‘शब्दः प्रकृतिः सर्ववर्णानाम्’ ( तै. प्रा. xxii. 1.) ‘सर्ववर्णानां शब्दः – ध्वनिः - मूलकारणं भवति’ (त्रिभाष्यरत्नम् ) द्वयी शक्तिर्मनुष्यस्य वर्णोत्पादने ध्वन्युत्पादने च । ध्वनिः प्रथमं व्यवहारसाधनम् तमनुकर्तुं प्रयतते । प्रभवति तत्र जननसमकालमेत्र स वर्णोत्पादनसमर्थो न जायते तदनन्तरमेव तु पूर्वजातानां व्यवहारेषु क्रमेण व्युत्पद्यमानः स्वयमपि तथा यतमानोऽपि न झटित्येव तस्मै तत्सामर्थ्यमात्मनि पुनःपुनरभ्यस्यंस्तु कालेन विन्दति । नैवं ध्वनौ, जात एव हि शिशुः क्षुधाद्युपद्रुतो रौति । उपद्रवे उत्कटे अल्पे वा तदनुगुणं ध्वनिमपि उच्च नीचं वा जनयति । अतोऽस्य तदुत्पादनशक्तिः सहजा निरपेक्षा च । वर्णोत्पादनसामर्थ्यं पुनरभ्यासाधेयम् । सहजशक्तिश्च आधेयशक्तेः पूर्वमेव कार्यकरणाय अलमिति वर्णोत्पत्तेः पूर्वभावी ध्वनिः’ ।। अत एव वर्णोच्चारणशक्तिहीना अपि तिर्यञ्चः बालमूकादयश्च । दृश्यन्ते शब्दैकसाध्यान् व्यवहारान् ध्वनिभिरेव व्यवहारान् ध्वनिभिरेव निर्वर्तयन्ति हि पशुपक्ष्यादयः सजातीयानाह्वातुम्, शज्यागमनमन्यानवगमयितुम्, अन्यैः पराभवे स्वेषाम् उपद्रवं बोधयितुं च नियतान् ध्वनीनाश्रयन्तः, तत इतरेषां प्रवृत्तिनिवृत्त्यादयश्च जायमानाः । तथा बालमूकादयोऽपि परस्परसमागमे जाते न शिलापुत्रका इव आसते, किन्तु कथञ्चित् ध्वनिभिर्बोधयन्तो बुध्यन्तश्च ॥
- ‘बिन्दास्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मकोऽभवत् । स एव श्रुतिसम्पन्नैः शब्दब्रह्मेति गीयते ॥ ’ प्रपञ्चसारः पटल:, १.४३. स्व A
ii एवं भाषणसमर्थानामपि तैर्व्यवहारे चिकीर्षिते स एव पन्थाः । न हि विद्वानपि स्वं बालमग्निमन्यबुद्धया आदित्सन्तं निषेधन् स्पष्टा वाचः प्रयुङ्क्ते विना ‘हूँ हूँ’ ‘हो हो’ रूपैर्ध्वनिभिः । एवमेव गवाश्वादिष्वपि आह्वानापसारणप्रोत्साहनादिहेतोः अन्येऽन्ये ध्वनयो मानुषैः प्रयुज्यन्ते । यद्यपि केचित् गृहीतशक्तिकेष्विव तेष्वपि वाचकान् शब्दान् प्रयुञ्जाना दृश्यन्ते, तथापि तैरन्यत्रेव गवाश्वादिषु बोधाजननात् न ते ध्वनिभ्यः फलतो विशिष्यन्ते । 2 2. वाचं देवा उपजीवन्ति विश्वे । वाचं गन्धर्वाः पशवो मनुष्याः ॥ (तै. व्रा. २. ८. ८. ४) पशूनामपि ‘हम्भा ‘रवादिरूपया वाचैव व्यवहारो दृश्यते " अभ्यासात् प्रतिभाहेतुः शब्दः सर्वोऽपरैः स्मृतः । बालानां च तिरश्चां च यथार्थप्रतिपादने || साक्षाच्छब्देन जनिता भावनानुगतेन वा । इतिकर्तव्यता या तां न कश्चिदतिवर्तते ॥ समारम्भाः प्रतीयन्ते तिरश्चामपि तद्वशात् । (भ. भा. भाष्यम्) ( वाक्यपदीयम् का. २. श्लो. ११९. १४८. १४९.) “येऽप्यविदितसङ्केता अमी बाला: जडप्राया वा तिर्यञ्चः, तेषामप्यनादिवासनावशात्तदर्थः प्रतीयमानो दृश्यते शब्दः । तथा च जडानामपि प्राणिनां नियतपदः शब्दः सम्बोधनायेोदीयते । तेन प्रतिनियतजात्यनुसारेण काचित् प्रतिभा बोध्यते इति तन्मूल एव सर्वः कश्चित्तेषां व्यवहारः । इयं प्रतिभा सर्वप्राणिसंवेद्या शब्दनिमित्ता सकलव्यवहारमूलभूता अनपह्नवनीया । तदपह्नवे स्वात्मैव विप्रलभ्यते " सा कदाचित् साक्षाच्छन्देन कदाचिद्भवहारकाले जन्यते गजवाजिप्रभृतीनाम् । तन्मूल एव इतिकर्तव्यतारूनः सर्वस्य व्यवहारः (( دو ( पुण्यराज : - वाक्यपदीयव्याख्याता) “The use of admonitory calls is by no means limited to the lower animals. We ourselves make use of natural cries and ejaculations in dealing with little children who have not yet learned to talk. (De. Laguna, Speech, its Function and Development, p. 78.)
111 प्रयोक्तारोऽपि न तथा बोधजननमभिप्रयन्ति ; किन्तु प्रेमक्रोधादिभिः अविमृशन्तः तथा आचरन्ति । अत एव अन्ये एतादृशान् उपहसन्ति कदाचित् । स्वापत्येषु च पित्रोः साधारण ईदृशः शब्दप्रयोगः । किं बहूक्त्या ? भाषया चेष्टया वा असिद्धयत्सु व्यवहारेषु भाषणशक्तानामपि ध्वनय एव विलक्षणा व्यवहारसाधनम् । अत एव भाषातत्त्वविमर्शका ध्वनिभ्य एव भाषां जातामभ्यूहन्ते ॥ तथा उत्पन्नायामपि भाषायाम् अव्यक्तध्वनयः तया सहैव वर्तन्ते व्यवहारे । स्वाभाविका हि ते । दृश्यन्ते हि ध्वनेः भाषासह भावित्वं सहकारित्वं च 3. मनुष्याः कुष्टास्तुष्टा भीता वा भाषितुमप्रभवन्तः अव्यक्तान् ध्वनीनेव जनयन्तः । अत एव • Man, in the same way as all other animals, gives vent to his feelings in tones’. “to accquire something like language, starting with instinctive cries and violent gestures called forth by strong emotions.” (Otto Jesperson, Language, its Nature, Development and Origin, p. 27.) “It is through a specialisation and differentiation of these two functions of the cry that speach arises.” " “ Speach has arisen through a “cross fertilization” of instinctive cries.” (De. Laguna, op. cit. pp. 75, 81. ) 4. “Between interjections and word there is a chasm wide enough to allow us to say that the interjection is the negation of language, for interjections are employed only when one either cannot or will not speek (Benfey). This chasm is also shown phonetically by the fact that the most spontaneous interjections often contain sounds which are not used in language proper, voiceless vowels, inspiratory sounds, clicks etc., whence the impossibility properly to represent them by means of our ordinary alphabet.” Otto Jesperson, op, cit. p. 415. ‘They (howls of. pains and grunts of satisfaction or dissatisfaction) are the most immutable portions of language, and remain now at essentially the same standpoint Ibid. p. 433, asdhousands of years ago. Kumar Col. Deoband. In Public Domain.
iv अव्यक्तध्वनिसरूपाः च भाषासु सर्वासु ’ हा ’ ’ ही ‘प्रभृतयः निपाताः बहुलमुपलभ्यन्ते अवयत्रार्थशून्याः । न केवलं ते अवर्जनीयाः, आवश्यकाश्च । तथा हि-त्रिचतुरेषु पुरुषेषु ज्वरादिपीडितेषु ‘कीदृशी वो व्यथा’ इति पृष्ठे, सर्वेऽपि ’ सुदुरलहा’ इत्युक्त. रयन्ति । अभ्युपगच्छामश्च कार्यार्थं न समाना सर्वेषां व्यथा इति । तत्र किं तैः प्रयुक्तेन शब्देन तेषां व्यथाविशेषोऽवगम्यते । सर्वैरेकजातीयस्य शब्दस्यैव प्रयोऽगात् न तस्मात्तारतम्येनार्थावगमः शक्यशङ्कः । । तेषामव्यक्तैर्ध्वनिभिस्तु मृदुतीत्रादिभिः पीडायास्तारतम्यं स्ववगमम् । एवं हर्षशोकभीत्यादयोऽपि तैस्तैः ध्वनिभिरवगम्यमाना इव न हर्षादिशब्दैस्तरतमादिप्रत्यय सहकारेणापि यथावदवगन्तुं शक्याः । तस्माद्विलक्षण कार्यकारित्वादावश्यका अपि ते ॥ यद्यपि इतोऽपि महत्तराणि भाषासाध्यानि प्रयोजनानि यानि ध्वनिभिरव्यक्तैः कथमपि न निर्वर्त्यन्ते । तद्यथा-बालं रुदन्तं शृण्वती माता भाषाया ध्वन्यपेक्षया उत्कर्ष: तं क्षुधितं मन्वाना स तु अधयन् रोरुद्यते । । तत्र च मात्रा पयः पाययति । तदीया दुःसहा पीडा अवगता भवति । यावच्च तन्निमित्तम् ज्वरः, उदरशूलम्, कीटादिदंशो वा न निश्चीयते चिकित्सा दुष्करा तावत्तस्याः चिकित्सा भवति । तत्र च व्यक्तां वाचमन्तरा ध्वनिसहस्रेणापि तदवगमः किं सम्भाव्यते । तया तु सा व्यथा, तन्निमित्तम्, अन्ये च तदनु गन्धनः सर्वे विविच्य ज्ञायन्ते । किञ्च ध्वनयः सर्वेऽपि तदातनान् हर्षशोकभयादीन् बोधयन्ति ; तत्कार्यत्वात्तेषाम् । कारणेध्वतीतेषु तु स्वयमप्यतियन्तः पूर्वजातं वृत्तं बोधयितुं सर्वथा न प्रभवन्ति । तथा च मनुष्याणामतीतानागतविज्ञानोपायाभावादान्ध्यमेव तद्विषये जगत: स्यात् । अत एव वाचं प्रशंसन् दण्डि: ’ इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरा संसारान्न दीप्यते ॥ 5. काव्यादर्शः, १.४.
