प्रत्ययः
सोदात्ताः
प्रत्ययः। परश् च। आद्युदात्तश्च।
अपवादा अधः।- अन्तोदात्ताः
- चित्-
चितः
६.१.१६३ अन्त॑ उ॒दात्तः॑।- घुरच् - भङ्गुर꣡म्, भासुर꣡म्, मेदुर꣡म्
[तद्धितस्य] कितः
अन्तोदात्तः। नड + फक् → ना॒डा॒य॒न ।
- चित्-
उपोत्तमं रिति
- अनीयर् - अनी꣡यर्।तित् स्वरितम्
। चि॒की॒र्ष्य॑म् (सन्नन्ताद् यत्) का॒र्य॑म् (ण्यत्)।- अपवादाः - द्व्यच् यत् - नौ। ण्यति केचित्।
अनुदात्ताः
अनुदत्तौ सुप्पितौ
। (सुबन्तेष्व् अपवादा अन्यत्रोक्ताः।)- किन्तु -
ह्रस्वनुड्भ्यां मतुप् [उदात्तः]
- वा॒यु॒मान्, अ॒क्ष॒ण्वता॑ रे॒वान्। - विकरण-प्रत्ययेषु शब् अनुदात्तः - शिष्टा उदात्ताः।
- किन्तु -
तास्य् अनुदात्तेन्-ङिद्-अद्-उपदेशाल् ल-सार्वधातुकम् अनुदात्तम् अहन्विङोः
। (तासि | अनुदात्तेत् | ङित् - {ह्नुङ् इङ्}| अदुपदेशः/ शप्-ग्राही) धातुः + लाँदेशः सार्वधातुकः- अद्-उपदेश-धातवो नाम अद्-अङ्गाः, यत्रेमे विकरण-प्रत्यया दृश्यन्ते - कर्तरि शप्, भावकर्मणोर् यक्, दिवादिभ्यः श्यन्, तुदादिभ्यः शः, चुरादिभ्यो णिच्+शप् इति । (नेमे - अदादि+++(शब्लुक्)+++-स्वादि+++(स्नु)+++-रुधादि+++(स्नम्)+++-तनादि+++(उ)+++-क्र्या॒दिभ्यः॑+++(श्ना)+++। ) तेभ्यः शतृशानचौ꣡ प्राये꣡णा꣡नुदात्तौ।
- … + शतृँ -
नि॒षीद॑त्
। - … + शानच् (तिङ्शित्सार्वधातुकम्।) - र॒क्ष्यमा॑णम्।
- विजृ꣡म्भते
- … + शतृँ -
- अनुदात्तेत् - आस् - आ꣡स्ते, वस् - व꣡स्ते ॥
- ङित्
- षूङ् - सू꣡ते, शीङ् - शे꣡ते ॥
- नात्र - विधूनुते꣡ अधीते꣡।
- अद्-उपदेश-धातवो नाम अद्-अङ्गाः, यत्रेमे विकरण-प्रत्यया दृश्यन्ते - कर्तरि शप्, भावकर्मणोर् यक्, दिवादिभ्यः श्यन्, तुदादिभ्यः शः, चुरादिभ्यो णिच्+शप् इति । (नेमे - अदादि+++(शब्लुक्)+++-स्वादि+++(स्नु)+++-रुधादि+++(स्नम्)+++-तनादि+++(उ)+++-क्र्या॒दिभ्यः॑+++(श्ना)+++। ) तेभ्यः शतृशानचौ꣡ प्राये꣡णा꣡नुदात्तौ।
अङ्गे स्वरविकारः
- लित्-
लिति
प्रत्ययात् पूर्वम् उदात्तः।- अर्वाचीन꣡ता, नि॒र्वच॑नम्। द꣡र्शनम् (ल्युट्)।
ञ्नित्य् आदिर् नित्यम्
उदात्तः फलस्य।- नित्त्वात्
- तुमुन् - कर्तु॑म्। (गतिसमासे ऽपवादाः वक्ष्यन्ते। )
- क्तिन् - स्मृतिः॑
- सूत्र॑म् - ष्ट्रन्।
- ञित्
- दुष् + घञ् → दो꣡षः (भावे घञ्)। (गतिकारकोपपदेषु नैवम्।)
- कर्षादिः | आकारो घञन्ते चेन्, कर्षतेर् वा नैवम् -
कर्षात्वतो घञोऽन्त उदात्तः
। कर्षः꣡, पाकः꣡, त्यागः꣡, रागः꣡, दायः꣡, धायः꣡, रा꣡मः ॥
- कर्षादिः | आकारो घञन्ते चेन्, कर्षतेर् वा नैवम् -
- गर्ग + यञ् → गा꣡र्ग्य ।
- दुष् + घञ् → दो꣡षः (भावे घञ्)। (गतिकारकोपपदेषु नैवम्।)
