विसर्गसन्धौ पाणिनीयसूत्राणाम् अनुसरणेन अस्ति कश्चन क्लेशः । यथा -
‘कवर्गे पवर्गे च परे जिह्वामूलीय-उपध्मानीयौ भवतः, विसर्गो वा’ इति ‘कुप्वोःᳵ पौ च ८.३.३८’ इति सूत्रेण विधीयते । यथा - बालःᳵ करोति । बालः करोति । वृक्षःᳶ फलानि । वृक्षः फलानि । इति । किन्तु बालो गच्छति, प्रथमो भागः इत्यादौ गकारे भकारे च परे ‘कुप्वोःᳵ पौ च’ इत्यस्य कुतो न प्रवृत्तिः ? इत्येतादृशाः संशयाः विसर्गसन्धौ बहुषु स्थलेषु समुद्भवन्ति । एतादृशान् संशयान् अपाकर्तुम् असिद्धत्वं परिशीलनीयं, बहूनां सूत्राणाम् अर्थानां तात्पर्यं हृद्गतं च कर्तव्यं भवति । अतः अत्र बहूनां सूत्राणाम् अर्थाः सङ्गृह्य लिखिताः । अत एव विसर्गसन्धिसम्बन्धीनि सूत्राणि टिप्पण्यां न उद्धृतानि ।
१. सकारः1
‘क-ख-प-फान् वर्जयित्वा कर्कश-व्यञ्जने (खरि) परे विसर्गस्य सकारादेशो भवति, श-ष-स इत्येतेषु परेषु तु विकल्पेन सकारो भवति ।
i. विसर्गः + (कर्कश-व्यञ्जनानि) = स्
- बालः + तत्र
बाल + स् + तत्र = बालस्तत्र । (ः = स्) - रामः + च
राम + स् + च = (रामस्च) रामश्च* । (ः = स्) - कृष्णः + छात्रः
कृष्ण + स् + छात्रः = (कृष्णस्छात्रः) कृष्णश्छात्रः* । (ः = स्) - डयमानः + टिट्टिभः
डयमान + स् + टिट्टिभः = (डयमानस्टिट्टिभः) डयमानष्टिट्टिभः* । (ः = स्)
* इदम् अवधेयम् - च-छ-श इत्येतेषु परेषु श्चुत्वसन्धिः, ट-ठ-ष इत्येतेषु परेषु ष्टुत्वसन्धिश्च सकारादेशानन्तरं भवति ।
[[P55]]
ii. विसर्गः + (शषस) = स्/ः
- पयः + शीतलम्
पय + स् + शीतलम् = (पयस् शीतलम्) *पयश्शीतलम्/पयःशीतलम् । (ः = स्) - श्रीधरः + षष्ठः
श्रीधर + स् + षष्ठः = (श्रीधरस्षष्ठः) *श्रीधरष्षष्ठः/श्रीधरःषष्ठः - भक्तः + सेवते
भक्त + स् + सेवते = भक्तस्सेवते/भक्तः सेवते ।
२. जिह्वामूलीयः उपध्मानीयश्च
‘क ख’ इत्येतयोः परयोः (ᳵ) जिह्वामूलीयः, ‘प फ’ इत्येतयोः परयोः (ᳶ) उपध्मानीयश्च विसर्गस्य स्थाने विकल्पेन भवति ।
i. : + क/ख =ᳵ
- बालः + करोति
बालᳵ + करोति = बालᳵ करोति / बालः करोति - तरुणः + खनति
तरुणᳵ + खनति = तरुणᳵ खनति / तरुणः खनति ।
ii. : + प/फ =ᳶ
- कृष्णः + पिबति
कृष्णᳶ + पिबति = कृष्णᳶ पिबति / कृष्णः पिबति । - वृक्षः + फलति
वृक्षᳶ + फलति = वृक्षᳶ फलति / वृक्षः फलति ।
इदम् अवधेयम्
