स्व र सिद्धान्त च न्द्रि का श्रीनिवासयज्वविरचिता ॥
॥ श्रीगुरुभ्यो नमः ॥ || स्वर सिद्धान्तचन्द्रिका ॥
- उपासितव्यमन्तरायशान्तये’ चिकीर्षता- प्युपासनं हि देवतान्तरस्य यत्पदाम्बुजम् । वयं तमेकदन्तमेव चिन्तितप्रदं नृणां विचिन्तयामहेतरां निरन्तरं हृदन्तरे ॥ १ ॥ सिद्धि: कार्यस्य निर्विघ्ना यदधीना विधेरपि । तदस्तु हस्तिवदनं वस्तु निःश्रेयसाय नः ॥ २ ॥ निःश्वसितं श्रुतिरखिला विश्वमिदं यस्य केवला लीला । तस्मै धाम्ने गिरिजामिश्रितवपुषे नमोऽस्तु कस्मैचित् ॥ ३ ॥ प्राणेष्ट व्याकरणं यदनुग्रहतो’ मुनिः कृत्स्नम् । यस्याभाषिष्ट महाभाष्यं भूषा भजे तमीशानम् ॥ ४ ॥ कराभ्यां कस्याश्चित् कमलनयनायाः परिसरे दृशोर्लीलाव्याजात् सपदि वलयन् केलिकमलम् । परागैस्तस्यास्यां मुकुलितदृशि स्वैरमपरा- मथालिङ्गन् हृष्टो दिशतु मदभीष्टं मुररिपुः ॥ ५ ॥ 1 *ज. पुस्तके उपक्रम एवं दृश्यतेशुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः । सेव्यतामक्षयो धीराः स श्रियै चामृताय च ॥ उपासितव्यमन्तरायशान्तये …
- -न्तये सदा सतश्चिकीर्षताऽप्यु- पासनं हि देवतान्तरस्य यत् । पदाम्बुजद्वयं तदेव चिन्तितप्रदम् . ग.
- सदा प्यु च. 3. हृदम्बुजे ख. 4. नित्यं हृदम्बुजे ख.
- -ग्रहलेशतो मुनिः ख. ग.
स्वर सिद्धान्तचन्द्रिकायाम् व्याकृतिनिर्माणचणान् प्रणमामि त्रीन् मुनीन् जगद्वन्द्यान् । गुरुमपि समष्टिमेषां वन्दे श्रीरामभद्रयज्वानम् ॥ ६ ॥ सङ्कृत्यन्वय सम्भवाच्छुभर्गुणाम्भोधेरनन्ताम्बया जाह्नव्येव पवित्रया क्षितितले संवर्धितश्रेयसः । जातः कृष्णविपश्चितो विधुरिव प्रीणन् बुधानात्मना ’ सन्मार्गांभिगमोज्ज्वलो विजयते स श्रीनिवासः सुधीः ॥ ७ ॥ पदवाक्यप्रमाणानां पारावारीणबुद्धिना । तेन शुश्रूषितानेकगुरुलम्भितसिद्धिना ॥ ८ ॥ तैत्तिरीयकशाखानुसारिणी विदुषां मता । विरच्यते धियः शुद्धयै स्वरसिद्धान्तचन्द्रिका ॥ ९॥ कष्टं व्याकरणं पतञ्जलिरपि प्राह स्म तत्राप्यसौ दुर्ज्ञाना मतिमद्भिरव्यतितरां कष्टा स्वरप्रक्रिया | चैषा सा क्व मलीमसा मम मतिर्मन्दा तथाप्युत्सहे यन्मह्यं दयतेतरां निरुपधिश्रीरामभद्रो गुरुः ॥ १० ॥ निश्चित्य स्वरशास्त्रतत्त्वमखिलं भाष्यादिभिर्भास्करा- चार्याद्यारचितं विभाव्य सुचिरं भाष्यं श्रुतीनामपि । यच्चाकाङ्क्षितमत्र नैव कथितं तत् प्रातिशाख्यादितः संगृह्य ग्रथिता मुदेऽस्तु विदुषामेषानवद्या कृतिः ॥ ११ ॥ न्यक्कृतपूर्वनिबन्धा सत्कृतसत्संप्रदायरमणीया । कस्य न मोदं तनुते कृतिरेषा मृदुपदावलीरचिता ।। १२ ।। आम्नाये ये प्रवीणाः परिचयरहिताः प्रायशस्ते पदाब्धौ ये स्युस्तत्रापि दक्षाः शिथिलपरिचयास्ते स्वरप्रक्रियायाम् । ईर्ष्यान्धाः केऽपि तत्राप्यधिकपरिचराः किन्तु सन्तोऽनसूयाः पृथ्व्यां पृथ्यां भवेयुः कतिचन सफलो यत्र यत्नो मदीयः ॥ १३ ॥
- -गुणमहाम्भोधेः ख. ग. घ. च. छ.
