स्रोतः - उज्ज्वलः।
जुषीँ॒ प्रीतिसेव॒नयोः॑। इति तुदादिगणे पठ्यते।
तथा सति, सामान्यप्रक्रियया शानचि व्युत्पाद्यमाने - तुदादिभ्यः शः, आने मुक् (अत इत्यनुवर्तते) इति “जु॒षमा॑ण” इति रूपं सम्पाद्यते (श इति अदुपदेशस्तेन तास्यनुदात्तेत्यादि सूत्रस्य प्रवृत्तिः)। न तदत्र वर्तते। स्वरस्तु सर्वत्र “जु॒षते॑” इति तुदादिवदेव दृश्यते।
(किन्तु, “जु॒षा॒णः” इत्येव सर्वत्र दृश्यते। कथम्??)
तास्य्-आदिसूत्रस्य प्रवर्तने चत्वारि कारणानि।
तेषाम् इह
१ तासिर्नास्ति, २ ङित् नास्ति, ३ अदुपदेशो नास्ति।
किन्तु धातुपाठमतेन अनुदात्तेदस्ति (उपदेशेनुजनुनासिक इत् (ईँ॒), स चानुदात्तः)।
स सन्दिग्धः प्रतिभाति।
द्वे एव सूत्रे यत्रेतोनुदात्तत्वम् उद्दिश्य नियमः कृतः।
प्रथमम् अनुदात्तेतश् च (अकर्मकात्) हलादेः,
यदत्र न प्रवर्तते सकर्मकत्वात्।
अन्यच् चेदं तास्यादि यत्राप्यनुदात्तेत्त्वं मोघम्।
भाषायां हि जुषमाण इति रूपं यत्रादुपदेशेन स्वरो निश्चितः।
छन्दसि च तेनासत्यस्वरः सम्पाद्यते। “जु॒षा॒णः” इत्येव सत्यो यः सर्वत्र दृश्यते, न दुष्टः।
नादुपदेशः
अदुपदेशो ऽत्र खलु धातुः श-प्रत्ययग्रहणेन?
कथम् अदुपदेशो नास्तीति?
(अतः) आने मुक् इति सूत्रेण
मुगागमो न जातस्तेन स्पष्टमदुपदेशो नास्तीति।
कस्मान्नास्तीति तावत् प्रश्नः।
पाणिनीयानुसारं नाहं वेदोत्तरम्।
पाश्चात्यमतानुसारेण (Source: TW) “जु॒षा॒णा” इति aorist participle अस्ति (न तु सामान्यः शानच् (present participle))। तस्मान् नादुपदेशः।