- नित्त्वात्
- निष्ठान्तेष्व् आद्युदात्ताः
- द्व्यच् संज्ञायां -आकारादिः
निष्ठा च द्व्यजनात्
- गु꣡प्तः, बु꣡द्धः, द꣡त्तः
- शुष्क, धृष्ट
- द्व्यच् संज्ञायां -आकारादिः
- यत्, ण्यत्
- द्व्यच् यत् - नौ।
यतोऽनावः
। चे꣡यम्, जे꣡यम् - ई꣡ड्यम्, व꣡न्द्यम्, वा꣡र्यम्, श꣡स्यम्, दो꣡ह्या
- द्व्यच् यत् - नौ।
आगमाः
- आगमा अनुदात्ता भवन्ति साधारणतया -
यासुट् परस्मैपदेषूदात्तो ङिच्च
इत्यनेन ज्ञापनात्। - एषु विकरण-प्रत्यया नान्तर्भवन्ति।
धातुः
- धातुस्वरो ज्ञेयः।
- धातोर् अन्त उदात्तः प्रायेण -
धातोः
। - प꣡चति, प꣡ठति, ऊर्णो꣡ति, गोपाय꣡ति, या꣡ति ॥
तिङन्तेषु
- प्रत्ययस्वरो लभ्यः नानासूत्राणि मनसि निधाय।
यासुट् परस्मैपदेषूदात्तो ङिच्च
- कुर्युः꣡
- तिङन्तेषु प्रारम्भे अट्-आट् उदात्तौ।
उपसर्गाः
- तिङन्तस्य सर्व-निघाते सति +उपसर्गस्य स्वरस् तिष्ठति । यथा “ओ३॒म् प्रोक्ष॑”, तथा पादादौ
निया॑ति
।- नान्यथा -
तिङि चोदात्तवति
। यथा - “धियो॒ यो नः॑ प्रचो॒दया॑त् ॥”
- नान्यथा -
- उपसर्ग-शृङ्खलायाम् अन्तिमस्यैवोदात्तो भवितुम् अर्हति -
गतिर्गतौ (अनु॑दात्तः)
।
यथा - अ॒न्वाव॑र्ते।
+++(नक्षत्र-सूक्ते अ॒भिसय्ँय॑न्तु इत्य् अपवादो भाति। )+++ - भ्रमास्पदम् -
- इड॒ एहि॑ । अत्र आ + इ॑हि।
सर्वनिघातः
- तिङङ् अतिङः। “रा॒मो गच्छति।”
अपवादाः
- कात्यायनेन “समानवाक्ये” एव इदं प्रवर्तते इत्युक्तम्। “एकतिङ् वाक्यम्” इत्यपि । “अद॑र्श्म॒ ज्योति॒र्, अवि॑दाम दे॒वान् ।”
न लुट्।
“श्वः कर्ता॑। श्वः क॒र्तारौ॑। मासेन क॒र्तारः॑।”- यत्, तथा - {यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र} इत्येतैर् निपातैर् युक्तस्य तिङन्तस्य न सर्वनिघातः।
निपातैर् यद्यदिहन्त-कुविन्-नेच्चेच्-चण्-कच्चिद्-यत्र-युक्तम्
। नह प्रत्यारम्भे
- न꣡ह भोक्ष्य꣡से।सत्यं प्रश्ने
- सत्यं꣡ भोक्ष्य꣡से।अङ्गाप्रातिलोम्ये
अङ्ग꣡ प꣡च। अङ्ग꣡ प꣡ठ ॥हि च
- स꣡ हि꣡ प꣡च। स꣡ हि꣡ प꣡ठ।- यावद्-यथाभ्याम्
यावद्यथाभ्याम्
- यावद् भुङ्क्ते꣡, यथा भुङ्क्ते꣡ यावदधीते꣡ यथाधीते꣡, देवदत्तः प꣡चति यावत्, देवदत्तः प꣡चति यथा ॥पूजायां नानन्तरम्
,उपसर्गव्यपेतं च
तु-पश्य-पश्यताहैः पूजायाम्
,अहो च
,शेषे विभाषा
- माणवकस्तु भुङ्क्ते꣡ शोभनम्; पश्य माणवको भुङ्क्ते꣡ शोभनं, पश्यत माणवको भुङ्क्ते꣡ शोभनम्, अह माणवको भुङ्क्ते꣡ शोभनम् ॥ अहो देवदत्तः प꣡चति शोभनं, अहो विष्णुमित्रः करो꣡ति चारु ॥
- क꣡टम् अ꣡हो करिष्य꣡सि, क꣡टम् अ꣡हो करिष्यसि
नन्वित्यनुज्ञैषणायाम्
- न꣡नु करो꣡मि भोः? न꣡नु ग꣡च्छामि भोः?
