४ व्यञ्जनसन्धिः

१. श्चुत्वसन्धिः

श्चुः = श् च् छ् ज् झ् ञ् ।1

‘सकारस्य शकार-चवर्गाभ्यां योगे2 सकारस्य शकारः, तवर्गस्य शकार-चवर्गाभ्यां योगे तवर्गस्य क्रमात् चवर्गः आदेशो भवति ।3

i. स् + (श्/चवर्गः) = श्

  • शिशुस् + शेते
    शिशु + श् + शेते = शिशुश्शेते । (स् = श्)
  • मनस् + चञ्चलम्
    मन + श् + चञ्चलम् = मनश्चञ्चलम् (स् = श्)
  • रामस् + छात्रः
    राम + श् + छात्रः = रामश्छात्रः । (स् = श्)

ii. तवर्गः + (श/चवर्गः) = चवर्गः

  • भगवत् + शक्तिः
    भगव + च् + शक्तिः = भगवच्छक्तिः । (त् = च्)
  • सत् + चित्
    स + च् + चित् = सच्चित् । (त् = च्)
  • सुहृद् + जगाम
    सुहृ + ज् + जगाम = सुहृज्जगाम । (द् = ज्)
  • हे गुणिन् + जानातु
    हे गुणि + ञ् + जानातु = हे गुणिञ्जानातु । (न् = ञ्)

iii. चवर्गः + तवर्गः = चवर्गः

  • यज् + नः
    यज् + ञ् + अः = यज्ञः । (न् = ञ्)

[[P36]]

  • याच् + ना
    याच् + ञ् + आ = याच्ञा । (न् = ञ्)
विशेषः सत् + चित् → सद् + चित् → सज् + चित् → सच् + चित् = सच्चित् । सद् + चित् इति जश्त्वे, सज् + चित् इति श्चुत्वे, सच् + चित् इति चर्त्वे च कृते सच्चित् इति सिद्धं भवति । एषः शास्त्रीयः क्रमः । सत् + चित् = सच्चित् इति श्चुत्वे कृते अपि फले भेदः न भवति । अतः सत् + चित् इति विभज्य अत्र प्रदर्शितम् । उत्तरत्रापि हल्सन्धिषु अस्माभिः विभज्य प्रदर्शितस्य, शास्त्रीयक्रमेण विभजनीयस्य च सूक्ष्मः भेदः सम्भवति । किन्तु सन्धौ कृते फलभेदो नास्तीति सौलभ्याय एषा सरणिः आदृता ।

अन्यान्युदाहरणानि -

हरिस् + शेते = हरिश्शेते रामस् + च = रामश्च
सत् + चिद्रूपम् = सच्चिद्रूपम् तद् + ज्वलति = तज्ज्वलति
गुणिन् + जयः = गुणिञ्जयः उद् + ज्वलम् = उज्ज्वलम्
बृहत् + छत्रम् = बृहच्छत्रम् तत् + च = तच्च
अन्यत् + च = अन्यच्च शार्ङ्गिन् + जय = शार्ङ्गिञ्जय
तपस् + चर्या = तपश्चर्या कियत् + चिरम् = कियच्चिरम्
मृत् + शकटिका = मृच्छकटिका सकृत् + चर्वणम् = सकृच्चर्वणम्
उद् + जीवनम् = उज्जीवनम् भूभृत् + चलति = भूभृच्चलति
तत् + चिन्त्यम् = तच्चिन्त्यम् बृहत् + छिद्रम् = बृहच्छिद्रम्
एतद् + ज्ञात्वा = एतज्ज्ञात्वा प्रतिपत् + चन्द्रः = प्रतिपच्चन्द्रः

अपवादः - ‘शकारात् परस्य चुत्वं न भवति ।4 यथा -
विश् + नः = विश्नः । प्रश् + नः = प्रश्नः ।

२. ष्टुत्वसन्धिः5

ष्टु = ष् ट् ठ् ड् ढ् ण्

सकारस्य षकार-टवर्गाभ्यां योगे सकारस्य षकारः, तवर्गस्य षकार-टवर्गाभ्यां योगे तवर्गस्य क्रमात् टवर्गः आदेशो भवति ।

i. स् + (ष/टवर्गः) = ष्

  • बालस् + षष्ठः
    बाल + ष् + षष्ठः = बालष्षष्ठः । (स् = ष्)

[[P37]]

  • टवर्गस् + टादिः
    टवर्ग + ष् + टादिः = टवर्गष्टादिः । (स् = ष्)
  • धनुस् + ठङ्कारः
    धनु + ष् + ठङ्कार = धनुष्ठङ्कारः (स् = ष्)

ii. तवर्गः + (टवर्गः) = टवर्गः

  • बृहत् + टीका
    बृह + ट् + टीका = बृहट्टीका । (त् = ट्)
  • तद् + डमरुः
    त + ड् + डमरुः = तड्डमरुः । (द् = ड्)
  • एतद् + ढक्का
    एत + ढ् + ढक्का = एतढ्ढक्का । (द् = ढ्)
  • चक्रिन् + ढौकसे
    चक्रि + ण् + ढौकसे = चक्रिण्ढौकसे । (न् = ण्)

iii. (ष) + तवर्गः = टवर्गः

  • आकृष् + तः
    आकृष् + ट् + अः = आकृष्टः । (त् = ट्)
  • इष् + तः
    इष् + ट् + अः = इष्टः । (त् = ट्)

iv. (टवर्गः) + तवर्गः = टवर्गः

  • षण् + नाम्
    षण् + ण् + आम् = षण्णाम् (न् = ण्)
  • षण् + नवतिः
    षण् + ण् + नवतिः = षण्णवतिः । (न् = ण्)
  • षण् + नगर्यः
    षण् + ण् + नगर्यः = षण्णगर्यः (न = ण्)

