारो - ह्यादिषु एकशितिपाच्छन्दस्य पाठ इत्यर्थः । तथा हि-अस्ति’ ‘युक्तारोह्यादयश्च’ इति पूर्वपदाद्युदात्तत्वविधायकं सूत्रम् । युक्तारोह्यादिषु च एकशितिपाच्छन्दः पठितः । तत्र हि एकः शितिः पांदे यस्येति त्रिपदे बहुव्रीहौ एकशब्दस्यौणादिककन्प्रत्ययान्ततथा बहुव्रीहिस्वरेणैवादात्तत्वसिद्धेः तत्र पाठोऽनर्थकः । न चोत्तरपदे परतों द्वयोस्तत्पुरुषे सति समासस्वरं व्यावर्तयितुं पाठः, बहुव्रीहिस्वरस्य समासस्वरापवादत्वेनेष्टसिद्धेः । तस्मात् सतिशिष्टमवयवस्वरं" बाधितुं क्रियमाणोऽयं पाठः सतिशिष्टस्वरबलीयस्त्वं ज्ञापयति इति । सतिशिष्टस्वरबलीयस्त्वमेव “निमित्तस्वरबलीयस्त्वेन’’ वार्त्तिके व्यवहृतम् । हरदत्तश्च युक्ता रोह्यादिसूत्रे ‘निमित्तस्वरबलीयस्त्वं तु सतिशिष्टत्वम्’ इति वदन् तयोरभेदं द्योतयामास । भाष्ये तु युक्तारोयादिष्वेकशितिपाच्छन्दपाठः प्रत्याख्यातः । तथा हि–उत्तरपदे परतः 13
- निमित्तकसतिशिष्टत्वेन ख.
- स्वरितः ग. घ.
- सतिशिष्टस्य ग.
- एवं कृष्णोच.
- तु ख. घ.
- च्छब्दपाठः ग. घ.
- अस्ति क. ग. ज.
- पादः ख. 10. त्रिपदे ग. नास्ति ।
- अवयवतत्पुरुषस्वरम् ख. ग. घ. छ.
- वार्त्तिके निमित्त-
- यस्त्वशब्देन च. छ.
-
- त्वादिति ख. ङ. ख. ग. घ. ग. घ. ङ. नास्ति ।
- हि ग. घ. ङ. नास्ति ।
२४ स्वर सिद्धान्तचन्द्रिकायाभूust, Delhi [सू. ५. एकशितिशब्दस्य’ तत्पुरुषत्वे ‘संख्यापूर्वी द्विगुः’ इति द्विगुसंज्ञायाम् ‘इगन्तकालकपालभगालशरावेषु द्विगौ’ इति सूत्रेण इगन्तादिषु उत्तरपदेषु द्विगौ पूर्वपदं प्रकृतिस्वरम् इत्यर्थकेन इगन्ते शितिशब्दे परत एकशब्दस्य - प्रकृतिस्वरे सति एकशितिपाच्छब्दे आदेरुदात्तत्वसिद्धौ किं तत्र पाठेनेति । एवं च’ भाष्यमते सतिशिष्टस्वरबलीयस्त्वं वाचनिकमिति समर्थसूत्रे कैयटः । ‘वृत्तिकृता तु वार्त्तिकरीत्या तत्रैकशितिपाच्छन्दपाठमभ्युपगम्य भाष्योक्तरीत्या द्विगुरवेरेणेष्टसिद्धौ पुनस्तत्पाठः ’ शित्यन्तस्योत्तरपदे परे द्विगुस्वरो नेति ज्ञापनाय ; ‘द्विशितिपात्’ इत्यत्र समासस्वरेण शितिशब्दे अन्त उदात्त इति युक्तारोह्यादिसूत्रे भाष्यविरुद्धं वदता सतिशिष्टस्वरबलीयस्त्वं ज्ञापकसिद्धमेवेति स्वमतं दर्शितम् । सतिशिष्टस्वरबलीयस्त्वं न्यायसिद्धमिति ‘हरदत्तभट्टोजियज्वप्रभृतयः । तथा हिपरिभाषेयं सर्वैः स्वरविधिभिरेकवाक्यतामापद्यत इत्युक्तम् । एवं चैकस्मिन् पदे क्रमेणानेकोदात्तस्वरितविधिषु प्रवर्तमानेषु तैरेकवाक्यतामापद्य तत्तत्सूत्रविधेयस्वरवर्ज पदस्यानुदात्ततां बोधयितुं प्रवर्तमाना सा पूर्वपूर्ववाक्यार्थबाधेन # विरोधादुत्तरोत्तरवाक्यार्थ बोधयितुमनीशाना पूर्वपूर्व बाधित्यैवोत्तरोत्तरं बोधयति । चरमस्तु वाक्यार्थो बाधकाभावान्न’ केनचिद्वाध्यत इति स एवावतिष्ठत इति सतिशिष्टस्य बलीयस्त्वमिति । मीमांसकैरपि षष्ठेऽपच्छेदाधिकरणे— ‘पूर्व परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादान्नाद्याबाधेन सम्भवः || इति वदद्भिः ‘पूर्वबोधितवाक्यार्थविरुद्धं " कल्पयदुत्तरं शाखं पूर्वशास्त्रं बाधते’ “इत्ययं न्यायोऽनुसृत इति दिक् ।
- एकशितिपाच्छब्दस्य क.
- इति तु हरदत्त- ख.
- एवं च क. नास्ति ।
- प्रवृत्ता ङ.
- पदकृता घ.
पुनस्तत्र तत्पाठः ख. ग. 9. 8. - बाधनेनाविरोधात् घ. बाधकत्वान्न छ. 10. घ. च. अर्थ बोधयदुत्तरं स्व. ग. 5. परे ग. घ. ङ. च. नास्ति । ’ घ. ङ. च. 11. अयम् ङ. च. नास्ति ।
सू. ५.]
परिभाषाप्रकरणम् ३५ ननु सतिशिष्टस्वरस्य प्राबल्ये, ‘योऽग्निं चिनुते’, ‘यौ द्वौ स सुनुतः’, ‘पुनीत आ॒त्मानं॒ द्वाभ्या॑म्’ इत्यादी विकरणस्वरः प्रसज्येत, सार्वधातुके परतो विकरणविधानेन तत्स्वरस्य सतिशिष्टत्वात् । सार्वधातुकस्वरश्चात्र श्रूयत इति चेत् — सत्यम् ; विकरणेभ्योऽन्यत्र सतिशिष्टस्वरबलीयस्त्वम्, ‘तास्यनुदात्तेन्ङिददुपदेशात्’ इति लसार्वधातुकानुदात्तत्वविधानाल्लिङ्गात् । अन्यथा परत्वाल्लकारमात्रापेक्षत्वेनान्तरङ्गत्वाच्च तिबादिषु सत्सु लकारविशेषापेक्षस्तासिः कृत इति तत्स्वरस्य सतिशिष्टत्वेन प्राबल्ये शेषनिघातेनैव ‘वो य॒ज्ञे प्र॑यो॒क्तासै’ इत्यादौ लसार्वधातुकानुदात्तत्वसिद्धेः किं तद्विधिनेति ।। अत्र वार्त्तिकानि- ‘विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम् ’ । ‘विभक्तिनिमित्तस्वराच्च’ । ‘यच्चोपपदं कृति नञ् तस्य’ स्वरो बलीयानिति वक्तव्यम्’ ‘सहनिर्दिष्टस्य च’ इति ॥ अत्र तृतीयव्यतिरिक्तानि सतिशिष्टस्वरबलीयस्त्वबाधनार्थानि । तृतीयं तु कृत्स्वरबाधनार्थं नव् स्वरप्राबल्यप्रसङ्गादिह पठितम् । तथा हि’’ अतिस्रः’ इत्यत्र ‘तिसृभ्यो जसः’ इति विहितं विभक्त्युदात्तं सतिशिष्टस्वरं बाधितुमाद्यं वचनम् । तेन ‘तत्र ‘तत्पुरुषे तुल्यार्थ’ इत्यव्ययपूर्वपदप्रकृतिस्वरेण नत्रुदात्तः । ‘अचत्वारः’ ‘अननड्डाह:’ इत्यत्र ‘चतुरनडुहोरामुदात्त:’ इति विहितस्य विभक्तिनिमित्तस्यामो यः स्वरस्तं बाधितुं द्वितीयम् । ‘आक्रोशे नञ्यनिः’ इत्यनिप्रत्ययान्ते ‘अकरणि’ शब्दे ‘नञि’ इति सप्तमीनिर्देशेन तस्योपपदत्वात्, ‘गतिकारकोपपदात् कृत् ’ इति परत्वात् कृदुत्तरपदप्रकृतिस्वरं प्रसक्तं बाधितुं तृतीयम् । ‘अव्यथी’ इत्यत्र ‘जिदृक्षिविश्रीण्वमाव्यथ’ इति इनिप्रत्ययान्ते, ‘अव्यथ’ इति
- तस्य……वक्तव्यम् क. नास्ति ।
- अत्र… - बाधनार्थानि क. नास्ति । स्व-4
- : तथा हि ग. नास्ति । 4. विहितम् ग. घ. नास्ति ।
- अत्र ग. घ. ङ. ०
२६
स्वर सिद्धान्त चन्द्रिकायाम् 1 [सू. ४. निपातनाद्धातुना सह निर्दिष्टस्यास्य ननः समासे सति पश्वादिनिः इति सतिशिष्टं तत्स्वरं बाधित्वा’ नञ्स्वरो ं यथा स्यादिति चतुर्थमिति । ‘अव्यये नकुनिपातानाम्’ इति वार्त्तिके निपातत्वादेव सिद्धे नञः पृथग्ग्रहणं क्वचित्तत्स्वरस्य प्राबल्यज्ञापनाय । तेन ‘यच्चोपपदम्’ इत्यादिवार्त्तिकद्वयं नारम्भणीयमिति ‘तत्पुरुषे तुल्यार्थ’ इत्यत्र कैयटः । आद्यमपि न कर्तव्यमिति तत्रैव हरदत्तः । चत्वार्यपि न कर्तव्यानीति तत्रैव मनोरमायाम् ॥ 1 यत्तु स्वरमञ्जय विप्रकीर्णप्रकरणे ऽभिहितम्, ‘अप्रणते॒ स्वाहो’, ‘असेतो वा एष संभूतः’, ‘असंतः सद्ये ततक्षुः’ इत्यादौ, ‘प्राणते स्वाहा’ ‘शृण्व॒ते स्वाहा॑’ इत्यादाविव ‘शतुरनुमो नद्यजादी’ इति विभक्त्युदात्तत्वं न भवति, ‘विभक्तिस्वरान्नञ्स्वरो ‘बलीयान्’ इति वचनात् — इति ॥ तत्तुच्छम् ; समासान्तोदात्तापवादेऽव्ययपूर्वपदप्रकृतिस्वरे सति अप्राणच्छब्दादीनामन्तोदात्तत्वाभावेन ‘शतुरनुमः’ इति विभक्त्युदात्तत्वस्यैवात्राप्रसक्तेः, ‘शतुरनुमः’ इत्यत्र ‘अन्तोदात्तादुत्तरपदात्’ इत्यतः ‘अन्तोदात्तात्’ इत्यधिकारस्य सर्वसंमतत्वात् । स्वरमञ्जर्यामेव ‘अनुम् यः शतृप्रत्ययः तदन्तात् ’ अन्तोदात्तात् ’ इति ‘शतुरनुमः’ इति सूत्रं व्याख्याय, अन्तोदात्तादिति किंम् ? ‘बिभ्रती ज॒राम् ’ ‘जाय॑ते॒ स्वाहा॑ ’ अत्र ‘अभ्यस्तानामादिः ’ ’ इत्याद्युदात्तः इति प्रत्युदाहृतत्वेन पूर्वापरविरोधाच्च । ‘प्राणते’ इत्यत्र तु कृत्स्वरेण शत्रन्तमन्तोदात्तमिति । एतेन यथाश्रुतं स्वरमञ्जरीग्रन्थमिममाम्रेडयन् परिमलकृदपि निरस्तः ॥ प्रसक्तानुप्रसक्त्यालं प्रकृतं चिन्त्यतेऽधुना । पदग्रहणमेतस्मिन् सूत्रे किं फलवन्न वा ॥ 9 अत्र स्वरमञ्जरीकारः – ‘वाक्यव्यावृत्त्यर्थं पदग्रहणम्, अन्यथा वाक्येऽपि एकं वर्जयित्वा’ इतरदनुदात्तं स्यात् ’ इति । तत्र ‘हरदत्तः - ‘आद्युदात्तश्च’
- बाधितुं ख.