किं क्रियाप्रश्ने ऽनुपसर्गम् अप्रतिषिद्धम्
- किं देवदत्तः प꣡चति, आहोस्विद् भुङ्क्ते ॥ किं देवदत्तः शेते꣡, आहोस्विदधीते꣡ ॥
- नात्र - किं देवदत्त ओदनं प॒॒च॒॒ति॒॒ आहोस्विच्छाकं ॥ किं देवदत्तः प्रपचति आहोस्वित् प्रकरोति ॥ किं देवदत्तो न पठति आहोस्वित् न करोति ॥
एहिमन्ये प्रहासे लृट्
- एहि मन्ये ओदनं भोक्ष्य꣡से, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः ॥ एहि मन्ये रथेन यास्य꣡सि, नहि यास्यसि, यातस् तेन पिता ॥जात्वपूर्वम्
- जा꣡तु भोक्ष्य꣡सेकिम्वृत्तं च चिदुत्तरम्
- कश्चिद् भुङ्क्ते꣡, कश्चिद् भोज꣡यति, कश्चिद् अधीते, केनचित् करो꣡ति, कस्मैचिद् द꣡दाति, कतरश्चित् करो꣡ति, कतमश्चिद् भुङ्क्ते꣡आहो उताहो चानन्तरम्
- आहो or उताहो भुङ्क्ते꣡, उताहो प꣡ठति ॥शेषे विभाषा
- आहो देवदत्तः प꣡चति or प॒॒च॒॒ति॒॒ ॥
- गत्यर्थक-लोट् … कर्तृ-कर्म-साम्यवत्-लृङ् - आ꣡ग॒॒च्छ॒॒ दे॒॒व॒॒द॒॒त्त॒॒ ग्रा꣡मं, द्रक्ष्य꣡स्येनम्।
- गत्यर्थलोटा युक्तं
लोट् च
- आगच्छ देवदत्त ग्रामं प꣡श्य ॥विभाषितं सोपसर्गमनुत्तमम्
- आगच्छ देवदत्त ग्रामं प्रविश꣡ or प्र꣡वि॒श॒ ॥
हन्त च
(सोपसर्गमनुत्तमम्) - हन्त प्र꣡ वि॒॒श॒॒ or प्रविश꣡, हन्त प्र꣡ शाधि or प्रशाधि꣡ ॥- आम् … एकपदमितदूरे सम्बोधनम् असमीपस्थः - आम् पचसि देव꣡दत्ता꣡ ३; आ꣡म् भो॒॒ देवदत्ता ३ ॥
यद्धितुपरं छन्दसि
- उ॒दसृ॑जो॒ यद॑ङ्गिरः । उ॒शन्ति॒ हि ।- अगतिपरं तिङन्तम् + (चन चिदिव गोत्रादि तद्धित आम्रेडित)
- चित् - देवदत्तः पचति चित्। इव - देवदत्तः पचतीव।
- गोत्रादि - देवदत्तः पचति गोत्रम्। देवदत्तः पचति ब्रुवम्। देवदत्तः पचति प्रवचनम्।
- तद्धित - देवदत्तः पचतिकल्पम्। देवदत्तः पचतिरूपम्।
- आम्रेडित - देवदत्तः पचति पचति।
चादिषु च
- अगतिपरं तिङन्तम् + (च | वा | ह | अह | एव)- देवदत्त प꣡चति च खा꣡दति च, देवदत्तः प꣡चति वा खा꣡दति वा, देववत्त प꣡चति ह खा꣡दति ह, देवदत्तः प꣡चति अह खा꣡दत्यह, देवदत्तः प꣡चत्येव खा꣡दत्येव ॥
चवायोगे प्रथमा
- च | वा … प्रथम-तिङन्तम्- गर्दर्भाश्च काल꣡यति, वीणां च वादयति। गर्दभान् वा काल꣡यति, वीणां वा वादयति।
विकल्पाः
पुरा च परीप्सायाम्
(त्वरायाम्)- अधीष्व मानवक, पुरा विद्यो꣡तते विद्युत्।
