१. श्चुत्वसन्धिः
श्चुः = श् च् छ् ज् झ् ञ् ।1
‘सकारस्य शकार-चवर्गाभ्यां योगे2 सकारस्य शकारः, तवर्गस्य शकार-चवर्गाभ्यां योगे तवर्गस्य क्रमात् चवर्गः आदेशो भवति ।3
i. स् + (श्/चवर्गः) = श्
- शिशुस् + शेते
शिशु + श् + शेते = शिशुश्शेते । (स् = श्) - मनस् + चञ्चलम्
मन + श् + चञ्चलम् = मनश्चञ्चलम् (स् = श्) - रामस् + छात्रः
राम + श् + छात्रः = रामश्छात्रः । (स् = श्)
ii. तवर्गः + (श/चवर्गः) = चवर्गः
- भगवत् + शक्तिः
भगव + च् + शक्तिः = भगवच्छक्तिः । (त् = च्) - सत् + चित्
स + च् + चित् = सच्चित् । (त् = च्) - सुहृद् + जगाम
सुहृ + ज् + जगाम = सुहृज्जगाम । (द् = ज्) - हे गुणिन् + जानातु
हे गुणि + ञ् + जानातु = हे गुणिञ्जानातु । (न् = ञ्)
iii. चवर्गः + तवर्गः = चवर्गः
- यज् + नः
यज् + ञ् + अः = यज्ञः । (न् = ञ्)
[[P36]]
- याच् + ना
याच् + ञ् + आ = याच्ञा । (न् = ञ्)
विशेषः
सत् + चित् → सद् + चित् → सज् + चित् → सच् + चित् = सच्चित् । सद् + चित् इति जश्त्वे, सज् + चित् इति श्चुत्वे, सच् + चित् इति चर्त्वे च कृते सच्चित् इति सिद्धं भवति । एषः शास्त्रीयः क्रमः । सत् + चित् = सच्चित् इति श्चुत्वे कृते अपि फले भेदः न भवति । अतः सत् + चित् इति विभज्य अत्र प्रदर्शितम् । उत्तरत्रापि हल्सन्धिषु अस्माभिः विभज्य प्रदर्शितस्य, शास्त्रीयक्रमेण विभजनीयस्य च सूक्ष्मः भेदः सम्भवति । किन्तु सन्धौ कृते फलभेदो नास्तीति सौलभ्याय एषा सरणिः आदृता ।अन्यान्युदाहरणानि -
| हरिस् + शेते = हरिश्शेते | रामस् + च = रामश्च |
| सत् + चिद्रूपम् = सच्चिद्रूपम् | तद् + ज्वलति = तज्ज्वलति |
| गुणिन् + जयः = गुणिञ्जयः | उद् + ज्वलम् = उज्ज्वलम् |
| बृहत् + छत्रम् = बृहच्छत्रम् | तत् + च = तच्च |
| अन्यत् + च = अन्यच्च | शार्ङ्गिन् + जय = शार्ङ्गिञ्जय |
| तपस् + चर्या = तपश्चर्या | कियत् + चिरम् = कियच्चिरम् |
| मृत् + शकटिका = मृच्छकटिका | सकृत् + चर्वणम् = सकृच्चर्वणम् |
| उद् + जीवनम् = उज्जीवनम् | भूभृत् + चलति = भूभृच्चलति |
| तत् + चिन्त्यम् = तच्चिन्त्यम् | बृहत् + छिद्रम् = बृहच्छिद्रम् |
| एतद् + ज्ञात्वा = एतज्ज्ञात्वा | प्रतिपत् + चन्द्रः = प्रतिपच्चन्द्रः |
अपवादः - ‘शकारात् परस्य चुत्वं न भवति ।4 यथा -
विश् + नः = विश्नः । प्रश् + नः = प्रश्नः ।
२. ष्टुत्वसन्धिः5
ष्टु = ष् ट् ठ् ड् ढ् ण्
सकारस्य षकार-टवर्गाभ्यां योगे सकारस्य षकारः, तवर्गस्य षकार-टवर्गाभ्यां योगे तवर्गस्य क्रमात् टवर्गः आदेशो भवति ।
i. स् + (ष/टवर्गः) = ष्
- बालस् + षष्ठः
बाल + ष् + षष्ठः = बालष्षष्ठः । (स् = ष्)