अन्यान्युदाहरणानि -

तत् + टीका = तट्टीका बृहद् + डिण्डिमः = बृहड्डिण्डिमः
शरद् + डम्बरः = शरड्डम्बरः कतमस् + टकारः = कतमष्टकारः
उत् + टङ्कनम् = उट्टङ्कनम् सत् + टिप्पणी = सट्टिप्पणी
पक्षिन् + टिट्टिभ ! = पक्षिण्टिट्टिभ ! उद् + डयनम् = उड्डयनम्

[[P38]]

स्याद् + ढक्का = स्याढ्ढक्का पतद् + डिम्भः = पतड्डिम्भः
मरुद् + डिण्डिमः = मरुड्डिण्डिमः असकृद् + डयनम् = असकृड्डयनम्
बृहत् + टङ्कशाला = बृहट्टङ्कशाला भयकृद् + डामरः = भयकृड्डामरः

अपवादः -
i. ‘तवर्गस्य षकारे ष्टुत्वं न भवति ।6
यथा - भवान् + षष्ठः = भवान् षष्ठः । अत्र नकारस्य णकारादेशो न ।

ii. ‘नाम्-नवति-नगरीन् वर्जयित्वा पदान्तात् टवर्गात् परस्य सकारस्य तवर्गस्य च ष्टुत्वं न भवति ।7 यथा -
षट् + सन्तः = षट्सन्तः । अत्र सकारस्य षकारादेशो न ।
षट् + तरुणाः = षट्तरुणाः । अत्र तकारस्य टकारादेशो न ।
मधुलिह् + दीनः = मधुलिड्दीनः । अत्र दकारस्य डकारादेशो न ।

३. जश्त्वसन्धिः

जश् = ज् ब् ग् ड् द्

‘ञमङणनान् वर्जयित्वा पदान्ते स्थितानां वर्गीय-व्यञ्जनानां,8 स्वरे मृदु-व्यञ्जने च (हशि) परे तत्तद्-वर्गीय-तृतीय-व्यञ्जनम् आदेशो भवति ।9 अवसाने तु तत्तद्-वर्गीय प्रथमं तृतीयं वा व्यञ्जनम् आदेशो भवति ।10 षकारस्यापि डकारो भवति, अवसाने तु टकारो डकारो वा ।

i. वर्गीय-व्यञ्जनानि + (स्वरः) = जश्

  • वाक् + ईशः
    वा + ग् + ईशः = वागीशः । (क् = ग्)
  • अच् + अन्तः
    अ + ज् + अन्तः = अजन्तः । (च् = ज्)
  • मधुलिट् + अस्ति
    मधुलि + ड् + अस्ति = मधुलिडस्ति । (ट् = ड्)

[[P39]]

  • जगत् + ईशः
    जग + द् + ईशः = जगदीशः । (त् = द्)
  • सुप् + अन्तम्
    सु + ब् + अन्तम् = सुबन्त । (प् = ब्)

ii. वर्गीय-व्यञ्जनानि + [मृदुव्यञ्जनम्(हश्)] = जश्

  • वाक् + व्यवहारः
    वा + ग् + व्यवहारः = वाग्व्यवहारः ।
  • अच् + वर्णः
    अ + ज् + वर्णः = अज्वर्णः । (च् = ज्)
  • मधुलिट् + डयते
    मधुलि + ड् + डयते = मधुलिड्डयते । (ट् = ड्)
  • महत् + यशः
    मह + द् + यशः = महद्यशः । (त् = द्)
  • सुप् + विभक्तिः
    सु + ब् + विभक्तिः = सुब्विभक्तिः । (प् = ब्)

iii. वर्गीय-व्यञ्जनानि = जश् (अवसाने)
वाक् / वाग्
अच् / अज्
लिट् / लिड्
मरुत् / मरुद्
ककुप् / ककुब्

iv. ष् = ड्

  • षष् + भ्याम्
    ष + ड् + भ्याम् = षड्भ्याम् । (ष् = ड्)

अन्यान्युदाहरणानि -

वाक् + देवता = वाग्देवता षष् + दर्शनानि = षड्दर्शनानि
उत् + गमः = उद्गमः तत् + अपि = तदपि
तत् + यथा = तद्यथा अप् + जम् = अब्जम्
षष् + आननः = षडाननः जगत् + गुरुः = जगद्गुरुः
सत् + गुणः = सद्गुणः अप् + धिः = अब्धिः
स्वर्गात् + अपि = स्वर्गादपि महत् + इदम् = महदिदम्

[[P40]]

अस्मात् + वचनात् = अस्माद्वचनात् तावत् + एनम् = तावदेनम्
प्राक् + एव = प्रागेव सम्यक् + अभिहितम् = सम्यगभिहितम्

४. चर्त्वसन्धिः

“ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनानां कर्कश-व्यञ्जने (खरि) परे तत्तद्-वर्गीय-प्रथम-व्यञ्जनम् आदेशो भवति ।11

i. वर्गीय-व्यञ्जनानि + (कर्कश-व्यञ्जनानि) = क् च् ट् त् प्

  • दिग् + पालः
    दि + क् + पालः = दिक्पालः (ग् = क्)
  • विराड् + पुरुषः
    विरा + ट् + पुरुषः = विराट्पुरुषः । (ड् = ट्)
  • विपद् + कालः
    विप + त् + कालः = विपत्कालः । (द् = त्)
  • अनुष्टुभ् + छन्दः
    अनुष्टु + प् + छन्दः = अनुष्टुप्छन्दः । (भ् = प्)

अन्यान्युदाहरणानि -

अस्मद् + पुत्रः = अस्मत्पुत्रः विपद् + प्रतीकारः = विपत्प्रतीकारः
सम्पद् + पुत्रः = सम्पत्पुत्रः सम्पद् + कुमारः = सम्पत्कुमारः
उद् + पतति = उत्पतति षड् + खाद्यानि = षट्खाद्यानि
तादृग् + कर्म = तादृक्कर्म एतद् + पार्श्वम् = एतत्पार्श्वम्
विश्वराड् + कुत्र = विश्वराट्कुत्र कामधुग् + खादति = कामधुक्खादति
तुराषाड् + सर्वः = तुराषाट्सर्वः ऋत्विग् + पार्श्वे = ऋत्विक्पार्श्वे
परिव्राड् + सङ्गः = परिव्राट्सङ्गः ककुभ् + स्थः = ककुप्स्थः