- तत्रैव क. नास्ति ।
- बलवान् क.
- इत्यादिरुदात्तः च.
- एकवर्जमितरत् च.
- अत्र ग. तच्चिन्त्यम् च.
- अन्तोदात्तात् क. नास्ति । 8.
सू. ५. ]
परिभाषाप्रकरणम् २७ ‘घातोः’ इत्यादिभिरस्यैकवाक्यतायां प्रत्ययादावादिरन्तो वा उदात्तो भवति, तमेकं वर्जयित्वा इतरदनुदात्तमित्यर्थो भवति । तत्र च सन्निधानात् प्रत्ययप्रभृतिष्वेव ‘इतरदनुदात्तमिति लाभेन वाक्ये तदप्रसक्तेः — इति । उच्यते— अचामेकपदस्थानां सर्वेषामनुदात्तता । यथा स्यादिति कर्तव्यं पदग्रहणमन्यथा ॥ प्रत्ययादिष्वनेकाक्षु प्रत्येकमनुदात्तताम् । एकवर्जं सूत्रमेतत् सन्निधानेन बोधयेत् ॥ ततश्च प्रत्ययादीनां प्रसज्येत पृथक्स्वरः । अनैयत्यनिवृत्तिश्च पूर्वोक्तो नोपपद्यते ॥ सूत्रेणैकेन नियमो विधानं च कथं भवेत् । पदग्रहणसामर्थ्यलभ्यमेतद्द्द्वयं ततः ॥ यतः पूर्वोक्तरीत्या सन्निधानाद्धातुप्रत्ययादिष्वेकैकमचं वर्जयित्वा शिष्टमनुदात्तमिति सूत्रार्थः प्रसक्तः; अत एव पदग्रहणं सर्वस्य पद्गतस्य अचोऽनुदात्तत्वार्थं क्रियते । इतरथा हि प्रकृतिप्रत्यययोः पृथक्स्वरप्रसङ्गः । यत्तु स्वरमञ्जर्यामुक्तम् -‘आद्युदात्तश्च’, ‘धातो:’ इत्यादिभिरस्यैकवाक्यतायां ’ प्रत्ययादावादिरन्तो वा उदात्तो भवति । तमेकं वर्जयित्वा इतरदनुदत्तं स्यादिति हरदत्तः । तत्रैकैकस्य उदात्तविधानेन अनेकोदात्तप्रसक्त्यभावात् प्रकृतौ प्रत्यये च प्रत्येकमेकवर्जं शिष्टमनुदात्तमिति सूत्रार्थ एव न भविष्यतीति न तदर्थ पदग्रहणम् - इति । तन्मन्दम् ; अनेकाक्षु फगादिषु प्रत्ययेषु गोपायतीत्यादिषु धातुषु प्रातिपदिकेषु चार्थील्लक्षणेन च बहुळमनेकोदात्तादिप्रसक्तेः । एवं ‘पदग्रहणाभावे यत्र न कश्चित् स्वरो विहितः तत्रानुदात्तत्वनियमः सूत्रस्य फलम्’ इति यदुक्तम्, तदपि नोपपद्यते ; ‘एकेन सूत्रेण विधिनियमयोः कर्तुमशक्यत्वात् । सति पदग्रहणे तत्सामर्थ्यात् कृत्स्नस्य पदस्यानुदात्तत्वार्थं वचिद्विधित्वं क्वचिन्नियमत्वं 1. तदनुदात्तम् ङ. 2. इत्यादिभिरेकैकस्यैवोदात्तविधा- नेन अनेकोदात्तप्रसक्त्यभावात् ग. घ. च. 3. न घ. नास्ति । 4. एतेन घ.
२८
स्वरसिद्धान्तचन्द्रिकायाम् [सू. ५. क्वचिदुभयविधित्वं च सूत्रस्याश्रीयत इति सिद्धमिष्टम् । अथ सति पदग्रहणे पदसंज्ञानन्तरमेव शेषनिघातेन भाव्यमिति कुवलशब्दात् ‘ग्रामादीनां च’ इत्याद्युदात्तात् गौरादित्वान्ङीषि सत्यपि पदत्वाभावात् शेषनिघाताभावेऽनुदात्तादित्वाभावात् कुवल्या विकारः कौवलमित्यत्र ‘अनुदात्तादेश्च’ इत्यञ् न स्यात् । कथं वा सति पदग्रहणे ‘धातोः’ इत्यादिषु धात्वाद्युपदेशानन्तरमेव प्रवर्तमानेषु तदेकवाक्यतया इयं परिभाषा ‘शेषनिघातं बोधयेत् ? तदा तत्र पदसंज्ञाविरहादिति चेत् — सत्यम् ; अत एव अनुपपत्त्या पदशब्दस्य पदीभविष्यति लक्षणाभ्युपगम्यते । ‘एङ: पदान्तात्’ इत्यतः पदाधिकारे पुनः पदग्रहणमपि तस्य गौणत्वे लिङ्गम् । अपि च, ‘एकवजम्’ इति परीप्सायां विहितो णमुलपि तत्र लिङ्गम् । परीप्सा - त्वरा, तत्र विहितश्च णमुल् यन्त्रोदात्तादिर्विधीयते तत्र तत्सम - कालमेव शिष्टमनुदात्तं कर्तव्यम्, न विलम्बितमिति + द्योतयति । न च पदग्रहणस्य पदीभविष्यति लक्षणां विना तत्संभवतीति तां कल्पयति । एवं च ‘धातो:’ इत्यादिभिरस्य’ एकवाक्यतायामयमर्थो भवति - धातोरन्त उदात्तः, तं वर्जयित्वा तद्धातुघटितस्य यावतः समुदायस्य इतः परं पदसंज्ञा भविष्यति तद्गताः सर्वे चानुदात्ताः - इति । एवं च कुवलीशब्देऽपि पदसंज्ञायाः पूर्वमेव शेषनिघाते न पूर्वोक्तदोष: । ‘एकवर्जम्’ इति पदं तु परिभाषाप्रवृत्तिविषयप्रदर्शनाय । ‘अनुदात्तं पदम् ’ इत्युक्तौ हि किंविषयेयं परिभाषेति न ज्ञायेत । ‘एकवर्जम्’ इत्यनेन तु स्वरितोदात्तवर्जमिति तदर्थपर्यवसानात् तद्विधिष्वेवास्याः प्रवृत्तिरिति प्रदर्श्यते । सूत्रस्य परिभाषात्वे ‘एकवर्जम्’ इति पदमेव लिङ्गम् । अधिकारत्वे तद्वैयर्थ्यात्, तत्सूत्रविधेयानां” विधिसामर्थ्यादेव निघाताप्रवृत्तेः । यद्यप्यधिकारत्वेऽपि अस्य षाष्ठखरे प्रतियोगमस्योपस्थितौ 4
- शेषग. नास्ति । 2. पदे क. ग.
- इत्यत्र घ.
- विलम्बितं कर्तव्यमिति विलम्बितव्यमिति ग. च. ज.
- इत्यादिभिस्तस्याः छ. 7. पदं तु ग. नास्ति ।
- इयं ख. नास्ति । क.
- सूत्रस्यास्य ग. घ. घ.
तद्वैयर्थ्यम् ख. 11. तत्तत्सूत्रविधेयानाम् ङ. च. 5. पदे क.
सू. ५.]