[[P37]]
- टवर्गस् + टादिः
टवर्ग + ष् + टादिः = टवर्गष्टादिः । (स् = ष्) - धनुस् + ठङ्कारः
धनु + ष् + ठङ्कार = धनुष्ठङ्कारः (स् = ष्)
ii. तवर्गः + (टवर्गः) = टवर्गः
- बृहत् + टीका
बृह + ट् + टीका = बृहट्टीका । (त् = ट्) - तद् + डमरुः
त + ड् + डमरुः = तड्डमरुः । (द् = ड्) - एतद् + ढक्का
एत + ढ् + ढक्का = एतढ्ढक्का । (द् = ढ्) - चक्रिन् + ढौकसे
चक्रि + ण् + ढौकसे = चक्रिण्ढौकसे । (न् = ण्)
iii. (ष) + तवर्गः = टवर्गः
- आकृष् + तः
आकृष् + ट् + अः = आकृष्टः । (त् = ट्) - इष् + तः
इष् + ट् + अः = इष्टः । (त् = ट्)
iv. (टवर्गः) + तवर्गः = टवर्गः
- षण् + नाम्
षण् + ण् + आम् = षण्णाम् (न् = ण्) - षण् + नवतिः
षण् + ण् + नवतिः = षण्णवतिः । (न् = ण्) - षण् + नगर्यः
षण् + ण् + नगर्यः = षण्णगर्यः (न = ण्)
अन्यान्युदाहरणानि -
| तत् + टीका = तट्टीका | बृहद् + डिण्डिमः = बृहड्डिण्डिमः |
| शरद् + डम्बरः = शरड्डम्बरः | कतमस् + टकारः = कतमष्टकारः |
| उत् + टङ्कनम् = उट्टङ्कनम् | सत् + टिप्पणी = सट्टिप्पणी |
| पक्षिन् + टिट्टिभ ! = पक्षिण्टिट्टिभ ! | उद् + डयनम् = उड्डयनम् |
[[P38]]
| स्याद् + ढक्का = स्याढ्ढक्का | पतद् + डिम्भः = पतड्डिम्भः |
| मरुद् + डिण्डिमः = मरुड्डिण्डिमः | असकृद् + डयनम् = असकृड्डयनम् |
| बृहत् + टङ्कशाला = बृहट्टङ्कशाला | भयकृद् + डामरः = भयकृड्डामरः |
अपवादः -
i. ‘तवर्गस्य षकारे ष्टुत्वं न भवति ।6
यथा - भवान् + षष्ठः = भवान् षष्ठः । अत्र नकारस्य णकारादेशो न ।
ii. ‘नाम्-नवति-नगरीन् वर्जयित्वा पदान्तात् टवर्गात् परस्य सकारस्य तवर्गस्य च ष्टुत्वं न भवति ।7 यथा -
षट् + सन्तः = षट्सन्तः । अत्र सकारस्य षकारादेशो न ।
षट् + तरुणाः = षट्तरुणाः । अत्र तकारस्य टकारादेशो न ।
मधुलिह् + दीनः = मधुलिड्दीनः । अत्र दकारस्य डकारादेशो न ।
३. जश्त्वसन्धिः
जश् = ज् ब् ग् ड् द्
‘ञमङणनान् वर्जयित्वा पदान्ते स्थितानां वर्गीय-व्यञ्जनानां,8 स्वरे मृदु-व्यञ्जने च (हशि) परे तत्तद्-वर्गीय-तृतीय-व्यञ्जनम् आदेशो भवति ।9 अवसाने तु तत्तद्-वर्गीय प्रथमं तृतीयं वा व्यञ्जनम् आदेशो भवति ।10 षकारस्यापि डकारो भवति, अवसाने तु टकारो डकारो वा ।
i. वर्गीय-व्यञ्जनानि + (स्वरः) = जश्
- वाक् + ईशः
वा + ग् + ईशः = वागीशः । (क् = ग्) - अच् + अन्तः
अ + ज् + अन्तः = अजन्तः । (च् = ज्) - मधुलिट् + अस्ति
मधुलि + ड् + अस्ति = मधुलिडस्ति । (ट् = ड्)
[[P39]]
- जगत् + ईशः
जग + द् + ईशः = जगदीशः । (त् = द्) - सुप् + अन्तम्
सु + ब् + अन्तम् = सुबन्त । (प् = ब्)
ii. वर्गीय-व्यञ्जनानि + [मृदुव्यञ्जनम्(हश्)] = जश्