५. अनुनासिकसन्धिः

अनुनासिकः = ङ् ञ् ण् न् म्

“अनुनासिक-व्यञ्जनेषु परेषु पदान्ते स्थितानां वर्गीय-व्यञ्जनानां तत्तद्-वर्गीय-पञ्चमो वर्णों (अनुनासिकः) विकल्पेन आदेशो भवति ।12 “अनुनासिकादौ प्रत्यये परे तु नित्यम् एव अनुनासिको भवति ।13


[[P41]]

i. विकल्पेन - वर्गीय-व्यञ्जनानि + (अनुनासिकः) = अनुनासिकः

  • वाग् + मूलम्
    वा + ङ् + मूलम् = वाङ्मूलम्/वाग्मूलम् । (ग् = ङ्)
  • षड् + मयूखाः
    ष + ण् + मयूखाः = षण्मयूखाः/षड्मयूखाः । (ड् = ण्)
  • तद् + नयति
    त + न् + नयति = तन्नयति/तद्नयति (द् = न्)

ii. नित्यम् - वर्गीय-व्यञ्जनानि + (प्रत्ययानुनासिकः) = अनुनासिकः

  • चिद् + मयम्
    चि + न् + मयम् = चिन्मयम् (द् = न्)
  • तद् + मात्रम्
    त + न् + मात्रम् = तन्मात्रम् (द् = न्)
  • अप् + मयम्
    अ + म् + मयम् = अम्मयम् । (प् = म्)

अन्यान्युदाहरणानि -

वाग् + नियमः = वाङ्नियमः जगद् + नाथः = जगन्नाथः
तद् + मङ्गलम् = तन्मङ्गलम् षड् + मुखः = षण्मुखः
तस्माद् + मद्यम् = तस्मान्मद्यम् तद् + नयनम् = तन्नयनम्
मद् + निवासः = मन्निवासः यद् + मण्डलम् = यन्मण्डलम्
तस्माद् + नागरिकाः = तस्मान्नागरिकाः सकृद् + नष्टम् = सकृन्नष्टम्
त्वद् + मोचनम् = त्वन्मोचनम् जगद् + नियामकः = जगन्नियामकः
सम्राड् + मनसि = सम्राण्मनसि मधुलिह् + नमति = मधुलिण्नमति
विद्युद् + नगरी = विद्युन्नगरी दिग् + मध्ये = दिङ्मध्य
जाग्रत् + नागरिकः = जाग्रन्नागरिकः

६. अनुस्वारसन्धिः

अनुस्वारः = ं

६.१. “व्यञ्जने परे पदान्ते स्थितस्य मकारस्य अनुस्वारो भवति ।14 [*]

[*] वन्दे रामं । कृष्णं अनुसरति - इत्यत्र वाक्यद्वयेऽपि अनुस्वारलेखनं न युक्तम् । उभयत्रापि अग्रे व्यञ्जनस्याभावात् । अनुस्वारसन्धौ व्यञ्जनपरकः एव मकारः अनुस्वारो भवतीति स्मरणीयम् ।


[[P42]]

i. म् + (व्यञ्जनानि) = ं

  • *रामम् + वन्दे
    राम + ं + वन्दे = रामं वन्दे । (म् = ं)
  • गुहायाम् + तपति
    गुहाया + ं + तपति = गुहायां तपति । (म् = ं)

अन्यान्युदाहरणानि -

हरिम् + श्रयते = हरिं श्रयते वाक्यम् + शृणोतु = वाक्यं शृणोतु
मालायाम् + सूत्रम् = मालायां सूत्रम् आपणम् + गत्वा = आपणं गत्वा
धर्मम् + चर = धर्मं चर सत्यम् + वद = सत्यं वद
सज्जनम् + मानय = सज्जनं मानय सर्वम् + स्थानम् = सर्वं स्थानम्
नगर्याम् + स्थित्वा = नगर्यां स्थित्वा फलम् + खादित्वा = फलं खादित्वा
दुःखम् + त्यज = दुःखं त्यज पापम् + शान्तम् = पापं शान्तम्
पुस्तकम् + पश्य = पुस्तकं पश्य वाणीम् + वन्दे = वाणीं वन्दे
वीणाम् + वादयति = वीणां वादयति एवम् + कृत्वा = एवं कृत्वा

६.२ “ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनेषु शषसहेषु च (झलि) परेषु अपदान्ते स्थितस्य नकारस्य मकारस्य च अनुस्वारो भवति ।15

i. न् + (वर्गीयव्यञ्जनम्/शषसह) = ं

  • यशान् + सि
    यशा + ं + सि = यशांसि । (न् = ं)

ii. म् + (वर्गीयव्यञ्जनम्/शषसह) = ं

  • आक्रम् + स्यते
    आक्र + ं + स्यते = आक्रंस्यते । (म् = ं)

७. परसवर्णसन्धिः

परसवर्णः = ङ् ञ् ण् न् म् यँ लँ वँ

७.१. “अनुस्वारस्य वर्गीय-व्यञ्जनेषु (ययि) परेषu तत्तद्-वर्गस्य पञ्चमो वर्णः आदेशो भवति, यवले परे तु यँ वँ लँ इत्यादेशो भवति ।16 ‘पदान्ते स्थितस्य अनुस्वारस्य तु विकल्पेन आदेशो भवति ।17