परिभाषाप्रकरणम् २९ न कश्चिद्दोष: ; ततश्च ‘एकवर्जम्’ इति न कर्तव्यमिति’ लाघवम् ; तथापि स्थलान्तरवर्तिषु ‘आद्युदात्तश्च’ इत्यादिष्वस्यानुपस्थानात् शेषनिघातो न स्यादिति दोषात् परिभाषात्वमाश्रितम् ॥ स्यादेतत् - यदीयं परिभाषा तर्हि ‘कार्यकालं संज्ञापरिभाषम्’ इति अस्यास्त्रिपादीस्थैरपि स्वरितादिविधिभिरेकवाक्यत्वे ‘य॒ज्ञस्य॑ घोषत्’, ‘दश॒ हस्त्या अङ्गुल॑यः’ इत्यादौ ‘उदात्तादनुदात्तस्य’ इति स्वरितमाश्रित्य शेषनिघातप्रसङ्गः । न च तस्यासिद्धत्वम्, अस्यापि तत्रोपस्थाने तदभावात् । न च सन्निपातपरिभाषया उदात्तमाश्रित्य प्रवृत्तः स्वरित उदात्तविघातकस्य शेषनिघातस्य निमित्तं न स्यादिति वाच्यम् ; स्वरविधौ सन्निपातपरिभाषाया अनित्यत्वात् अप्रवृत्तेः । अन्यथा ‘अन्तोदात्तादुत्तरपदाद्न्यतरस्याम्’, ‘ह्रस्वनुड्भ्यां मतुप्’ इत्यादिभिरपि स्वरे कृते शेषनिघातानापत्तेः । अपि च ‘अजा होग्नेः’ इत्यादौ ‘उदात्तस्वरितयोर्यण:’ इति स्वरितमाश्रित्य शेषनिघातप्रसङ्गः । न त्वत्र सन्निपातपरिभाषाविरोधशङ्केति ॥ " उच्यते—यथोद्देशपक्ष एवात्र परिभाषायामाश्रीयते, लक्ष्यानुसारात् केषांचित् स्वरसूत्राणामसिद्धकाण्डपाठाल्लिङ्गाच्च । तथा चास्याः परिभाषायास्त्रिपादीस्थस्वरविधिभिरेकवाक्यत्वाभावेऽस्यां कर्तव्यायां तत्रत्यस्वरितादेरसिद्धत्वान्न कश्चिद्दोषः । न चैवं स्वरविधिभिरस्यैकवाक्यतेति तत्र पूर्वोक्तं विरुध्येतेति वाच्यम् ; इदानीमपि तैरेकवाक्यत्वानपायात् । इयांस्तु विशेषः – कार्यकालपक्षे तैरस्याः पदैकवाक्यता, ‘यथोद्देशपक्षे वाक्यैकवाक्यता—इति । यत्तु ‘गुरोरनृतोऽनन्त्यस्य’ इति सूत्रे हरदत्ते - नास्याः कार्यकालत्वं दर्शितम्, तत् उक्तयुक्तिविरोधात् ‘न मुने’ इति
- वक्तव्यमिति ख. ग. ङ,
- ह्यत्र ख. ग. घ. च. छ.
- शङ्केति चेत् क. घ.
- नचैवं यथोद्देशपक्षाश्रयणे ङ. षाष्ठ… वाक्यता नेति वाच्यम् क. ङ. 5. तै: ग. नास्ति ।
- यथोद्देशपक्षे तु म.
- कार्यकालपक्षत्वम् क. ' ३०
[सू. ५. स्वरसिद्धान्तचन्द्रिकायाम् सूत्रस्थस्वोक्तिविरोधाच्चोपेक्ष्यम् । तत्रत्यं भाष्यमपि तथाविधमापातत: प्रवृत्तमिति मन्तव्यम् । एतच्च तत्रैव स्पष्टयिष्यते ॥ यत्तु अस्यां `परिभाषायां यथोद्देशपक्षाश्रयणे ‘यतोऽनाव:’ इति सूत्रं ज्ञापकमिति मनोरमायामुक्तम् तच्चिन्त्यम् ; अयं हि तस्याशयः– ‘यतोऽनाव:’ इति हि’ सूत्रं यत्प्रत्ययान्तस्य द्व्यचः ‘तित्स्वरितम्’ इत्यन्त्यस्वरितत्वे प्राप्ते आद्युदात्तत्वार्थमारभ्यते । तच्चात्र कार्यकालपक्षाश्रयणेऽनर्थकम्, सत्यप्याद्युदात्तत्वे शेषनिघाते ‘उदात्तादनुदात्तस्य’ इति तस्य स्वरितत्वे तमाश्रित्य पुनः शेषनिघाते चान्त्यस्वरितस्यैवावस्थानेनाद्युदात्तत्वस्य क्वाप्यश्रवणात् — इति । एतच्च वार्तम् ; अन्त्यस्य निघाते सति यत्र ‘नोदात्तस्वरितोदयम्’ इति निषेधात् सन्नतरेण ‘उदात्तस्वरितपरस्य सन्नतरः’ इति सूत्रविहितेन बाधितत्वाद्वा, ‘उदात्तादनुदात्तस्य’ इति नान्त्यस्य’ स्वरितत्वम्, किंतु सन्नतरः, तत्राद्युदात्तश्रवणार्थं तदारम्भात्, तत्रान्त्यस्य स्वरितत्वाभावेन तदादायाद्यस्य निघाताप्रवृत्तेः । श्रूयते चैत्रम् — ‘गाय॑ते॒ न देयं गाथा हि’, ‘न देय सौऽग्निः’ इत्यादौ । यदपि तव्यतस्तित्त्वमस्यां परिभाषायां यथोद्देशपक्षाश्रयणे लिङ्गम् । तद्धि ‘कर्तव्यम्’ इत्यत्रान्तस्वरितत्वार्थम् । अत्र कार्यकालपक्षाश्रयणे च तित्त्वं विनाप्येतत् सिद्धम् ; तव्यस्य प्रत्ययस्वरेणायुदात्तत्वे शेषनिघाते ‘उदात्तादनुदात्तस्य’ इति’ स्वरितत्वे तमाश्रित्य शेषनिघातादिति, तदप्यत एवं निरस्तम् ; यत्र तव्यस्योदात्तस्वरितपरत्वम् ‘क॒र्तव्य॑ यजुः’ इत्यादौ तत्र सन्नतरेण ‘उदात्तादनुदात्तस्य’ इति स्वरितत्वस्य बाधितत्वेन आद्युदात्तस्य अन्ते सन्नतरस्य च श्रवणप्रसङ्गात् । ततश्च तं वारयितुं तित्त्वमित्युपपत्तेः कथमिदं तज्ज्ञापकमिति’ दिक् ॥
- हि ग. नास्ति ।
नास्य ग. 2. एतच्च वार्त्तिकमन्त्यस्य ख. 4. इति तस्य स्वरितत्व ग घ च च. ज एतच्च सूत्रम् ङ, 5. इदम् ग. घ. नास्ति । 6. इत्येषा दिक् ग. घ. ङ. एतच्च अन्त्यस्य. क. घ च. छ. ज.
खू. ६.]
परिभाषाप्रकरणम् [६] ॥ एकादेश उदात्तेनोदात्तः ॥ (8–2–5) । ३१ ‘परिभाषेयम्’ इति ‘न मु ने’ इति सूत्रे कैयटहरदत्तौ । सा च ‘एकादेश:’ इति लिङ्गात् ‘आद्गुण:’ इत्याद्येकादेशविधिषु उपतिष्ठते । ‘उदात्तस्वरितयो:’ इति पूर्वसूत्रात् ‘अनुदात्तस्य’ इत्यनुवर्तते । तेनायमर्थःआदचि गुण एकादेशो भवति, उदात्तानुदात्तयोरेकादेशो गुणो भवन् उदात्तो भवतिइति । एवमेकादेशशास्त्रान्तरेऽप्यूह्यम् । उदात्तानुदात्तयोरेकादेश आन्तर्यात् स्वरितः प्रसज्येतेति वचनम् । ‘जातौ विश्वस्य भुव॑नस्य गोपौ’ । ‘ब्रह्म॑ यच्छा’’ | ‘अरुन्धतेऽसत्रम्’ । ‘जात’ शब्द: क्तप्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तः । सुबनुदात्तः । अतो’ ‘वृद्धिरेचि’ इत्येकादेश उदात्तः । ‘यच्छ’ इति ‘तिङ्ङतिङ : ’ इति निघातः । ‘रुन्धते’ इत्यत्राप्येवम् । ‘उपसर्गाश्चाभिवर्जम्’ इति ‘अप’ इत्यस्य’ आदिरुदात्तः । ‘असत्रम्’ इत्यत्र अव्ययपूर्वपदप्रकृतिस्वरेणादिरुदात्तः । तयोरुभयोः एकादेश उदात्तः । उदात्तेनेति किम् ? अनुदात्तयोः स्वरितानुदात्तयोर्वा एकादेश उदात्तो मा भूत् । ‘मा त्वान्यक्’ । ‘अथ॒ वा॑स्याहवनीयः’ । अनुदात्तयोरेकादेश आन्तर्यादनुदात्तः । स्वरितानुदात्तयोः स्वरितः । अनुदात्तस्येति किम् ? उदात्तस्वरितयोरेकादेश उदात्तो मा भूत् । उदात्तयोस्त्वेकादेश आन्तर्यादुदात्त एव । यथा’मैत्रावरुणीत्याह ’ ॥ ननु ‘अनुदात्तस्य’ इति पदमुदात्तस्वरितयोरेकादेश उदात्तो मा भूदित्येवमर्थमित्ययुक्तम्, तस्याप्युदात्तत्वदर्शनात् । यथा - ‘सवनमुखे सेवनमुखे । ‘कार्य’ शब्दः कार्येति’, ‘अथोक्थ्योऽथातिरात्रः’, ‘याज्येवैन॑म्’ । ‘ऋहलोर्ण्यत्’ इति ण्यत्प्रत्ययान्तः ‘तित्स्वरितेनान्तस्वरितः । ततष्टाबनुदात्तः । तयोरेकादेश आन्तर्यात् स्वरितः । तस्य ‘इति’ शब्देकारेण उदात्तेनैकादेशः । उक्थ्यशब्दः ’ तित्स्वरेणान्त्यस्वरितः । स ह्युक्थशब्दात्
- ततः ग.
- उपेत्युपसर्गे ख. ग. घ. ङ.
- तदुभयत्र ख. ग. घ.
- उक्थ्यशब्दे ग. घ.
- उकथ्यशब्दः क. ख. च. छ. ज.