- वाक् + व्यवहारः
वा + ग् + व्यवहारः = वाग्व्यवहारः । - अच् + वर्णः
अ + ज् + वर्णः = अज्वर्णः । (च् = ज्) - मधुलिट् + डयते
मधुलि + ड् + डयते = मधुलिड्डयते । (ट् = ड्) - महत् + यशः
मह + द् + यशः = महद्यशः । (त् = द्) - सुप् + विभक्तिः
सु + ब् + विभक्तिः = सुब्विभक्तिः । (प् = ब्)
iii. वर्गीय-व्यञ्जनानि = जश् (अवसाने)
वाक् / वाग्
अच् / अज्
लिट् / लिड्
मरुत् / मरुद्
ककुप् / ककुब्
iv. ष् = ड्
- षष् + भ्याम्
ष + ड् + भ्याम् = षड्भ्याम् । (ष् = ड्)
अन्यान्युदाहरणानि -
| वाक् + देवता = वाग्देवता | षष् + दर्शनानि = षड्दर्शनानि |
| उत् + गमः = उद्गमः | तत् + अपि = तदपि |
| तत् + यथा = तद्यथा | अप् + जम् = अब्जम् |
| षष् + आननः = षडाननः | जगत् + गुरुः = जगद्गुरुः |
| सत् + गुणः = सद्गुणः | अप् + धिः = अब्धिः |
| स्वर्गात् + अपि = स्वर्गादपि | महत् + इदम् = महदिदम् |
[[P40]]
| अस्मात् + वचनात् = अस्माद्वचनात् | तावत् + एनम् = तावदेनम् |
| प्राक् + एव = प्रागेव | सम्यक् + अभिहितम् = सम्यगभिहितम् |
४. चर्त्वसन्धिः
“ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनानां कर्कश-व्यञ्जने (खरि) परे तत्तद्-वर्गीय-प्रथम-व्यञ्जनम् आदेशो भवति ।11
i. वर्गीय-व्यञ्जनानि + (कर्कश-व्यञ्जनानि) = क् च् ट् त् प्
- दिग् + पालः
दि + क् + पालः = दिक्पालः (ग् = क्) - विराड् + पुरुषः
विरा + ट् + पुरुषः = विराट्पुरुषः । (ड् = ट्) - विपद् + कालः
विप + त् + कालः = विपत्कालः । (द् = त्) - अनुष्टुभ् + छन्दः
अनुष्टु + प् + छन्दः = अनुष्टुप्छन्दः । (भ् = प्)
अन्यान्युदाहरणानि -
| अस्मद् + पुत्रः = अस्मत्पुत्रः | विपद् + प्रतीकारः = विपत्प्रतीकारः |
| सम्पद् + पुत्रः = सम्पत्पुत्रः | सम्पद् + कुमारः = सम्पत्कुमारः |
| उद् + पतति = उत्पतति | षड् + खाद्यानि = षट्खाद्यानि |
| तादृग् + कर्म = तादृक्कर्म | एतद् + पार्श्वम् = एतत्पार्श्वम् |
| विश्वराड् + कुत्र = विश्वराट्कुत्र | कामधुग् + खादति = कामधुक्खादति |
| तुराषाड् + सर्वः = तुराषाट्सर्वः | ऋत्विग् + पार्श्वे = ऋत्विक्पार्श्वे |
| परिव्राड् + सङ्गः = परिव्राट्सङ्गः | ककुभ् + स्थः = ककुप्स्थः |
५. अनुनासिकसन्धिः
अनुनासिकः = ङ् ञ् ण् न् म्
“अनुनासिक-व्यञ्जनेषु परेषु पदान्ते स्थितानां वर्गीय-व्यञ्जनानां तत्तद्-वर्गीय-पञ्चमो वर्णों (अनुनासिकः) विकल्पेन आदेशो भवति ।12 “अनुनासिकादौ प्रत्यये परे तु नित्यम् एव अनुनासिको भवति ।13
[[P41]]
i. विकल्पेन - वर्गीय-व्यञ्जनानि + (अनुनासिकः) = अनुनासिकः
- वाग् + मूलम्