[[P43]]

i. नित्यम् - अनुस्वारः + (वर्गीयव्यञ्जनानि) = ङ् ञ् ण् न म

  • अं + कितः
    अ + ङ् + कितः = अङ्कितः । (ं = ङ्)
  • मुं + चति
    मु + ञ् + चति = मुञ्चति । (ं = ञ)
  • मुं + डनम्
    मु + ण् + डनम् = मुण्डनम् (ं = ण्)
  • नं + दति
    न + न् + दति = नन्दति (ं = न्)
  • कं + पते
    क + म् + पते = कम्पते । (ं = म्)

ii. विकल्पः -
अनुस्वारः + (वर्गीयव्यञ्जनानि/य व ल) = ङ् ञ् ण् न् म्/यँ वँ लँ

  • त्वं + करोषि
    त्व + ङ् + करोषि = त्वङ्करोषि/त्वंकरोषि (ं = ङ्)
  • * सं + पृक्तौ
    स + म् + पृक्तौ = सम्पृक्तौ/संपृक्तौ (ं = म्)
  • सं + यमः
    स + यँ + यमः = सँय्यमः/संयमः (ं = यँ)
  • सं + वत्सरः
    स + वँ + त्सरः = सँव्वत्सरः/संवत्सरः (ं = वँ)
  • सं + लापः
    स + लँ + लापः = सँल्लापः/संलापः (ं = लँ)

अन्यान्युदाहरणानि -

अं + बरम् = अम्बरम् अं + कनम् = अङ्कनम्
इं + गितम् = इङ्गितम् अं + घ्रिः = अङ्घ्रिः
प्रें + खा = प्रेङ्खा चं + चुः = चञ्चुः
पं + जरम् = पञ्जरम् पिं + डम् = पिण्डम्
कं + टकम् = कण्टकम् कुं + तः = कुन्तः
मं + दिरम् = मन्दिरम् संरं + भः = संरम्भः

[*] उपसर्गः सर्वोऽपि सुबन्तः । अत तस्य पदत्वम् । तस्मात् ‘संपृक्तौ’ इत्यादौ विकल्पेनानुस्वारः ।


[[P44]]

सं + भवः = सम्भवः सं + ख्या = सङ्ख्या
गृहं + गत्वा = गृहङ्गत्वा इत्थं + कृत्वा = इत्थङ्कृत्वा
शं + करः = शङ्करः सं + बं + धः = सम्बन्धः
सं + भ्रमः = सम्भ्रमः झं + झावातः = झञ्झावातः

७.२. “तवर्गस्य लकारे परे लकारादेशो भवति । तत्र नकारस्य अनुनासिक-लँकारो भवति ।18

तवर्गः + (ल्) = ल्/लँ

  • तद् + लयः
    त + ल् + लयः = तल्लयः । (द् = ल्)
  • पठन् + लिखति
    पठ + लँ + लिखति = पठल्लिखति । (न् = लँ)

अन्यान्युदाहरणानि -

चलत् + लाङ्गलम् = चलल्लाङ्गलम् पतत् + लेखनी = पतल्लेखनी
जहत् + लक्षणा = जहल्लक्षणा गच्छन् + लक्ष्मणः = गच्छल्लक्ष्मणः
विलसत् + लङ्काः = विलसल्लङ्काः गर्जन् + लङ्केश्वरः = गर्जल्लङ्केश्वरः
वदन् + लज्जितः = वदल्लज्जितः जनान् + लब्ध्वा = जनाँल्लब्ध्वा
जगत् + लयः = जगल्लयः ललत् + ललन्तिका = ललल्ललन्तिका

८. ङमुडागमसन्धिः19

ङमुट् = ङ्, ण्, न्

ह्रस्वस्वरपूर्वक-ङान्तात् ह्रस्वस्वरपूर्वक-णान्तात्, ह्रस्वस्वरपूर्वक-नान्तात् च पदात् स्वरे परे, स्वरात् पूर्वं क्रमात् ङ् ण् न् इत्येते आगमाः भवन्ति । ङ् ण् न् इत्येतेषां द्विरुच्चारणं भवतीति फलितोऽर्थः ।

i. (ह्रस्वस्वरपूर्वकाः) ङ् ण् न् + स्वराः = -ङ्ङ्- -ण्ण्- -न्न्-

  • प्रत्यङ् + आत्मा
    प्रत्यङ् + ङ् + आत्मा = प्रत्यङ्ङात्मा ।
  • सुगण् + ईशः
    सुगण् + ण् + ईशः = सुगण्णीशः

[[P45]]

  • पचन् + अस्ति
    पचन् + न् + अस्ति = पचन्नस्ति

अन्यान्युदाहरणानि -

गच्छन् + अस्ति = गच्छन्नस्ति तस्मिन् + इति = तस्मिन्निति
सर्वस्मिन् + अपि = सर्वस्मिन्नपि उदङ् + इह = उदङिङ्ह
तिर्यङ् + अत्र = तिर्यङ्ङत्र तस्मिन् + एतस्मिन् = तस्मिन्नेतस्मिन्
स्वस्मिन् + एव = स्वस्मिन्नेव पूर्वस्मिन् + ईश्वरे = पूर्वस्मिन्नीश्वरे
तपस्विन् + एहि ! = तपस्विन्नेहि ! एकस्मिन् + अम्बुजे = एकस्मिन्नम्बुजे
लिखन् + एव = लिखन्नेव अपरस्मिन् + औषधे = अपरस्मिन्नौषधे
हसन् + अत्ति = हसन्नत्ति रुदन् + आयातः = रुदन्नायातः
शर्मन् + अधीहि = शर्मन्नधीहि कस्मिन् + इह = कस्मिन्निह

९. पूर्वसवर्णसन्धिः

पूर्वसवर्णः = घ् झ् ढ् ध् भ् ।

९.१. “तत्तद्-वर्गीय-तृतीय-व्यञ्जनात् (जशः) परस्य हकारस्य, तत्तद्-वर्गीय-चतुर्थ-व्यञ्जनं विकल्पेन आदेशो भवति ।20

i. (ग् ज् ड् द् ब्) + ह = घ/झ/ढ/ध/भ

  • वणिग् + हसति
    वणिग् + घ् + असति = वणिग्घसति/वणिग् हसति ।
  • अज् + हलौ
    अज् + झ् + अलौ = अज्झलौ/अज् हलौ ।
  • षड् + हयाः
    षड् + ढ् + अयाः = षड्ढयाः/षड् हयाः ।
  • तद् + हितम्
    तद् + ध् + इतम् = तद्धितम्/तद् हितम् ।
  • अब् + हृदौ
    अब् + भ् + रदौ = अब्भ्रदौ/अब् हृदौ ।