ङ. . ३२
स्वरसिद्धान्तचन्द्रिकायाम् [सू. ६. } ‘वर्चों निष्केवलोक्थ’ इति स्वार्थे यति निष्पन्नः । ततः सुप्प्रत्ययः । रुत्वोले । सुप्त्वादुकारोऽनुदात्त: ’ ; हलः स्रंसनधर्मित्वेन तत्स्थाने स्रंसनधर्मिणोऽनुदात्तस्यैवोकारस्यान्तर्यात् प्रवृत्तेर्वा । ततः ‘आद्गुण:’ इत्येकादेशः पूर्ववत् स्वरितः । पश्चात् ‘अथ’ शब्दाकारेण तस्य ‘एङ: पदान्तादति’ इत्येकादेशः । ‘अथ’ शब्दश्व’ ‘निपाता आद्युदात्ताः’ इति स्वरितान्तः आद्युदात्तः ण्यत्प्रत्ययान्तः ‘याज्य’ शब्दोऽपि / ततष्टापि पूर्ववत् याज्याशब्दोऽपि अन्तस्वरितः । तत आडुपसर्गेणैकादेशः । ‘चजोः कुधिण्ण्यतो:’ इति कुत्वं तु याज्याशब्दे न भवति ; ‘यजयाच’ इति निषेधात् । प्रातिशाख्येऽपि ‘उदात्तमुदात्तवति’ (तै. प्रा. अ. १०. सू. १०) इत्येकादेशोदात्तत्वसूत्रे अनुदात्तस्येति न विशेषणं दत्तम् । उदात्तधर्मवति पूर्वत्र परत्र वा स्थिते य एकादेशः स उदात्तमापद्यत इति सूत्रार्थः । बहुचा अपि ‘कावरम्’ इत्यादौ स्वरितोदात्तयोरेकादेशमुदात्तमधीयते । बहुचप्रातिशाख्येऽपि 1 ‘उदात्तवत्येकीभाव उदात्तं सांध्यमक्षरम् ’ ‘लक्ष्य- इत्यत्रानुदात्तग्रहणं न कृतम् । कृतम् । तस्मादनुदात्तस्येत्यनुवृत्तौ प्रातिशाख्यविरोध इत्यभिप्रेत्य स्वरमञ्जर्याम् अनुदात्तस्येत्यनुवृत्तिः ’ अनाश्रिता । एतदेव ‘न सुब्रह्मण्यायाम्’ इति सूत्रस्थ कौस्तुभे उक्तम्’ । अत्र सिद्धान्तकौमुदीमनोरमयोश्चानुमोदितम् इति चेत् —‘तदुभयं चिन्त्यम् ; वृत्तिहरदत्तग्रन्थभाष्य कैयट ‘विरोधात् । तथा हि-प्रकृतसूत्रे वृत्तिहरदत्तग्रन्थयोरनुदात्तानुवृत्तिः स्पष्टमभिहिता । ‘न सुब्रह्मण्यायाम्’ इति सूत्रभाष्य” वार्त्तिकपर्यालोनयाप्यनुदात्तानुवृत्तिः प्रतीयते । तत्र हि
- सुप्त्वादनुदात्तः क. ख. 2. इति शब्दोऽथशब्दश्च ख. ग.
- अनुवृत्तिरत्र ख. घ. छ. ग. घ. ङ. . च. छ ज.
उक्तम् ख. ङ. नास्ति । 3. इत्युक्त- 8. इत्युक्तङ. इति तदुभयं क. ख. ग. 4. नोक्तम् क. 5. उक्तलक्ष्ये प्रातिशाख्ये ख. ग. घec-0. Shri Vipin Kumar Col. ङ. च. छ. ज. 9. -वार्त्तिकविरोधात् ग. घ. ज. Deoband वाचिक fic Domain. नास्ति । 10. वार्त्तिक-कसू. ६]
परिभाषाप्रकरणम् I ३३ ‘तस्यादित:’ इत्यादिनवसूत्रयुत्कर्षस्य प्रयोजनमभिदधद्वार्त्तिकं ‘स्वरितो - दात्तार्थं च’ इति । ‘न सुत्रह्मण्यायां स्वरितस्य तूदात्तः’ इति यदिदं सुब्रह्मण्यानिगदे स्वरितस्योदात्तत्वं विधीयते तदर्थमपि नवसूत्रयुत्क्रष्टव्या । अनुत्कर्षे ‘इन्द्रागच्छ’ इत्यादौ ‘उदात्तादनुदात्तस्य’ इति योऽयं स्त्ररित आकारः तस्यासिद्धत्वेन स्वरितस्योदात्तविधानं न स्यादिति वार्त्तिकाशयः । अत्र च वचनबलात् स्वरितस्य सिद्धत्वं भविष्यतीत्याशङ्कञ्ज्याभिहितं भाष्ये ‘यः सिद्धः स्वरितः तदर्थमेतत् स्यात्, यथा सुब्रह्मण्योम्’ इति । अयमाशयः - सुब्रह्मणि साधुः सुब्रह्मण्यः । ‘तत्र साधुः इति यत्प्रत्ययः । तित्त्वादन्तः स्वरितः । ततष्टापा सह एकादेश आन्तर्यात् स्वरितः ततो निपातेन ‘ओ’ शब्देन ‘ओमाङोच’ इति पररूपम् । तच्चोदात्तस्वरितयोः स्थाने भवदान्तर्यात् स्वरितात्मकम् । तस्य असिद्धत्वाभावात् तदर्थं ‘स्वरितस्य तूदात्तः’ इति वचनं स्यात् — इति वात्तिकाभिप्राय इति । एतञ्चात्रानुदात्तानुवृत्तिं ज्ञापयति । अन्यथा ‘ओमाङोश्च’ इति पररूपस्य उदात्तस्वरितस्थानिकस्य प्रकृतसूत्रेणैवोदात्तत्वसिद्धौ ‘स्वरितस्य तूदात्त:’ इति वचनस्य कथं तदर्थता स्यादिति । उक्तश्चायं भाष्याशयः कैयटेन दर्शित इति तस्याप्येतदनुमतम् । नन्वनुगुणलक्ष्याभावात् उदाहृतलक्ष्यविरोधाच सर्वोऽप्ययं ग्रन्थ आपातत इति कल्प्यत इति चेत्-त ; लक्ष्याभावस्तावत् कुतोऽवगत: ? उक्तशाखाद्वयेऽनुपलम्भादिति चेत् — तत् किं शाजाद्वयमेव व्याकरणस्य विषयः ? येन तत्रानुपलम्भात् तदभावो निर्णीयेत । न हीदानीं तद्भिन्नास्वपरिमितासु शालासु भाषायां वा काप्युदाहृतभाष्यवार्त्तिकानुगुणलक्ष्यं नास्तीति पितामहेनापि निश्चेतुं शक्यम् । पश्यामश्च परिदृश्यमानलक्ष्यविरुद्धमर्थं परिकल्प्य तत्साध्यं लक्ष्यं शाखान्तरीयमुदाह्रियमाणं भाष्यकृता । तद्यथा - ‘कर्मधारये निष्ठा’ इति सूत्रे ’ श्रेण्यादय: कृतादिभि:’ इति प्रतिपदोक्तकर्मधारयस्य ग्रहणम्, तेन महानिरष्टशब्दे पूर्वपदप्रकृतिस्वर उक्तसूत्रेण नेति ‘महान् व्रीह्मपराह्न ’ इत्यत्र भाष्ये स्थितम् । इदं च परिदृश्यमानलक्ष्यविरुद्धम्, ‘वारुणं दशकपालं 3. तस्य स्वरितस्य ग. घ.
- वार्त्तिककारः ग.
- स्वरितस्य क. नास्ति । स्त्रce-a3shri Vipin Kumar Col. Deoband. In Public Domain. ३४ Digitized by Madhuban Trust, Delhi. स्वरसिद्धान्तचन्द्रिकायाम् [सू. ६ मह निरष्टो दक्षिणा समृद्धयै’ इत्यादौ पूर्वपदप्रकृतिस्वरदर्शनात् । उदाहृतं च भाष्ये ‘महानिरष्टो दक्षिणा दीयते’ इति शाखान्तरीयं वाक्यम् । तथा उल्लूकशब्दस्य यदुलूको वदति’ ‘इत्थादुर्लुकः’ इत्यादावाद्युदात्तपाठदर्शनाच्छान्दसमाद्युदात्तत्वम् । लोके तु ‘लधावन्ते’ इति लक्षणवशान्मध्योदात्ततेति ‘खण्डिकादिभ्यश्च’ इति ‘सूत्रे भाष्ये कौस्तुभे च दर्शितम् । सूत्रकारश्च ‘न भूवाक्चिद्दिधिषु’ इति ‘पत्यावैश्वर्ये’ इति प्राप्तं पूर्वपदप्रकृतिस्वरं निषेधति । अधीयते च भूशब्दे प्रकृतिस्वरम् ‘भूपतये स्वाहो’ ‘अहं भूपतिः’ इत्यादौ । एवं कार्तकौजपादिषु याज्यानुवाक्याशब्दं पूर्वपदप्रकृतिस्वरार्थं पठति’ । ‘समानी योज्यानुवाक्यै भवत:’ इत्यादौ चाकस्मिकमन्तस्वरितत्वं दृश्यते । एतादृशानि सूत्राणि बहूनि सुप्रसिद्धान्येव । न ह्येतावतां ‘सूत्राणामापाततः प्रवृत्तिः कल्प्या । यदि च शाखान्तरविषयत्वेन भाषाविषयत्वेन च सूत्राणामुपपत्तिः, अस्मदादिपरिदृष्टानि तु कतिपयानि लक्ष्याणि प्रातिशाख्यादिभिर्बहुलग्रहणाद्वा साधनीयानीत्युच्यते, तर्हि प्रकृतेऽपि दीयतां दृष्टिः । अत एव लक्ष्यविरोधोऽपि निरस्तः । न च भाषायां स्वरनियमो नेति मन्तव्यम् ; मनोरमादिष्वेव ‘भाषायां ‘स्वरनियमो नेति भ्राम्यन्तः परास्ताः’ इत्यसकृदभिधानात् । स्वरविधौ छन्दोऽधिकाराभावात् । ’ विभाषा भाषायाम्’ इत्यादिस्वरसूत्राणामानर्थक्यप्रसङ्गाच्च । तस्मात् त्रिचतुरविरुद्धलक्ष्यदर्शनेन भाष्यवार्त्तिकाद्यन्यथाकरणमतिसाहसमित्युपेक्ष्यम् ॥ 1 अथास्य परिभाषात्वे किं मानं ? किं च तत्फलम् ? । लक्ष्याणि साधयेदेव स्वतन्त्रोऽपि ह्ययं विधिः ॥ अत्रोच्यते सनुमुकस्य प्रतिषेधः शतृस्वरे । प्रमाणं परिभाषात्व इति प्रोवाच कैयटः ||
- इत्यत्र भाष्यादौ ख. ङ.
सूत्राणामपि ङ. 5. भाषाविषयत्वेन च क. ख. छ. ज. 2. प्रापितम् ख. नास्ति । 3. इति ग. अधिकम् । 6. स्वरानुरोधः ख.