१. 'क्ष, प्स, त्स' इत्येतेषु परेषु विसर्ग एव श्रूयते । न जिह्वामूलीयोपध्मानीयौ, न वा सकारः । दशरथः क्षत्रियः । अद्भिः प्सातम् । कः त्सरुः । (त्सरुः = खङ्गमुष्टिः) २. नमस्करोति । नमः करोति । नमᳵ करोति - इति त्रिधा प्रयोगः । 'पुरस्करोति' अत्र सकार एव । ३. एतन्नियमानन्तर्भूताः केचन सन्ति । यथा - आविष्कृतम्, निष्प्रत्यूहम्, दुष्कृतम्, सर्पिष्कुण्डिका, अयस्कारः, अयस्कुम्भः, अयस्पात्रम्, अहरहः इत्यादयः । एते च सिद्धान्तकौमुदीतः ज्ञेयाः ।[[P56]]
३. रेफः
‘अ आ’ इत्येतौ वर्जयित्वा स्वरात् (इचः) परस्य विसर्गस्य स्वरे मृदु-व्यञ्जने च (अशि) परे रेफादेशो भवति ।2 अव्ययसम्बन्धिनः ॠकारान्त-शब्दस्य सम्बोधनसम्बन्धिनश्च विसर्गस्य अकारात् आकारात् परस्यापि रेफादेशो भवति ।3
i. (अ आ इत्येतौ विना स्वराः) + ः + (स्वराः/मृदुव्यञ्जनानि) = र्
- मुनिः + इति
मुनि + र् + इति = मुनिरिति (ः = र्) - भानुः + असौ
भानु + र् + असौ = भानुरसौ - तैः + आगतम्
तै + र् + आगतम् = तैरागतम् - धेनुः + गच्छति
धेनु + र् + गच्छति = धेनुर्गच्छति - एतैः + भक्षितम्
एतै + र् + भक्षितम् = एतैर्भक्षितम्
ii. अव्ययसम्बन्धी विसर्गः + (स्वराः/मृदुव्यञ्जनानि) = र्
- पुनः + अत्र
पुन + र् + अत्र = पुनरत्र । - प्रातः + गच्छति
प्रात + र् + गच्छति = प्रातर्गच्छति ।
iii. ॠकारान्त-शब्दस्य सम्बोधनसम्बन्धी विसर्गः + (स्वराः + मृदुव्यञ्जनानि) = र्
- पितः + वन्दे
पित + र् + वन्दे = पितर्वन्दे
४. लोपः
४.१. आकारात् परस्य विसर्गस्य स्वरे मृदु-व्यञ्जने च परे (अशि) लोपो भवति ।
(आ) + ः + (स्वराः/मृदुव्यञ्जनानि) = लोपः
- बालाः + अत्र
[[P57]]
बाला + अत्र = ‘बाला अत्र ।4
- लताः + एधन्ते
लता + एधन्ते = लता ‘एधन्ते । - ताः + गच्छन्ति
ता + गच्छन्ति = ता गच्छन्ति । - वृद्धाः + यान्ति
वृद्धा + यान्ति = वृद्धा यान्ति ।
४.२. अकारात् परस्य विसर्गस्य अकारं वर्जयित्वा स्वरे परे लोपो भवति ।
(अ) + ः + (अकारं विना स्वराः) = लोपः
- रामः + आगच्छति
राम + आगच्छति = ‘राम आगच्छति - कृष्णः + एति
कृष्ण + एति = कृष्ण एति
४.३. ‘एषः’, ‘सः’ इत्यनयोः पदयोर् विसर्गस्य अकारं विना यत्किञ्चिद् वर्णे परेऽपि लोपो भवति ।
- एषः + ‘इच्छति
एष + इच्छति = एष इच्छति । - एषः + गच्छति
एष + गच्छति = एष गच्छति । - सः + आगच्छति
स + आगच्छति = स’ आगच्छति । - सः + तत्र
स + तत्र = स तत्र ।
४.४. अकारं वर्जयित्वा स्वरात् परस्य विसर्गस्य रेफे परे लोपो भवति । लोपे कृते पूर्वस्वरः दीर्घः च भवति । अव्ययसम्बन्धिनः विसर्गस्य अकात् परस्यापि लोपो भवति ।
