शिक्षणम्

व्याकरणशिक्षण-साधारने विचारो ऽन्यत्र

पाणिनीयं न कठिनम् - प्रकरणविज्ञाने सति।

“लिट्सिद्ध्यै कति अपेक्षितानि सूत्राणि?!! क्व क्व च विकीर्णानि तानि? पाणिनीयं कठिनम्।” इति आक्षेपे कृते–

वस्तुतः - कति प्रकरणानि आवश्यकानि इति पृच्छति चेत् वरम्। सूत्राणां विन्यासस्य विषये ऽपि भवता ध्यातव्यं यत् नैकानि प्रकरणानि नैकेषु कार्येषु उपयुज्यन्ते।

चिन्तयतु पाककलाम्। भवान् दोसां पिपक्षति। कदाचित् इड्लिम् अपि। द्वित्रापि पिष्टः स्रष्टव्यः, चुल्ली ज्वालनीया। परन्तु दोसा पच्यते ऽन्ते स्थालिकायां, इड्लिश् च उखे। पाकक्रमवित् दोसापाकक्रमं च इड्लीपाकक्रमं विवक्षति सम्पूर्णतया। सः न उभयत्रापि “चुल्लीज्वालनाय एवमेवं कार्यम्। पिष्टनिर्माणार्थं इमानि कार्याणि” इति वदेत्। एकत्र भिन्नप्रकरणे सः चुल्लीप्रयोगविधानं, अन्यत्र च पिष्टनिर्माणविधानञ्च वदेत्। दोसानिर्माणविषये एवमेव वदेत् - “पिष्टं सृज। चुल्लीं ज्वालय। स्थालिकायां तैलं प्रसारय। तत्र पिष्टं प्रसारय। " अनेन गणनया वस्तुतः दोसानिर्माणं इड्लीनिर्माणं वा सुलभम्। पाकक्रमविदस् सूचनाश् च अत्युत्तमाः लघ्व्यश् च प्रकरणगणनया (यद्यपि प्रत्येकस्मिन् प्रकरणे नैके स्युः कर्माणि)।

परन्तु, कश्चिद् आगत्य आक्षिपति चेत् “अयं पाकशास्त्रकर्ता बहुकठिनं शास्त्रं रचितवान्। सूत्राणि एकत्र न सन्ति। दोसानिर्माणार्थं क्व क्व द्रष्टव्यम्!” इति, तत् प्रायो न युक्तम्। एवमेव “अयं पाकशालानायकः किम् अकार्षीत्! दोसासृष्ट्यै अपेक्षितान् सम्भारान् न एकत्र स्थापितवान् - धान्यचूर्णम् अत्रास्ति, तैलं तत्रास्ति, स्थालिका अपरत्रास्ति।” - इत्यपि अस्थाने दूषणम्।

तथा दोसा-निर्माणसमये, यदा चुल्ली ज्वाल्यते, तदा न कश्चित् द्वित्रिवारं प्रयोगात् परं चिन्तयति “१ चुल्लिकायां काष्टः स्थापनीयः। २] ततः‌ तत्र शिलाघर्षणेन अग्निर् आनीयः।” इति - सर्वाण्यपीमानि कार्याणि स्वचालितानि, स्वाभाविकानि भवन्ति। एवमेव “इत्संज्ञा अभिज्ञानार्थं, एकं न त्रिणि न, अष्टौ सूत्राणि ज्ञेयानि। द्वित्त्वस्य कृते किम्? पञ्चविंशति सूत्राणि [*]!” इति न युक्तम्।

[*] - (यद्यपि तेषु अर्धभागः सार्वत्रिकः। किञ्च यङि सनि श्लौ चङि इत्यपरत्रापि तस्य सामान्यभागस्य उपयोगो भवति।)

अष्टाध्यायीं cheatsheet इति भावय। अन्ये “किमिदं विचित्रं भणितम्” इति चिन्तयेयुः, परन्तु कुत्रकिमस्ति इति विज्ञाने जाते इदमेव सौकर्यप्रदं भवति।

प्रकरणशः पाठो ऽस्तु, न सिद्धशब्दशः।

अन्तिमपदसिद्ध्यै नानाप्रकरणानां अपेक्षा स्वाभाविक्य् एव। नास्त्यत्र भेदः। किञ्च प्रकरणभेदः स्पष्टः‌ स्यादिति प्रयत्यते।

अष्टाध्यायिप्रकरणक्रमः- यथा “कारकसंज्ञाविधानात् परं विभक्तिविधानावगमनम् सरलम्” इत्युक्त्वा ऽऽदौ कारकसूत्राणि (तेषु मुख्यानि वा) क्रमशः पठित्वा विभक्तिविधायकसूत्रपठनम् इति सरलमेव भाति। तयोर् मिथः संवलनं विनाऽपि ज्ञानं सिद्ध्यतीति भाति।

शब्दसिद्धिक्रमः- “आदौ प्रथमाविभक्तिसंज्ञाप्राप्तिम् अवगच्छत संवलितभिन्नप्रकरणकसूत्रावलोकनेन, तदनन्तरं द्वितीयाया” इत्यपि ज्ञानं साधयत्येव - किन्त्व् अच्छादितम् इव भवति प्रक्रणविभागविज्ञानम्, सुव्यवस्थित-पाणिनीय-मानचित्रम् (map) इति दुर्ग्राह्यतरम् भवेच्च।

मूलपुस्तकानि उत्तमानि

दृश्यन्तां पुष्पादीक्षितायाः “अष्टाध्यायी सूत्रपाठः” नामको ग्रन्थश्च तस्याः हिन्दीभाषोपलब्धास् सहजबोध-ग्रन्थाः प्रक्रियासूचकाः। सूत्रार्थावगमनार्थं काशिकावृत्तिश् च प्रथमावृत्तिर् युज्येते। अन्या सूचिर् अत्रास्ति।

  • “आजकल सिद्धान्तकौमुदी के अध्येताओं और अध्यापकों के प्रमाद से अष्टाध्यायी के अनुसार कौमुदी के पठन-पाठन की परम्परा अस्त व्यस्त हो गई है, अत: इसके पुनरुद्धार की महती आवश्यकता थी। यह कार्य डॉ. पुष्पा दीक्षित ने निष्पन्न किया है, अत: व्याकरण जगत् के लिये पुष्पा दीक्षित जी का उपकार अनन्तकाल तक स्मरण किया जायेगा। " । सत्यमेतद् यद् बहुत्र जना लघुसिद्धान्तकौमुदीं रटन्ति!

स्वानुभवस्त्वित्थम्

  • यदा खलु व्याकरणसन्देह उदेति (क्व द्रष्टव्यमिति प्रकरणं स्मृत्वा) प्रायेण काशिकामेवादौ पश्यामि। अधिकविवरणलाभाय कौमुदीम् पश्येयञ्चेदपि सूत्रात् सूत्रम् अष्टाध्यायिक्रमेण च यामि। प्रायेण परिह्रियन्ते सन्देहाः।