सू. ६]
परिभाषाप्रकरणम् अयादिषु स्वरस्यास्य सिद्धत्वं तु प्रयोजनम् । ३५ अन्तोदात्तादनुमः शत्रन्तात् परस्या नद्या अजादिविभक्तेश्चोदात्तविधायकः ‘शतुरनुमो नद्यजादी’ इति स्वरविधिः शतृस्वरः । तत्र ‘अनुमः’ इति सनुमुकस्य प्रतिषेधोऽस्य परिमाषात्वे प्रमाणम् । स हि निषेधो ‘वक्ष्यन्तीव’ इत्यादौ नद्युदात्तत्वाभावाय क्रियते । अत्र च स्यप्रत्ययस्य प्रत्ययस्त्रेरणोदात्तत्वे शतुरदुपदेशात् परत्वाल्लसार्वधातुकानुदात्तत्वे च तयोरेकादेशस्वरेण शत्रन्तस्यान्तोदात्तत्वमाश्रित्य शतृस्वरप्रवृत्तिः । ‘शतुरनुम:’ इत्यत्र ‘अन्तोदात्तात्’ इयनुवृत्तेः । यदि चेयं परिभाषा न स्यात् तदा एकादेशस्वरस्य ‘पूर्वत्रासिद्धम् ’ इति शत्रुस्वरेऽसिद्धत्वेन अन्तोदात्ताभावादेव ‘अत्र शतृस्वराभावे ‘अनुमः’ इति प्रतिषेघो निष्फलः स्यात् । न ह्येकादेशस्वरं विना शत्रन्तं सनुमूकं च क्वचिदन्तोदात्तमस्ति यदर्थः प्रतिषेधः स्यात् । अथापि क्रियमाणोऽयं निषेधः स्वसाफल्यायास्य परिभाषात्वं ज्ञापयति । तथा हि’आद्गुणः ’ इत्यादिभिरस्य विधेरेकवाक्यत्वेनासिद्धकाण्डानन्तर्गतत्वादेकादेशस्वरस्यासिद्धत्वाभावे ‘वृक्ष्यन्तीव’ इत्यादिव्यावृत्तये नुमो निषेधः कर्तव्य इति । परिभाषात्वे फलं तु अयादिष्वस्य स्वरस्यासिद्धत्वाभावः । स्वतन्त्रविधित्त्रे हि ‘त इ॒मं य॒ज्ञम॑वन्तु॒ त इदं क्षेत्र॑म्’ इत्यादौ प्रातिपदिकान्तविभक्त्योरुदात्तानुदात्तयोरेकादेशे तत्स्वरस्यायादेशे कर्तव्येऽसिद्धत्वं स्यात् । ततश्चान्तर्याभिनिर्वृत्तस्वरितबुद्धचैव प्रवर्तमानोऽयादेश आन्तर्यात् स्वरितः स्यात् । एवम् ‘तावे॒वास्मै’ इत्यादावावादेशोऽपि । इष्यते चोभयत्रोदात्तत्वम् । तथा ‘तैऽब्रुवन्’, ‘तैऽब्रुवन्’, ‘सौऽत्रवीत् ‘, ‘ते॑ऽमृत॒त्वम॑कामयन्त,’ ‘गाङ्गेऽनूपे’ इत्यादौ पूर्ववत् प्रातिपदिकान्तविभक्त्योरेकादेशस्वरस्य ‘एङ: पदान्तादति’ इति द्वितीये एकादेशे कर्तव्येऽसिद्धत्वेन द्वितीय एकादेशः पूर्ववदान्तर्यात् स्वरित एव स्यात् । इष्यते च ‘स्वरितो वानुदात्ते पदादौ’ इत्युत्तरसूत्रेण ‘तेऽब्रुवन्’ इत्यादौ
- अत्र घ. नास्ति ।
- भवति छ.
- न हि न हि ग. घ. नास्ति ।
- तथापि, तथा च ग. 5. अयं ख. ग. घ. छ.
३६
स्वरसिद्धान्तचन्द्रिकायाम् [सू. ६ स्वरितत्वम्, ‘गाङ्गेऽनूपे’ इत्यादौ च पाक्षिकोदात्तत्वम् । गङ्गाशब्दादणि गाङ्गशब्दः प्रत्ययस्वरेणान्तोदात्तः । ततः सप्तम्येकवचनेनैकादेशः । अनुगता आपो यस्मिंस्तदनूपम् । ‘ऋक्पू: ’’ इत्यकारः समासान्तः । ‘ऊदनोः’ इत्यूकारः । ‘अनोरप्रधानकनीयसि’ इत्युत्तरपदस्यान्तोदात्तत्वात् अनुदात्तादिरयम् । एवम् ‘जागरिष्यते स्वाहा’ इत्यादौ ‘लुट: सद्वा’ इति शतरि ‘स्यतासी’ इति स्यप्रत्ययेऽदुपदेशाल्लसार्वधातुकानुदात्तत्वे एकादेशे एकादेशस्वरे च ‘शतुरनुमः’ इति विभक्त्युदात्तस्वं न स्यात् । एकादेशस्वरस्यासिद्धत्वेन शत्रन्तस्यान्तोदात्तत्वाभावात् । तथा च’ ‘उत्सृजन्त्य॑नु॒ सव॒नम्’, ‘स्वामे॒व तद्योनिं प्रविशन्ति’ इत्यत्र शविकरणाददुपदेशात् परस्य लसार्वधातुकस्यानुदात्तत्वे तदकारेण शविकरणाकारस्योदात्तस्यैकादेशे तत्स्वरस्यासिद्धत्वाद्यथाक्रमं शेषनिघातः तिनिघातश्च न स्यात् । ततश्चाद्योदाहरणे धातोरप्युदात्तत्वं द्वितीयस्मिन् एकादेशस्वरश्च प्रयोगे श्रूयेत । परिभाषात्वे च सर्वत्रैकादेशस्य सिद्धत्वात्, उक्तस्थले सर्वमिष्टं सिध्यतीति अयादिषु स्वरस्य सिद्धत्वं परिभाषात्वफलम् एवं च ‘एकादेशस्वरोऽन्तरङ्गः सिद्धो भवतीति वक्तव्यम्, अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानु दातथम्’ इति वार्त्तिकं न कर्तव्यम् । उक्तान्येव वार्त्तिकोदाहरणानि । अवादेशे उदाहरणं नेति भाष्यम् । अयादेशस्य तु ‘पौर्णमाझ्या आज्यं निर्वपति’ इत्यादिकमुदाहरणम् । ‘पूर्णमासादण् वक्तव्य : ’ इति अणन्तान्ङीपि ‘पौर्णमासी’ शब्द उदात्तनिवृत्तिस्वरेणान्तोदात्तः । ततो ङेप्रत्ययस्याडागमे उदात्तस्य ङीपो यणादेशे ‘उदात्तयणो हल्पूर्वात्’ इत्याट उदात्तत्वे आडेकारयोरुदात्तानुदात्तयोरेकादेशस्वरस्य सिद्धत्वात् आयादेश उदात्तो भवति । अन्यथा स्वरितः स्यादिति वार्त्तिकाशयः । अन्तरङ्गत्वादाडेकारयोरनुदात्तयोरेव पूर्वमेकादेशः, तत ‘उदात्तयणो हल्पूर्वात्’ इति तस्योदात्तत्वमिति न्याय्यमिति’ नेदं प्रयोजनमिति भाष्यकृतः । यद्यप्यस्य स्वतन्त्रविधित्वम् ‘अङ्गीकृत्य ‘अनुमः’ इति निषेध एकादेशस्वरस्य
- च क. नास्ति ।
- न्त्र ग. घ. नास्ति
- एकादेशस्वरस्य ग. घ.
वाच्यम् घ. 5. इति न्याय्यमिति घ. नास्ति । 6. स्वीकृत्य ग
CT सू. ७]
परिभाषाप्रकरणम् ३ सिद्धत्वे लिङ्गमिति कल्पनेऽपि न कश्चिद्दोष:, उक्तवार्त्तिकमपि न तथापि परिभाषात्वकल्पनमेव ज्यायः, एवं कर्तव्यमिति तुल्यम्, सत्य सिद्धत्वशङ्काया ‘अप्यनुन्मेषात् । ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्यायादिति कैयटाशयः । न च परिभाषाले बहिरङ्गस्याप्येकादेशस्वरस्य सिद्धत्वप्रसङ्गः । ततश्च ‘यजतेऽप्यन्यम्’, ‘छिनत्तीति होवाच’ इत्यादौ पदद्वयापेक्षवहिरङ्गैकादेशस्वरस्य सिद्धत्वे तमाश्रित्य शेषनिघातप्रसङ्ग इति वाच्यम् ; ‘असिद्धं वहिरङ्गमन्तरङ्गे’ इत्येव तस्यासिद्धत्वादिति । एवं च एकादेशस्वरविधेः त्रिपादपठने फलं चिन्त्यम् । न चानुदात्तस्येत्यपेक्षणाय तदिति वाच्यम्’’ ; ‘अनुदात्तस्य च’ इत्यनन्तरपठनेऽपि तत्सिद्धेः । अपि चैवम् उदात्तग्रहणमप्यत्र न कार्यम्, ‘कर्षात्वत:’ इत्यतस्तदधिकारादित्यपरमप्यनुकूलम् । एवं सति स्वतन्त्र विधित्वमप्यस्य सुवचमिति || [७] स्वरितो वानुदात्ते पदादौ ॥ (8-2-6) पदादावनुदात्ते सति उदात्तेन तस्य य एकादेशः स स्वरितो वा वति । पक्षे पूर्वेणोदात्तः । भाषायासैच्छिको विकल्पः । वेदे तु योगस्य व्यवस्थितत्वाद्व्यवस्थितो विकल्पः । तत्रोकारयोरेकादेशे ‘एङ: ‘दान्तादति’ इत्येतद्विषये च स्वरितत्वम्, इतरत्रोदात्तत्वमिति तित्तिरि- खायां व्यवस्था । तथा च प्रातिशाख्यसूत्राणि - ‘ऊभावे च’ ( तै. प्रा. अ. १०. सू. १७) । उदात्तादुकारात् [रस्यानुदात्तोकारस्य ऊभावे – ऊकाररूपैकादेशे—सति य ऊकारः स त्वरित इत्यर्थः ।।
- एवानुन्मेषात् ग. घ.