[[P58]]
i. अकारं विना स्वरः + ः (+ र्) = लोपः, पूर्वस्य दीर्घः
- कविः + रचयति ।
कवि + रचयति → (लोपः)
कवी + रचयति = कवी रचयति - भानुः + राजते
भानु + राजते → (लोपः)
भानू + राजते = भानू राजते
ii. - पुनः + रमते
पुन + रमते (लोपः)
पुना रमते = पुना रमते
इदम् अवधेयम् - विसर्गलोपे कृते निमित्तस्य सद्भावेऽपि स्वरसन्धिः न कर्तव्यः ।
५. उकारः
अकारात् परस्य विसर्गस्य अकारे मृदु-व्यञ्जने च (हशि) परे उकारो भवति । उकारे कृते गुणसन्धिर् अवश्यं करणीयः । अकारे परे गुणानन्तरं पूर्वरूपसन्धिः अपि कर्तव्यः ।
(अ) + ः + (अ/मृदुव्यञ्जनानि) = उकारः
- रामः + अपि
राम + उ + अपि (ः = उ)
रामो + अपि (गुणः)
राम् + ओ + पि = रामोऽपि । (पूर्वरूपम्) - बालः + हसति
बाल + उ + हसति (ः = उ)
बालो + हसति = बालो हसति । (गुणः)
इदम् अवधेयम् - निमित्तस्य सद्भावेऽपि अव्ययसम्बन्धिनः ॠकारान्त-शब्दस्य सम्बोधनसम्बन्धिनः च विसर्गस्य उकारो न भवति । यथा - पुनरत्र । प्रातर्गच्छति । हे पितर् अत्र ! हे होतर् गच्छ ।
अन्यान्युदाहरणानि -
भूमिः + तोयम् = भूमिस्तोयम्
ततः + ततः = ततस्ततः
[[P59]]
| तैः + अपि = तैरपि | पितुः + इच्छा = पितुरिच्छा |
| गुरोः + भाषणम् = गुरोर्भाषणम् | हरिः + अवदत् = हरिरवदत् |
| कपिः + अपि = कपिरपि | कः + चित् = कश्चित् |
| बालाः + धावन्ति = बाला धावन्ति | देवाः + आगच्छन्ति = देवा आगच्छन्ति |
| कः + इदानीम् = क इदानीम् | शिवः + वन्द्यः = शिवो वन्द्यः |
| गजः + गच्छति = गजो गच्छति | बालः + हसति = बालो हसति |
| रामः + जयति = रामो जयति | गुरुः + त्राता = गुरुस्त्राता |
| सः + खादति = स खादति | एषः + आसीत् = एष आसीत् |
| सः + अब्रवीत् = सोऽब्रवीत् | बालः + तिष्ठति = बालस्तिष्ठति |
| हे मातः + आगच्छ = मातरागच्छ | हे भ्रातः + गच्छ = भ्रातर्गच्छ |
****
[[P60]]
(इ) विसर्गस्य परिणामाः
इमानि वाक्यानि परिशील्यन्ताम् -
| पदविभागः कृतः | सन्धिकार्यं कृतम् | विसर्गः इत्थं रूपेण परिणतः |
|---|---|---|
| 1. देवाः इह | 1. देवाय् इह | 1. य् |
| 2. भोः अच्युत | 2. भोय् अच्युत | 2. य् (लघुप्रयत्नतरः) |
| 3. कविः इच्छति | 3. कविरिच्छति | 3. र् |
| 4. बालः च | 4. बालश्च | 4. श् |
| 5. शिवसुतः षण्मुखः | 5. शिवसुतष्षण्मुखः | 5. ष् |