नन्वित्यनुज्ञैषणायाम्
- न꣡नु करो꣡मि भोः? न꣡नु ग꣡च्छामि भोः?- (किं)
लोपे विभाषा
- देवदत्तः प꣡चति (or प॒॒च॒॒ति॒॒)
प्रातिपदिकेषु स्वरः
फिषो+++(=प्रातिपदिकस्य)+++ ऽन्त उदात्तः
।
निपातादयः
निपाता आद्युदात्ता, उपसर्गाश् चाभिवर्जम्
(फि।सू।4।80)। तेन परि॑, प्र, उप॑, अप॑ …॥एवादीनाम् अन्तः
।चादयोऽनुदात्ताः।
यथेति पादान्ते।
सर्वैकान्यकिंयत्तदः काले दा
- सर्वदा꣡, एकदा꣡, यदा꣡
समासे
- साधारणतः - उत्तर-पद-प्रकृतेर् अन्तिमाक्षर उदात्तः -
समासस्य
इति सूत्रम्। यथा - … ब्रह्मवर्च॒सेन॑। - उभयपदप्रकृतिस्वरः
उभे वनस्पत्यादिषु युगपत्। देवताद्वन्द्वे च। नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु
- Índra–Sóma, Índra–Víṣṇu, Agnī́–Ṣóma are doubly accented because their second members all have accent on their first syllables.
बहुव्रीहाव् अपवादाः
बहुव्रीहौ प्रकृत्या पूर्वपदम्
- पूर्वपदस्य उदात्तः।इन्द्र॑शत्रुर्वर्धस्व
। (शत्रुर् हन्त्रर्थे।) अत्र॑ पठ्यतां॒ तद् वृ॒त्रस्य॑ वृ॒त्तम् ।
उत्तरपदादिः
नञो जर-मर-मित्र-मृताः
इत्यनेन अ॒मृत॑म्, अज꣡रः, अम꣡रः, अमि꣡त्रः, अमृ꣡तः।- सु + … बहुव्रीहौ
सोर्मनसी अलोमोषसी
- सु + (*मन् | *अस् - {लोमन्म्, उषस्})- सुक꣡र्म्मन्, सुध꣡र्मन्, सुप्र꣡थिमन्, सुप꣡यस्, सुय꣡शस्, सुस्रो꣡तम् सुस्र꣡त् (←स्रस्) सुध्व꣡त् (←ध्वंस्)
क्रत्वादयश्च
- सुक्र꣡तुः, सुदृ꣡शीकः, सुप्र꣡पूर्तिः, सुह꣡व्यः, सुभ꣡गः, सुप्र꣡तीकःआद्युदात्तं द्व्यच् छन्दसि
- सु + द्व्यच् आद्युदात्तं छन्दसि- स्व꣡श्वः, सुर꣡थः
वीरवीर्यौ च
- सु॒वीरो॑
द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ
- द्वि꣡पात् or द्विपा꣡त्, त्रि꣡पाद् or त्रिपा꣡द्, द्वि꣡दम् or द्विद꣡म्, त्रि꣡दन् or त्रिद꣡न्, द्विमूर्द्धा꣡ or द्वि꣡मूर्धा ॥
समासान्तस्वरः
नञ्सुभ्याम्
- अयवो꣡ देशः, अव्रीहिः꣡, अमाषः꣡, सुयवः꣡, सुव्रीहिः꣡, सुमाषः꣡, … अनमि॒त्राय॑ … ॥कपि पूर्वम्
- अकुमारीको꣡देशः, अवृषली꣡कः, अब्रह्मबन्धू꣡कः, सुकुमा꣡रीकः, सुवृष꣡लीकः, सुब्रह्मबन्धू꣡कः- अय꣡वकोदेशः, अव्री꣡हिकः, अमा꣡षकः, सुय꣡वकः, सुव्री꣡हिकः, सुमा꣡षकः
बहोर्नञ्वदुत्तरपदभूम्नि