V इति अभ्यधात् । तस्मात् स्वावगतानामर्थानां परावबोधनम्, तदवगतानां च तेभ्यः स्वेनावगमः, इत्यादि भाषामात्रसाध्यम् ; तथापि भाषा यथा व्यवहारं सुष्ठु तत्तत्कार्यानुगुणैर्द्धनिभिरुपक्रियमाणा निर्वर्तयेत्, न तथा तैर्विरहिता इति तेऽपि भाषायाः सहकुर्वन्त्येव || सर्वापि भाषा उपक्रमे एकरूपापि देशकालावस्थानुगुणं भिद्यत इति भाषातत्त्वविमर्शकाः, अनुभवश्च 1 भाषाया इव ध्वनेरपि विपरिणाम: तथा हि-
- प्राकृता यान् शब्दान् बहुलं प्रयुञ्जते, अर्थसाम्येऽपि तदितरे न तान् प्रायः उपाददते । तथा एकरूपेष्वपि शब्देषु तैः प्रयुज्यमानेषु उच्चारणे महदन्तरमुपलभ्यते । प्रतिपादनरीतिरपि विलक्षणैव प्राकृतजनापेक्षया तदितरेषु । अत एव एकामेव भाषामुपयुञ्जानेषु पुरुषेषु पूर्वोक्तवैलक्षण्यात् ‘अयं विद्वान्, अविद्वान्, देशान्तरादागतः, एतद्देशीयः, ग्रामीणः, नागरिकः’ इति जानन्ति तद्विदुः । एवंविधवैलक्षण्यहेतवश्च एकस्मिन् बुधजनसम्प्रयोगः, तदधीनं परचित्त- विज्ञानकौशलम्, तद्वतानां सङ्क्रमः, इत्यादयः 1 ‘गुणांनां अन्यस्मिन् एतेषामभावः । इमे च न साक्षादेव भाषां विशिषन्ति, किन्तु पुरुषान् संस्कुर्वन्तः । ते च संस्क्रियमाणाः क्रमेण शव्देष्विव मनोविकारेषु च क्रोधहर्षभीत्यादिषु इतरेभ्यो विशिष्यमाणाः क्रमेण तान्निरुन्धते । ततश्च तदभिव्यञ्जकानां ध्वनीनामपि तेषु भेदो जायते । यथा हि बालाः प्राकृताश्च अल्पेनैव लाभेन तुष्यन्ति स्तोके च शोकहेतौ विलपन्ति, नैवं युवा, विद्वान् वा । तस्मात्तेषु भाषावैलक्षण्यमिव तत्सहकारिध्वनिवैलक्षण्यमपि स्पष्टम् ॥ एवं वर्धमानयोः ध्वनिभाषयोः, पुरुषाः अर्थावबोधनमात्रेण अपरितुष्यन्तः अर्थविशेषबोधनाय शब्दविशेषान्, तत्सन्दर्भप्रकारांश्च गद्यपद्यात्मिकान्, अर्थेषु नियतो ध्वनिः सौकुमार्यहेतुः च प्रतिपिपादयिषितेषु वैचित्री
उदलि-
vi खन् यथा ; एवं तदुच्चारणसौकुमार्यादिहेतोर्ध्वनिविशेषानपि नियमयामासुः । दृश्यन्ते हि नियतध्वनिसहकारेण प्रयुज्यमानान् शब्दान् श्रुत्वा अर्थमजानन्तोऽपि तृप्यन्तः 1 व्युत्पन्नानां तु अर्थतः श्रुतिमाधुर्याच्च द्विगुण आह्लादः । अत एव बहुषु भाषमाणेषु पठत्सु वा एक: श्रोतॄंस्तथा आवर्जयति यथा सन्दर्भानुगुणं ते रुदन्ति, क्रुध्यन्ति, नृत्यन्ति च अन्यस्तु सन्तमप्युत्साहं श्रोतृषु भञ्जयति । एवं नियम्यमाना ध्वनयः अर्थोपसर्जनं स्वप्रधानाश्चेति द्विधा भिद्यन्ते । तत्र यदि स्वप्रधानाः ध्वनयः तदवान्तरभेदेषु क्रमकालनियमश्च आद्रियते, तदा ते गीतयो भवन्ति । अर्थोपसर्जनत्वे तेषाम्, पूर्वोक्तक्रम कालनियमस्य अर्थप्रतीतिविलम्बाधायकत्वात्तत्प्रतिबन्धकत्वाच्च कदाचित्, ततोऽन्यो नियमो भाषासु ध्वनीनामाश्रीयते । यद्यपि स्वभावादेव तत्तदवस्थानुसारेण ध्वनिः प्रयोक्तृषु भिद्यते, तथापि शब्दानां कार्यानुगुण्येन एकः अनेको वा प्रयोक्ता स्यात् । तत्र यदि बहवः समुदिताः शब्द प्रयुञ्जीरन् भिन्नभिन्नैर्ध्वनिभिः, तदा न केवलं श्रुतिसुखम्, किन्तु विपणिकोलाहलवद्दुश्रवः शब्दसङ्घातः स्यात् । तादृशाश्वावसराः विवाहगोष्ट्यादयः पुरुषाणामवर्जनीया इति सर्वसाधारणः कश्चिन्नियमः एषितव्यः, यस्मिन् सति पूर्वोक्तदोषाभावः विशेषश्च सिध्यति ॥ स च नियम. ध्वनयः स्वरपदवाच्याः नानाविधाः एकस्यां न सर्वासु भाषासु एकविधः स्यात् ; भिन्नरुचित्वाल्लोकस्य । यस्य हि यत् स्वदते न तदन्यस्य तथा । सौन्दर्यं हि पुरुषबुद्धिनिष्ठं न वस्तुनिष्टम् । अतो यथा विशेषाः न सेवासु, भाषायाम् उपलभ्यमानाः यथा 6. In singing the vocal cords are stretched carefully, so as to give the same note for a certain length of time (sometimes short, sometimes long). But in ordinary speech there is no fixed adjustment. The degree of stretching is constantly varying. So that the pitch does not remain the same, even for very small moments of time. cc-o. Shir Diravillear. bandi Giicomadhecch, p. 20 16 Domain.
vii संस्कृते उपलभ्यमानाः द्विवचनस्वरभक्तिऌकारादयः · यथा वा द्रविडभाषायाम् उपलभ्यमानः ‘७’कार: ; एवं ध्वनिनियमोऽपि यथारुचि भिद्येत । सोऽयं नियमभेदः पूर्वोक्तप्रयोजनवशात् वर्णपदवाक्येषु तासुतासु भाषासु निविशमान: स्वरपदवाच्यः अभूत् इति कार्यसादृश्यादनुमीयमानं न दुष्यति । यथा च क्रोधहर्षभयनिन्दासूयादयो ध्वनिवैलक्षण्येन बुध्यन्ते, यथा ‘सुभाषितम्’ इति पदं ध्वनिना एकेनोच्चार्यमाणं निन्दां बोधयत् अपभाषिते पर्यवस्यति, ततोऽन्येन प्रश्नम, ततोऽपरेण उत्तरम्, ततोऽपि भिन्नेन श्लाघाम् नद्विलक्षणेन असूयाम्, च गमयति । एवम् ’ तिष्ठ तिष्ठ ’ इति पदद्वयमादरातिशयम्, तर्जनादिकं च, तथैव आद्युदात्तान्तोदात्तमध्योदात्तादिभिः स्वरैः ते ते अर्थाः अवगम्यन्ते इति पाणिनीयैः स्वरसूत्रैरवगम्यते । तथा च सूत्राणि - सत्यं प्रश्ने । (8.1.32.) स्वरितमाम्रेडितेऽसूयासम्पतिकोपकुत्सन भर्त्सनेषु । (8.2.103.) अनुदात्तं प्रश्नान्ताभिपूजितयोः । ( 8.2.100.) एहि मन्ये प्रहासे ऌट् । (8. 1. 46.) नन्त्रित्यनुज्ञैषणायाम् (8. 1. 43.) अङ्गाप्रातिलोम्ये । (8. 1.33.) आक्रोशे च 1 (6. 2. 158.) चेलखेटकटुककाण्डं गर्हायाम् । (6.2.126.) राजा च प्रशंसायाम् । (6. 2. 63.) क्षेपे । (6.2.108.) इत्यादीनि ॥ इमानि हि स्वाभाविकांश्चित्तविकारान् निमित्तीकृत्य स्वरभेदाक्रमेण व्यवहारपथावतरणमन्तरा जातानवगमयन्ति । तेषां च एकपद एव कैश्चित् पुरुषैः कृत्रिमतया कल्पनं न सम्यग्बुद्धिपथमारोहति । अतः शब्दविशेषेषु चित्तविकारानुगुण्येन ध्वनयो नियता - Vipin इलिar युच्छ लेand.th Public Domain. स्वरप्रयोजनानि
viii एवं भाषासु लब्धपदानां ध्वनीनामन्यान्यपि प्रयोजनानि लाघवादीनि । यथा- (1) प्रयत्नगौरवमन्तरा संकुचितैः शब्दैरर्थप्रतिपादनं सर्वजनसमीहितम्, विशिष्य तु बुधानाम् । प्रश्नावधारणादयश्च किंशब्दैवकारादिभिः प्रतिपादनीया: ‘गच्छति किम् ?’ ‘गच्छत्येव न तिष्ठति’ इत्यादिषु । तत्र विनापि तत्र विनापि तान् शब्दान् स्वरविशेषेण तदवगमे सम्भवति वृथाश्रमाधायकैः किं तैः ? एवमेव निन्दालाघादयोऽपि विनैव शब्दप्रयोगं स्वरतोऽवगम्यन्त इति लाघवम् ।। (2) सर्वत्र भाषासु नानार्थकाः शब्दा बहुलमुपलभ्यन्ते । ते च विना तात्पर्यनिर्णयम् अर्थविशेषबोधकतया निश्चेतुमशक्याः तात्पर्यावधारणं च प्रकरणादिभिः उपायैः सम्पाद्यम् । ते च कदाचिन्न निर्णायका भवेयुः साधारण्यात् । स्वरस्तु शब्दगतोऽन्तरङ्गः तन्निर्णायको भवति इत्यर्थविशेषावगतिरपि फलम् तथा च महाभाष्ये पस्पशायाम् ’ - “ याज्ञिकाः पठन्ति ‘स्थूलपृषतीमाभित्रारुणीम नड्डाहीमालभेत ’ इति I तस्यां सन्देहः स्थूला चासौ पृषती च स्थूलपृषती, स्थूलानि पृषन्ति यस्याः सेयं स्थूलपृषतीति । तां नावैयाकरणः स्त्ररतोऽध्यवस्यति । यदि पूर्वपदप्रकृतिस्वरत्वम्, ततो बहुव्रीहिः, अथ समासान्तोदात्तत्वम्, ततस्तत्पुरुषः” इति ।। तथा उपनिषत्सु द्वैताद्वैतविशिष्टाद्वैतपरतया सर्वैर्व्याख्यातासु तात्पर्यनिर्णायक साहाय्यमन्तरा कुत्र तासां तात्पर्यमिति निर्णयः दुर्लभः । तत्र स्वरैर्महानुपकारः सिध्यति ; यथा - ’ आत्मा तत्त्वमसि’ इति महावाक्ये तदिति पदं केचिच्छिन्दन्ति, अन्ये अतत् इति । तत्र तकाराकारश्चेदुदात्तः तत् इत्येव पदच्छेदः, स चेत् स्वरितः अतदित्येव च्छेदो युक्तः । एवमेव बहुत्र श्रुत्यर्थनिर्णयः स्वरायत्तो वर्तते । 7. Nirnaya Sagar Edition, Vol. II, p. 24 8. यदब्रवीत् स्वाहेन्द्रशत्रुर्वर्धस्वेति तस्मादस्येन्द्रः शत्रुरभवत्. तै. सं. 2. 5.2. दुष्टः शब्दः स्वरतो वर्णतो वा…। म भा N. S. Edition, Vol. I, p. 27.
