यज्ञ-स्वरे नागेशः

विस्तारः (द्रष्टुं नोद्यम्)

नागेशभट्ट (बृहत्-शब्द-शेखरः। )

Source: TW

पदार्थः

यज्ञकर्मण्यजप॰
रूढश्च जपशब्दः करणमन्त्रेषु
यत्र ‘जपती’ति कल्प-सूत्र-कृतो व्यवहारः ।
न्यूङ्खा नाम षोडश ओंकाराः ।
साम प्रसिद्धम् -
गीतिषु सामाख्येति
यज्ञकर्म च यजति-चोदना-चोदितं कमें ।

ऊह-शब्द-साहित्ये व्याप्तिः

जपादि-पर्युदासान् मन्त्रेष्व् एवैषा एकश्रुतिर् न+ऊहितादिषु, तेषाम् अमन्त्रत्वात् ।
तत्र संपूर्णो य ऊहितस् तस्यैवाऽतत्त्वम्
यत् किंचिद् ऊहित-पद-घटिते तु मन्त्रत्वम् एव,
तन्-मध्य-पतित-न्यायात् ।

कल्पे जप-निर्देशः

तद् आह मन्त्रे इति । ममाग्ने इति ।
यद्यप्य् अयं मन्त्रो हविर्-अभिमर्शने विनियुक्तस्
तत्र चैकश्रुत्येनैव पठ्यते
तथापि अधिश्रिते उन्नीयमाने वा
‘ममाग्ने वर्चो विहवेष्वस्त्विति चतस्रो जपित्वा’
इत्य् अग्निहोत्रप्रकरणे आपस्तम्बसूत्रे उक्तत्वेन न दोषः ।
एषु यथाविहितं त्रैस्वर्यं भवति ।

न विकल्पः

न च

एतेषु नित्यैकश्रुतेर् निषेधेऽपि
‘विभाषा छन्दसी’ति विकल्पापत्तिर्

इति वाच्यम्,
‘यज्ञकर्मणि जपन्यूङ्ख-सामसु वा’ ‘उच्चैस्तरां वा वषट्कारः’ ‘विभाषा छन्दसी’त्येव सिद्धे
नञ्-उच्चारण-वैयर्थ्यापत्तेः ।

ऊहवाक्य-विषयता?

यत्तु हरदत्तः-

अजपेत्यादि प्रसज्य-प्रतिषेधः ।
न च

ऊहितानाम् अच्छन्दस्त्वात्,
तत्र सावकाशस्य पूर्वसूत्रस्य,
मन्त्रेषु परत्वाद् ‘विभाषा छन्दसी’त्य् अनेन बाधः स्याद्

इति वाच्यम्,
‘यज्ञकर्मणी’ति कर्मग्रहण-सामर्थ्याद्
ऊहिताऽनूहितेषु सर्वेषु पूर्वस्यैव प्रवृत्तेर्

इति,
तन् न, पर्युदासस्य लघुत्वात् ।

इन्द्रशत्रुः

अत एव ‘इन्द्रशत्रुर् वर्द्धस्वे’त्यत्र समासान्तोदात्तत्वे कर्तव्ये पूर्व-पद-प्रकृति-स्वरत्वं प्रयुक्तम् इति शतपथब्राह्मण-तद्भाष्यायुक्तं सङ्गच्छते ।

एवं हि तद्-ब्राह्मणम्-

अथ यद् अब्रवीद् ‘इन्द्र॑शत्रुर्वर्धस्वे’ति
तस्माद् उ हैनम् इन्द्र एव जघान ।
अथ यद्ध शश्वद् अवक्ष्यद्
‘इन्द्रस्य श॒त्रुर् व॑र्धस्वे’ति
शश्वद् उ ह स एवेन्द्रम् अहनिष्यद्

इति ।

आद्येऽनुकरणं पूर्वपद-प्रकृति-स्वर विशिष्टस्य,
अन्त्ये त्व् एतद्-अर्थकम् अन्तोदात्तम् ।
यद्य् अवक्ष्यद् इत्य् अर्थ

इति तद्भाष्यम् ।
अत एव महाभाष्ये ‘मन्त्रो हीनः’ इति पठितोऽपि श्लोको ‘दुष्टः शब्द’ इति पठितः ।

इषे त्वा

एवञ् च ‘इषे त्वा’ इत्यादि-यजुर्-मन्त्रेषु शाखा-च्छेदनादि-करणेषु एकश्रुतिरेव भवति ।+++(5)+++
एतेन - पर्युदासेऽपि यज्ञाऽङ्ग-शब्दत्वेन सादृश्यम् ।

