५ विसर्गसन्धिः

विसर्गसन्धौ पाणिनीयसूत्राणाम् अनुसरणेन अस्ति कश्चन क्लेशः । यथा -
‘कवर्गे पवर्गे च परे जिह्वामूलीय-उपध्मानीयौ भवतः, विसर्गो वा’ इति ‘कुप्वोःᳵ पौ च ८.३.३८’ इति सूत्रेण विधीयते । यथा - बालःᳵ करोति । बालः करोति । वृक्षःᳶ फलानि । वृक्षः फलानि । इति । किन्तु बालो गच्छति, प्रथमो भागः इत्यादौ गकारे भकारे च परे ‘कुप्वोःᳵ पौ च’ इत्यस्य कुतो न प्रवृत्तिः ? इत्येतादृशाः संशयाः विसर्गसन्धौ बहुषु स्थलेषु समुद्भवन्ति । एतादृशान् संशयान् अपाकर्तुम् असिद्धत्वं परिशीलनीयं, बहूनां सूत्राणाम् अर्थानां तात्पर्यं हृद्गतं च कर्तव्यं भवति । अतः अत्र बहूनां सूत्राणाम् अर्थाः सङ्गृह्य लिखिताः । अत एव विसर्गसन्धिसम्बन्धीनि सूत्राणि टिप्पण्यां न उद्धृतानि ।

१. सकारः1

‘क-ख-प-फान् वर्जयित्वा कर्कश-व्यञ्जने (खरि) परे विसर्गस्य सकारादेशो भवति, श-ष-स इत्येतेषु परेषु तु विकल्पेन सकारो भवति ।

i. विसर्गः + (कर्कश-व्यञ्जनानि) = स्

  • बालः + तत्र
    बाल + स् + तत्र = बालस्तत्र । (ः = स्)
  • रामः + च
    राम + स् + च = (रामस्च) रामश्च* । (ः = स्)
  • कृष्णः + छात्रः
    कृष्ण + स् + छात्रः = (कृष्णस्छात्रः) कृष्णश्छात्रः* । (ः = स्)
  • डयमानः + टिट्टिभः
    डयमान + स् + टिट्टिभः = (डयमानस्टिट्टिभः) डयमानष्टिट्टिभः* । (ः = स्)

* इदम् अवधेयम् - च-छ-श इत्येतेषु परेषु श्चुत्वसन्धिः, ट-ठ-ष इत्येतेषु परेषु ष्टुत्वसन्धिश्च सकारादेशानन्तरं भवति ।


[[P55]]

ii. विसर्गः + (शषस) = स्/ः

  • पयः + शीतलम्
    पय + स् + शीतलम् = (पयस् शीतलम्) *पयश्शीतलम्/पयःशीतलम् । (ः = स्)
  • श्रीधरः + षष्ठः
    श्रीधर + स् + षष्ठः = (श्रीधरस्षष्ठः) *श्रीधरष्षष्ठः/श्रीधरःषष्ठः
  • भक्तः + सेवते
    भक्त + स् + सेवते = भक्तस्सेवते/भक्तः सेवते ।

२. जिह्वामूलीयः उपध्मानीयश्च

‘क ख’ इत्येतयोः परयोः (ᳵ) जिह्वामूलीयः, ‘प फ’ इत्येतयोः परयोः (ᳶ) उपध्मानीयश्च विसर्गस्य स्थाने विकल्पेन भवति ।

i. : + क/ख =ᳵ

  • बालः + करोति
    बालᳵ + करोति = बालᳵ करोति / बालः करोति
  • तरुणः + खनति
    तरुणᳵ + खनति = तरुणᳵ खनति / तरुणः खनति ।