- -नां मनः घ.
-
- माणज्ञ- क.
- माणाब्धि - ग. घ. ङ. च. ज. 4. किं न ग.
आरम्भणप्ररकणम् अथात्र स्वरसूत्राणां ‘संख्यां प्रकरणान्यपि । बुद्धेर्विशुद्धये पद्यैरमीभिः प्रतिपादये || १४ || चतुःसहस्री सूत्राणां पञ्चसूत्रीविवर्जिता । अष्टाध्यायी पाणिनीया सूत्रैर्माहेश्वरैः सह ॥ १५ ॥ सप्ताशीत्यधिका तेषु त्रिशती सौवरी मता । पञ्चैकादश ’ वा ज्ञेयाः स्वरयोगा उणादिषु ॥ १६ ॥ संख्या फिट्सूत्रसूत्राणां विज्ञेयाशीतिरष्ट च । त्रिंशत्सूत्री प्रातिशाख्यात् संगृहीतात्र’ सौवरी ॥ १७ ॥ सम्पद्यते पञ्चशती मेलनात्’ षोडशाधिका । सैषा पञ्चशती स्पष्टमत्र ग्रन्थे विविच्यते ’ ॥ १८ ॥ संख्योदात्तादिपदवत्सूत्राणामियमीरिता । ङीन्ङीषादिविधायीनि सूत्राणि सुबहून्यपि ॥ १९॥ स्वरैक फलकान्येवं ‘गणसूत्राणि कानिचित् । सन्ति सूत्राण्युदात्तादिनिपातनपराण्यपि ।। २० ।। वार्त्तिकानि प्रसिद्धानि सौवराणि बहून्यपि । किं बहुना श्रुतिरखिला ब्रह्माद्वैतैकतत्परा यद्वत् । तद्वद्वाकृतिरखिला स्वरबोधैकप्रयोजना जयति ॥ २१ ॥ द्वादशात्र प्रकरणान्याद्यमारम्भणं कृतेः । उपोद्घातान्यथ त्रीणि तेष्वाद्ये प्रतिपादितः ॥ २२ ॥ उदात्तादेः स्वरूपादिः परिभाषा द्वितीयके । तार्तीयके तु सर्वत्रापेक्षितः संहितास्वरः ।। २३ ।।
- संख्याप्रकख. ग. ङ.
- मेलने ख. ग. ङ.
- -दशधा च.
- -ता च सौवरी ख.
- ग्रन्थेऽस्मिन् परिदृश्यते । इत आरभ्य निरूप्यते ङ.
- गुण- गुणख.
- -त्तानां क. उच्चैरुदात्तः पर्यन्तम् ङ. च. नास्ति । 9. - केऽपि ङ.