- इति वाच्यम् ख. ग. घ. नास्ति ।
३८
स्वरसिद्धान्तचन्द्रिकायाम् [सू. ८ ‘तस्मिन्ननुदात्ते पूर्व उदात्तः स्वरितम्’ (ते. प्रा. अ. १२. सू. ९) यस्याकारस्य ‘एङः पदान्तादति’ इति पूर्वरूपं विहितं व्याकरणे, तस्य प्रातिशाख्ये लोपो विहित इत्युक्तम् । तस्मिन्ननुदात्ते लुप्ते सति यः पूर्व उदात्तः स स्वरिततामापद्यत इत्यर्थः ।। ‘उदात्तमुदात्तवति’ । व्याख्यातमिदं सूत्रम् । 1 एवं शाखान्तरेऽपि यथायथं व्यवस्था बोध्या । ‘सून्नीयमिव’, ‘सूद्वाता’, ‘तैऽब्रुवन्’, ‘आदित्यो॑ऽस्मिन् ’ । इतरत्रोदात्तत्वम् । यथा ‘सविता प्रापयतु’, ‘दिवीव चक्षुः’ । अनुदात्त इति किम् ? ‘यन्नैका रशनाम् ’ । पदादाविति किम् ? ‘इमौ देवौ’ । उदात्ते विकल्पिते आन्तर्यादेव पक्षे स्वरिते सिद्धे स्वरितग्रहणमफलम् । न चैवम् ‘ते॑ऽमृत॒त्वम॑कामयन्त’, ‘गाङ्गेऽनूपे’ इत्यादावान्तर्यात् प्राप्तस्य स्वरितस्यासिद्धत्वाभावात्तमाश्रित्य . शेषनिघातः स्वादिति वाच्यम् ; बहिरङ्गत्वेन तस्य ‘असिद्धत्वसम्भवात् । ‘कन्यानूपे’ इत्यादौ स्वरितानुदात्तयोरेकादेशे आन्तर्यात् स्वरिते शेषनिघाताय बहिरङ्गत्वेनासिद्धत्वस्य अवश्याश्रयणीयत्वाच्चेति ॥ [८] ॥ युष्मदस्मदोर्डसि ॥ (6-1–211 ) अनयोरादिरुदात्तो भवति ङसि । ‘मम’ नाम तवं च जातवेद:’ । ‘युष्यसिभ्यां मदिक्’ इति मदिक्प्रत्ययान्ते । युष्मदस्मदी प्रत्ययस्वरेणान्तोदात्ते । ताभ्याम् ’ ’ युष्मदस्मद्भयां ’ युष्मदस्मद्भयां ङसोऽश’ इति अशादेशः । ‘तव’ ममौ ङसि’ इति तयोर्मपर्यन्तस्य तवममादेशौ । ‘शेषे लोपः’ इत्यन्तलोपः । ‘अनुदात्तौ सुप्पितौ’ इत्यनुदात्तेन विभक्त्यव रेण प्रकृत्यकारस्य ‘अतो गुणे’ इति पररूपैकादेशः ।
- असिद्धं बहिरङ्गमन्तरङ्गे इत्य- सिद्धत्वसम्भवात् छ.
- अवश्याङ्गीकर्तव्यत्वाच्च ख.
- ‘मम॒ नाम॑ प्रथ॒मं जातवेदः’ ग. क. छ. ताभ्यां ङसः ग. घ.
- तव ममौ पररूपैका- .. देशः घ. नास्ति ।
- मदिक्प्रत्ययातौ युष्मदस्मदोumar Col. Deoband. In Public Domain. । सू. १०]
परिभाषाप्रकरणम् ३९ तस्यैकादेशस्वरे प्राप्ते आद्यदात्तत्वाय’ अयमारम्भ इति हरदत्तः । यदापि ’ शेषे लोपटिलोपः इति पक्षः तदापि ‘अनुदात्तस्य च यत्रोदात्तलोपः’ इति विभकेरुदात्तत्वे तवममादेशाकारेणानुदात्तेन पूर्ववदेकादेशे एकादेशस्वर एव प्राप्त इति सर्वथैकादेशस्वरापवादोऽयं योगः । ङसि किम् ? ‘यस्याहमस्मि पु॒रोहि॑तः ’ ॥ [९] ॥ ङयि च ॥ (6–1–212) युष्मदस्मदोरादिरुदात्तो भवति ङेप्रत्यये परतः । ’ तुभ्यं ता अङ्गिरस्तम’ | ‘मह्यं त्वादु:’ । ‘ड़े प्रथमयोः’ इति डेरमादेशः । “तुभ्यमद्यौ’ इति युष्मदस्मदोस्तुभ्यमह्यावादेशौ । अत्रापि पूर्ववदेकादेशस्वरः प्राप्तः । योगविभागो यथासङ्ख्यशङ्कानिवृत्त्यर्थः ‘युष्मदस्मदोर्डस्डयोः’ इत्युक्तौ हि यथासङ्खयशङ्का स्यात् ॥ 1 [१०] ॥ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ॥ (8–1–27)
आष्टमिकमिदं सूत्रं विभज्य ‘तिङो गोत्रादीनि ’ इत्ययमंशो विधित्वेन, ‘कुत्सनाभीक्ष्ण्ययोः’ इत्ययमंशः परिभाषात्वेन व्याख्यातो भाष्यादौ । तत्र परिभाषांशे पूर्वभागात् ‘गोत्रादीनि’ इत्यनुवर्तते । तेनायमर्थ:-इह शास्त्रे तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्यविषयाण्येव ग्रहीतव्यानि – इति । तेन ‘चनचिदिव गोत्रादितद्धिताम्रेडितेष्वगतेः’ इत्यादौ एतत्सूत्रपूर्वभागे’ च कुत्सनाद्यर्थकस्यैव गोत्रादेर्ग्रहणं सिद्धम् । एकयोगत्वे तु प्रकृतसूत्र एव तथाविधस्य ‘ग्रहणं स्यात्, न तु ‘चनचिदिव’ इत्यादौ, इति योगविभागेन परिभाषात्वमाश्रितम् । एवं च ‘तिङो गोत्रादीनि’ इति विधीयमानं तिङः
- आद्युदात्तार्थः ङ.
ख. ग. घ. ज. सूत्रभागे ग. 5. गोत्रादेर्ग्रहणं ङ. 2. यदा तु ग. घ. 3. तुभ्यमह्यौ ङयि । अत्रापि
४०
स्वर सिद्धान्तचन्द्रिकायाम्
- [सू. १९ परेषां गोत्रादीनामनुदात्तत्वम्, ‘पचति गोत्रम्’, ‘जल्पति गोत्रम् ’ इत्यादौ यत्र भोजनार्थं गोत्रं ज्ञापयति’ तत्रैव भवति । ‘न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत्’ इति मनुस्मरणेन अत्र कुत्सनप्रतीते: । ‘जल्पति गोत्रमाचार्येण पृष्ठ:’ इत्यादौ न भवति, कुत्सनाद्यभावात् । एवं चनादिशब्देषु अगतेः परस्य तिङन्तस्य ‘तिङतिङ : ’ इति प्राप्तनिघातनिषेधः ‘चनचिदिव’ इ. क्रियमाणः उक्तरीत्या कुत्सनादिप्रतीतावेव भवतीति ॥ परतः (प) हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् ॥ परिभाषेयम् ‘समासस्य’ इति सूत्रे वार्त्तिककृता पठिता । फलं तु ‘समासस्य’ इत्यन्तोदात्तत्वस्य ‘विश्वामित्र जमदग्नी’ इत्याद्यजन्तेष्विव ‘अवभृथ जूषि’ इत्यादौ हलन्तेऽपि प्रवृत्तिः 1 अन्यथा योऽत्र समासस्यान्तः स नोदात्तधर्मयोग्यः, यच योग्यो नासौ समासान्त इति हलन्तेषु न समासस्वरः स्यात् । यद्युच्येत — उदात्तादिशब्दा इहाज्विशेषे संकेतिताः, ततश्च ‘अष्टन आ विभक्तौ’ इत्यादौ हल: स्थाने आकारविधिवदन्त्यस्य हल: स्थाने उदात्ताद्यविशेषविधिः सम्भवतिइति । एवमपि नेष्टसिद्धि: ; अन्त्यस्य हल: स्थाने उदात्तप्रसङ्गात् । अचः स्थाने चोदात्तादेशस्येष्यमाणत्वात् । व्यञ्जनस्याविद्यमानवद्भावे तु हलन्तेष्वप्यजेव शास्त्रदृष्ट्या अन्त इति सिद्धमिष्टम् । एवम् ‘वातो:’ इत्यन्तोदात्तत्वस्य ‘यज॒तेऽप्य॒न्यम्’ इत्यादौ हलन्तधातौ प्रवृत्तिरपि फलम् । अन्यथा भूप्रभृतिष्वजन्तेष्वेव तत् स्यात् । ‘एवम् ‘लिति’ इति प्रययात् पूर्वस्योदात्तत्वम् ‘जनता॑मे॒ष्यन् ’ इत्यादौ ’ ग्रामजन’ इति तत्प्रत्ययान्ते यथा भवति तथा ‘सदने सीद’ इत्यादौ ल्युडन्ते हव्यवधानेऽपि
- ज्ञापयतीत्यर्थः क. ङ, छ. ज.
- मनुस्मरणात् ग.
- इत्यादौ तु न ङ. ग.