ii. : + प/फ =ᳶ

  • कृष्णः + पिबति
    कृष्णᳶ + पिबति = कृष्णᳶ पिबति / कृष्णः पिबति ।
  • वृक्षः + फलति
    वृक्षᳶ + फलति = वृक्षᳶ फलति / वृक्षः फलति ।
इदम् अवधेयम् १. 'क्ष, प्स, त्स' इत्येतेषु परेषु विसर्ग एव श्रूयते । न जिह्वामूलीयोपध्मानीयौ, न वा सकारः । दशरथः क्षत्रियः । अद्भिः प्सातम् । कः त्सरुः । (त्सरुः = खङ्गमुष्टिः) २. नमस्करोति । नमः करोति । नमᳵ करोति - इति त्रिधा प्रयोगः । 'पुरस्करोति' अत्र सकार एव । ३. एतन्नियमानन्तर्भूताः केचन सन्ति । यथा - आविष्कृतम्, निष्प्रत्यूहम्, दुष्कृतम्, सर्पिष्कुण्डिका, अयस्कारः, अयस्कुम्भः, अयस्पात्रम्, अहरहः इत्यादयः । एते च सिद्धान्तकौमुदीतः ज्ञेयाः ।

[[P56]]

३. रेफः

‘अ आ’ इत्येतौ वर्जयित्वा स्वरात् (इचः) परस्य विसर्गस्य स्वरे मृदु-व्यञ्जने च (अशि) परे रेफादेशो भवति ।2 अव्ययसम्बन्धिनः ॠकारान्त-शब्दस्य सम्बोधनसम्बन्धिनश्च विसर्गस्य अकारात् आकारात् परस्यापि रेफादेशो भवति ।3

i. (अ आ इत्येतौ विना स्वराः) + ः + (स्वराः/मृदुव्यञ्जनानि) = र्

  • मुनिः + इति
    मुनि + र् + इति = मुनिरिति (ः = र्)
  • भानुः + असौ
    भानु + र् + असौ = भानुरसौ
  • तैः + आगतम्
    तै + र् + आगतम् = तैरागतम्
  • धेनुः + गच्छति
    धेनु + र् + गच्छति = धेनुर्गच्छति
  • एतैः + भक्षितम्
    एतै + र् + भक्षितम् = एतैर्भक्षितम्

ii. अव्ययसम्बन्धी विसर्गः + (स्वराः/मृदुव्यञ्जनानि) = र्

  • पुनः + अत्र
    पुन + र् + अत्र = पुनरत्र ।
  • प्रातः + गच्छति
    प्रात + र् + गच्छति = प्रातर्गच्छति ।

iii. ॠकारान्त-शब्दस्य सम्बोधनसम्बन्धी विसर्गः + (स्वराः + मृदुव्यञ्जनानि) = र्

  • पितः + वन्दे
    पित + र् + वन्दे = पितर्वन्दे

४. लोपः

४.१. आकारात् परस्य विसर्गस्य स्वरे मृदु-व्यञ्जने च परे (अशि) लोपो भवति ।

(आ) + ः + (स्वराः/मृदुव्यञ्जनानि) = लोपः

  • बालाः + अत्र

[[P57]]

बाला + अत्र = ‘बाला अत्र ।4

  • लताः + एधन्ते
    लता + एधन्ते = लता ‘एधन्ते ।
  • ताः + गच्छन्ति
    ता + गच्छन्ति = ता गच्छन्ति ।
  • वृद्धाः + यान्ति
    वृद्धा + यान्ति = वृद्धा यान्ति ।

४.२. अकारात् परस्य विसर्गस्य अकारं वर्जयित्वा स्वरे परे लोपो भवति ।

(अ) + ः + (अकारं विना स्वराः) = लोपः

  • रामः + आगच्छति
    राम + आगच्छति = ‘राम आगच्छति
  • कृष्णः + एति
    कृष्ण + एति = कृष्ण एति

४.३. ‘एषः’, ‘सः’ इत्यनयोः पदयोर् विसर्गस्य अकारं विना यत्किञ्चिद् वर्णे परेऽपि लोपो भवति ।

  • एषः + ‘इच्छति
    एष + इच्छति = एष इच्छति ।
  • एषः + गच्छति
    एष + गच्छति = एष गच्छति ।
  • सः + आगच्छति
    स + आगच्छति = स’ आगच्छति ।
  • सः + तत्र
    स + तत्र = स तत्र ।