अन्यान्युदाहरणानि -

वाग् + हीनः = वाग्घीनः प्राग् + हसित्वा = प्राग्घसित्वा
षड् + हर्याणि = षड्ढर्याणि जगद् + हित = जगद्धितम्
अब् + ह्रासः = अब्भ्रासः तद् + हि = तद्धि

[[P46]]

तद् + हेतुकम् = तद्धेतुकम् सुहृद् + हृष्टः = सुहृद्धृष्टः
गच्छद् + हूणः = गच्छद्धूणः भ्राजद् + हिरण्यम् = भ्राजद्धिरण्यम्
महद् + हास्यम् = महद्धास्यम् विड् + हसति = विड्ढसति
सम्राट् + हरिद्राम् = सम्राडढरिद्राम् पतद् + हिमम् = पतद्धिमम्
भवद् + हितरक्षकः = भवद्धितरक्षकः

९.२. पूर्वसवर्णः = थ्
“उद्-उपसर्गात् परस्य स्था-धातोः स्तम्भ्-धातोश् च आदौ स्थितस्य सकारस्य थकारादेशो भवति ।21

(उद्) + स् = थ्

  • उत् + स्थानम्
    उत् + थ् + थानम् = *उत्थ्थानम् (उत्थानम्)[*]
  • उत् + स्तम्भनम्
    उत् + थ् + तम्भनम् = *उत्थ्तम्भनम् (उत्तम्भनम्)[*]

[*] थकारस्य विकल्पेन लोपो भवति । ४६ पृष्ठं पश्यन्तु ।

अन्यान्युदाहरणानि -

उत् + स्थातव्यम् = उत्थातव्यम् उत् + स्थितिः = उत्थितिः
उत् + स्थातुम् = उत्थातुम् उत् + स्थापनम् = उत्थापनम्
उत् + स्थानम् = उत्थानम् उत् + स्थाप्य = उत्थाप्य
उत् + स्तम्भितः = उत्तम्भितः उत् + स्तम्भनीयः = उत्तम्भनीयः

१०. छत्वसन्धिः

“पदान्ते स्थितात् तत्तद्-वर्गीय-प्रथम-व्यञ्जनात् परस्य शकारस्य छकारो विकल्पेन आदेशो भवति । किन्तु शकारात् परे स्वराः यरलवमनाश् च (अम्) भवेयुः ।22

i. (प्रथम-व्यञ्जनम्) + श् = छ्

  • वाक् + शरः
    वाक् + छ् + अरः = वाक्छरः/वाक्शरः । (श् = छ्)
  • तच् + शिवः
    तच् + छ् + इवः = तच्छिवः/तच्शिवः । (श् = छ्)

[[P47]]

  • मृच् + शकटिकम्
    मृच् + छ् + अकटिकम् = मृच्छकटिकम्/मृच्शकटिकम् ।
  • मधुलिट् + शेते
    मधुलिट् + छ् + एते = मधुलिच्छेते/मधुलिट्शेते ।
  • तच् + श्लोकेन
    तच् + छ् + लोकेन = तच्छ्लोकेन/तच्श्लोकेन ।
  • तच् + श्मश्रु
    तच् + छ् + मश्रु = तच्छ्मश्रु/तच्श्मश्रु ।
  • तच् + श्नाप्रत्ययः
    तच् + छ् + नाप्रत्ययः = तच्छ्नाप्रत्ययः/तच्श्नाप्रत्ययः ।

अन्यान्युदाहरणानि -

वाक् + शस्त्रम् = वाक्छस्त्रम् / वाक्शस्त्रम् तत् + शुभम् = तच्छुभम् / तच्शुभम्
विट् + शङ्करः = विट्छङ्करः / विट्शङ्करः सच् + शीलम् = सच्छीलम् / सच्शीलम्
चलच् + शुकः = चलच्छुकः / चलच्शुकः नश्यच् + शास्त्रम् = नश्यच्छास्त्रम् / नश्यच्शास्त्रम्
विद्वच् + श्रद्धा = विद्वच्छ्रद्धा / विद्वच्श्रद्धा तच् + श्लाघनम् = तच्छ्लाघनम् / तच्श्लाघनम्
एतच् + श्वस्तनम् = एतच्छ्वस्तनम् / एतच्श्वस्तनम् तच् + श्मशानम् = तच्छ्मशानम् / तच्श्मशानम्

११. …

“नकारान्तात् पदात् च-छयोः परयोः *नकारस्य शकारः, ट-ठयोः परयोः षकारः, त-थयोः परयोः सकारश्च आदेशो भवति, आदेशात् पूर्वत्र स्थित स्वरः अनुनासिकः अनुस्वारयुक्तो वा भवति । किन्तु एतेभ्यः च-आदिभ्यः परे स्वराः यरलवमनाश् च (अम्) भवेयुः ।23 [*]

[*] ‘नश्चव्यप्रशान्’ इति सूत्रम्, अग्रे ‘समः सुटि’ इति सूत्रञ्च प्राधान्येन लिखितम् । किन्तु उपर्युक्तः सर्वोऽपि न तयोः सूत्रयोर् अर्थः । प्रक्रिया-सौकर्याय अन्येषां सूत्राणाम् अर्थोऽपि क्रोडीकृतः ।


[[P48]]

i. न् + (चछ) = ँश् / ंश्

  • तान् + च
    ताँ + श् + च = ताँश्च /
    तां + श् + च = तांश्च ।
  • एतान् + छात्रान्
    एताँ + श् + छात्रान् / = एताँश्छात्रान् /
    एतां + श् + छात्रान् / = एतांश्छात्रान् ।

ii. न् + (टठ) = ँष् / ंष्

  • श्लोकान् + टीकाभिः
    श्लोकाँ + ष् + टीकाभिः / = श्लोकाँष्टीकाभिः /
    श्लोकां + ष् + टीकाभिः = श्लोकांष्टीकाभिः ।
  • तान् + ठङ्कारान्
    ताँ + ष् + ठङ्कारान् / = ताँष्ठङ्कारान् /
    तां + ष् + ठङ्कारान् = तांष्ठङ्कारान्

iii. न् + (तथ) = ँस् / ंस्

  • अस्मान् + तारय
    अस्माँ + स् + तारय = अस्माँस्तारय /
    अस्मां + स् + तारय = अस्मांस्तारय ।
  • तान् + थूत्करोति
    ताँ + स् + थूत्करोति = ताँस्थूत्करोति /
    तां + स् + थूत्करोति = तांस्थूत्करोति ।