ix सर्वासूपनिषत्सु अध्ययनसिद्धत्वाभावात् परन्तु इदानीं स्वरस्य प्रमाणान्तरैस्तात्पर्यनिर्णयः क्रियते ॥ (3) तथा स्वरविशिष्टस्य शब्दस्योच्चारणे अदृष्टविशेषमपि फलं मीमांसका इच्छन्ति ॥ (4) वेदेषु अवसानं विना संहितया पठ्यमानेषु एकं वाक्यं कुत्र समाप्यते, कुत्र वा आरभ्यत इति ज्ञानं न सुलभम् । यथा ’ पत्नीवन्तं ग्रहं गृह्णाम्यग्न३३ पत्नीव३:’ इत्यंत्र अन्तिमं पदद्वयं किं पूर्ववाक्य संबन्धि ? अथ उत्तरवाक्यसंबन्धि ? इति । तत्र आमन्त्रितानुदात्तत्वे पूर्वान्वयि, आद्युदात्तत्वे उत्तरवाक्यशेषः । एवम् 6 अदधर्म ज्योतिरविदाम देवान्’ इत्यत्र देवान् अदधर्म, ज्योतिरविदाम इति नान्वयः ; स्वरविरोधात् । अतो वाक्यभेदज्ञानमपि फलम् ॥ (5) अन्यदपि प्रयोजनं स्वरस्य सम्भाव्यते । पूर्वेषां लिपिमुद्रणालयादिसाधन दौर्लभ्यात् वेदानां धारणम् अध्ययनेनैव कार्यम् । स्वररहितेभ्यश्च शब्द सङ्घातेभ्यः सस्वराणां धारणं गीतीनामिव सुलभम् । इदानीमपि हि बालाः यथा विस्वरं श्लोकादिकं झटिति विस्मरन्ति, न तथा गीतम् । अतो धारणसौलभ्यमपि आनुषङ्गिकं फलं वराणाम् ॥ एवं पूर्वोक्तप्रयोजनानां सर्वभाषा साधारण्यात् स्वराः सर्वासु स्वराः सर्वासु भाषासु भाषासु स्युः । परन्तु नैकरूपास्ते पूर्वोक्तरीत्या । तत्र एकां भाषामाश्रित्य तत्र कतिविधाः स्वराः, केषां किंस्वरूपाः, तेषां च भाषान्तरगतैः तैः कियत् सारूप्यम्, बहुभाषाव्याप्तिः इत्यादयो विचाराः विमर्शकानामुत्सवोऽपि बह्नीषु भाषासु 9. तेनादृष्टार्थ एवायं स्वरपाठोऽवगम्यते । सर्वदा ब्रह्मयज्ञाङ्गद्रव्ययज्ञजपेषु च । त. वा. I. 3. 9, CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain, Poona Edition, p. 268. स्व. B
तथा नियतस्वरानुपलम्भात् पूर्वं तथाभूतास्वपि भाषासु महता कालेन विप्रकर्षात् इदानीं तेषां दुरवधारत्वात्, अवधारणोपयानां वैरल्याच्च बहुप्रयत्नसाध्यं एषोऽर्थः 10 । संस्कृतभाषायां तु (वैदिके) इदानीमपि स्वरः परिपाल्यते इति तद्भेदा निरूप्यन्ते ॥ श्वासाशयाद्विनिर्गच्छन् प्राणः शरीरान्तरस्थानैः प्रतिहन्यमानो ध्वनिं जनयति । स च कण्ठादधोदेशे प्राय: श्वासनादाख्यौ द्वौ भेदौ परश्रोत्रग्रहणायोग्यः । कण्ठदेशे तु तद्योग्यो जायते । तत्र विनिर्गच्छतः प्राणस्य कण्ठबिलसङ्कोचे पर्याप्तावकाशालाभादभिघातो बलवान् निर्गमश्च स्वल्पश्वासस्येति ध्वनिर्महान् । कण्ठबिलस्य विकासे तु अवकाशाधिक्यात् अधिकः श्वासो विनिस्सरति, अभिघातश्च दुर्बल इति ध्वनिरपि हसति । बिलस्य मध्यमावस्थायां पूर्वोक्तोभयविलक्षणो हकारे हकारे उच्चार्यमाणे यादृशो ध्वनिस्तादृशो जायते । एवं त्रिविधो ध्वनिः नादः, श्वासः, हकारः ’ इति । एतैस्त्रिविधैर्ध्वनिभिः सर्वे वर्णा उच्चार्यन्त इति तैत्तिरीयप्रातिशाख्यम् । तथा च सूत्राणि - संवृते कण्ठे नादः क्रियते । विवृते श्वासः । मध्ये हकारः । ता वर्णप्रकृतयः । इति 11 ।। एतेषां च नादादिसंज्ञा अन्वर्था इति सूत्रेभ्य एव स्पष्टम् ॥ तत्र त्रिविधस्यापि ध्वनेः श्वासमन्तरा जन्मासम्भवात् ध्वनिविशेषस्य विधीयमाना श्वाससंज्ञा प्राकृतात् श्वासाद्भूयान् श्वास: 10. “a question so difficult and still somuch requiring a comparative and thorough investigation Brugmann, Comparative Grammar, I, p. 528. 11. तै. प्रा. II, 4–7.
• X1 तस्मिन् ध्वनौ जननीये अपेक्ष्यत इति ज्ञापयति । तत्र भाषामात्रे वर्णोच्चारणनियमस्य एकरूपस्य अभावात् एक एव वर्णः क्वचित् श्वासध्वनिना कचिन्नादध्वनिना च जन्यते 12 । एवंविधं वैलक्षण्यमक्षु जायमानं स्वरपदाभिधेयं मन्यन्ते शास्त्रकाराः । व्यञ्जनेषु सत्यपि ईदृशि वैलक्षण्ये स्वरव्यवहारो नास्ति । एवं च स्वरो द्विविधः सम्पद्यते नादः श्वासश्चेति । इमे द्वे अपि विधे परस्पराविनाभूते सर्वासु भाषासु 13 । तयोः प्राधान्यं तु चक्रनेमिक्रमेण तदा तदा विपरिवर्तते । अत एव नादध्वनिप्रधानतया इदानीमुपलभ्यमानासु संस्कृतादिभाषासु श्वासाख्यस्वरप्राधान्यं कदाचिदभूदित्यस्य अनुमापकानि बहुलमुपलभ्यन्त इति भाषातत्त्ववेदिनः केचित् 14 । तैत्तिरीयप्रातिशाख्यात्तु संस्कृतभाषायाम् अक्षु नादकृत एव भेद इति स्पष्टमवगम्यते । ‘नादोऽनुप्रदानं स्वरघोषवत्सु ’ इति हि तत्र सूत्रम् 15 । अन्ये तु श्वासाख्यस्वरभेदोऽपि वेदेष्वस्तीति ’ आयामो नाम वायुनिमित्तमूर्ध्वगमनं शरीरस्य’ इति उव्वटभाष्यात्, 16 ’ ऊर्ध्वभागावच्छिन्नवायुसंयोगेन इत्यर्थः ’ 17 इति नागेशवचनाच्चाभ्यूहन्ते 18 1 तत् नादाख्यध्वनिजन्मनान्तरीयकवायुसंयोगपरतयापि तद्ग्रन्थोपपत्तेः नावश्यं श्वासकृतस्वरभेदं साधयेत् । ‘नादोऽनुप्रदानम्’ इति पूर्वोक्तप्रातिशाख्याच्च । तस्मात् संस्कृतभाषायां नादाख्यस्वरभेद एवेति सर्वसम्मतः पन्थाः ॥ 12. प्रयत्नविशेषात् सर्ववर्णानामिति शैत्यायनः । तै. प्रा. XVII, 7. ‘सर्ववर्णानां स्वोचितप्रयत्नविशेषात् दृढप्रयत्नतरो भवतीति शैत्यायनो मन्यते ’ (त्रिभाष्यरत्नम् ) 13. B. Dumville, The Science of Sheech, p. 104. 14. Vide Brugmann, Comparative Grammar, Vol. I, P. 529. 15. II, 8. 16. का. प्रा. I. 31. 17. उद्योतः पा. सू. I. 2. 30. 18. Siddheshwar Varma, Critical studies in the Phonetic cgbservations of Indian Grammarians, p. 162.
तत्र सर्ववेदसाधारणास्त्रयः नादाख्यस्वरभेदाः
xii स्वरा: उदात्तोऽनुदात्तः स्वरित- श्वेति । तेष्वपि उदात्तानुदात्तौ स्वतन्त्रौ । स्वरितस्तु तदुभयसमाहाररूपः तथा च गणिनिः, प्रातिशाख्यादिकं च ॥ पाणिनि: 19 तै. प्रा. 20 का. प्रा. 21 1 उच्चैरुदात्तः 1 "” 1 " 2 नीचैरनुदात्तः 2 „ 2 " 3 समाहारः स्वरितः 3 " बह्वचप्रातिशाख्ये तु लक्षणान्तरमुक्तम् । 3 उभयवान् स्वरित: (1) उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः 1 आयामविस्रम्भाक्षेपैः- (2) एकाक्षरसमावेशे पूर्वयोः स्वरितः स्वरः 122 इति । तथा स्वरिते विभागश्च तयोः कथितः— पाणिनिः का. प्रा. तस्यादित उदात्तमर्धहस्वम् 23 तस्यादित उदात्तं स्वरार्धमात्रम् 24 . एवं च उच्चश्रुतिः उदात्तः, नीचश्रुतिः अनुदात्तः, उभयोरेकत्र अचि श्रवणे स्वरितः, इति फलितम् । तथा उदात्तानुदात्तसंज्ञा अप्यन्वर्था, उत् ऊर्ध्वम् आत्तः इति, तद्विपरीतश्चानुदात्त इति ॥ अत्रेदं विचारणीयम् । पाणिनीयं व्याकरणं प्रातिशाख्याद्यपेक्षया अर्वाचीनमिति ग्रन्थकालविमर्शका बहवः । वैदिकेषु प्रातिशाख्यादेः व्याकरणापेक्षया प्रामाण्यम् यद्यपि प्रातिशाख्येषु कानिचन लिङ्गानि तेषामर्वाचीनत्वानुमापकानि इदानीमुपलभ्यन्ते ; तथापि तेषां प्रक्षेपबाहुल्यात् तानि प्रक्षिप्तानि स्युः । अन्यथा पाणिनीये 19. I. 2. 29-31. 20. I: 38-40. 21. I. 101-10. 22. III. 1.3. 23. 1. 2. 32. 24. 1. 111. .
xiii समुपलभ्यमानानि प्रमाणानि तत्प्राचोनतासाधकानि व्याहन्येरन् । अतः इदानीमुपलभ्यमानं प्रातिशाख्यं सम्पूर्णं पाणिनीयात् प्राचीनम् इति वचनासंभवेऽपि कांश्चन अंशान् विहाय इतरेषां प्राचीनत्वमेवेति तेषामेतावत्पर्यन्तं सिद्धान्त: 25 । एतच्च भाष्यकारस्यापि सम्मतम् । तथा च " तस्यादित उदात्तमर्धहस्त्रम्” इति सूत्रे भाष्यम्- किमर्थं पुनरिदमुच्यते ? आमिश्रीभूतमिवेदं भवति । तद्यथा— क्षीरोदके सम्पृक्ते आमिश्रीभूतत्वान्न ज्ञायते कियत् क्षीरम् ? कियदुदकम् ? कस्मिन्नवकाशे क्षीरम् ? कस्मिन् वोदकमिति ? एवमिहाप्यामिश्रीभूतत्वान्न ज्ञायते कियदुदात्तम् ? कियदनुदात्तम् ? कस्मिन्नवकाश उदात्तम् ? कस्मिन्ननुदात्तम् ? इति । तदाचार्यः सुहृद्भूत्वा अन्वाचष्टे इयदुदात्तम्, इयदनुदात्तम्, अस्मिन्नवकाशे उदात्तम्, अस्मिन्नवकाशेऽनुकिमन्यान्यप्येवंजातीयकानि नोपदात्तमिति । यद्ययमेवं सुहृत्, 26 दिशति ? कानि पुनस्तानि ? स्थानकरणानुप्रदानानि । व्याकरणं नामेयमुत्तरा विद्या । सोऽसौ छन्दशास्त्रेष्वभिविनीत उपलब्ध्या अधिगन्तुमुत्सहते । यद्येवं नार्थोऽनेन, इदमप्युपलब्ध्याधिगमिष्यति’ इति ॥ अस्माच्च भाष्यात् स्थानकरणानुप्रदानप्रतिपादकानि प्रन्थान्तराणि पर्यालोच्य तदुक्तानर्थान् परित्यज्य तेनासिध्यतः अर्थस्य साधनाय पाणिनिना व्याकरणं प्रणीतमिति पतञ्जलेरभिप्रायो गम्यते । अत एव तद्वदुदात्तादिसंज्ञा अपि तत एव सिद्धा इति तद्विधायकानां सूत्राणां प्रत्याख्यानम् ’ अन्वाख्यानमेव तदं मन्दबुद्धेः’ इति । अत एव " एकश्रुति दूरात् सम्बुद्धौ ’ इति विहिताप्येकश्रुतिः उदात्तादिवन्न लक्षिता पाणिनिना ; प्रथमादिसंज्ञावदन्यतः प्रसिद्धेः । तथा वैदिकानां स्वररूपविशेषादीनां प्रतिवेदम् अन्यथाभावोऽपि पाणिनिना ‘विभाषा छन्दसि ’ एव ‘नित्यं मन्त्रे ’ तत अवगतः । 25. Siddheshwar Varma, op. cit. Introduction, pp. 21-96. Keith, A History of Sanskrit Literature, p. 423. 26. N. S. Edn. II, 1. 2. 32., p. 28.