वा + ङ् + मूलम् = वाङ्मूलम्/वाग्मूलम् । (ग् = ङ्) - षड् + मयूखाः
ष + ण् + मयूखाः = षण्मयूखाः/षड्मयूखाः । (ड् = ण्) - तद् + नयति
त + न् + नयति = तन्नयति/तद्नयति (द् = न्)
ii. नित्यम् - वर्गीय-व्यञ्जनानि + (प्रत्ययानुनासिकः) = अनुनासिकः
- चिद् + मयम्
चि + न् + मयम् = चिन्मयम् (द् = न्) - तद् + मात्रम्
त + न् + मात्रम् = तन्मात्रम् (द् = न्) - अप् + मयम्
अ + म् + मयम् = अम्मयम् । (प् = म्)
अन्यान्युदाहरणानि -
| वाग् + नियमः = वाङ्नियमः | जगद् + नाथः = जगन्नाथः |
| तद् + मङ्गलम् = तन्मङ्गलम् | षड् + मुखः = षण्मुखः |
| तस्माद् + मद्यम् = तस्मान्मद्यम् | तद् + नयनम् = तन्नयनम् |
| मद् + निवासः = मन्निवासः | यद् + मण्डलम् = यन्मण्डलम् |
| तस्माद् + नागरिकाः = तस्मान्नागरिकाः | सकृद् + नष्टम् = सकृन्नष्टम् |
| त्वद् + मोचनम् = त्वन्मोचनम् | जगद् + नियामकः = जगन्नियामकः |
| सम्राड् + मनसि = सम्राण्मनसि | मधुलिह् + नमति = मधुलिण्नमति |
| विद्युद् + नगरी = विद्युन्नगरी | दिग् + मध्ये = दिङ्मध्य |
| जाग्रत् + नागरिकः = जाग्रन्नागरिकः |
६. अनुस्वारसन्धिः
अनुस्वारः = ं
६.१. “व्यञ्जने परे पदान्ते स्थितस्य मकारस्य अनुस्वारो भवति ।14 [*]
[*] वन्दे रामं । कृष्णं अनुसरति - इत्यत्र वाक्यद्वयेऽपि अनुस्वारलेखनं न युक्तम् । उभयत्रापि अग्रे व्यञ्जनस्याभावात् । अनुस्वारसन्धौ व्यञ्जनपरकः एव मकारः अनुस्वारो भवतीति स्मरणीयम् ।
[[P42]]
i. म् + (व्यञ्जनानि) = ं
- *रामम् + वन्दे
राम + ं + वन्दे = रामं वन्दे । (म् = ं) - गुहायाम् + तपति
गुहाया + ं + तपति = गुहायां तपति । (म् = ं)
अन्यान्युदाहरणानि -
| हरिम् + श्रयते = हरिं श्रयते | वाक्यम् + शृणोतु = वाक्यं शृणोतु |
| मालायाम् + सूत्रम् = मालायां सूत्रम् | आपणम् + गत्वा = आपणं गत्वा |
| धर्मम् + चर = धर्मं चर | सत्यम् + वद = सत्यं वद |
| सज्जनम् + मानय = सज्जनं मानय | सर्वम् + स्थानम् = सर्वं स्थानम् |
| नगर्याम् + स्थित्वा = नगर्यां स्थित्वा | फलम् + खादित्वा = फलं खादित्वा |
| दुःखम् + त्यज = दुःखं त्यज | पापम् + शान्तम् = पापं शान्तम् |
| पुस्तकम् + पश्य = पुस्तकं पश्य | वाणीम् + वन्दे = वाणीं वन्दे |
| वीणाम् + वादयति = वीणां वादयति | एवम् + कृत्वा = एवं कृत्वा |
६.२ “ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनेषु शषसहेषु च (झलि) परेषु अपदान्ते स्थितस्य नकारस्य मकारस्य च अनुस्वारो भवति ।15
i. न् + (वर्गीयव्यञ्जनम्/शषसह) = ं
- यशान् + सि
यशा + ं + सि = यशांसि । (न् = ं)
ii. म् + (वर्गीयव्यञ्जनम्/शषसह) = ं
- आक्रम् + स्यते
आक्र + ं + स्यते = आक्रंस्यते । (म् = ं)