अपवादः - ‘प्रशान्’ शब्दे तु नायं नियमः । यथा - प्रशान् तनोति ।

१२. …

“सम्-उपसर्गात् *सकारादौ कृ-धातौ परे मकारस्य सकारादेशो भवति, सकारादेशानन्तरं पूर्वस्थितः अकारः अनुनासिकः अनुस्वारयुक्तो वा भवति ।24 “सकारादेशानन्तरं सकारस्य विकल्पेन लोपश्च भवति ।25

[*] सम्परिभ्यां करोतौ भूषणे - ६.१.१३७ सम्-परि-पूर्वस्य करोतेः सुट् स्यात् भूषणे सङ्घातार्थे च । संस्करोति - अलङ्करोति । संस्कुर्वन्ति - सङ्घीभवन्ति इति सिद्धान्तकौमुद्याम् । अतोऽनयोर् अर्थयोः कृञ्-धातुः सादिर् भवति । तस्मात् संस्कृतं नाम अलङ्कृतम् इत्यर्थः ।


[[P49]]

i. (सं) म् + (स्कृ) = सँस्

  • सम् + स्कर्ता
    सँ + स् + स्कर्ता = सँस्स्कर्ता /
    सँ + स्कर्ता = सँस्कर्ता ।
  • सम् + स्कृतम्
    सँ + स् + स्कृतम् = सँस्स्कृतम् /
    सँ + स्कृतम् = सँस्कृतम्

ii. सम् (+स्कृ) = संस्

  • सम् + स्कर्ता
    सं + स् + स्कर्ता = संस्स्कर्ता /
    सं + स्कर्ता = संस्कर्ता
  • सम् + स्कृतम्
    सं + स् + स्कृतम् = संस्स्कृतम् /
    सं + स्कृतम् = संस्कृतम्

१३. तुगागमसन्धिः

“ह्रस्वात् स्वरात् छकारे परे तयोर् मध्ये *चकारागमः भवति,26 “दीर्घात् पदान्तात् तु विकल्पेन भवति ।27

[*] पाणिनिना तुगागमः (त्) विहितः । तुगागमे सति श्चुत्वं भवत्येवेति चकारागमः इति लिखितम् । तुगागमत्वेन प्रसिद्धिरस्तीति तुगागमसन्धिर् इति लिखितम् ।

i. नित्यम् - ह्रस्वस्वरः + छ = -च्-

  • वृक्ष + छाया
    वृक्ष + च् + छाया = वृक्षच्छाया

ii. विकल्पेन - दीर्घपदान्तं + छ = -च्-

  • शिखरिणी + छन्दः
    शिखरिणी + च् + छन्दः = शिखरिणीच्छन्दः/शिखरिणीछन्दः ।

[[P50]]

अन्यान्युदाहरणानि -

संस्कृत + छात्रः = संस्कृतच्छात्रः श्वेत + छत्रम् = श्वेतच्छत्रम्
अक्षर + छन्दसः = अक्षरच्छन्दः कार्य + छलम् = कार्यच्छलम्
शुभ्र + छविः = शुभ्रच्छविः गृह + छादनम् = गृहच्छादनम्
मानव + छाया = मानवच्छाया सूक्ष्म + छिद्रम् = सूक्ष्मच्छिद्रम्
दीर्घ + छुरिका = दीर्घच्छुरिका वृक्ष + छेदः = वृक्षच्छेदः
स + छत्रः = सच्छत्रः (छत्रसहितः) संस्कृत + छाया = संस्कृतच्छाया
मातृ + छाया = मातृच्छाया एतरेय + छान्दोग्ये = एतरेयच्छान्दोग्ये
पदवी + छात्राः = पदवीच्छात्राः/पदवीछात्राः
मात्रा + छन्दः = मात्राच्छन्दः/मात्राछन्दः

इमे विषयाः क्वचिद् अपेक्ष्यन्ते

१. यवयोर् लोपः28
पदान्ते विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य वा यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपो भवति । लोपे कृते निमित्तस्य सद्भावेऽपि स्वरसन्धिः न भवति ।

  • तस्याय् + इदम्
    तस्या + इदम् = तस्या इदम्/तस्यायिदम्
  • उभाव् + अपि
    उभा + अपि = उभा अपि/उभावपि

२. केषाञ्चन व्यञ्जनानां लोपः29
व्यञ्जनात् परस्य ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनस्य शषस इत्येतेषाञ्च एतेष्व् एव सवर्णेषु व्यञ्जनेषु परेषु लोपो विकल्पेन भवति ।

  • कृष्ण + ऋद्धिः
    कृष्ण् + अर् + द्धिः = कृष्णर्द्धिः । (गुणः) (र् द् ध् इ = र्द्धि)
    कृष्ण् + अर् + धिः = कृष्णर्धिः । (लोपः) (र् ध् इ = र्धिः)

३. द्वित्वम्30
स्वरात् परस्य (हकारं वर्जयित्वा) व्यञ्जनस्य द्वित्वं विकल्पेन भवति । स्वरे परे तु द्वित्वं न ।


[[P51]]

  • सुधी + उपास्यः
    सुध्य् + उपास्यः = सुध्युपास्यः । (यण्)
    सुध्ध्य् + उपास्यः = (धकारस्य द्वित्वम्)
    सुद्ध्य् + उपास्यः = सुद्ध्युपास्यः ।31 (जश्त्वम्)

४. जश्त्वम्31
ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनानां शषसह इत्येतेषाञ्च तत्तद्-वर्गीय-तृतीय-चतुर्थ-व्यञ्जने परे तत्तद्-वर्गीय-तृतीय-व्यञ्जनम् आदेशो भवति ।