४.४. अकारं वर्जयित्वा स्वरात् परस्य विसर्गस्य रेफे परे लोपो भवति । लोपे कृते पूर्वस्वरः दीर्घः च भवति । अव्ययसम्बन्धिनः विसर्गस्य अकात् परस्यापि लोपो भवति ।


[[P58]]

i. अकारं विना स्वरः + ः (+ र्) = लोपः, पूर्वस्य दीर्घः

  • कविः + रचयति ।
    कवि + रचयति → (लोपः)
    कवी + रचयति = कवी रचयति
  • भानुः + राजते
    भानु + राजते → (लोपः)
    भानू + राजते = भानू राजते

ii. - पुनः + रमते
पुन + रमते (लोपः)
पुना रमते = पुना रमते

इदम् अवधेयम् - विसर्गलोपे कृते निमित्तस्य सद्भावेऽपि स्वरसन्धिः न कर्तव्यः ।

५. उकारः

अकारात् परस्य विसर्गस्य अकारे मृदु-व्यञ्जने च (हशि) परे उकारो भवति । उकारे कृते गुणसन्धिर् अवश्यं करणीयः । अकारे परे गुणानन्तरं पूर्वरूपसन्धिः अपि कर्तव्यः ।

(अ) + ः + (अ/मृदुव्यञ्जनानि) = उकारः

  • रामः + अपि
    राम + उ + अपि (ः = उ)
    रामो + अपि (गुणः)
    राम् + ओ + पि = रामोऽपि । (पूर्वरूपम्)
  • बालः + हसति
    बाल + उ + हसति (ः = उ)
    बालो + हसति = बालो हसति । (गुणः)

इदम् अवधेयम् - निमित्तस्य सद्भावेऽपि अव्ययसम्बन्धिनः ॠकारान्त-शब्दस्य सम्बोधनसम्बन्धिनः च विसर्गस्य उकारो न भवति । यथा - पुनरत्र । प्रातर्गच्छति । हे पितर् अत्र ! हे होतर् गच्छ ।

अन्यान्युदाहरणानि -

भूमिः + तोयम् = भूमिस्तोयम्
ततः + ततः = ततस्ततः


[[P59]]

तैः + अपि = तैरपि पितुः + इच्छा = पितुरिच्छा
गुरोः + भाषणम् = गुरोर्भाषणम् हरिः + अवदत् = हरिरवदत्
कपिः + अपि = कपिरपि कः + चित् = कश्चित्
बालाः + धावन्ति = बाला धावन्ति देवाः + आगच्छन्ति = देवा आगच्छन्ति
कः + इदानीम् = क इदानीम् शिवः + वन्द्यः = शिवो वन्द्यः
गजः + गच्छति = गजो गच्छति बालः + हसति = बालो हसति
रामः + जयति = रामो जयति गुरुः + त्राता = गुरुस्त्राता
सः + खादति = स खादति एषः + आसीत् = एष आसीत्
सः + अब्रवीत् = सोऽब्रवीत् बालः + तिष्ठति = बालस्तिष्ठति
हे मातः + आगच्छ = मातरागच्छ हे भ्रातः + गच्छ = भ्रातर्गच्छ

****


[[P60]]

(इ) विसर्गस्य परिणामाः

इमानि वाक्यानि परिशील्यन्ताम् -

पदविभागः कृतः सन्धिकार्यं कृतम् विसर्गः इत्थं रूपेण परिणतः
1. देवाः इह 1. देवाय् इह 1. य्
2. भोः अच्युत 2. भोय् अच्युत 2. य् (लघुप्रयत्नतरः)
3. कविः इच्छति 3. कविरिच्छति 3. र्
4. बालः च 4. बालश्च 4. श्
5. शिवसुतः षण्मुखः 5. शिवसुतष्षण्मुखः 5. ष्
6. छात्रः तिष्ठति 6. छात्रस्तिष्ठति 6. स्
7. बालः अस्ति 7. बालोऽस्ति 7. ओ
8. छात्रः करोति 8. छात्रᳵ करोति 8.ᳵ क
9. वृक्षः फलति 9. वृक्षᳶ फलति 9.ᳶ फ
10. बालः इच्छति 10. बालः इच्छति 10. - (लोपः)
11. रघुः क्षत्रियः 11. रघुः क्षत्रियः 11. ः