७. परसवर्णसन्धिः
परसवर्णः = ङ् ञ् ण् न् म् यँ लँ वँ
७.१. “अनुस्वारस्य वर्गीय-व्यञ्जनेषु (ययि) परेषu तत्तद्-वर्गस्य पञ्चमो वर्णः आदेशो भवति, यवले परे तु यँ वँ लँ इत्यादेशो भवति ।16 ‘पदान्ते स्थितस्य अनुस्वारस्य तु विकल्पेन आदेशो भवति ।17
[[P43]]
i. नित्यम् - अनुस्वारः + (वर्गीयव्यञ्जनानि) = ङ् ञ् ण् न म
- अं + कितः
अ + ङ् + कितः = अङ्कितः । (ं = ङ्) - मुं + चति
मु + ञ् + चति = मुञ्चति । (ं = ञ) - मुं + डनम्
मु + ण् + डनम् = मुण्डनम् (ं = ण्) - नं + दति
न + न् + दति = नन्दति (ं = न्) - कं + पते
क + म् + पते = कम्पते । (ं = म्)
ii. विकल्पः -
अनुस्वारः + (वर्गीयव्यञ्जनानि/य व ल) = ङ् ञ् ण् न् म्/यँ वँ लँ
- त्वं + करोषि
त्व + ङ् + करोषि = त्वङ्करोषि/त्वंकरोषि (ं = ङ्) - * सं + पृक्तौ
स + म् + पृक्तौ = सम्पृक्तौ/संपृक्तौ (ं = म्) - सं + यमः
स + यँ + यमः = सँय्यमः/संयमः (ं = यँ) - सं + वत्सरः
स + वँ + त्सरः = सँव्वत्सरः/संवत्सरः (ं = वँ) - सं + लापः
स + लँ + लापः = सँल्लापः/संलापः (ं = लँ)
अन्यान्युदाहरणानि -
| अं + बरम् = अम्बरम् | अं + कनम् = अङ्कनम् |
| इं + गितम् = इङ्गितम् | अं + घ्रिः = अङ्घ्रिः |
| प्रें + खा = प्रेङ्खा | चं + चुः = चञ्चुः |
| पं + जरम् = पञ्जरम् | पिं + डम् = पिण्डम् |
| कं + टकम् = कण्टकम् | कुं + तः = कुन्तः |
| मं + दिरम् = मन्दिरम् | संरं + भः = संरम्भः |
[*] उपसर्गः सर्वोऽपि सुबन्तः । अत तस्य पदत्वम् । तस्मात् ‘संपृक्तौ’ इत्यादौ विकल्पेनानुस्वारः ।
[[P44]]
| सं + भवः = सम्भवः | सं + ख्या = सङ्ख्या |
| गृहं + गत्वा = गृहङ्गत्वा | इत्थं + कृत्वा = इत्थङ्कृत्वा |
| शं + करः = शङ्करः | सं + बं + धः = सम्बन्धः |
| सं + भ्रमः = सम्भ्रमः | झं + झावातः = झञ्झावातः |
७.२. “तवर्गस्य लकारे परे लकारादेशो भवति । तत्र नकारस्य अनुनासिक-लँकारो भवति ।18
तवर्गः + (ल्) = ल्/लँ
- तद् + लयः
त + ल् + लयः = तल्लयः । (द् = ल्) - पठन् + लिखति
पठ + लँ + लिखति = पठल्लिखति । (न् = लँ)
अन्यान्युदाहरणानि -
| चलत् + लाङ्गलम् = चलल्लाङ्गलम् | पतत् + लेखनी = पतल्लेखनी |
| जहत् + लक्षणा = जहल्लक्षणा | गच्छन् + लक्ष्मणः = गच्छल्लक्ष्मणः |
| विलसत् + लङ्काः = विलसल्लङ्काः | गर्जन् + लङ्केश्वरः = गर्जल्लङ्केश्वरः |
| वदन् + लज्जितः = वदल्लज्जितः | जनान् + लब्ध्वा = जनाँल्लब्ध्वा |
| जगत् + लयः = जगल्लयः | ललत् + ललन्तिका = ललल्ललन्तिका |
८. ङमुडागमसन्धिः19
ङमुट् = ङ्, ण्, न्