बहुयवा꣡ देशः, बहुव्रीहिः꣡, बहुतिलः꣡, बहुय꣡वकः, बहुव्री꣡हिकः, बहुमा꣡षकः, बहुज꣡रः, बहुम꣡रः, बहुमि꣡त्रः, बहुमृ꣡तः
अव्ययीभावे ऽपवादाः
- *+कूल-तीर-तूल-मूल-शाला-अक्ष-समम् अव्ययीभावे - परिकू꣡लम्, उपकू꣡लम्, परिती꣡रम्, उपती꣡रम्, परितू꣡लम्, उपतू꣡लम्, परिमू꣡लम्, उपमू꣡लम्, परिशी꣡लम्, उपशा꣡लम्, उपा꣡क्षम्, पर्यक्षम्, सुष꣡मम्, विष꣡मम्, निष꣡मम् दुःष꣡मम्
परि-प्रति-उप-अपाः +++(प्रकृतिस्वराः)+++ वर्जमान-अहः-रात्रावयवेषु
+++(अव्ययीभावे)+++।- प्र꣡तिपूर्वाह्णम्, प्र꣡त्यपराह्णम्, अ꣡पत्रिगर्ते, उ꣡पापराह्णम्,
तत्पुरुषान्तरय् उत्तरपदादिः
- *+कंस-मन्थ-शूर्प-पाय्य-काण्डम् द्विगौ - द्विकं꣡सः त्रिकं꣡सः, द्विम꣡न्थः त्रिम꣡न्थः, द्विशू꣡र्पः त्रिशू꣡र्पः, द्विपा꣡य्यः, त्रिपा꣡य्यः, द्विका꣡ण्डः, त्रिका꣡ण्डः ॥
- *शालम् तत्पुरुषे - ब्राह्मणशा꣡लम्, क्षत्रियशा꣡लम्
- *-कन्थम् तत्पुरुषे - सौशमिक꣡न्थम्, आह्वरक꣡न्थम्, चप्यक꣡न्थम् ॥
पुत्रः पुंभ्यः
- राजपु꣡त्रः
तत्पुरुषे पूर्वपदप्रकृतिः
- पूर्वपद-प्रकृति-स्वरो यदि -
तत्पुरुषे तुल्यार्थ-तृतीया-सप्तम्य्-उपमान+अव्यय-द्वितीया-कृत्याः
पूर्वपदानि।- तुल्यार्थे - तुल्य॑श्वेतः, तुल्य॑लोहित, सदृ꣡ग्लोहितः, सदृ꣡शमहान्
- द्वितीयापूर्वपदे - मुहूर्त्त꣡सुखम्
- तृतीयापूर्वपदे - शङ्कुल꣡या+++(= पूगकर्त्तनी)+++ खण्डः = शङ्कुला꣡खण्डः
- सप्तमीपूर्वपदे - अक्षे꣡षु शौण्डः = अक्ष꣡शौण्डः
- अव्यय-पूर्वपदाः - अब्रा॑ह्मणः। अवृ॑षलः। प्रकृ॑तः। प्रहृ॑तः।
- उपमानानि - हंस꣡गद्गदा
- कृत्यानि (ण्यत् यत् तव्यत् अनीयर् …) - भो॒ज्य॑लवणम् पानी꣡यशीतम्
पूर्वे भूतपूर्वे
- कृत॑पूर्वम्।- “महान् व्रीहि-अपराह्ण-गृष्टि-इष्वास-जाबाल-भार-भारत-हैलिहिल-रौरव-प्रवृद्धेषु” इत्यनेन - महा꣡व्रीहिः, महा꣡पराह्णः, महा꣡गृष्टिः, महे꣡ष्वासः, महा꣡जाबालः, महा꣡भारः, महा꣡भारतः, महा꣡हैलिहलः, महा꣡रौरवः, महा꣡प्रवृद्धः ॥
तृतीया कर्मणि
- prī́ti-pūrṇam, pada-puṣpá-sam-anv-itam
कृद्-उत्तर-पदानि
पूर्वपदस्वरः
- गतिः + त्.*न् कृत् (-तुन्)
तादौ च निति कृत्य् अतौ
- प्र꣡कर्ता (तृन् ) प्र꣡कर्तुम् (तुमुन्), प्र꣡कृतिः (क्तिन्)। प्र꣡लपिता, प्र꣡लपितुम्।