- इति सूत्रेण 5. धातौ ग. ख. घ. नास्ति ।
- एवम् घ. नास्ति ।
सू. १०]
परिभाषाप्रकरणम् ४१ भवति, तस्याविद्यमानवत्त्वात् । तथा ‘त्रिनित्यादिर्नित्यम्’ इति यथा ‘औद्दालकिरकामयत’ ‘तदिष्टीनाम्’ इत्यादाविञन्ते क्तिन्नन्ते चाजादौ भवति, एवम् ‘साय॑कामिरुवाच’, ‘वृ॒ष्टिर्वै वि॒िश्वधा॑याः’ इत्यादौ हलादावपि भवति’, व्यञ्जनस्याविद्यमानवत्त्वात् अत्रापि अच एवादित्वादिति ।। अथ ‘स्वरविधौ व्यञ्जनमविद्यमानवत्’ इत्येवास्तु, इत्येवास्तु, हलिति किमर्थम् ? उच्यते । तथा सति ‘मरुत्वा इन्द्र’ इत्यादौ ‘हस्वनुडभ्यां मतुप्’ इति मतुबुदात्तत्वप्रसङ्गः, मरुच्छन्दतकारस्याविद्यमानवत्त्वेन ’ मतुपोऽत्र ह्रस्वात् परत्वात् । ‘हल्स्वरप्राप्तौ’ इत्युक्तौ तु उक्ततकारस्यात्र स्वराप्रसङ्गेन विद्यमानेन तेन व्यवधानेन ह्रस्वात् परत्वाभावान्न दोष:’ । ननु’ हल्ग्रहणे सति ‘दधि’ इत्यादौ ‘उदात्तादनुदात्तस्य’ इति स्वरितत्वं न स्यात्, धकारेण व्यवधानात् । तस्यात्र स्वरप्राप्त्यभावेनाविद्यमानबत्त्वाभावात् । तथा अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेव्र्व्यञ्जनान्ताच्च न स्यात् । ततश्च कुवल्या विकार: ‘कौवलम्’ इत्यत्र ‘अनुदात्तादेः’ इत्यञ् न स्यात् । ‘औदुम्बरम्’ इत्यादावेव तु स्यात् । ‘अन्तोदात्तादुत्तरपदात्’ इति विभक्त्युदात्तत्वं ‘परमवाचा’ इत्यादौ न स्यात् । ‘परमभूभ्याम्’ इत्यादावेव तु स्यात् । ‘स्वरविधौ व्यञ्जनम्’ इत्युक्तौ तु स्वरसम्बन्धी भवति सर्वोऽप्ययं विधिरिति व्यञ्जनस्याविद्यमानवत्त्वात् सिध्यतीष्टमिति चेत्-न; ‘उदात्तादनुदात्तस्य’ इत्यत्र - न विद्यते उदात्तो यस्मिन् स सङ्घातोऽनुदात्तः, तस्योदात्तात् परस्य स्वरितः - इति व्याख्यानादाद्यदोषाभावात् । ‘दधि’ इत्यत्र ‘धिशब्दस्य तादृशसमुदायस्योदात्तात् परत्वात् । न चैवं सङ्घातस्य स्वरितप्रसङ्गः । ‘आदेः परस्य’ इति ‘धि’ शब्देकारे तत्प्रवृत्तेः । ‘हल्स्वरप्राप्तौ’ इति धकारस्याविद्यमानवत्त्वात् । ‘स्वरविधौ सङ्घातः कार्यो’ इति परिभाषाभ्युपगन्तृमते तु वचनमेवात्र इष्टसिद्धयर्थमाश्रयणीयमित्याहुः । नापि द्वितीयो दोषः ; ‘नोत्तरपदेऽनुदात्तादौ ’ नास्ति । 4. न दोषः
- भवति घ. 2. अविद्यमानत्वेन घ.
- अविद्यमानवद्भावेन क. ख. ग. नास्ति ।
- अथ ख. ग. घ. छ. ज.
- दधिशब्दस्य क. ङ. ग. हव6
४२
स्वर सिद्धान्त चन्द्रिकायाम् [सू. १० इति देवताद्वन्द्वोभयपदप्रकृतिस्वरं प्रतिषिध्य ‘अपृथिवीरुद्रपूषमन्थिषु’ इति तत्प्रतिषेधाल्लिङ्गात् अनुदात्तादेः’ उच्यमानस्य व्यञ्जनादावपि प्रवृत्तेः । इयं च परिभाषा ‘यतोऽनाव:’ इति नौप्रतिषेधात् भाष्ये ज्ञापिता । स हि प्रतिषेधः ‘नौवयोधर्म’ इति यति नाव्यमित्यत्राद्युदासत्वाभावाय क्रियते । यदि च व्यञ्जनमविद्यमानवत्र स्यात्, तर्हि योऽत्रादिर्नकारः नासौ स्वरयोग्यः, यश्च योग्योऽकारः नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् । वृत्तिकारस्तु ‘स्वरविधौ व्यञ्जनमविद्यमानवत्’ इत्येव परिभाषा - मशिश्रियत् । ‘हस्त्रनुभ्यां मतुप् ’ इत्यत्रेयं’ परिभाषा नाश्रीयते । तेन ‘मरुत्वान्’ इत्यत्र न दोष इत्याह । अत्र च परिभाषानाश्रयणं वाचनिकमेवेति हरदत्तः । परिभाषेयमनित्येति ‘अ चावणं व्यच्च्यच्’ इति सूत्रे स एव । तत्र हि वृत्तौ ’ अवर्णमिति किम् ? बृहदर्मम्’ इति प्रत्युदाहृतम् । तत्र व्यञ्जनस्याविद्यमानवद्भावात् तद्दोषतादवस्थ्यं आशङ्कमानो हरदत्तः ‘अनित्यत्वात् ’ स्वरविधौ व्यञ्जनमविद्यमानवत्’ इत्यत्र न प्रवर्तते’ इत्याह । एवं चानित्यत्वादेव ‘मरुत्वान्’ इत्यादावियं परिभाषा न प्रतर्तत इति न तदर्थं वचनं कर्तव्यमिति बोध्यम् । अर्मशब्दे परेऽवर्णान्तं द्व्यच्त्र्यच् पूर्वपदमायुदात्तमिति ’ अर्मे च ’ इत्यादिसूत्रार्थः ॥ (प) स्वरविधौ सप्तम्यस्तदन्तसप्तम्यः ॥ स्वरविधौ सप्तम्यो यस्याः प्रकृतेः परत्वेनोत्पन्नाः तत्प्रकृत्यन्तस्य’ कार्यित्वबोधिकाः, न तु तत्प्रकृत्यर्थे परतः पूर्वस्य बोधिकाः । यथा ‘उपोत्तमं रिति’ इत्यत्र ‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति परिभाषया रिति परतः पूर्वस्य कार्यित्वं प्राप्तम् । अनया तु परिभाषया रिदन्ते उपोत्तममुदात्तमिति रिदन्तस्य कार्यित्वं बोध्यते । तेन जुहोतेर्बाहुलकादधिकरणेऽनीयप्रत्ययेन निष्पन्नस्य हवनीयशब्दस्य आङा सह गतिसमासे आहवनीयशब्दे कृदुत्तरपदप्रकृतिस्वरेण ईकारस्योदात्तत्वं सिद्धम् । इतरथा ‘त्र्यादीनामन्त्यमुत्तमं तत्समीपमुपोत्तमम्’ इति वचनात् अत्र रिति प्रत्यये परतः पूर्वत्रोपोत्तमाभावान्नायं स्वरः स्यात् । न चानीयरो रित्त्ववैफल्यम् । बह्रक्षु
- अनुदात्तायादेः ङ.
- इत्यत्र चेयं ग. ङ.
- तत्प्रकृत्यर्थान्तस्य ख. ग घ. घ. छ. ज. सू. १०]
परिभाषाप्रकरणम् ४३ धातुषु चरितार्थत्वात् । न चैवं ‘चतुरः शसि’ इत्यत्रापि शसन्तस्य कार्यित्वे तस्यान्तोदात्तप्रसङ्गः । ततश्च ‘चतुर: ’ पदः प्र॑ति॒दध॑त्’ इत्यादौ मध्योदात्तत्वं न स्यादिति वाच्यम् । ‘चतुर: शसि’ इति पृथग्योगकरणसामर्थ्यात् अत्रोक्तपरिभाषाप्रवृत्तेः 1 अन्यथा ‘ऊडिदं पदाद्ययुद्युभ्यः’ इत्यत्रैव ‘द्युचतुर्भ्यः’ इति चतुरशब्दमपि पठेत् । न चैवमत्र ‘असर्वनामस्थाने’ इत्यनुवृत्तेः शसतिरिक्तस्यापि असर्वनामस्थानस्योदात्तत्वप्रसङ्गः ; इष्टत्वात् । ’ षट्त्रिचतुर्भ्यो हलादि:’ इति सिद्धान्तेऽपि चतुरो हलादिविभक्तेरुदात्तत्वविधानात् । ‘झल्युपोत्तमम्’ इत्यनेन तु झलादौ विभक्तौ तद्बाध्यत’ इति । इदानीमपि तत्तुल्यम् । तस्मात् पृथग्योगकरणात् ‘चतुरः शसि’ इत्यत्रेयं’ न प्रवर्तत इति सिद्धम् । इयं च परिभाषा ‘भीहीभृहुमदजनदरिद्राजागरां प्रत्ययात् पूर्वम्’ इति सूत्रे पूर्वग्रहणाद्भाष्ये ज्ञापिता । तत्र हि ‘पिति’ इति सप्तमीनिर्देशादेव ‘तस्मिन्निति’ परिभाषया पूर्वस्य कार्यित्वे सिद्धे पुनः पूर्वग्रहणं पिदन्तस्य कार्यित्वव्यावृत्त्यर्थं क्रियमाणम् ’ स्वरविधौ सप्तम्यस्तदन्तस्य कार्यित्वबोधिकाः’ इति ज्ञापयति । न चैवम् ‘रित: ’ ‘चङः’ इति सर्वत्र षष्ठ्येवोच्चार्यताम्, तदाक्षिप्तविशेषणेन ‘येन विधिः’ इति तदन्तविधिनैव तदन्तस्य कार्यित्वसिद्धेरिति वाच्यम् ; लाघवाय सप्तमीनिर्देशादित्याहुः । इदं च ज्ञापकं यत्र तदन्तसप्तम्यां परसप्तम्यां च फलभेदः ‘रिति’ इत्यादौ तत्रैव’ | ‘‘चतुरः शसि’ इत्यत्र तु न फलविशेष इति न तत्र भवतीति केचित्’ । सार्वत्रिकमेवेत्यपरे ॥ स । (प) स्वरविधौ संङ्घातः कार्थी ॥ स्वरविधौ यः समुदायः कार्यभाक्तेन षष्ठ्यादिना निर्दिष्टः एव कार्यो, न तु ‘अलोऽन्त्यस्य’ इत्यादिना तदेकदेशः
- बाध्यत इतीदमपि तुल्यम् ग, 2. इत्यत्र नेयं परिभाषेति ख. घ. ङ. छ.
- सर्वत्र स्वरविधौ ख. ग. घ. छ. अधिकम् । ख. ग. घ.
- तद्विषयमेव ग. ङ. छ.
- ‘ञिनित्यादिर्नित्यम्’ इत्यादौ तु उभयथा न फलविशेषः ख. ग. घ.