ह्रस्वस्वरपूर्वक-ङान्तात् ह्रस्वस्वरपूर्वक-णान्तात्, ह्रस्वस्वरपूर्वक-नान्तात् च पदात् स्वरे परे, स्वरात् पूर्वं क्रमात् ङ् ण् न् इत्येते आगमाः भवन्ति । ङ् ण् न् इत्येतेषां द्विरुच्चारणं भवतीति फलितोऽर्थः ।
i. (ह्रस्वस्वरपूर्वकाः) ङ् ण् न् + स्वराः = -ङ्ङ्- -ण्ण्- -न्न्-
- प्रत्यङ् + आत्मा
प्रत्यङ् + ङ् + आत्मा = प्रत्यङ्ङात्मा । - सुगण् + ईशः
सुगण् + ण् + ईशः = सुगण्णीशः
[[P45]]
- पचन् + अस्ति
पचन् + न् + अस्ति = पचन्नस्ति
अन्यान्युदाहरणानि -
| गच्छन् + अस्ति = गच्छन्नस्ति | तस्मिन् + इति = तस्मिन्निति |
| सर्वस्मिन् + अपि = सर्वस्मिन्नपि | उदङ् + इह = उदङिङ्ह |
| तिर्यङ् + अत्र = तिर्यङ्ङत्र | तस्मिन् + एतस्मिन् = तस्मिन्नेतस्मिन् |
| स्वस्मिन् + एव = स्वस्मिन्नेव | पूर्वस्मिन् + ईश्वरे = पूर्वस्मिन्नीश्वरे |
| तपस्विन् + एहि ! = तपस्विन्नेहि ! | एकस्मिन् + अम्बुजे = एकस्मिन्नम्बुजे |
| लिखन् + एव = लिखन्नेव | अपरस्मिन् + औषधे = अपरस्मिन्नौषधे |
| हसन् + अत्ति = हसन्नत्ति | रुदन् + आयातः = रुदन्नायातः |
| शर्मन् + अधीहि = शर्मन्नधीहि | कस्मिन् + इह = कस्मिन्निह |
९. पूर्वसवर्णसन्धिः
पूर्वसवर्णः = घ् झ् ढ् ध् भ् ।
९.१. “तत्तद्-वर्गीय-तृतीय-व्यञ्जनात् (जशः) परस्य हकारस्य, तत्तद्-वर्गीय-चतुर्थ-व्यञ्जनं विकल्पेन आदेशो भवति ।20
i. (ग् ज् ड् द् ब्) + ह = घ/झ/ढ/ध/भ
- वणिग् + हसति
वणिग् + घ् + असति = वणिग्घसति/वणिग् हसति । - अज् + हलौ
अज् + झ् + अलौ = अज्झलौ/अज् हलौ । - षड् + हयाः
षड् + ढ् + अयाः = षड्ढयाः/षड् हयाः । - तद् + हितम्
तद् + ध् + इतम् = तद्धितम्/तद् हितम् । - अब् + हृदौ
अब् + भ् + रदौ = अब्भ्रदौ/अब् हृदौ ।
अन्यान्युदाहरणानि -
| वाग् + हीनः = वाग्घीनः | प्राग् + हसित्वा = प्राग्घसित्वा |
| षड् + हर्याणि = षड्ढर्याणि | जगद् + हित = जगद्धितम् |
| अब् + ह्रासः = अब्भ्रासः | तद् + हि = तद्धि |
[[P46]]
| तद् + हेतुकम् = तद्धेतुकम् | सुहृद् + हृष्टः = सुहृद्धृष्टः |
| गच्छद् + हूणः = गच्छद्धूणः | भ्राजद् + हिरण्यम् = भ्राजद्धिरण्यम् |
| महद् + हास्यम् = महद्धास्यम् | विड् + हसति = विड्ढसति |
| सम्राट् + हरिद्राम् = सम्राडढरिद्राम् | पतद् + हिमम् = पतद्धिमम् |
| भवद् + हितरक्षकः = भवद्धितरक्षकः |
९.२. पूर्वसवर्णः = थ्
“उद्-उपसर्गात् परस्य स्था-धातोः स्तम्भ्-धातोश् च आदौ स्थितस्य सकारस्य थकारादेशो भवति ।21
(उद्) + स् = थ्
- उत् + स्थानम्
उत् + थ् + थानम् = *उत्थ्थानम् (उत्थानम्)[*] - उत् + स्तम्भनम्
उत् + थ् + तम्भनम् = *उत्थ्तम्भनम् (उत्तम्भनम्)[*]
[*] थकारस्य विकल्पेन लोपो भवति । ४६ पृष्ठं पश्यन्तु ।
अन्यान्युदाहरणानि -