- नात्र - प्रज꣡ल्पाकः (पाकन्)। आगन्तुः꣡ with the Unadi affix तुन्।
क्तः
- गतौ (क्ते कर्मण्य् उत्तरपदे) -
गतिरनन्तरः
।- प्रकृ॑तः। प्रहृ॑तः। अभि꣡ + उ꣡द्धृतः = अभ्यु꣡द्धृतः ॥
- स॒र॒लीकृ॑तम्।
ऊर्यादिच्विडाचश्च
१.४.६१ इति गतिसंज्ञा तत्र। सूपमानात् क्तः
इत्य् अपवादः।- सुकृत꣡म्, सुभुक्त꣡म्, सुपीत꣡म् ॥
- वृकावलुप्त꣡म्, शशप्लुत꣡म् , सिंहविनर्दित꣡म्
- कारकोपपदे ऽपवादो वक्ष्यते -
थाथघञ्क्ताजबित्रकाणाम्
। - कर्मधारये ऽनिष्ठान्ते पूर्वे सति -
कर्मधारयेऽनिष्ठा
। पूग꣡कृताः, ऊक꣡कृताः, निध꣡नकृताः।
कृद्-उत्तर-प्रकृतिस्वरत्वम्
गतिकारकोपपदात् कृत्।
। तत्पुरुषो यत्र - (गतिशब्दः | कारकम् | उपपदम्) + * + (कृत् - {क्त, घञ् …})। यथा- गति-शब्दाः
- उपसर्गाः - प्रका꣡रकः, प्रक꣡रणम्, प्रहा꣡रकः, प्रह꣡रणम् ॥
- च्विः - स्वादूक꣡रणम्। (
ऊर्यादिच्विडाचश्च
इ॑ति ग॑तिः स्वादू॑ इ॑ति।)
- उपपदेभ्यः,
तत्रोपपदं सप्तमीस्थम्
इति कृद् विहितश् चेत् - ईषत्क꣡रः, दुष्क꣡रः, सुक꣡रः, कीदृ꣡शम् ॥ - कारकोपपदेषु - इध्मानि प्रवृस्च्यन्ते येन - इध्मव्र꣡श्चनः, पलाशशा꣡तनः, श्मश्रुक꣡ल्पनः
- प॒रा॒वल्ग॑ते॒ स्वाहा᳚। नात्र - दूरात् + आ꣡गतः।
- गति-शब्दाः
अन्तोदात्ताः
थाथघञ्क्ताजबित्रकाणाम्
इत्य् अपवादःगतिकारकोपपदात् कृत्।
इत्यस्य।- क्थन् - सुनीथः꣡, अवभृथः꣡
- घञ् - प्रभेदः꣡, काष्ठभेदः꣡, रज्जुभेदः꣡ ॥
- क्तः {कारकोपपदाद् एव,
गतिरनन्तरः
इत्य् उत्सर्गात्} - आतपशुष्कः꣡ पुरुष्टुतः꣡॥- उत्तरपदे गतियुक्त-क्ते ऽपि - दूराद्-आगतः꣡ । किन्तु, नात्र - अभि + उ꣡द्धृतः = अभ्यु꣡द्धृतः ॥
- अच् । प्रक्षयः꣡ ।
- अप् । प्रलवः꣡ ।
- इत्र । प्रलवित्र꣡म् ।
छान्दसापवादाः
परादिश्छन्दसि बहुलम्
।
परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते।
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः॥
अ॒ञ्जि॒सक्थ॑मालभेत। त्वा॒ष्ट्रौ लो॑मशस॒क्थौ (तै०सं० ५.५.२३ .१)।
ऋ॒जु॒बाहुः॑। वा॒क्पतिः॑। चि॒त्पतिः॑।
युष्मद्-अस्मदोर् अपवादाः
- वां, नौ, वः, नः, ते, मे, त्वा, मा इत्यनुदात्ताः, न पादादौ दृश्येन्ते।
अनुदात्तं सर्वमपादादौ
इत्यधिकारसूत्रम् अनुषज्यते -युष्मद्-अस्मदोः षष्ठी-चतुर्थी-द्वितीया-स्थयोर् वान्-नावौ
,बहुवचनस्य वस्नसौ