इत्थं विसर्गः आत्मानम् एकादशधा प्रकाशयति । एतेषाम् अपि क्वचित् क्वचित् वैकल्पिकत्वात् संहितायां विवक्षितायां वाक्यानि अधिकत्रिंशानि भवन्ति । यथा - (अत्र उत्सर्ग-सूत्राणाम् उदाहरणानि दर्शितानि । एतत्तदोः सुलोपो अकोर् अनञ्समासे हलि - ६.१.१३२, अतः कृकमि… ८.३.४६ इत्यादीनां विशेष-सूत्राणाम् उदाहरणानि न प्रदर्शितानि ।)


[[P64]]

(List of 34 examples showing various sandhi results)

प्रथमवाक्यतः एकादशवाक्यान्तं स्वरे मृदु-व्यञ्जने च (अशि) परे सन्धिकार्यं कृतम् ।
द्वादशवाक्यतः चतुस्त्रिंशत्तमवाक्यान्तं कर्कश-व्यञ्जने (खरि) परे सन्धिकार्यं कृतम् ।

१, ६. भो भगोऽघोऽपूर्वस्य योऽशि - ८.३.१७
२, ७. लोपः शाकल्यस्य - ८.३.१९
३, ८. व्योर् लघुप्रयत्नतरः शाकटायनस्य - ८.३.१८
४. हलि सर्वेषाम् - ८.३.२२
५. अतो रोरप्लुताद् अप्लुते - ६.१.११३
९. हशि च - ६.१.११४
१०. ससजुषो रुः - ८.२.६६
११. रो रि - ८.३.१४
१२. विसर्जनीयस्य सः - ८.३.३४ स्तोः श्चुना श्चुः - ८.४.४०
१३. विसर्जनीयस्य सः - ८.३.३४ ष्टुना ष्टुः - ८.४.४१
१४. विसर्जनीयस्य सः - ८.३.३४
१५, १६, १७, १८ कुप्वोःᳵ कᳶ पौ च - ८.३.३७
१९. शर्परे विसर्जनीयः - ८.३.३५
२०, २२, २४. वा शरि - ८.३.३६
२१, २३, २५. विसर्जनीयस्य सः । श्चुत्वं, ष्टुत्वम् ।
२६, २९, ३२. वा शरि - ८.३.३६
२७, ३०, ३३. विसर्जनीयस्य सः । श्चुत्वम् । ष्टुत्वम् ।
२८, ३१, ३४. खर्परे शरि वा विसर्गलोपो वक्तव्यः ।


[[P65]]


  1. इमम् एव नियमम् एवं वा वक्तुं शक्यते - विसर्गस्य त-थयोः परयोः सकारः, च-छयोः परयोः शकारः, ट-ठयोः परयोः षकारः, श-ष-स इत्येतेषु परेषु विकल्पेन क्रमात् श-ष-सा एव आदेशा भवन्ति । ↩︎

  2. ससजुषो रुः - ८.२.६६ इति विहितस्य रुकारस्यैव उत्वं भवति, नान्यस्य इति स्मर्तव्यम् । ↩︎

  3. विसर्गसन्धेः चतुर्थेन नियमेन अत्र उकारो न भवतीति स्मरणीयम् । ↩︎

  4. स्वरे परे विसर्गस्य विकल्पेन यकारोऽपि भवति । यथा - बालाय् अत्र । लताय् एधन्ते । रामयागच्छति । कृष्णयेति । एषयिच्छति । सयागच्छति इति । किन्तु यकारोपेतस्य प्रयोगः विरलः । ↩︎