इदमत्र ज्ञातव्यम्
(अ) बोधनक्रमः इत्थम्
यद्यपि विसर्गः विविधानि रूपाणि सृजति*, तथापि प्राचुर्येण श्रवणपथम् आरूढानि आरुह्यमाणानि आरोक्ष्यमाणानि च एतानि सन्ति -
१. गुरुस्तत्र । (गुरुश्च । गुरुष्षष्ठः ।) → १. सकारः
२. बालः करोति । बालᳵ करोति । → २. विसर्गः, जिह्वामूलीयः
३. बालः पिबति । बालᳶ पिबति । → ३. विसर्गः, उपध्मानीयः
४. हरिरत्र । → ४. रेफः
५. बाला अत्र । → ५. लोपः
६. बाल इच्छति । → ६. लोपः
७. बालोऽस्ति । बालो हसति । → ७. उत्वम्
एते अंशाः अनेन क्रमेण बोधनीयाः । तथाहि -
१-३. विसर्जनीयस्य सः खरि, क-ख-प-फे तु विसर्गः, जिह्वामूलीयोपध्मानीयौ च ।
४. इचः परस्य रेफोऽखरि ।
५. आतः परस्य लोपोऽखरि ।
६. अतः परस्य लोप आचि ।
७. अतः परस्य अति, हशि च उत्वम् ।
(विसर्जनीयस्येति सर्वत्रानुवर्तते)
विवरणम् -
१. विसर्गात् परः यदि खर् (कर्कशव्यञ्जनम्) वर्णः (क-ख-प-फं वर्जयित्वा) श्रूयते, तर्हि विसर्गस्य स्थाने सकारः प्रवर्तते । विसर्गात् पूर्वं किम् अस्तीति परिशीलनं नाऽऽवश्यकम् ।
[सकारादेशानन्तरं यदि श्चुत्वस्य (च् छ् श् इत्येतेषु परेषु) ष्टुत्वस्य (ट् ठ् ष् इत्येतेषु परेषु) अवसरः, तदा श्चुत्वं ष्टुत्वं च कार्यम् ।]
२+३. विसर्गात् परौ यदि क-खौ तदा जिह्वामूलीयः, यदि प-फौ उपध्मानीयः च विकल्पेन विसर्गस्य स्थाने भवतः । जिह्वामूलीयस्य उपध्मानीयस्य चाभावे विसर्गस्यैव श्रवणम् ।
४+५. विसर्गात् परो यदि खर्वर्णः (कर्कशव्यञ्जनम्) न भवति, तद्भिन्नः यः कोऽपि वर्णः भवतु नाम, तदा विसर्गात् पूर्वं किम् अस्तीति परिशीलनीयम् । यदि इच्
* विसर्गस्य विविधरूपप्राप्तिः ५८ तमे पृष्ठे विशदीकृता ।
[[P61]]
(अकारम् आकारं च वर्जयित्वा सर्वेऽपि स्वराः) वर्णो भवति तर्हि विसर्गस्य रेफः । यदि इच् नास्ति आकारोऽस्ति (न तु अकारः) तर्हि विसर्गस्य लोपः ।
६. विसर्गात् परः खर्वर्णो नास्ति, पूर्वम् इच् नास्ति, नापि आकारः, तदा अकारः पूर्वं भवतीति सिद्धम् । तदा पुनः परवर्णः क इति परिशीलनीयम् । यदि अकारं वर्जयित्वा स्वरः (आच् इत्येष प्रत्याहारः पाणिनिना न कृतः ।) भवति तदा अपि विसर्गस्य लोपः ।
७. विसर्गात् पूर्वः परश्च ह्रस्वः अकारः, परः ह्रस्ववर्णो वा (अ + मृदुव्यञ्जनम्) भवति, तर्हि विसर्गस्य उकारो भवति । (ततो गुणः । अकारे परे तु पूर्वरूपम् अपि भवति ।)
अपवादाः -
i. यदि विसर्गः अव्ययसम्बन्धी, ॠकारान्त-शब्दस्य सम्बोधनसम्बन्धी वा स्यात् तर्हि अशि परे रेफः, खरि परे सकारः । यथा - पुनरत्र । पुनस्तत्र । हे पितरत्र । हे होतर् यज ।
ii. ‘एष’ इत्यस्मात् परस्य ‘स’ इत्यस्मात् परस्य च हलि परे विसर्गस्य लोपः । यथा - एष विष्णुः । स शम्भुः ।
iii. आचः परस्य विसर्गस्य रेफे परेऽपि लोपः, अव्ययसम्बन्धिनः ॠकारान्त-शब्दस्य सम्बोधनसम्बन्धिनः च विसर्गस्य तु अकारात् परस्यापि लोपः । लोपे कृते दीर्घश्च । यथा - कवी राजते / पुना रमते । हे दातर् राजसे त्वम् ।
एष सङ्ग्रहः
१. सकारादेशः : + खर् = स् । गुरुस्तत्र
२+३. विसर्गः, जिह्वामूलीयः, उपध्मानीयश्च : + क ख प फ = ः/ᳵक ।ᳶप ।
बालः करोति । बालᳵ करोति । बालः पिबति । बालᳶ पिबति ।
४. रेफादेशः इच् + ः + अश् = र् । हरिरत्र । हरिर्गच्छति ।
५. लोपः आ + ः + अश् = लोपः । बाला अत्र । बाला हसन्ति ।
६. लोपः अ + ः + आच् = लोपः । बाल आगच्छति । बाल उत्सहते ।
७. उकारादेशः अ + ः + अ/हश् = उ । बालोऽत्र । बालो गच्छति ।
एवञ्च विसर्गात् परो यदि खर्वर्णो (कर्कशव्यञ्जनम्) न भवति, (तद्भिन्नः वर्णः भवेद् एव) पूर्वश्च इच् वर्णो भवति तर्हि रेफः । यदि इच् न भवति तदा अकारो वा आकारो वा भवेद् एव । तदा सावधानेन मनसा लोपो वा उकारो वा इति निश्चेतव्यम् ।
[[P62]]
(आ) पाणिनेः क्रमः
विसर्गसन्धौ पाणिनेः क्रमः इत्थं विद्यते । यथा -
(Visual representation of Panini’s sutra flow for visarga sandhi)
१. ससजुषो रुः - ८.२.६६
२. रो रि - ८.३.१४
३. भो भगोऽघोऽपूर्वस्य योऽशि - ८.३.१७
४. लोपः शाकल्यस्य - ८.३.१९ हलि सर्वेषाम् - ८.३.२२
५. व्योर् लघुप्रयत्नतरः शाकटायनस्य - ८.३.१८
६. अतो रोरप्लुताद् अप्लुते - ६.१.११३, हशि च - ६.१.११४
७. खरवसानयोर् विसर्जनीयः - ८.३.१५
८. स्तोः श्चुना श्चुः - ८.४.४०
९. ष्टुना ष्टुः - ८.४.४१
१०. विसर्जनीयस्य सः - ८.३.३४
११, १२. कुप्वोःᳵ कᳶ पौ च - ८.३.३७
१३. खर्परे शरि वा विसर्गलोपो वक्तव्यः (वा)
* एतत्तदोः सुलोपोऽकोर् अनञ्समासे हलि - ६.१.१३२ इति सूत्रेण सुप्रत्ययस्यापि लोपः कृतः । किन्तु ‘एष’ इत्यस्मात् ‘स’ इत्यस्मात् परस्यैव सुप्रत्ययस्य लोपः । यथा - एष विष्णुः । स शम्भुः इति ।
[[P63]]