विभाषा च्छन्दसि

एवञ्चोहविषये चरितार्थस्याऽस्य,

मन्त्रेषु, परत्वाद् ‘विभाषा छन्दसी’त्यनेन बाधः ।
सा च व्यवस्थित-विभाषा, अतो नातिप्रसङ्गः ।

अत एव बह्वृचानां संहितायां त्रैस्वर्यम्
ब्राह्मणे ऐकश्रुत्यम्,
तैत्तिरीयाणाम् उभयत्रापि त्रैस्वर्यम्

इति व्यवस्था संगच्छते ।

एवञ्च -

हौत्रमन्त्रेष्व् एकश्रुतिर् एव ।
‘इषेत्वे’त्यादौ यजुषि त्रैस्वर्यम् एव ।+++(5)+++
अत एव ‘सकल देशीय-शिष्टाचार-विरोधोपि न’-

इति परास्तम् -

ऊहेषु चरितार्थस्य मन्त्रेषु बाध,
उत मन्त्रेषु चरितार्थस्य ‘छन्दसि विभाषे’त्यनेन ऊहेषु बाध
इत्यत्र
विनिगमनाविरहेणास्य
“विभाषा छन्दसी"त्येतद्-अपवादकताया एव युक्तत्वाच् च ।

कात्यायन-समर्थनम्

अत एव कात्यायनेन ‘मन्त्रे स्वर-क्रिया यथाऽऽम्नातम् अविशेषाद्’इति पूर्वपक्षे

‘तानो वा नित्यत्वात्,
स्मर्यते चैवम् एक-श्रुतिर् दूरात्संबुद्धौ
यज्ञ-कर्मणि सुब्रह्मण्या-साम-जप-न्यूङ्ख-याजमानवर्जम्’

इत्युक्तम् ।
अत्र वाशब्दः पक्षव्यावृत्तौ । “तान” एवेत्यर्थः ।
‘तान एकश्रुतिर्’ इति तद्-भाष्य-कृतः ।
यत् तु सूत्रस्थं वाशब्दं विकल्पार्थकम् आहुस्
तेषां ‘नित्यत्वाद्’ इति वाक्यशेषविरोधः ।

तस्माद् यजुष्य् अप्य् एकश्रुतिर् एव ।

अत्र सूत्रे जपादि-ग्रहणं याजमान-मन्त्राणाम् अप्य् उपलक्षणम्, कात्यायन-सूत्र-स्व-रसात् ।
वस्तुतः कात्यायन-प्रातिशाख्ये

‘तानलक्षणम् एकं स्वरम् आहुर् यज्ञकर्मणि साम-जप-न्यूङ्ख-वर्जम्,
प्रवचनो+++(→पाठवत् त्रैस्वर्यं)+++ वा यजुषि’

इत्युक्तेर्
यजुषि त्रैश्वर्यम् अपि ।
तत्र प्रवचन-शब्देन पाठ उच्यते ।
“तत्र भवो वा स्वरो यजुषि यज्ञकर्मणि त्रैस्वर्यलक्षण” इति तद्भाष्यकृतः ।

यद्यपि तत् समाख्या-बलात् तच्छाखीयानाम् एव,
तथापि अविरुद्धत्वात् “सर्व-शाखां प्रत्य् एकं कर्मे"ति न्यायाच्
चाऽन्येषामपि स्वर्यम्,
परन्तु प्राग्-उक्त-कल्पसूत्र– पाणिनि-सूत्र– तद्-भाष्यादि-पर्यालोचनया
एक-श्रुतौ धर्माधिक्यं बोध्यम् ।

‘वैकल्पिकेष्व् आदितो ऽवधारणम्’ इति न्यायात्
संकल्प-काले एतद्-अन्यतरोल्लेख आवश्यकः ।

गृह्यकर्मसु न

यज्ञ-शब्देन यजति-चोदना-चोदितानाम् एव ग्रहणम् इति
स्मार्तेषु स्थालीपाकोपाकर्मादि-प्रयोगेषु नैकश्रुत्यम्
इत्य् अन्यत्र विस्तरः ।

विश्वास-टिप्पनी

किन्तु स्मार्तसूत्रेष्व् अपि यजेतेत्यादि-शब्दाश् श्रूयन्ते, पाक-यज्ञाश् च शब्द्यन्ते।??