| उत् + स्थातव्यम् = उत्थातव्यम् | उत् + स्थितिः = उत्थितिः |
| उत् + स्थातुम् = उत्थातुम् | उत् + स्थापनम् = उत्थापनम् |
| उत् + स्थानम् = उत्थानम् | उत् + स्थाप्य = उत्थाप्य |
| उत् + स्तम्भितः = उत्तम्भितः | उत् + स्तम्भनीयः = उत्तम्भनीयः |
१०. छत्वसन्धिः
“पदान्ते स्थितात् तत्तद्-वर्गीय-प्रथम-व्यञ्जनात् परस्य शकारस्य छकारो विकल्पेन आदेशो भवति । किन्तु शकारात् परे स्वराः यरलवमनाश् च (अम्) भवेयुः ।22
i. (प्रथम-व्यञ्जनम्) + श् = छ्
- वाक् + शरः
वाक् + छ् + अरः = वाक्छरः/वाक्शरः । (श् = छ्) - तच् + शिवः
तच् + छ् + इवः = तच्छिवः/तच्शिवः । (श् = छ्)
[[P47]]
- मृच् + शकटिकम्
मृच् + छ् + अकटिकम् = मृच्छकटिकम्/मृच्शकटिकम् । - मधुलिट् + शेते
मधुलिट् + छ् + एते = मधुलिच्छेते/मधुलिट्शेते । - तच् + श्लोकेन
तच् + छ् + लोकेन = तच्छ्लोकेन/तच्श्लोकेन । - तच् + श्मश्रु
तच् + छ् + मश्रु = तच्छ्मश्रु/तच्श्मश्रु । - तच् + श्नाप्रत्ययः
तच् + छ् + नाप्रत्ययः = तच्छ्नाप्रत्ययः/तच्श्नाप्रत्ययः ।
अन्यान्युदाहरणानि -
| वाक् + शस्त्रम् = वाक्छस्त्रम् / वाक्शस्त्रम् | तत् + शुभम् = तच्छुभम् / तच्शुभम् |
| विट् + शङ्करः = विट्छङ्करः / विट्शङ्करः | सच् + शीलम् = सच्छीलम् / सच्शीलम् |
| चलच् + शुकः = चलच्छुकः / चलच्शुकः | नश्यच् + शास्त्रम् = नश्यच्छास्त्रम् / नश्यच्शास्त्रम् |
| विद्वच् + श्रद्धा = विद्वच्छ्रद्धा / विद्वच्श्रद्धा | तच् + श्लाघनम् = तच्छ्लाघनम् / तच्श्लाघनम् |
| एतच् + श्वस्तनम् = एतच्छ्वस्तनम् / एतच्श्वस्तनम् | तच् + श्मशानम् = तच्छ्मशानम् / तच्श्मशानम् |
११. …
“नकारान्तात् पदात् च-छयोः परयोः *नकारस्य शकारः, ट-ठयोः परयोः षकारः, त-थयोः परयोः सकारश्च आदेशो भवति, आदेशात् पूर्वत्र स्थित स्वरः अनुनासिकः अनुस्वारयुक्तो वा भवति । किन्तु एतेभ्यः च-आदिभ्यः परे स्वराः यरलवमनाश् च (अम्) भवेयुः ।23 [*]
[*] ‘नश्चव्यप्रशान्’ इति सूत्रम्, अग्रे ‘समः सुटि’ इति सूत्रञ्च प्राधान्येन लिखितम् । किन्तु उपर्युक्तः सर्वोऽपि न तयोः सूत्रयोर् अर्थः । प्रक्रिया-सौकर्याय अन्येषां सूत्राणाम् अर्थोऽपि क्रोडीकृतः ।
[[P48]]
i. न् + (चछ) = ँश् / ंश्
- तान् + च
ताँ + श् + च = ताँश्च /
तां + श् + च = तांश्च । - एतान् + छात्रान्
एताँ + श् + छात्रान् / = एताँश्छात्रान् /
एतां + श् + छात्रान् / = एतांश्छात्रान् ।
ii. न् + (टठ) = ँष् / ंष्
- श्लोकान् + टीकाभिः
श्लोकाँ + ष् + टीकाभिः / = श्लोकाँष्टीकाभिः /
श्लोकां + ष् + टीकाभिः = श्लोकांष्टीकाभिः । - तान् + ठङ्कारान्
ताँ + ष् + ठङ्कारान् / = ताँष्ठङ्कारान् /