,तेमयावेकवचनस्य
,त्वामौ द्वितीयायाः
- म꣡म। त꣡व। तु꣡भ्यम् म꣡ह्यम्।
मतुप्
ह्रस्वनुड्भ्यां मतुप् [उदात्तः]
अन्तोदात्तः ह्रस्वः|न् + मतुप् - वा॒यु॒मान्, अ॒क्ष॒ण्वता॑ रे॒वान्।मतोः पूर्वमात् संज्ञायां स्त्रियाम्
- *+आ+मत् स्त्रियां संज्ञायाम् - अदुम्बरा꣡वती, पुष्करा꣡वती, शरा꣡वतीअन्तोऽवत्याः। ईवत्याः
- अजिरवती꣡, खदिरवती꣡, हंसवती꣡, कारण्डवती꣡ ॥ अहीवती꣡, कृषीवती꣡, मुनीवती꣡ ॥
द्व्युदात्ताः
- वाव = वा + ए॒व प्रायेण। (प्र॒जाप॑ति॒र्वाव । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वावैषः ।)
स्त्रीप्रत्ययाः
ङीप्
- पित्त्वाद् अनुदात्तः। न तथा ङीष् ।
प्रसिद्धापवादाः
- अ꣡त्र।
- किं, यत्, तत् + डतमच्। क॒त॒मः।
वा बहूनां जातिपरिप्रश्ने डतमच्
५.३.९३।
सुबन्तेषु
- प्रकृतिस्वरो ज्ञेयः। ततः प्रत्ययस्वरः।
अनुदत्तौ सुप्पितौ
। अस्यापवादा अधः।
विभक्तिस्वरः
सावेकाचस् तृतीयाऽऽदिविभक्तिः
- (७ बहुवचने या एकाच्-प्रकृतिः) + ३-७ विभक्तिषु- वा॒चा वा॒ग्भ्याम् अ॒प्सु
- (यस्य उदात्तस्थाने हलपूर्वो य् व् र् ल् | न्) + (२-बहु-आदिः अजादिः |नदी) = अन्त्येदात्तम्
उदात्तयणो हल्पूर्वात्। नकारग्रहणं कर्तव्यम् (वा)।
- यथा क॒र्तृ꣡ + ई = क॒र्त्री꣡। प्र॒स॒वि॒त्रा꣡।
- (* + अनुम् शतृँ अन्तोदात्तः) + (२-बहु-आदिः अजादिः सुँप्| नदी) = अन्तः उदात्तः
शतुर् अनुमो नद्यजादी
इत्यनेन। तु॒द॒ती तु॒द॒ता नि॒वे॒ख्ष्य॒ते। - (मतुबि यो ह्रस्वान्तः | अन्तोदात्तः) + नाम् → अन्तः उदात्तः।
नामन्यतरस्याम्
। अग्नीना꣡म् or अग्नी꣡नाम्, वायूना꣡म् or वायू꣡नाम्, कर्तॄणा꣡म् or कर्तॄ꣡णाम्। ब॒हू॒नाम्। व्री॒ही॒णाम्। +++(5)+++ बृहन्महतोरुपसंख्यानम्
। (वा॰) इत्यनेन बृ॒ह॒ते।
सम्बोधने
- साधारणतः स्वरनिघातः -
आमन्त्रितस्य च। (अनुदात्तं सर्वमपादादौ)
। अस्यापवादा अधः। - सम्बोधनय् आद्युदात्तः -
आमन्त्रितस्य च
- पादादौ। आमन्त्रितं पूर्वम् अविद्यमानवत्।
यथा- अग्ने॒ नय॑ । अग्न॒ इन्द्र॒ वरु॑ण॒ …। किन्तु समानाधिकरणे सामान्यवचनं न तथा -नामन्त्रिते समानाधिकरणे सामान्यवचनम्
। यथा - अग्ने॑ गृहपते।
सन्धिः
अनुदात्तस्य च यत्रोदात्तलोपः
- कुमार꣡ + ई॒ = कुमा॒री꣡, प॒थिन् + ए॒ = प॒थे