xiv ‘यजुष्येयेषाम्’ इति मन्त्रब्राह्मणादिषु विशिष्य कार्यविधानम् । तत्रापि व्यवस्थाया दुष्करत्वमभिप्रेत्य ’ व्यत्ययो बहुलम्’ इत्यादि सर्वनियमासम्मवेन यथादृष्टरूपसाधुत्वप्रतिपादकं सूत्रजातं प्रणीतम् । L अन्यतरस्याम् ’ ’ ’ विभाषा ’ भाष्यकारोऽपि ’ तत्पुरुषे कृति बहुलम् ’ इति सूत्रे " अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम् ’ बहुलम् ’ एकेषाम्’ इति । सर्ववेदपारिषदं हीदं शास्त्रम् । तत्र नैक: पन्थाः शक्य आस्थातुम्27. " इति सूत्रकारं समर्थयन् तन्मिषेण प्रातिशाख्यपाणिनीययोर्वैधर्म्य स्पष्टमुक्तवान् — प्रातिशाख्यस्य एकशाखाविषयत्वेन नियतकार्यबोधकत्वम्, व्याकरणस्य तद्वैपरीत्येन सर्ववेदविषयतया इदमित्थमिति नियमेन कार्यविशेषाबोधकत्वम्, अतः अव्यवस्थाबोधकाः पूर्वोक्ताः शब्दाः शोभावहा एव न दोषावहा इति ॥ एवं च पाणिनिसूत्रमात्रमालम्ब्य क्रियमाणा शब्दव्यवस्था, स्वरव्यवस्था वा वेदेषु अनुमीयमाना नावकल्पेत । विशेषतः प्रवृत्तप्रातिशाख्यादिप्रमाणान्तरसंवादिनी तु न केनापि बाध्येत ॥ एवं प्रातिशाख्यमपि यदि नानाखासाधारणं कार्यं विदध्यात्, तत्रापि संशय एव स्यात् निर्णायकप्रमाणान्तराभावे । अतः अध्ययनसम्प्रदायानुरोधिनी व्यवस्था तत्र प्रातिशाख्येषु प्रयोगाधीनो निर्णयः सा अन्धपरम्परेति प्रमाणान्तरेण नावगम्यते । कार्या ; यदि तत्परिपालनं हि केवलं केवलं वैदिकेषु व्याकरणेनैव सर्वे परममुद्देश्यं व्याकरणप्रातिशाख्यादीनाम् । । न एषा सरणिः, किन्तु भाषास्वपि । न हि विशेषाः सम्यगवगन्तुं शक्याः । दाधातुर्लवनार्थः शवतिर्गत्यर्थश्च गणे पठितौ | तयोर्व्यवस्थितप्रयोगे मूकीभूतं व्याकरणम् स च.. देशविशेषनियतः । तथा च भाष्यम् – “ शवतिर्गतिकर्मा कम्बोजेषु । विकार एवैनमार्या भाषन्ते । दातिर्लवनार्थ: प्राच्येषु 27. Keilhorn Editon, III, p. 146.
XV दात्रमुदीच्येषु ” इति तथा ध्वनिवर्णगता उच्चारणवैलक्षण्यादयः प्रयोगश्रवणादिव लक्षणेन न स्ववगमाः । ‘जिह्वाग्रेण प्रतिवेष्ट्य मूर्धनि टवर्गे 28 इति टवर्गस्य स्थानकरणबोधकं प्रातिशाख्यम् । टकारं कदाप्यश्रुतवतः पुरुषस्य तदीयं सम्यगुच्चारणं नानेन सिध्यति 1 कदाचित्तच्छ्रवणे तु लक्षणार्थस्य सम्यङ्निर्धारणात् जिह्वाग्रोपाग्रादीनाम् उचितस्थानसम्बन्धेन श्रुतध्वनिसुसदृशो ध्वनिजनयितुं शक्यते । तत्तद्वैजात्यबोधकैः शब्दैश्वित्रैश्च श्रुतप्रयोगस्यैव हि प्रत्यभिज्ञा जन्यते न अश्रुतवर्णस्य । अत एव आजादीरन्या भाषा अधीयानाः सत्स्वपि पुष्कलेषु उच्चारणादिवैलक्षण्यावगतिसाधनेषु तद्देशीया इव तद्देशीयैः परिचयवन्त इव वा न सम्यग्भाषितुं प्रभवन्ति तस्माल्लक्षणग्रन्थैरर्थनिर्णये प्रयोगज्ञानमपि नान्तरीयकम् ॥ ; एवं च पूर्वोक्तरीत्या व्याकरणस्य उदात्तानुदात्तस्वरूपे तात्पर्याभावात् तदर्थं प्रवृत्तानि प्रातिशाख्यानि प्रयोगं च विमृशामः स्वरस्वरूपनिर्धारणाय ॥ तत्र प्रयोगावगतस्तेषां रूपभेद इत्थम् — उदात्तः मध्यमः स्वरः ; तत उच्चः स्वरितः ; नीचस्त्वनुदात्तः - इति । न चैतदेकस्यां शाखायाम् एकस्मिन् वा देशे । किन्तु सर्वस्यां सर्वत्र । शाखाभेदनिबन्धनास्तु विशेषा इयन्त एव यत् यदक्षरमुदात्तमधीयते कस्यांचित् तदेवानुदात्तमन्यत्र ; यथा वाजसनेयब्राह्मणे । एवं स्वरितानुदात्तावप्यन्यथा इति । नाप्येतत् स्वेच्छया, प्रमाणविशेषैस्तु प्रातिशाख्यादिभिः । न कदाचिदपि उदात्तो नीचैः, स्वरितश्च मध्यमो वा अधीयते कस्यामपि० । यद्यस्य नियमस्यान्यथात्वं क्वापि उपलभ्येत, तदा युज्येत शङ्का, कीदृशमुच्चारणं प्राचीनम् कीदृगर्वाचीनम् इति । नाप्येषान्धपरम्परा, शास्त्रानुगतत्वात् । यस्मिन् हि पदे यदक्षरमुदात्तमनुदात्तं वा व्याकरणेनानु- 28. तै. प्रा. II, 37.
xvi शिष्यते, तत्तथैव खल्वध्ययने अधुनापि दृश्यते । अतः शास्त्रसम्प्रदाययोः । तत्स्वरूपेऽपि उदात्तानुविरोधानवकाशः स्वरस्थानविशेषं प्रति । तत्स्वरूपेऽपि दात्तविषये न विप्रतिषेधस्तयोः । स्वरितस्वरूपे पुनः अस्त्यवकाशो विप्रतिपत्तेः । तद्धि उदात्तानुदात्तसमाहाररूपं शास्त्रतोऽवगतम् । ततश्च भागशो धर्मद्वयस्याप्युच्चारणं न्यायप्राप्तम् । तद्विलक्षणं तुच्चारणं सम्प्रदायागतमुपलभ्यते उदात्तादप्युच्चैः । तत्र किं तथोच्चारणसाधकं प्रमाणमस्ति ? आहो नेति प्रातिशाख्यान्येव परीक्षामहे । स्वरितस्वरूपप्रतिपादकानि सूत्राणि - तस्योदात्ततरोदात्तादर्धमात्रार्धमेव वा । अनुदात्तः परश्शेषः स उदात्तश्रुतिः - 129 तत्र ‘उदात्तात् सकाशादुदात्ततरा आदावर्धमात्रा वेदितव्या’ इति 30 1 तदर्थं . • उव्वट : 30 तस्यादिरुच्चैस्तरामुदात्तादनन्तरे यावदर्थं ह्रस्वस्य 31 तस्यादिरुच्चैस्तराम् — उदात्ततरम् — उच्चार्यत इति उदात्तसमः शेष: 33 । । तद्व्याख्या ३२ । 32 योऽर्धमात्रात् परोंऽशः स तूदात्तसम एव । न तूदात्ततरः इत्यर्थ:34 । अनन्तरो त्रा नीचैस्तराम् । सः (शेषः) नीचैस्तराम् - अनुदात्ततरं-बोच्चार्यते 36 । 29. ऋक् प्रातिशाख्यम् III. 4. Benares Edn. P. 98. 30. उव्वटभाष्यम् Do.. " Do. 31. तैत्तिरीयप्रातिशाख्यम् I. 41. Mysore Edn. p. 44. 32. वैदिकाभरणम् " " 33. तै. प्रा. I. 42. 29 " 34. वैदिका. " " " 35. तै. प्रा. I. 44. ,” " p. 45. 36. वैदिका. CC-0. Shri Vipin Kumar 3. Deoband. In Public DBmath. Digitized by MadhybabiTrust, Delhi अनुदात्तसमो वा7 । स एव शेष: अनुदात्तसमो वा भवति । आदिरस्योदात्तसमः शेषोऽनुदात्तसम इत्याचार्या : 39 | तस्यैव स्वरितस्यादिस्वार्धकाल उदात्तसमो उदात्तसमो भवति, शेषस्तु अनुदात्तसमो भवति इत्याचार्याः ब्रुवते ।। सर्वः प्रवण इत्येके 41 । अयं सर्वः कृत्स्न एव स्वरितो भवति इति ; न तु अस्य अदितः कश्चिदंश उदात्तसमोऽस्ति इत्येके आचार्या उपदिशन्ति 42 ॥ प्रकर्षेण वन्यते उत्क्षिप्यत इति प्रवणः स्वरितः । अत्र हि सूत्रेषु पूर्वभागः उदात्ततरः, उदात्तसमः ; उत्तरः, अनुदात्तसमः, अनुदात्ततरः, उदात्तसमः, भागविशेषं विना कृत्स्नः अच् उच्चः इति नाना विधाः स्वरितस्य दर्शिताः । पाणिनिसंमतमुदात्तरूपत्वं तु नैव प्रादर्शि । अतः सर्वसाधारणं स्वरूपं स्वरितस्य विवक्षन् पाणिनिः तद्गतप्रकर्षापकर्षपरिहारेण सूत्रं प्रणिनायेति युज्यते । प्रातिशाख्ये तु विशिष्य तरपा स्वरिते श्रुतिप्रकर्षः प्रदर्शितः ॥ एवमुदात्तस्य मध्यमस्वरत्वमपि ’ धृतः प्रचयः कौण्डिन्यस्य ’ इति सूत्रे वैदिकाभरणे उक्तम् –’ प्रचयलक्षणं वक्ष्यति ‘उदात्तश्रुतिः इति । तस्योदात्तवत् श्रूयमाणस्य सूक्ष्मः कश्विद्विशेषो धृतसंज्ञाभिधानमुखेन प्रदर्श्यते । क्रुष्टादीनां सप्तानां स्वराणां मध्ये तृतीयाख्यो यो मध्यमः स्वरस्तस्य धृतः इत्यन्वर्था संज्ञा । क्रुष्टप्रथमद्वितीया उत्क्षेषिणः । चतुर्थमन्द्रातिस्वार्या अवक्षेपिणः । तृतीयस्तु 37. तै. प्रा. I. 45. Mysore Edn. P. 45. 38. वैदिका. 39. तै. प्रा. I. 46. " 40. वैदिका. 41. तै. प्रा. I. 47. 65 P. 47. " " P. 48. 42. वैदिका. p. 48. स्व… C
xviii उभयरहितत्वान्मध्ये लीयमानत्वात् धृतसंज्ञ: ’ इति 43 अत्र प्रचयस्य उदात्तश्रुतिरूपतया तस्य मध्यमस्वरत्वेन उत्क्षेपिताया अभावे तत्समानश्रुतिकस्य उदात्तस्यापि मध्यमस्वरत्वमुक्तप्रायम् । प्रचयोदात्तयोर्विशेषाभावश्च ‘सूक्ष्मः कश्चित्’ इति पदाभ्यां प्रदर्शितः ॥ अत एव ऋक्प्रातिशाख्ये ‘उच्चैरुदात्त:’ इत्यादि सर्वसाधारणं सन्देहापादकं च लक्षणं परित्यज्य : आयामविस्रम्भाक्षेपैस्त उच्यन्ते ’ इति लक्षणमुक्तम् ॥ ॥ कात्यायनप्रातिशाख्येऽपि ’ आयाममार्दवाभिघाताः’ इति ॥ ‘आयामो नामोर्ध्वगमनं शरीरस्य, मार्दवं नाम अधोगमनं गात्राणाम्, अभिघातस्तिर्यग्गमनं गात्राणाम्’ इति तत्र उभयत्र उव्वट:46 | इमे चायामादय इदानीमपि क्रमेणोदात्तानुदात्तस्वरितानधीयानेषु प्रत्यक्षाः 1 अत एव ’ तस्यादितः ’ इति कात्यायनसूत्रे 47 ’ तस्योदात्ततरोदात्तात्48’ इति बह्वचप्रातिशाख्यसूत्रे च उव्वटः ‘स्वरितशब्देन उदात्तानुदात्तौ निवर्त्य पृथक्श्रुति स्वरान्तरमभिधीयते । यथा त्रपुताम्रयोः संयोगे धात्वन्तरस्य कांस्यस्योत्पत्तिः, यथा च गुडदनोः संयोगे मार्जिकोत्पत्तिः, एवमुदात्तानुदात्तयोः संयोगे स्वरितस्योत्पत्तिः’ इति ॥ तथा उदात्तानुदात्तस्वरितसंज्ञाश्च नान्वर्थाः श्रुतिप्रकर्षापकर्षनिबन्धनाः च ’ उच्चैरुदात्तः’ इति सूत्रे भाष्ये 49. 43. वैदिका. p. 452. 44. III. 1. Benares Edn. p. 97. 45. I. 31. Benares Edn. p. 12. 46. Do 47. I. 126. Do Do 48. ऋ. प्रा. III. 4. p. 99. Do PP. 46, 47. 49. N. S. Edn. p II. 26.