| 6. छात्रः तिष्ठति | 6. छात्रस्तिष्ठति | 6. स् |
| 7. बालः अस्ति | 7. बालोऽस्ति | 7. ओ |
| 8. छात्रः करोति | 8. छात्रᳵ करोति | 8.ᳵ क |
| 9. वृक्षः फलति | 9. वृक्षᳶ फलति | 9.ᳶ फ |
| 10. बालः इच्छति | 10. बालः इच्छति | 10. - (लोपः) |
| 11. रघुः क्षत्रियः | 11. रघुः क्षत्रियः | 11. ः |
इत्थं विसर्गः आत्मानम् एकादशधा प्रकाशयति । एतेषाम् अपि क्वचित् क्वचित् वैकल्पिकत्वात् संहितायां विवक्षितायां वाक्यानि अधिकत्रिंशानि भवन्ति । यथा - (अत्र उत्सर्ग-सूत्राणाम् उदाहरणानि दर्शितानि । एतत्तदोः सुलोपो अकोर् अनञ्समासे हलि - ६.१.१३२, अतः कृकमि… ८.३.४६ इत्यादीनां विशेष-सूत्राणाम् उदाहरणानि न प्रदर्शितानि ।)
[[P64]]
(List of 34 examples showing various sandhi results)
प्रथमवाक्यतः एकादशवाक्यान्तं स्वरे मृदु-व्यञ्जने च (अशि) परे सन्धिकार्यं कृतम् ।
द्वादशवाक्यतः चतुस्त्रिंशत्तमवाक्यान्तं कर्कश-व्यञ्जने (खरि) परे सन्धिकार्यं कृतम् ।
१, ६. भो भगोऽघोऽपूर्वस्य योऽशि - ८.३.१७
२, ७. लोपः शाकल्यस्य - ८.३.१९
३, ८. व्योर् लघुप्रयत्नतरः शाकटायनस्य - ८.३.१८
४. हलि सर्वेषाम् - ८.३.२२
५. अतो रोरप्लुताद् अप्लुते - ६.१.११३
९. हशि च - ६.१.११४
१०. ससजुषो रुः - ८.२.६६
११. रो रि - ८.३.१४
१२. विसर्जनीयस्य सः - ८.३.३४ स्तोः श्चुना श्चुः - ८.४.४०
१३. विसर्जनीयस्य सः - ८.३.३४ ष्टुना ष्टुः - ८.४.४१
१४. विसर्जनीयस्य सः - ८.३.३४
१५, १६, १७, १८ कुप्वोःᳵ कᳶ पौ च - ८.३.३७
१९. शर्परे विसर्जनीयः - ८.३.३५
२०, २२, २४. वा शरि - ८.३.३६
२१, २३, २५. विसर्जनीयस्य सः । श्चुत्वं, ष्टुत्वम् ।
२६, २९, ३२. वा शरि - ८.३.३६
२७, ३०, ३३. विसर्जनीयस्य सः । श्चुत्वम् । ष्टुत्वम् ।
२८, ३१, ३४. खर्परे शरि वा विसर्गलोपो वक्तव्यः ।
[[P65]]
-
इमम् एव नियमम् एवं वा वक्तुं शक्यते - विसर्गस्य त-थयोः परयोः सकारः, च-छयोः परयोः शकारः, ट-ठयोः परयोः षकारः, श-ष-स इत्येतेषु परेषु विकल्पेन क्रमात् श-ष-सा एव आदेशा भवन्ति । ↩︎
-
ससजुषो रुः - ८.२.६६ इति विहितस्य रुकारस्यैव उत्वं भवति, नान्यस्य इति स्मर्तव्यम् । ↩︎
-
विसर्गसन्धेः चतुर्थेन नियमेन अत्र उकारो न भवतीति स्मरणीयम् । ↩︎
-
स्वरे परे विसर्गस्य विकल्पेन यकारोऽपि भवति । यथा - बालाय् अत्र । लताय् एधन्ते । रामयागच्छति । कृष्णयेति । एषयिच्छति । सयागच्छति इति । किन्तु यकारोपेतस्य प्रयोगः विरलः । ↩︎