  • सुधी + उपास्यः
    सुध्य् + उपास्यः (यण्)
    सुध्ध्य् + उपास्यः (द्वित्वम्)
    सु द् ध् य् + उपास्यः (जश्त्वम्) = सुद्ध्युपास्यः

*****


[[P52]]

व्यञ्जनसन्धिसङ्ग्रहः

विशेषः पूर्ववर्णः परवर्णः परिणामः पृष्ठम्
१. पूर्वस्य परस्य वा स्थाने निमित्तानुसारेण आदेशः अ) स्तुः / श्चुः श्चुः / स्तुः श्चुत्वम् ३१
आ) स्तुः / ष्टुः ष्टुः / स्तुः ष्टुत्वम् ३२
२. i. पूर्वस्य स्थाने आदेशः अ) ञमङणनान् विना वर्गीय-व्यञ्जनानि षकारश्च (पदान्ते) स्वराः, मृदु-व्यञ्जनानि जश्त्वम् ३४
आ) ञमङणनान् विना वर्गीय-व्यञ्जनानि कर्कश-व्यञ्जनानि चर्त्वम् ३६
(ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनानां स्थाने) इ) ञमङणनान् विना वर्गीय-व्यञ्जनानि अनुनासिक-व्यञ्जनानि अनुनासिकः ३६
ई) तवर्गः (नकारोऽपि) लकारः परसवर्णः (लकारः) ४०
ii. पूर्वस्य स्थाने आदेशः । अ) पदान्ते मकारः व्यञ्जनम् अनुस्वारः ३७
आ) मकारः / नकारः ञमङणनान् विना वर्गीय-व्यञ्जनानि, शषस अनुस्वारः ३८
(म्/न्/ं इत्येतेषां स्थाने) इ) अनुस्वारः (ं) शषसहान् विना व्यञ्जनानि परसवर्णः (ङ् ञ् ण् न् म् यँ लँ वँ) ३८
३. परस्य (ह् / श् / स्) i. वर्गीय-तृतीय-व्यञ्जनानि पूर्वसवर्णः (घ्/झ्/ढ्/ध्/भ्) ४१
ii. वर्गीय-प्रथम-व्यञ्जनानि श् छत्वम् ४२
उद् स्था/स्तम्भ् थकारः ४२
४. आगमः i. पदान्ते ह्रस्वस्वरपूर्वकाः ङणनाः स्वराः ङमुडागमः ४०
ii. स्वराः छकारः चकारागमः ४५
५. पदान्त-नकारः चछ / टठ / तथ श/शँ, ष/षँ, स/सँ ४४
सम् स्कृ स् / स् ४५

[[P53]]

१. श्चुत्वसन्धौ ष्टुत्वसन्धौ च पूर्वस्य परस्य वा स्थाने आदेशस्य सम्भवोऽस्ति । (३१ तमे पृष्ठे तृतीयां टिप्पणीं पश्यन्तु ।)
२. अत्र विभागद्वयम् -
i. प्रथमभागे पूर्वत्र वर्गीय-व्यञ्जनानाम् एव प्रसक्तिः । परत्र स्वराः मृदु-व्यञ्जनानि (अश्) भवन्ति चेत् जश्त्वं, कर्कश-व्यञ्जनानि (खर्) चेत् चर्त्वं, ञमङणनाः (अम्) चेद् अनुनासिकः, (तवर्गात् लकारे लकारः) च पूर्वस्य स्थाने आदेशो भवति ।
ii. द्वितीयभागे पूर्वत्र ‘म्, न्,’ इत्येतेषाम् एव प्रसक्तिः । परत्र तु उपर्युक्तक्रमेण व्यञ्जनानां श्रवणे अनुस्वारः परसवर्णो वा भवति ।
३. i. पूर्वत्र जश्त्वसन्धिः आदाव् एव प्रवर्तते । परत्र हकारस्यैव श्रवणम् । पूर्वत्र यदि ग् ज् ड् द् ब् इति श्रूयते, तदा क्रमशः हकारस्य घ्, झ्, ढ्, ध्, भ् इत्येते आदेशाः विकल्पेन भवन्ति ।
ii. पूर्वत्र चर्त्वसन्धिः आदाव् एव प्रवर्तते । परत्र शकारस्यैव श्रवणम् । तस्य छकारादेशः विकल्पेन भवति । एवञ्च जश्त्वानन्तरं परत्र हकारस्य श्रवणं, चर्वानन्तरं परत्र शकारस्य श्रवणं च यदि भवति तर्हि अनयोः प्रसक्तिर् इति फलितम् ।
४. i. ङ् ण् न् इत्येतेषां द्विरुच्चारणं भवतीति फलति । नकारान्तस्यैव (गच्छन्, कुर्वन्…) प्राचुर्येण प्रयोगो विद्यते । ङान्तस्य णान्तस्य च विरलः प्रयोगः ।
ii. ह्रस्वस्वर-छकारयोर् मध्ये नित्यं चकारस्य श्रवणं, दीर्घपदान्त-छकारयोर् मध्ये तु विकल्पेन इति विवेकः ।

स्वरसन्धिसङ्ग्रहः

  • पूर्वत्र परत्र च यथासङ्ग्रहम् अकः (अआ, इई, उऊ, ऋॠ) श्रवणम् अस्ति चेत् सवर्णदीर्घः ।
  • पूर्वत्र अकारस्य आकारस्य च श्रवणे, परत्र इकः (इ, उ, ऋ) श्रवणे गुणः । एचः (ए, ऐ, ओ, औ) श्रवणे वृद्धिः ।
  • पूर्वत्र इकः (इ, उ, ऋ, ऌ) श्रवणे, परत्र असवर्ण-स्वर-श्रवणे यण् ।
  • पूर्वत्र एचः (ए, ऐ, ओ, औ) श्रवणे, परत्र स्वर-श्रवणे च (पूर्वरूपस्थलं विना) यान्तवान्तादेशः ।
  • पूर्वत्र पदान्ते एङः (ए, ओ) श्रवणे, परत्र ह्रस्वस्य अकारस्य श्रवणे पूर्वरूपम् ।
  • पदान्ते अकः (अ, इ, उ, ऋ, ऌ) श्रवणे, परत्र ॠकारस्य श्रवणे प्रकृतिभावः । पूर्वत्र प्लुतस्य श्रवणे, प्रगृह्यस्य सद्भावे वा चापि प्रकृतिभावः ।
    (सङ्ग्रहेऽस्मिन् विशेषनियमाः अपवादाश्च न उक्ताः ।)