स्वरसिद्धान्तचन्द्रिकायाम् अथाष्टसु प्रकरणेष्वष्टौ व्युत्पादिता अमी । । धातोः स्वरः प्रत्ययस्य समासस्य फिषस्तथा ।। २४ ।। सर्वानुदात्तभावश्च सुबन्तानां तिङामपि । स्वरः प्लुतानामप्येकश्रुतिश्चेति यथाक्रमम् || २५ || अवान्तरप्रकरणान्यत्र सन्ति बहून्यपि । विनित्स्वरादयस्तेषु व्युत्पाद्या इति संग्रहः ॥ २६ ॥ सौदरी प्रक्रियां पूर्वे न सम्यग्व्युदपीपदन् । तथा हि तावद्वृत्त्यादौ वैदिकोदाहृतिर्न हि ।। २७ ।। वेदे हि सम्प्रदायेन प्रथते नियतः स्वरः । लोके हि पाठनैयत्यं’ तस्य नेति च वक्ष्यते ॥ २८ ॥ विप्रकीर्णा च सा तत्र यथासूत्र यथायथम् । नापि सिद्धान्तकौमुद्यां कात्स्न्येनैषा निरूपिता ॥ २९ ॥ सन्त्येव दुष्परिहरा दोषास्तत्रापि पञ्चषाः । अदोषानेव तान् मन्ये गच्छतः स्खलनं यथा ॥ ३० ॥ अथ दोषाः कतिपये गण्यन्ते स्वारमञ्जराः । अपेक्षितस्यावचनमनपेक्षितकीर्तनम् ॥ ३१ ॥ तथाभाससमाधानमनाशङ्क्यस्य शङ्कम् । अपसिद्धान्तकथनं तथानन्वितकीर्तनम् ॥ ३२ ॥ परस्परविरुद्धत्वं स्वोक्तीनामेव च क्वचित् । व्युत्क्रमेण च सूत्राणां कथनं निष्प्रयोजनम् ॥ ३३ ॥ अनाञ्जस्यं विभागस्येत्याद्या दोषाः परिस्फुटाः । बहूनां पाणिनीयानां सूत्राणामविवेचनम् ॥ ३४ ॥ फिट्सूत्रस्यावर्णनं चापेक्षितानवबोधनम् । न च वेदोदाहरणमेषां नेत्यविवेचनम् ॥ ३५ ॥
- लोके न पाठनैयत्यं ख. ङ. लोके न पाठो नैयत्यं ग. घ.
आरम्भणप्रकरणम् उदाहरिष्यमाणत्वाद्बहूनामेष्वपि श्रुतौ । उदाहृतय’ एता हि वेदभाष्येऽप्युदीरिताः || ३६ | द्वन्द्वो नैकाधिकरणवचनो युगपद्भवेत् । इत्यादिसाधनं यत्तदनपेक्षितकीर्तनम् || ३७ ॥ न हि कश्चिद्विशेषोऽस्माद्विचाराद्विद्यते स्वरे । स्थानिवन्नागमादेशो भवेदिति यदीरितम् ॥ ३८ ॥ यत्रैव देवताभाव’ एकस्मिन् हविषि द्वयेः । तत्रैव देवताद्वन्द्वस्वर इत्यपि जल्पितम् ॥ ३९ ॥ बह्वेवमादिकं ज्ञेयमपसिद्धान्तकीर्तनम् । अन्येऽपि दोषास्तद्ग्रन्थद्रष्टृभिः सुगमा इति ॥ ४० ॥ वक्ष्यते चोत्तरत्रेति क्रियते नात्र विस्तरः | ये दोषाः स्वरमञ्जर्यं ते तद्विवरणेऽपि च । ४१ ।। अतः प्रचोदयति मां कृतावस्यां गुरोः कृपा । विद्वांसः श्रोतुमिच्छन्तु तामेतां वीतमत्सराः ॥ ४२ ॥ ॥ इत्य् आरम्भणं नाम प्रथमं प्रकरणम् ॥ -:0:-
- उदाह्रियन्त ग. 2. देवताद्वन्द्वः ग.
-
- मर्हन्तु ख. ग. घ.
- मर्हन्ति ङ.