- केचित् घ. नास्ति ।
1 ४४ 1
स्वर सिद्धान्तचन्द्रिकायाम् [सू. १० एवं च ‘अलोऽन्त्यस्य’ ‘आदेः परस्य’ इति स्वरविधौ न प्रवर्तत इत्युक्तं भवति 1 इयमपि परिभाषा ‘भीही’ इत्यत्रैव प्रत्ययग्रहणेन भाष्ये ज्ञापिता । तत्र हि ‘पिति पूर्वम्’ इत्येतावतैव प्रत्ययात् पूर्वस्योदात्तत्वं ‘सिद्धम्, पितः प्रत्ययस्याव्यभिचारात् । क्रियते तु पुनः प्रत्ययग्रहणं प्रत्ययात् पूर्वस्य चोदात्तत्वं यथा स्यात्, सङ्घातस्य मा भूदिति । यदि च स्वरविधौ सङ्घातः कार्यो भवति तन्निवृत्त्यर्थमिह प्रत्ययग्रहणमर्थवद्भवतीति भवति प्रत्ययग्रहणं ज्ञापकम् । सङ्घातस्य च तत्र कार्यित्वे पर्यायेणोदात्तत्वं’ ‘बिभेति’ इत्यत्र प्रसज्येतेति कैयटः । प्रयोजनं च ‘आसीन शयानः’ इत्यादौ ‘चित्स्वरात्तास्यादिस्वरो विप्रतिषेधेन’ इति वार्त्तिकोक्तविप्रतिषेधोपपत्तिरिति ‘तास्यनुदात्तेत्’ इत्यत्र ‘भीही’ इत्यत्र च भाष्यकैयटादौ स्थितम् । तथा हि’आसीनः’ ‘शयानः’ इति शानजन्ते ‘चित:’ इत्यन्तोदात्तापेक्षया परत्वात् तास्यनुदात्तेन्ङिददुपदेशात् लसार्वधातुकम्’ इति लसार्वधातुकानुदात्तत्वं भवतीत्युक्तविप्रतिषेधवार्त्तिकाशयः । अयं च विप्रतिषेधः ‘स्वरविधौ सङ्घात: कार्यो’ इति परिभाषाभावे नोपपद्यते । ‘आसीनः’ इत्यादौ ‘चित:’ इत्यन्तस्योदात्तत्वम्, ‘अदुपदेशात्’ इति पञ्चमीनिर्देशात् ‘तस्मादित्युत्तरस्य’ ‘आदेः परस्य’ इति लसार्वधातुकस्यादेरनुदात्तत्वमिति भिन्नविषयत्वेनाविरोधादुभयोः प्रवृत्तिसम्भवात् । न च ‘लसार्वधातुकम् ’ इत्यत्र षष्ठीनिर्देशाभावात् ‘आदेः परस्य’ इत्यस्य कथं प्रवृत्तिः इति वाच्यम्, ‘अदुपदेशात्’ इति पञ्चम्या ‘लसार्वधातुकम्’ इति प्रथमायाः षष्ठीप्रकल्पनात् । ’ आमि सर्वनाम्नः’ इत्यत्र सर्वनाम्न इति पञ्चम्या आमीति सप्तम्याः षष्ठीप्रकल्पनवत् । न च षष्ठीप्रकल्पनं’ सप्तम्यन्तस्येति नियमः, मानाभावात् । ‘दिवादिभ्यः’ इति पञ्चमी शबिति प्रथमायाः षष्ठीं प्रकल्पयतीति भाष्याच्च । तस्मात् स्वरविधौ सङ्घातस्य कार्यित्वाभावे उक्तरीत्या विप्रतिषेधोऽयमनुपपन्नः । तस्य कार्यित्वे चोपपद्यते । तदानीम् ‘आदेः परस्य’ इत्यस्याप्रवृत्त्या ‘आसीनः '
- सिद्धमपि ततः पूर्वस्याव्यभि- चारात् ख.
- भवति तदा ङ,
- पर्यायेणान्तोदात्तत्वं क. 4. - प्रत्यापत्तिः ख. -प्रक्लप्तिः छ.
सू. १०]
परिभाषाप्रकरणम् ४५ इत्यादावानस्य’ सर्वस्यानुदात्तत्वं प्राप्तम् । ‘चित:’ इति चान्तोदात्तत्वमिति तयोरेकविषयत्वेन विरोधात् । यत्तु ‘लसार्वधातुकमनुदात्तम्’ इति सामानाधिकरण्येनान्वयात् तत्रत्यस्य सर्वस्याचोऽनुदात्तत्वं सिध्यति । अनुदात्तत्वं च ’ चादयोऽनुदात्ताः’ इत्यादिवत् । ततश्च स्वरविधौ सङ्घातस्य कार्यित्वाभावेऽपि विप्रतिषेध उपपन्न इति, तदेतन्निरस्तम् । ‘तस्मादित्युत्तरस्य’ इति षष्ठीप्रक्लृप्त्या सामानाधिकरण्यायोगात् । स्वरविधौ सङ्घातस्य कार्यित्वादेव ‘किं धातोरन्त उदात्तः, आहोस्वित् आदि: ?’ इति भाष्यम्, ‘धातोरन्त उदात्त इति चेत्’ इत्यादि वार्त्तिकं च ‘धातो:’ इति सूत्रस्थं सङ्गच्छते । यदि ‘अन्तः’ इति वर्तते ‘कर्षात्वत:’ इत्यतः तदा अन्त उदात्त इति पक्षः, अथ निवृत्तं तदा क्रमानुलङ्घनात् आदिरुदात्त इति पक्ष इति भावस्तयोस्तत्र कैयटेन दर्शितः । एतच सङ्घातस्य कार्यित्वाभावे न घटते । ‘अन्त:’ इत्यस्य निवृत्तावपि ‘अलोऽन्त्यस्य’ इत्यन्त्यस्यैवोदात्तता स्यादिति पक्षान्तरानुन्मेषात् १ सङ्घातस्य कार्यित्वादेव ‘कर्षात्वत:’ इत्यत्र अन्तग्रहणं कृतम् । अन्यथा ‘अलोऽन्त्यस्य’ इत्येव सिद्धेस्तद्वैफल्यात् । एवं च ‘कर्षात्वत:’ इति सूत्रे यत् हरदत्तेनोक्तम्’अलोऽन्त्यस्य’ इति सिद्धे अन्तग्रहणमुत्तरार्थम् - इति, यच्च तदेव भाष्यरत्नावल्यामनूदितम्, यच्च ‘तित्स्वरित:’ सूत्रे तव्यप्रत्यये ‘अलोऽन्त्यस्य’ इत्यन्तः स्वरित इति स्वरकौमुद्यामुक्तम्, यदपि मनोरमायाम् ‘भीही’ इत्यत्र ‘न लुमताङ्गस्य ’ कौस्तुभे च – ‘भीही’ इत्यत्र पूर्वग्रहणाभावे तदन्तस्य कार्यित्वे प्रत्ययान्तानां भ्यादीनामुदात्त इति अलोऽन्त्यपरिभाषया प्रत्ययान्त एवोदात्तः स्यात् — इत्युक्तम्, यश्च ‘अनुदात्तं सर्वमपादादौ’ इत्यत्र वार्त्तिकं ‘सर्ववचनमनादेरनुदात्तार्थमिति चेत् ल्युटि प्रतिषेधात् सिद्धमलोऽन्त्यप्रसङ्गस्तु’ इत्यादि, यच्च तद्विवरणभाष्यं’, यदपि कैयटहरदत्तयोस्तत्र तदनुसरणम्, यच्च ‘अवुना’ इति सूत्रे - इमोश्भावो धुना च प्रत्ययः इति पक्षे ‘ऊडिदम्’ इत्यादिना विभक्तिस्वरः, स च ‘आदेः परस्य’ इत्यादेरिति इत्यत्र
- इत्यत्रासीनस्य सर्वानुदात्तत्वम् ग. 4. पक्ष इति क. नास्ति ।
- तद्विवरणपरं भाष्यम् ग. घ.
- सिद्धमिति ग. घ.
- प्रतिपत्त्या ख. ङ.
४६
स्वर सिद्धान्तचन्द्रिकायाम् मध्योदात्तत्वम् ‘अधुना’ शब्दस्य - इति हरदत्तेनोक्तम्, [सू. १० तेषामेतेषां ‘सङ्घातः कार्यो’ इति परिभाषाविरोधः कथमुद्धर्तव्य इति विपश्चिद्भिश्चिन्तनीयम् । अत्र केचिदाहुः - परिभाषेयं मास्तु, फलाभावात् । न चोक्तविप्रतिषेधोपपत्तिः फलम् ; ‘तास्यनुदात्तेत्’ इत्यत्र ‘कर्षात्वत:’ इत्यतः अन्तग्रहणस्य, ’ षट्त्रिचतुभ्र्यो हलादि:’ इत्यत आदिग्रहणस्य चानुवृत्त्या तांस्यादिभ्यः परस्य लसार्वधातुकस्यादिरन्तश्चोदात्त इति व्याख्यानात् लसार्वधातुकस्य सर्वस्यानुदात्तत्वप्राप्तौ विनापि परिभाषां विप्रतिषेधोपपत्तेः । यदि तु लसार्वधातुकस्य क्वचिद्बह्वच्त्वशङ्का तदा ‘झल्युपोत्तमम्’ इत्यत उपोत्तमग्रहणमप्यनुवर्तितव्यम् । एवं चानेनैवाभिप्रायेण सर्वोऽप्ययं ग्रन्थः प्रवृत्त इति न कश्चिद्विरोधः । ‘धातो: ’ इत्यादिसूत्रस्थभाष्यादयस्तु प्रौढिवादप्रवृत्ता इति । अत्र पक्षे ‘भीही-’ इत्यत्र प्रत्ययग्रहणमफलम्, ‘कर्षात्वत:’ इत्यत्रान्तग्रहणस्य, ‘तास्यनुदात्त-’ इत्यत्रानुवृत्तिः ’ फलम् । अनेनैवाभिप्रायेण तत्र हरदत्तेनोक्तम्’अलोऽन्त्यस्य’ इति सिद्धेऽन्तग्रहणमुत्तरार्थमिति | ॥ इति परिभाषाप्रकरणम् ॥
- विद्वद्भिः ग. घ. ज.
- अत्र ग. घ ङ नास्ति ।
- च ग. ध. ङ.
- अपि तत्रानुवर्त्यम् ग. घ. ङ. ज,
- अनुवृत्तिः ग.
घ. नास्ति ।