xix ’ अभ्यास- 51 " इदमुश्च नीच मनवस्थितपदार्थकम् । तदेव हि कंचित् प्रति उच्चैर्भवति, कंचित् प्रति नीचैः । एवं हि कश्चित् कंचिदधीयानमाह ‘किमुच्चै रोरूय से, शनैर्वर्तताम्’ इति । तमेवाधीयानमपर आह. ‘किमन्तर्दन्तकेनाधीषे, उच्चैर्वर्तताम्’ इति । एवमुच्चनीच मनवस्थितपदार्थकम् । तस्यानवस्थितत्वात् संज्ञाया अप्रसिद्धिः” इति श्रुतिप्रकर्षनिबन्धनमुदात्तत्वं दूषितम् । उच्चनीचपदयोरसूत्रे ऽनुपादानादुच्चैर्नीचैः पदयोरधिकरणशक्ततया नामविशेषणत्वासम्भवाच नायं पक्षः युक्त इति कैयटनागेशौ तत्र ०० । समधिगम्यश्चायं स्वरविशेषः षङ्खादिवद्विज्ञेयः’ इति वदन् कैयटः 02, यथा षड्जादयो गान्धर्वशास्त्रप्रसिद्धाः स्वराः श्रुत्या निर्णेतुमशक्याः परिचयरहितैः, किन्तु अभ्यासेनैव विज्ञेयाः, तथा उदात्तादयोऽपि ; न तु पाचकादिशब्दार्थ इव योगार्थनिर्णेया इति तथा भ्रान्तान् शिक्षयतीव । ’ तस्यादित तर्हीदम् । उदात्तम् ’ इति सूत्रे ‘संज्ञाकरणं अन्वर्थग्रहणं विज्ञास्यते । तस्य स्वरितस्य आदितः अर्धह्रस्वमुदात्तसंज्ञं भवति – ऊर्ध्वमात्तमिति चोदात्तमिति’ इति स्वरिते आद्यभागस्योदात्तसंज्ञाया अन्वर्थत्वं विशिष्य वदन् भाष्यकारः ‘उच्चैरुदात्तः’ इत्यत्र संज्ञाया अन्वर्थत्वमर्थान्निषेधति । संवदते च पूर्वोक्तप्रातिशाख्यादिभिः स्वरिताद्यभागे उदात्तापेक्षया श्रुतिप्रकर्षमभ्युपगच्छन् 52 । परस्परविलक्षणाः श्रोत्रग्राह्यजातिविशेषरूपाः ‘उच्चैरुदात्तः’ इत्यादिसूत्राण्यपि तादृशजातिविशेषोपलक्षणपराणि” इति चन्द्रिका । पाणिनिरपि स्वरिते उदात्तात् श्रुतिप्रकर्षं सम्मनुते इत्यनुमातुं शक्यम् । स हि एकस्मिन् पदे उदात्तद्वयसमावेशं नैरन्तर्येण विदधदपि न कुत्रापि स्वरितद्वयं समावेशयति । तत्र को हेतु: ? CC उदात्तादयस्त्रयः 53 50. महाभाष्यप्रदीप N. S. Edn. II. p. 26. म. भा. उद्योत Do 51. म. भा. प्र. Do Do Do 4 1 52. म. भा. N. S. Edn, II. p. 29. 53. स्व. सि. च. p. 372.
XX यदृच्छया तथा करणमिति तु न युक्तिकुशला विमर्शका वक्तुमर्हन्ति । अत उदात्तापेक्षया श्रुतिप्रकर्ष एव मूलं तत्र स्यात् । यथा हि समाने स्वरे बहूनामपि वर्णानामुच्चारणं सुकरम्, न तथा उच्चस्वरेण, तत्र श्वासाधिक्यापेक्षणेन उच्चारयितुग्लीनेः शीघ्रमुत्पादात् । अत एव हेतोः पदद्वयसन्धानेन तथोच्चारणे समुपनते मध्येऽनुदात्तस्य मध्येऽनुदात्तस्य स्वरान्तरस्य विधानं प्रातिशाख्यादिषु ‘द्वियम एके द्वियमपरे ता अणुमात्रा: ’ इति 64 || जात्योऽभिनिहतश्चैव क्षैप्रः प्रश्लिष्ट एव च ! एते स्वारा: प्रकम्पन्ते यत्रोच्चस्वरितोदयाः ॥ इति च55 || अयमेव स्वरविशेषः कम्प इत्युच्यते अध्येतृभिः । तत्र द्वयी विधाअनुदात्तात् पूर्वभागस्य उदात्तता, स्वरितता च इति । तथा च शिक्षा— पदान्ते च तथा कम्पा अन्ततो निहताणुकाः । शेषस्योदात्तता वा स्यात् स्वारता वा व्यवस्थया || इति ॥ व्यवस्था च इत्थम् – यजुस्संहितायां पूर्वभागस्य स्वरितत्वमेव ।
तथा च सूत्रम् -
’ तस्यामेव प्रकृतौ ’ इति57 ||
अत्र वैदिकाभरणम् – ‘अस्मत्संहितायां तस्यामेव स्वरितात्मिकायामेव प्रकृतौ कम्पो भवति । कम्पांशात् पूर्वांशस्तु तस्यामेव स्वरितात्मिकायामेव प्रकृतौ अवतिष्ठते । यत्तदात्तपरस्य स्वरितस्य कम्पत्वं कम्पांशात् पूर्वाशस्योदात्तत्वं च शिक्षायामुक्तम्, तत् कूष्माण्डादिविषयं शाखान्तरविषयं च वेदितव्यम्’ इति68 । कूष्माण्डाख्यमन्त्रेषु च इदानीमपि स्वरितपूर्वभागस्योदात्ततया उच्चारणं कम्पश्च दृश्यत । एवं च 54. तै प्रा. XIX. 3. p. 456. 55. स्वरसिद्धान्तचन्द्रिका. P. 18. 56. स्व. सि. च. Do 57. तै. प्रा. XIX. 4, p. 458. 58. P. 459.
xxi पाणिनीयं ’ तस्यादित: ’ इति सूत्रं कूष्माण्डादिमन्त्राभिप्रायेण कम्पाभिप्रायेण च प्रवृत्तमित्येतावतैव समञ्जसम् । अतः पढ़े एकस्मिन् स्वरितद्वयाविधानात् ‘न सुब्रह्मण्यायां स्वरितस्य तूदात्त:’ इति सूत्रेण स्वरितोदात्तयोः समानश्रुतिकत्वे स्वरितस्योदात्तविधानवैयर्थ्याच्च पाणिनेरपि सम्मत एव श्रुतिप्रकर्षः ॥ तस्य तथा च उक्तप्रातिशाख्यतव्याख्यामहाभाष्यादिभिः अध्ययन सम्प्रदायावगतं स्वरितस्वरूपं लक्षणानुसारीति सिद्धम् । पाणिनीयं तु ‘तस्यादित:’ इति सूत्रं सामान्येन प्रवृत्तम्, 59 कूष्माण्डादिमन्त्रगतेन स्वरितेन चरितार्थं चेति च । पाश्चात्त्यविदुषापि माक्समुल्लर्नाम्ना यथासम्प्रदायमेव स्वरितोदात्तादिस्वरूपं प्रदर्शितम् 60 । एवं स्थिते यत् विनि (Whitney) नाम्ना विदुषा ‘उच्चैरुदात्तः’ इति सूत्रस्य श्रुतिप्रकर्षनिबन्धनोदात्त संज्ञा विधायकत्वम्, उदात्तपदयोगानुसारेण सर्वोच्चत्वम्, ‘नीचैरनुदात्तः’ इति सूत्रे सत्यपि उच्चैःप्रतिद्वन्द्विनीचैःपदे, सत्सु च निहतनिघातादिषु अनुदात्तपर्यायेषु, अनुदात्तपदं उदात्तभिनं बोधयतीत्यभिप्रायेण तस्य मध्यम (साधारण) स्वरत्वम्, ‘समाहारः स्वरित:’ इति सूत्रानुसारेण स्वरितस्यापि उदात्तसमानश्रुतौ वक्तव्यायाम् उदात्तानुदात्तयोरान्तरालिकश्रुतिकत्वम् चोक्तम् । तथा स्वोक्तार्थे सूत्रविरोधे जाग्रति तदविमृश्य, प्रत्याख्यातैः, अन्यथोपपन्नैः, स्वेनान्यथागृहीतैश्च पाणिनीयैः सूत्रैर्विरोधात् प्रातिशाख्यादीनामनुपादेयत्वम, कुत्रापि शाखायामनधीयमाना स्वरितस्योदात्तात् निकृष्टा श्रुतिश्च स्वाभ्यूहमात्रादुक्तम्"" ; तमेवानुसरद्भिः अन्यैरपि स्वकीयग्रन्थेषु याः 61 62 59. ’ तस्यादित इति विषयविवेकस्तु प्रायोवादः विशेषे शिक्षादिभिर्बाध्यते इति दिक् ’ श. कौ. Benares Edn. p. 400. 60. Max Müüller, Sanskrit Grammar, pp. 290–3. 61. Whitney, J. A. O. S., V, pp. 196. ff. Sanskrit Grammar, Harward Series, ور 62. Macdonnel, Vedic Grammar, p. 448. PP. 28–30. A. Bergaigne and V. Henry, Manual pour etudier Le Sanskrit Vedique, pp. 6, 7.
xxii स्वरप्रक्रियाः कथिताः, तस्य सर्वस्य मूलम् अभ्यासाभावात् स्वररूपापरिज्ञानमेव स्यात् । ते हि लक्षणग्रन्थतः कथञ्चित् स्वरस्वरूपमभ्यूहन्ते । नास्माकमिव वैदिकसम्प्रदायसिद्धोच्चारणश्रवणाहितः संस्कार: तेषाम् इति आस्तामेतत् ॥ एषां त्रयाणां पूर्वोत्तर सन्धानवशाज्जायमाना विशेषा अवान्तर- स्वरपदवाच्या भवन्ति । संस्कृते एकस्मिन् पदे उदात्ताद्यवान्तरभेदाः एक एवोदात्तः स्वरितो वा । अन्येऽचोऽनुदात्ताः । तथा च सूत्रम् ‘अनुदात्तं पदमेकवर्जम्’ इति । 63 तथा चानेकाक्षु पदेषु बहवः अनुदात्ताः, तदनन्तरमुदात्तः स्वरितो वा स्वरः यत्र भवति तत्र अन्तिमवर्जं सर्वेऽनुदात्ताः एकरूपेण उच्चार्यन्ते अन्तिमस्तु अनन्तरस्वरस्य उदात्तस्वरितयोरन्यतरस्य प्रयोक्तृपुरुषबुद्ध युपारूढतया तदनुकूलयत्नस्य तदैवोपक्रमात् दृढः दृढतरो वा भवति । यथा गच्छतः पुरुषस्य उल्लङ्घने चिकीर्षिते तत्पूर्वः पदन्यास: पूर्वापेक्षया दृढो भवति तद्वत् । सोऽयमनुदात्ततरः इत्युच्यते । तथा च सूत्रम् ‘उदात्तस्वरितपरस्य सन्नतरः 264 इति । तैत्तिरीयप्रातिशाख्ये तु स्वरितयोर्मध्ये यत्र नीचं स्यादुदात्तयोर्वा अन्यतरतो वा उदात्तस्वरितयोः स विक्रमः’ इति65 विक्रमसंज्ञा अस्य विहिता । अयं दशविधः इति स्वरसिद्धान्तचन्द्रिका ®® । एवमुदाचार्द पद्विलक्षणः 66 । उदात्ततरः ‘उच्चैस्तरां वा वषट्कार: 267 इति सूत्रविहितः । । स्वरितो द्विविधः, नित्यः अनित्यश्चेति । संहितानिरपेक्षम् ’ तित्स्वरित: 268 इति सूत्रेण विहितः नित्यः । सूत्रान्तरैर्विहितः अनित्यः । कौस्तुभे तु प्राकृतोऽप्राकृतश्चेति द्वौ भेदावुक्तौ । तत्र 63. पा. VI. 1. 158. 64. पा. I. 2. 40. 65. तै. प्रा. XIX, 1. p. 455. 66. p. 51. ८ उदात्तादनु- 67. पा. I. 2. 35. 68. पा. VI. 1. 185. 69. Benares Edn. p. 397.
