सस्थानताभावः
शरि
“वा शरि” (विसर्जनीयस्य विसर्जनीयः) ।
विसर्गस्य पक्षे शर्-आदेशो न भवति।
किञ्च प्राक्तन-स्वरानूच्चारणम् अपि न भवति -
“अन्तस् सरद्” इत्यादेर् अपेक्षया “अन्तः सरद्” इत्यादौ यथा।
क्षकारादौ
बहवः क्ष-पूर्वं विसर्गं तथैवोच्चारयन्ति, न जिह्वाल्मूलीययन्ति।
तत्र संहितायां सत्याम्, जीह्वामूलीयवज् जिह्वामूल-स्पर्शो न भवति,
किञ्च वाक्यान्त-विसर्गवत् प्राक्तन-स्वरानूच्चारणम् अपि न भवति -
“अन्तस् सरद्” इत्यादेर् अपेक्षया “अन्तः सरद्” इत्यादौ यथा।
पाणिनिः - शर्परे विसर्जनीयः (खरि विसर्जनीयस्य)।
तैत्तिरीयप्रातिशाख्यम् -
अघोषपरस्तस्य सस्थानम् ऊष्माणम्॥९.२॥
न क्षपरः॥९.३॥
कपवर्गपरश् चाग्निवेश्य-वाल्मीक्योः॥९.४॥
ऊष्म-पर एवैकेषाम् आचार्याणाम्॥९.५॥
न प्लाक्षिप्लाक्षायणयोः॥९.६॥
व्यासशिक्षा -
जिह्वामूलीयमाप्नोति उपध्मानीयमेव वा २१७
कखे पफे परे न क्षे अवर्णाद्यत्वम् अच्-परे २१८