[[P54]]


  1. चु - चवर्गः । अक्षरप्रकरणे पञ्चमं पृष्ठं पश्यन्तु । ↩︎

  2. योगः = सम्बन्धः । अतः सकार-तवर्गाभ्यां परौ एव शकार-चवर्गौ भवेताम् इति न नियमः । चवर्गात् परोऽपि तवर्गः स्यात् । ष्टुत्वसन्धाव् अपि एवम् एव अवधेयम् । एवञ्च श्चुत्वसन्धौ ष्टुत्वसन्धौ च एताभ्याम् एतयोः परयोर् इति न चिन्तनीयम् । किन्तु द्वयोः सम्बन्धः । सम्बन्धः पूर्वत्र स्थितेऽपि भवति, परत्र स्थितेऽपि । ↩︎

  3. स्तोः श्चुना श्चुः - ८.४.४० सकार-तवर्गयोः शकार-चवर्गाभ्यां योगे शकार-चवर्गौ स्तः । ↩︎

  4. शात् - ८.४.४४ शात् परस्य तवर्गस्य चुत्वं न स्यात् । ↩︎

  5. ष्टुना ष्टुः - ८.४.४१ स्तोः ष्टुना योगे ष्टुः स्यात् । ↩︎

  6. तोः षि - ८.४.४३ तवर्गस्य षकारे परे न ष्टुत्वम् । ↩︎

  7. न पदान्ताट् टोर् अनाम् - ८.४.४२ पदान्ताट्-टवर्गात् परस्यानाम्नः स्तोः ष्टुर् न स्यात् । ↩︎

  8. झल्-प्रत्याहारे श स ह इति वर्णाः अपि प्रविष्टाः । उपर्युक्तनियमे एते वर्णाः नान्तर्भूताः । कुतः ? पदान्ते स्थितस्य शकारस्य सकारस्य हकारस्य च क्रमात् षकारस्य रुकारस्य ढकारस्य च ‘व्रश्च…’ इति, ‘ससजुषो रुः’ इति, ‘हो ढः’ इति च सूत्रैः विधानात् साक्षात् जश्त्वप्रसक्तिः नास्ति । अतः ते वर्णाः नियमे त्यक्ताः । प्रत्याहारघटकाः सर्वे वर्णाः यदि नियमे न स्युः तदा इत्थम् एव चिन्तितम् इति विभावनीयम् । ↩︎

  9. झलां जशोऽन्ते - ८.२.३९ पदान्ते झलां जशः स्युः । ↩︎

  10. वाऽवसाने - ८.४.५६ अवसाने झलां चरो वा स्युः । ↩︎

  11. खरि च - ८.४.५५ खरि परे झलां चरः स्युः । ↩︎

  12. यरोऽनुनासिकेऽनुनासिको वा - ८.४.४५ यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । ↩︎

  13. प्रत्यये भाषायां नित्यम् (वा) । ↩︎

  14. मोऽनुस्वारः - ८.३.२३ मान्तस्य पदस्य अनुस्वारः स्याद् हलि । ↩︎

  15. नश्चापदान्तस्य झलि - ८.३.२४ नस्य मस्य चापदान्तस्य झल्यनुस्वारः स्यात् । ↩︎

  16. अनुस्वारस्य ययि परसवर्णः - ८.४.५८ अनुस्वारस्य ययि परे परसवर्णः स्यात् । ↩︎

  17. वा पदान्तस्य - ८.४.५९ पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । ↩︎

  18. तोर्लि - ८.४.६० तवर्गस्य लकारे परे परसवर्णः स्यात् । ↩︎

  19. ङमो ह्रस्वादचि ङमुण् नित्यम् - ८.३.३२ ह्रस्वात् परो यो ङम् तदन्तं यत् पदं तस्मात् परस्य अचो नित्यं ङमुडागमः स्यात् । ↩︎

  20. झयो होऽन्यतरस्याम् - ८.४.६२ झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । ↩︎

  21. उदः स्थास्तम्भोः पूर्वस्य - ८.४.६१ उदः परयोः स्था-स्तम्भ्वोः पूर्वसवर्णः स्यात् । ↩︎

  22. शश्छोऽटि - ८.४.६३ पदान्ताज् झयः परस्य शस्य छो वा स्याद् अटि । ↩︎

  23. नश्चव्यप्रशान् - ८.३.७ अम्परे छवि नकारान्तस्य पदस्य रुः स्यात् । ↩︎

  24. समः सुटि - ८.३.५. समो रुः स्यात् सुटि । ↩︎

  25. समो वा लोपम् एके (भा) ↩︎

  26. छे च - ६.१.७३ ह्रस्वस्य छे परे तुगागमः स्यात् । ↩︎

  27. पदान्ताद् वा - ६.१.७६ दीर्घात् पदान्तात् छे परे तुग् वा स्यात् । ↩︎

  28. लोपः शाकल्यस्य - ८.३.१९ अवर्णपूर्वयोः पदान्तयोः यवयोः लोपो वा स्याद् अशि परे । ↩︎

  29. झरो झरि सवर्णे - ८.४.६५ हलः परस्य झरो लोपः स्यात् सवर्णे झरि । ↩︎

  30. अनचि च - ८.४.४७ अचः परस्य यरो द्वे वा स्तः न त्वचि । ↩︎

  31. झलां जश् झशि - ८.४.५३ झलां स्थाने जश् स्यात् झशि परे । ↩︎ ↩︎