xxiii दात्तस्य स्वरित:’ इति सूत्रविहितः इति सूत्रविहितः ‘नोदात्तस्वरितोदयम् 70 इति निषेधविषय: प्राकृतः, अन्य: अप्राकृत इति विवेकः । प्रातिशाख्ये तु संज्ञाभेदपुरस्सरं सप्तधा अष्टधा च तद्भेद उक्तः ।। तै. प्रा. 71 का. प्रा. 72 1 इवर्णोकारयोर्यवकारभावे क्षैत्र 1 एकपदे नीचपूर्वस्यवो जात्यः । उदात्तयोः । 2 सयकारवकारं त्वक्षरं यत्र स्वयंते 2 एदोन्द्रयामकारो लुगभिनिहितः । स्थिते पदेऽनुदात्तपूर्वेऽपूर्वे वा नित्य इत्येव जानीयात् । 3 अपि चेन्नानापदस्थमुदात्तमथ 3 युवर्णौ यवौ क्षेत्रः । चेत्सांहितेन स्वर्यते स प्रातिहतः 4 तस्माद कारलोपेऽभिनिहतः । 5 ऊभावे प्रश्लिष्ठः 6 पदविवृत्त्यां पादवृत्तः 7 उदात्तपूर्वस्तैरोव्यञ्जनः 4 इवर्ण उभयतोहस्वः प्रश्लिष्टः 5 स्वरो व्यञ्जनयुतस्तै रोव्यञ्जनः 6 उदवग्रहस्तैरोविरामः । 7 विवृत्तिलक्षणः पादवृत्तः । 8 उदाद्यन्तो न्यवग्रहस्ताथाभाव्यः । 78. 91.73 ऋ. वैवृत्ततैरो व्यञ्जनौ क्षैप्राभिनिहतौ च तान् । प्रश्लिष्टं च यथासन्धि स्वरानाचक्षते पृथक् ॥ शिक्षायामपि 74 - 1 व्यञ्जनौ तु यवौ यत्र प्रयुज्येते ततः परम् । अपूर्वो नीचपूर्वो वा जात्यः स्वारः स उच्यते ॥ 70. पा. VIII. 4. 67. 71. XX. 1–7. Mysore Edn., pp. 461-7. 72. I. 111, 113-20 Benares Edn., pp. 37-41. 73. III. 18. Benares Edn., p. 103. 74. स्वराङ्कुशशिक्षा, शिक्षासङ्ग्रहः, Benares Edn., p. 161.
xxiv 2 एदोतोरुच्चयोर्यत्र नीचोऽकारः परो यदि । एकीभावे भवेत्तत्र स्वरोऽभिनिहतस्तदा ॥ 3 इउवर्णौ यदोदात्तावापद्येते यवौ क्वचित् । अनुदात्तस्वरे नित्यम् विद्यात् क्षैप्रस्य लक्षणम् ॥ 4 इकार उच्चः पूर्वस्मिन् परतो नियतः प्रलिष्टमाहुराचार्याः स्वरवर्णविदस्तदा || स च । 5 उदात्तपूर्वं यत्किञ्चिच्छन्दसि स्वरितं भवेत् । एष सर्वबहुस्वारस्तैरो व्यञ्जन एव च ॥ • 6 अवग्रहात्परं यत्र स्वरितः स्यादनन्तरः । तैरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ॥ 7 स्वरे चेत् स्वरितं यत्र विवृत्त्या तत्र संयुतम् । एतत्तु पादवृत्तस्य लक्षणं शास्त्रसम्मतम् ॥ इति ॥ एताश्च संज्ञा अन्वर्था इति ‘यथासन्धि स्वरानाचक्षते’ (III. 18) इति ऋक्प्रातिशाख्यात् स्पष्टम् । नित्यः - अविनाशी पदकाले न नश्यति । अयमेव जात्यः । क्षैप्रप्रतिष्ठाभिनिहत सन्धिवशाज्जायमानास्तन्नामानः । पादवृत्तः पढ़ें वृत्तिः सन्ध्यभावः यस्मिन् सः । तिरो मध्ये व्यञ्जनं यस्य तैरोव्यञ्जनः । एवं तैरोविरामोऽपि । एवंलक्षणशून्या अपि केचन स्वरिताः सन्ति — यथाशक्ति वा, यदि प्रविशेत्, धेनुर्दक्षिणा, इति, तेषामपि प्रातिहृतसंज्ञा शीक्षासु उक्ता 5 ॥ एतेषामुच्चारणेऽपि विशेषः प्रातिशाख्य एव कथितः - तै. प्रा. 76 क्षैप्रनित्ययोर्हढतरः । अभिनिहते च । 75. स्व. सि. च. p. 18. 76.XX, 9–12,
का. प्रा. 77 तीक्ष्णोऽभिन्निहितः परं परं मृदुस्त्वन्यः ॥ 77. I. 125. p. 46.
प्रश्लिष्टप्रतिहतयोर्मृदुतरः । XXV तैरोव्यञ्जनपादवृत्तयोरल्पतरोऽल्पतरः । इति ॥ ‘एकश्रुति दूरात् सम्बुद्धौ 78 इति सूत्रविहितः एकश्रुतिस्वरः । एतत्स्वरूपं बहुभिर्बहुधा कथितम् - उदात्तानुदात्तोभयसमाहाररूपा इति पतञ्जलिः । क्षीरोदकवदुदात्तानुदात्तयोर्भेदतिरोधानमेकश्रुतिः । स्वरिते विभागेन तयोरुपलब्धिः इति कैयटः । तु उदात्तादीनां त्रयाणां स्वराणां भेदाभाव इति काशिका । उदात्तानुदात्तस्वरितानां परः सन्निकर्ष ऐकश्रुत्यम इत्याश्वलायनसूत्रम् । उदात्तादीनामभिव्यञ्जका ये प्रयत्नाः तेषामन्यतमस्यैव प्रयत्नान्तरेण व्यवधानमन्तरा उच्चारणमिति नारायणकृता आश्वलायनसूत्रवृत्तिः । उदात्तसमश्रुतिः इति तैत्तिरीयप्रातिशाख्यम् । एकश्रुतिः प्रचय इति पर्यायौ इति मनोरमा || । सर्वे चामी पक्षाः स्वरचिद्धान्तचन्द्रिकायामेव एकश्रुतिसूत्रे दर्शिता : 79 । एतेषाम् अविरोधोऽपि कथंचिदुक्तः । एका समानाकारा श्रुतिः इति योगपर्यालोचनया तु आश्वलायनोक्तपक्ष एव हृदयङ्गमः । प्रयोगश्चात्रानुकूलः । प्रातिशाख्यमपि न विरुन्धे । इयमेकश्रुतिरेव कात्यायनेन तान इति व्यवहृता ॥ 80 एवं च स्वरः अनुदात्ततरः, स्वरितः, षड्विधः – उदात्तः, उदात्ततरः,
अनुदात्तः, एकश्रुतिश्व इति ॥ पृथक्कृत्य सप्त स्वरा महाभाष्ये तु स्वरितभागमुदात्तं इत्युक्तम् 2 । अवान्तरभेदपरिहारेण तु सर्वत्र त्रैस्वर्यव्यवहारः । प्रचयाख्यैकश्रुत्या सह चातुः स्वर्यव्यवहारोऽपि कचित् ॥ 78. पा. I. 2. 33. 79. स्व. सि. च, PP. 371-2. 80. भाषिकपरिशिष्टसूत्रम् III. 28. Benares Edn., p. 470. 81. स्व. सि. च. p. 14. 82. N. S. Edn., II. p. 31.
D
xxvi क्वचित्तु शाखायां द्वावेवानुदात्तोदात्तौ । तथा च कात्यायनः ‘स्वरितानुदात्तौ च ’ ’ उदात्तंमनुदात्तमनन्त्यम् ’ शाखाभेदेन स्वरविशेष- नियमः इति । ’ मन्त्रविषये यौ स्वरितानुदात्तौ तावपि शतपथब्राह्मणे उदात्तौ स्तः ’ ’ मन्त्रधर्मेण यदुदात्तमभिहितम्, तत् शतपथब्राह्मणे अनुदात्तं स्यात्’ इत्युभयत्र व्याख्यातारः । तथा त्रैश्वर्यमपि केषाञ्चित्, ‘मन्त्रस्वरवद्ब्राह्मणस्वरश्वरकाणाम्’ ‘तेषां खापिकीयौखीयानां चातुः स्वर्यमपि कचित् ’ वि सूत्राभ्याम् 84 ॥ एवं प्रचयस्वरे बहृचेषु विशेषः ऋक्प्रातिशाख्ये उक्तः— त्रिमात्रयोरुत्तरयोरन्त्यापि प्रचयस्वरे । मात्रा न्यस्ततरैकेषामुभे व्यालिः समस्वरे ॥ केचित्त्वेकमनेकं वा नियच्छन्त्यन्ततोऽक्षरम् । आ वा शेषान्नियुक्तं तूदात्तस्वरितोदयम् ॥ इति85 | एवमेक एव शब्दः कचिदाद्युदात्तः कचिदन्तोदात्तश्च एकस्यामेव शाखायामधीयते, यथा वेदवृष्टिशब्दौ 86 तथा च प्रातिशाख्यादिनिर्णायक सहायमन्तरा शाखासु यथाधीतस्वरनिर्णयः सामान्यस्वरसूत्रैर्दुर्वचः ॥ सामशाखायां तु कुष्टप्रथमद्वितीयतृतीयचतुर्थमन्द्रातिस्वार्याः इति षड्जादयः उदात्तादयश्वाभिन्नाः 83. 84. 888888 85. स्वरसप्तकम् । ते च उदात्ताद्यवान्तरभेदा एव इति ’ मन्द्रादयो द्वितीयान्ताः चत्वारस्तैत्तिरीयका: 287 इति तैत्तिरीयप्रातिशाख्यसूत्रादव- भा. प सू. I. 14, 15. pp. 441-2. Do. III. 25, 26 p. 469. III. 20, 21, 27, 28. PP. 104, 105, 106. 86. स्व. सि. च, PP. 119, 124. 87. तै. प्रा. XXIII. 13, p. 513.
xxvii गम्यते । इमे एव सङ्गीतशास्त्रप्रसिद्धाः षड्जादयः इति नारदीय शिक्षा - यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः । यो द्वितीयः स गान्धारस्तृतीयस्त्वृषभः स्मृतः ॥ चतुर्थः षड्ज इत्याहुः पञ्चमो धैवतो भवेत् । 88 षष्ठो निषादो विज्ञेयः सप्तमः पञ्चमः स्मृतः ॥ इति ॥ तथा उदात्तादीनां त्रयाणामपि तैरभेदो याज्ञवल्क्यशीक्षायाम् - गान्धर्ववेदे ये प्रोक्ताः सप्त षड्जादयः स्वराः । त एव वेदे विज्ञेयास्त्रय उच्चादयः स्वराः || उच्चौ निषाद्गान्धारौ नीचावृषभधैवतौ । शेषास्तु स्वरिताः ज्ञेयाः षड्जमध्यमपञ्चमाः ॥ इति १ ॥ एतच्च दाक्षिणात्याः सङ्गीताभिज्ञा नाङ्गीकुर्वन्ति । पाश्चात्त्या अपि बर्नल्प्रभृतयः, प्राचां ग्रन्थकर्तृणामेवंविधा उक्तयः बह्वचः अनर्थकाः इति मन्यन्ते । सिद्धेश्वरवर्माख्यो विद्वान् षड्जादयो न वैदिकस्वरेभ्यः अभिन्नाः, किन्तु तत उत्पन्ना इति अमीषामुपपत्तिं वदति । केनाभिप्रायेण प्रवृत्तानीमानि वचनानीति तु उभयज्ञा विद्वांस एव प्रष्टव्याः ॥ अचामेव धर्माः, न स्वरा व्यञ्जनानामपि एव अत व्यञ्जनानाम् । तेषाम् अज्बोधकस्वरपदेन व्यपदेशः । तदुप- स्वरवत्त्वम् रागात्तु व्यञ्जनान्यपि कदाचित्तद्धर्मभाञ्जि । तेषु स्वरितग्राहीणि मुख्यानि । तानि च अनुस्वारस्वरभक्तिङनणादीनि । 88. शिक्षासङ्ग्रह: । Benares Edition, p. 410. 89. Do. Do. Pp. 1, 2. 90. “The pitch of the accents is merely relative, and the attempt to fix them absolutely by certain definite notes is merely one more instance of the spirit of artificial systematizing that meets one everywhere in Indian Literature ” (Burnell). This reason however cannot be accepted because, firstly, the wording of the text does not imply the identification of the accent with musical notes,’ Siddheshwar Varma, op. cit. pp. 159-61.
xxviii यथा वायव्य श्वेतम् दे॒षावस्तो॑ह॒विष्म॑ती, गर्भमायनं, भ्य, ब्रह्मण् + वन्तः, इत्यादिषु । एतेषां च स्वाभाविकेनार्धमात्राकालेन उच्चारणं दुष्करमिति कालाधिक्यमपि विहितं शिक्षासु- स्वरितप्रायनुस्वारो द्विमात्रो मात्रिकात् परः । द्विमात्र उत्तमो ह्रस्वादध्यर्धो व्यञ्जनात् परः ॥ इति ॥ एवमुदात्तादिधर्मोऽपि कचित् — अरुणाः कोण्डर पयः, विधायर्षिरवौचत् — इत्यादौ । अत्र स्वरभक्तिः ‘स्वतन्त्रा’ इत्युच्यते । अतोऽचामेव स्वराः इत्युत्सर्गः ॥ इमे च उदात्तादयो वेदभाषा साधारणाः, वेदभाषासाधारणाः, तयोः शब्दार्थ- भाषासाधारण्यं स्वराणाम् योरेकरूपत्वात् । तथा च मीमांसकाः- प्रत्यक्षप्रत्यभिज्ञानाच्छब्दैकत्वं प्रतिष्ठितम् । यथाश्रुतगवादीनां यापि वाच्यान्तरे स्थितिः । अर्थैकत्वाविरोधेन गुणमात्रान्यतापरा || इति ॥
पाणिनिरपि स्वरसूत्रेषु छन्दोऽधिकारमकुर्वन् भाषासाधारण्यं स्वराणामभित्रैति । अन्यथा हि छन्दोऽधिकारे स्वरसूत्राण्यपठिष्यत् । तथा केषुचित् सूत्रेषु ‘छन्दसि’ ‘भाषायाम्’ इति विशिष्य वचनमपि उक्तार्थे अनुकूलम् । पाणितीयानुबन्धानां प्रायः स्वरार्थत्वाद्वाषायां स्वराभावे वैयर्थ्यमेव तेषां स्यात् । उक्तं च- किं बहुना श्रुतिरखिला ब्रह्माद्वैतैकतत्परा यद्वत् । तद्वद्व्याकृतिरखिला स्वरबोधैकप्रयोजना जयति ॥ इति ॥ वार्त्तिककारोऽपि स्वरविधौ स्वरसद्भावमनुमनुते || 91. वैदिकाभरण, P. 41. छन्दोऽधिकारमनुपसचक्षाणो भाषायाँ 92. तन्त्रवार्त्तिकम् I. 3. 9. Poona Edition, p. 292. 93. स्व. सि. च. P. 3.
भाष्यकारोऽपि
xxix दाण्डिनायनसूत्रे अष्टाध्याय्याः स्वर्येण पाठ- मभिप्रयन् भाषा साधारण्यं स्वराणां बोधयति । अत एव ‘मन्त्रो हीन:’ इति शिक्षावचने मन्त्रपदं विहाय ‘दुष्टः शब्द:’ इति पाठः 95 96 स्वीकृतः पस्पशायाम् । नागेशादिभिश्च 6 ‘भाषायां स्वरनियमो न ’ इति भ्राम्यन्तः परास्ता: " इत्यसकृदुक्तम् 11 अथ वेदेषु ऐतरेयब्रह्मणादिषु इदानीमित्र सर्वदा त्रैस्वर्याभावः ? उत कालान्तरे स्थितं स्वर्यं विच्छिन्नसम्प्रदायमभूत् ? अत्र भट्टोजिदीक्षिताः” – न सर्वत्र वेदे त्रैस्वर्यसद्भावः । सर्वेषु वेदभागेषु त्रैश्वर्यम् ; ‘विभाषा छन्दसि’ इति सूत्रात् । तद्धि व्यवस्थितविभाषया त्रैश्वर्यमैकश्रुत्यं च छन्दसि विदधाति । तत्र बह्वृचानां मन्त्रे त्रैस्वर्यम्, ब्राह्मणे ऐकश्रुत्यमेव, इति व्यवस्था तैत्तिरीयाणां तु मन्त्रब्राह्मणयोरुभयोरपि त्रैस्वर्यम् इति न चाय मैच्छिको विकल्पः, वेदे आपाद्यमानरूपाभावात् इति ॥ 99 “वृत्तिकारहरदत्तनागेशास्तु
ऐच्छिकविकल्पमङ्गीकृत्य 1 छन्दसि सर्वत्र एकश्रुतिः त्रैस्वर्येण विकल्प्यते इति वदन्ति । तथा च शब्देन्दुशेखरे”– परे तु मन्त्रे त्रैस्वर्यम्, ब्राह्मणे ऐकश्रुतम् इति बह्वचानाम् । तैत्तिरीयाणां तु उभयत्रापि त्रैस्वर्यमिति व्यवस्थितविभाषात्वमस्य छन्दसि स्वीकृतं कैश्चित् । तन्न युक्तम्, ‘शाच्छो:’ इति सूत्रे भाष्ये परिगणितव्यवस्थितविभाषास्वपाठात् । अत एव केषुचिद्देशेषु स्वाध्यायकाले सर्ववेदानामैकश्रुत्येन पाठो दृश्यते … । ‘एकश्रुतिः स्वरसर्वनाम’ इति 94. म. भा. on VI. 4. 174, Kielhorn Edn. p. 234. 95. N. S. Edn. I. p. 27. 96. शब्देन्दुशेखरः Benares Edn. p. 936. 97. शब्दकौस्तुभ: Benares Edn. Vol. Ii, p 17. काशिकावृत्तिः I. 2. 36. 98. 99. p. 936.
XXX भाष्येणापि एवं बोधनाच्च । यथा सर्वनामशब्दाः तदादयः सर्वपदस्थाने प्रयुज्यन्ते, एवं सर्वस्वरस्थाने एकश्रुतिः प्रयोक्तव्या इति तदर्थः । अनेन स्पष्टमेव त्रैस्वर्यैकश्रुत्ययो रैच्छिक विकल्पविषयता उक्ता । वृत्तिकारोऽपि छन्दसि ऐच्छिकमेवैकश्रुत्यमाह । इदानीं धर्माधिक्याय त्रैश्वर्येण पाठः परम्परासम्प्रदायेन, अन्येषामैकश्रुत्येनेति सम्प्रदायश्रद्धाजाड्येन तु ते नान्यथा पठन्ति । नैतावता विकल्पस्य ऐच्छिकत्वभङ्गः ’ इति 100 ।। युक्तच नागेशपक्षः । न हि ब्राह्मणेषु इदानीं त्रैस्वर्यानुपलम्भः कालान्तरेऽपि तदभावं साधयितुमलम् । न च त्रैश्वर्यं चेद्भविष्यत् ब्राह्मणान्तरेष्विव तेष्वपि तत्सम्प्रदायोऽन्ववर्त्स्यत् इति वक्तुं युक्तम् । विच्छेदनिमित्तानि हि नास्मदिच्छाधीनानि । तस्मात् क्वचिद्ब्राह्मणे त्रैश्वर्यस्य दर्शनेन तत्सामान्याद्ब्राह्मणान्तरेष्वपि तत्सत्त्वानुमानमेव ज्यायः । वेदे आपाद्यमानरूपासंभवात् इति हेतुस्तु तदुक्तः असिद्ध: । तैत्तिरीयारण्यके इदानीं द्राविडान्ध्रपाठभेदोपलम्भात् । यदि तु तयोरेक एव वैदिकसम्प्रदायागतः पाठः, अन्यः असाम्प्रदायिकः इति, तदा सम्प्रदायविच्छेदः अभ्युपगतः एव । अपि च महाभारते सारस्वतोपाख्याने अनावृष्ट्या देशक्षोभे ब्राह्मणाः आहारालाभात् स्मृतिशक्तिक्षये अधीतान् वेदान् व्यस्मार्षुः इति, तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् । सर्वेषामेव राजेन्द्र न किञ्चित् प्रतिभाति ह ।। 101 इत्यादिना स्पष्टमुक्तम् । तथैव भूकम्पादिभिर्निमित्तैः अधीतवेदेषु व्यापन्नेषु सम्प्रदायविच्छेदो नासम्भाव्यः । बहुजनपरिगृहीतास्तु शाखा अविच्छिन्न सम्प्रदाया अनुवर्तन्ते इदानीमपि 1 अपि चाङ्ग- 100. “ सर्वमक्षरजातम् एकश्रुतिस्वरेण प्रयोक्तव्यम् इति पूर्वेषां मतम् । पूर्वे वैयाकरणाः । ते हि वेदाध्ययने ऐकश्रुत्यं विकल्पयन्ति ‘विभाषा छन्दसि’ वैदिका. p. 411. इति” 101. शल्यपर्व ५२. ४२. Bombay Edn. p. 103.
xxxi विद्यासु व्याकरणादिषु निष्णातैरेव वेदः संरक्ष्येत । अन्यैस्तु स्मृतिबलात् यथाधीतं पठितुं शक्यते । विस्मरणं च प्राणिमात्रसाधारणमिति सति सन्देहे निर्धारणोपायापरिज्ञानात् वर्णान्यथात्वं स्वरवैलक्षण्यं वा दुष्परिहरम् । इदानीं हि वेदमधीयानाः अवकाशाभावेन कृतकृत्यताभिमानेन वा प्रायो न शास्त्राणि अधीयते । शास्त्रकुशला अपि प्रायो वेदाध्ययनं नाभिनिविशन्ते । अत: उभयसंश्लेष आवश्यकः वेदसंरक्षणाय । स चाधुनिकेष्वध्येतृषु विरलः । न चायमध्येतॄणामपराधः ; भूयान् हि कालः अपेक्ष्यते तत्सम्पादनाय ! वृत्तिकाङ्क्षिणश्च ते शीघ्रमेवाध्ययनं समापयन्ति इति इदानीं त्रैश्वर्येणाधीयमानोऽपि वेदभागः परिहीयेत तेन कदाचित् इति शङ्कायाः सत्यवकाशे कुतो विशयः पूर्वोक्तब्राह्मणभागेषु सम्प्रदाय विच्छेदे ॥ एवं लोकवेदसाधारणमपि त्रै स्वर्यं काले गच्छति एकश्रुतिः त्रैस्वर्यलोपहेतुः यज्ञकर्मणि वेद एव लब्धास्पदया एकश्रुत्या अभिभूयते स्म ॥
- पूर्वोक्तत्राह्मणानि लुप्तत्रैस्वर्याणि पुरुषार्थसाधनतया अध्येयानि संवृत्तानि । विस्वरश्च वेदभागो नाध्येतुमर्ह इति एकश्रुत्या तद्ध्ययनसम्प्रदायः समजनि ॥
- तथा भाषायामलङ्काराः श्लेषादयः कविभिराद्रियन्त । त्रैश्वर्यं च तद्विरोधि । न हि ’ सर्वदोमाधवः पायात्’ इत्यादि श्लिष्टं काव्यम् अर्थद्वयसाधारण्येन त्रैस्वर्येण प्रयोक्तुं शक्यते । अत आलङ्कारिकैः स्वप्रयोजनानुसारेण एकश्रुत्यैव काव्यानि निर्ममिरे पेठिरे च ॥
- वेदानधिकारिणां स्त्रीशूद्रादीनां धर्माद्यवगतिहेतोः पुराणानि व्यासेन प्रणीतानि । तेषां च वेदसिद्धत्रैस्वर्येणाध्ययनं तैर्दुष्करम्, वेदतुल्यतया श्रोतृभिः दुस्सहं च इति तत्र एकश्रुतिपाठः सुलभः स्वीकृतः ॥
xxxii 4. व्यवहारसिद्धासु भाषासु तदीयाः स्वरवर्णगता विशेषाः क्रमेण परिचीयमानाः न क्लेशावहाः । अतथाभूतासु तु तदीयलक्षणज्ञानमन्तरा ते दुर्ज्ञानाः । संस्कृतभाषा च प्रकृतिप्रत्ययविभागबहुला स्वभावतो दुर्प्रहा । तत्र यदि स्वरलक्षणानामपि पाठः नियमेनापेक्षितः, सुरापस्य भूतावेश एव । दृश्यन्ते हि वेदैकदेशस्य सस्वरस्य शब्दमात्रस्य ग्रहणाय वर्षपञ्चकं ततोऽधिकं च परिश्राम्यन्तः । अत एव पूर्वोत्तरमीमांसे अधीयानाः वेदार्थ विचारयन्तोऽपि विचार्यमाणवेदभागम् एकश्रुत्याधीयते स्वरशास्त्राद्विभ्यतः केशभूयस्त्वात् भाषासु त्रैस्वर्यं परित्यक्तम् ॥ अतः वेदेषु तु सम्प्रदायसिद्धस्वरस्यान्यथाकरणे प्रत्यवायः स्यादिति भिया आस्तिकैः श्रद्धालुभिः त्रैस्वर्यं परिपाल्यते । वस्तुतस्तु तेष्वपि ‘विभाषा छन्दसि’ इति एकश्रुतिः शास्त्रविहितेति तया प्रयोगे न प्रत्यवायशङ्कावसरः । ’ मन्त्रो हीनः स्वरतो वर्णतो वा मन्त्रो हीनः स्वरतो वर्णतो वा’ इति शिक्षावचनमर्थवादः, त्रैस्वर्येण प्रक्रमे त्रै स्वर्येण प्रक्रमे अन्यथाप्रयोगनिषेधपरं वा इति नागेशाद्यभिप्रायः । एवं च त्रैस्वर्यं वेद एव क्वचित् शाखासु नियतम् ॥ केचित् तु 102 ’ विभाषा छन्दसि’ इति एकश्रुतिर्वेद एव विकल्पेन विहिता इति लोकेषु त्रैस्वर्यनियम एव पाणिनिसम्मत इति वदन्ति । नागेशभट्टोजिदीक्षितौ तु दाण्डिनायनसूत्रे ऐक्ष्वाकशब्द एकश्रुत्या पठ्यते इति भाष्यात्, पस्पशायाम् ’ श्वेतो धावति ’ अलम्बुसानां याता ’ इति व्यर्थकं द्व्यर्थकं वाक्यमिति भाष्यात्, वेद इव लोके न स्वरो विशेषाध्यवसाय हेतुरिति काव्यप्रकाशोक्तेश्व, ‘विभाषा अछन्दसि’ इति योगविभागेन भाषायामपि एकश्रुतिविकल्पमिच्छतः । इदमेव युक्तम्, यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः , 103 इति भाष्येण साधुप्रयोगनियमस्य C 102. C. V. Vaidya, History of Sanskrit Literature, III, p. 133. स्व. सि. च. PP. 382-3. 103. म. भा… ShrSpFkumar coRD888and. Co. Shri Vipin Kumar Col De Band. In Public Domain.
XXX111 यज्ञकर्ममात्रविषयतायाः, ततोऽन्यत्र तु व्याकरणाननुगतस्यापि शब्द- प्रयोगस्य प्रत्यवायहेतुत्वाभावस्य चावगमात् । शास्त्राननुगमश्च शब्दतः स्वरतश्चेति भाषायाम् अन्यथास्वरस्यापि - प्रयोगो भाष्य- सम्मतः ; परन्तु योगविभागपक्षे भाष्यप्रयोगस्य साधुता सिध्यति, अन्यस्मिंस्तु नेति । तत्र भाष्यप्रयोगमात्रेण केषाञ्चिच्छब्दानां सूत्राननुगृहीतानामपि साधुत्वमभ्युपगच्छन्तः भाष्यमतानुसारेण सूत्रव्याख्यानसम्भवे तत् कुतो नाङ्गीकुर्वन्तीति त एव प्रष्टव्याः || स्वरसिद्धान्तचन्द्रिकाकर्ता अयं श्रीनिवासदीक्षितः दाक्षिणात्यः सङ्कतिगोत्रोत्पन्नः । अस्य पिता कृष्णविपश्चित् । एतद्ग्रन्थकर्ता माता अनन्ताम्बा । साङ्गे यजुर्वेदे व्याकरणन्यायमीमांसासु चाधीती | रामभद्रदीक्षितस्य जानकीपरिणयादिग्रन्थकर्तुः शिष्यः । न केवलं स एव गुरुः अस्य, किन्तु अन्येऽपि केचन इत्युपोद्घातइलोकेभ्यः तदीयेभ्यः स्पष्टम् 1 क्रैस्तवीय सप्तदशशतकोत्तरार्धोऽस्य जीवितकालः । अस्य गुरुः किल रामभद्रदीक्षितः चोलाधिपेन शहाजिमहाराजेन तदीयवैदुष्य सन्तोषितेन तदानीन्तनानां विदुषामावासार्थं स्वनाम्ना निर्मिते अग्रहारे शहाजिराजपुरे ( तिरुविशलू र् ) सबहुमानं स्थापित: 103 वैयाकरणमुख्यो नागेशोऽपि एतत्समानकालिकः । स हि जयपुराधिपेन जयसिंहेन सप्तदशशतकावसाने स्वीयाश्वमेधयज्ञायाहूतः 104 । अत एव स्वरसिद्धान्तचन्द्रिकायाम् अयम् एतद्गन्याश्च न निर्दिष्टाः । अनेन च अस्मदुग्रन्थकर्ता तदीयो वा ग्रन्थो नोल्लिखितः स्वग्रन्थेषु । अतः परस्परानभिज्ञौ इमौ द्वावपि इति सम्भाव्यते । अस्याभिजनप्रदेश: शहाजिराजपुरमेव स्यादिति रामभद्रदीक्षितशिष्यतया ऊहितुं युक्तम् ॥ इयं पाणिनीयस्वरसूत्राणां स्वरसिद्धान्त चन्द्रिका व्याख्या विशिष्य रुद्रार्यपुत्रेण स्वरमञ्जर्याः नृसिंहविपश्चिता विरचितायाः खण्डनरूपा । अस्या ग्रन्थान्तरेभ्यो विशेषस्तु– 104. Indian Antiquary 1904, pp. 126, ff. 105. Belvalkar, Systems of Sanskrit Grammar, p. 49, E
xxxiv भाष्य काशिकादिषु अष्टाध्यायीक्रमेणैव सूत्राणि व्याख्यातानि । ततस्तेषामुत्सर्गापवादताविवेको दुखधारः । अत्र तु उत्सर्गापवादक्रमेणैव सूत्राणि व्याख्यातानीति अध्येतॄणां तदवगमक्लेशः परिहृतः । सिद्धान्तकौमुद्यां प्रायः बह्वचशाखोदाहरणानामेव प्रदर्शनेन यजुः शाखिनां ततः उपकारो नास्तीति तेषां सुखावबोधाय याजुषाण्येवोदाहरणानि सति सम्भवे अत्र सङ्ग्रहीतानि । तथा साधारणप्रकृतिप्रत्ययसमास तिङन्तविभागेन सूत्राणि व्याख्यातानि सिद्धान्तकौमुद्याम् । अत्र तु द्वादशधा विभज्य व्याख्यातानि इति विस्पष्टं विषयविवेकः अस्माद्ग्रन्थाज्जायते । दोषाश्च केचन तद्गताः अत्र प्रदर्शिताः । स्वरमञ्जर्यां यजुश्शाखामाश्रित्य प्रवृत्तायामपि बहूनां स्वरसूत्राणां व्याख्यानाकरणात्, अन्यथासिद्धोदाहरणप्रदर्शनात्, अपसिद्धान्तबाहुल्याच्च याजुषास्तद्दर्शिनो मा स्म भ्राम्यन् इति तदीया दोषाः प्रपचिताः अत्र | अपेक्षितानि प्रातिशाख्यसूत्राण्यपि व्याख्यातान्यत्र । पूर्वेषां व्याख्यातॄणां मतानि तत्र तत्र प्रदर्श्य विचार्य सिद्धान्तप्रदर्शनेन ग्रन्थान्तरावलोकनफलमप्यत एव सिध्यति । व्याख्यानसरणिश्च प्रायः प्राचां काशिकावृत्तिहरदत्तादीनां प्रक्रियामनुरुन्धे । कचित्तु मतान्तरखण्डनाग्रहोऽपि समुपलभ्यते । यथा ’ विभाषा छन्दसि ’ इति सूत्रे ’ विभाषा अच्छन्दसि’ इति विभज्य लोकेऽप्येकश्रुतिविकल्प:, दाण्डिनायनसूत्रे एकश्रुत्या सूत्रपाठ भाष्योक्तं श्वेतो धावति ’ अलम्बुसानां याता’ इति व्यर्थकं वाक्यमिति पस्पशान्ते भाष्यं चावष्टभ्य भट्टोजिदीक्षितैरङ्गीकृतः । छन्दोवत् सूत्राणि ’ इति प्रथमम्, त्रैस्वर्येण सकृत्प्रयुक्तं वाक्यं सादृश्यात् समानाकारं वाक्यान्तरं स्मारयति, तस्माच्च अर्थान्तरबोधः, एतावतैव " अर्थद्वयव्यवहारः, इति द्वितीयं चोपष्टम्भकमन्यथोपपाद्य योग- विभागः तदुक्तः खण्डितः अस्मद्ग्रन्थकर्त्रा 105 | अत्रेदं चिन्तनीयम् - एकश्रुतिः स्वरसर्वनाम यथा नपुंसकं लिङ्गसर्वनाम’ इति दाण्डि- नायनसूत्रे भाष्यम् अत्र 106. स्व. सि च., PP. 382-3. च नपुंसकलिङ्गदृष्टान्तेन एकश्रुतेः
XXXV त्रैश्वर्यस्थाने सर्वत्र प्रयोगः भाष्यात् स्वरसतः प्रतीयते । अगतिकगतितया छन्दोवत् सूत्राणीति न्यायेन तत्प्रयोगाभ्यनुज्ञापरत्ववर्णनं तु अस्य क्लिष्टं सन्दर्भविरुद्धं च । तथा स्मृताद्वाक्यान्तरादर्थान्तरबोधश्च ‘श्वेतो धावति’ इति वाक्ये न वक्तुं शक्यते । श्रुतवाक्याद्भिन्नस्वरस्य वाक्यान्तरस्य तद्वैसादृश्येन स्मृतेरसम्भवात् । यथा हि रूपभेद: सादृश्यविरोधी, एवं स्वरभेदोऽपि इति कथमन्यथोपपत्तिरिति । परन्तु साधारणा ईदृशा द्वित्रा दोषाः सर्वेषां ग्रन्थकर्तॄणामिति न किमप्यत्र ग्रन्थे कलङ्कायते । अतिसरलैः सन्दर्भैः सम्भावित सर्वशङ्कानिरसनपूर्वं सम्यगर्थप्रदर्शने स्वरसूत्रव्याख्यानां धुरि प्रतिष्ठापनीयैषा कृतिः इति सुश्लिष्ठेयमार्या प्रन्थकृत: - न्यक्कृतपूर्वनिबन्धा सत्कृतसत्सम्प्रदाय रमणीयां । कस्य न मोदं तनुते कृतिरेषा मृदुपदावलीरचिता ।। " इति 206 ।। इति शम् अण्णामलै विश्वविद्यालयः धातृ-चैत्रशुक्ल दशमी विद्वद्विधेयः क. अ. शिवरामकृष्णशास्त्री सम्पादकः 107. स्व. सि. च., P. 2.