तां + ष् + ठङ्कारान् = तांष्ठङ्कारान्
iii. न् + (तथ) = ँस् / ंस्
- अस्मान् + तारय
अस्माँ + स् + तारय = अस्माँस्तारय /
अस्मां + स् + तारय = अस्मांस्तारय । - तान् + थूत्करोति
ताँ + स् + थूत्करोति = ताँस्थूत्करोति /
तां + स् + थूत्करोति = तांस्थूत्करोति ।
अपवादः - ‘प्रशान्’ शब्दे तु नायं नियमः । यथा - प्रशान् तनोति ।
१२. …
“सम्-उपसर्गात् *सकारादौ कृ-धातौ परे मकारस्य सकारादेशो भवति, सकारादेशानन्तरं पूर्वस्थितः अकारः अनुनासिकः अनुस्वारयुक्तो वा भवति ।24 “सकारादेशानन्तरं सकारस्य विकल्पेन लोपश्च भवति ।25
[*] सम्परिभ्यां करोतौ भूषणे - ६.१.१३७ सम्-परि-पूर्वस्य करोतेः सुट् स्यात् भूषणे सङ्घातार्थे च । संस्करोति - अलङ्करोति । संस्कुर्वन्ति - सङ्घीभवन्ति इति सिद्धान्तकौमुद्याम् । अतोऽनयोर् अर्थयोः कृञ्-धातुः सादिर् भवति । तस्मात् संस्कृतं नाम अलङ्कृतम् इत्यर्थः ।
[[P49]]
i. (सं) म् + (स्कृ) = सँस्
- सम् + स्कर्ता
सँ + स् + स्कर्ता = सँस्स्कर्ता /
सँ + स्कर्ता = सँस्कर्ता । - सम् + स्कृतम्
सँ + स् + स्कृतम् = सँस्स्कृतम् /
सँ + स्कृतम् = सँस्कृतम्
ii. सम् (+स्कृ) = संस्
- सम् + स्कर्ता
सं + स् + स्कर्ता = संस्स्कर्ता /
सं + स्कर्ता = संस्कर्ता - सम् + स्कृतम्
सं + स् + स्कृतम् = संस्स्कृतम् /
सं + स्कृतम् = संस्कृतम्
१३. तुगागमसन्धिः
“ह्रस्वात् स्वरात् छकारे परे तयोर् मध्ये *चकारागमः भवति,26 “दीर्घात् पदान्तात् तु विकल्पेन भवति ।27
[*] पाणिनिना तुगागमः (त्) विहितः । तुगागमे सति श्चुत्वं भवत्येवेति चकारागमः इति लिखितम् । तुगागमत्वेन प्रसिद्धिरस्तीति तुगागमसन्धिर् इति लिखितम् ।
i. नित्यम् - ह्रस्वस्वरः + छ = -च्-
- वृक्ष + छाया
वृक्ष + च् + छाया = वृक्षच्छाया
ii. विकल्पेन - दीर्घपदान्तं + छ = -च्-
- शिखरिणी + छन्दः
शिखरिणी + च् + छन्दः = शिखरिणीच्छन्दः/शिखरिणीछन्दः ।
[[P50]]
अन्यान्युदाहरणानि -
| संस्कृत + छात्रः = संस्कृतच्छात्रः | श्वेत + छत्रम् = श्वेतच्छत्रम् |
| अक्षर + छन्दसः = अक्षरच्छन्दः | कार्य + छलम् = कार्यच्छलम् |
| शुभ्र + छविः = शुभ्रच्छविः | गृह + छादनम् = गृहच्छादनम् |
| मानव + छाया = मानवच्छाया | सूक्ष्म + छिद्रम् = सूक्ष्मच्छिद्रम् |
| दीर्घ + छुरिका = दीर्घच्छुरिका | वृक्ष + छेदः = वृक्षच्छेदः |
| स + छत्रः = सच्छत्रः (छत्रसहितः) | संस्कृत + छाया = संस्कृतच्छाया |
| मातृ + छाया = मातृच्छाया | एतरेय + छान्दोग्ये = एतरेयच्छान्दोग्ये |
| पदवी + छात्राः = पदवीच्छात्राः/पदवीछात्राः | |
| मात्रा + छन्दः = मात्राच्छन्दः/मात्राछन्दः |
इमे विषयाः क्वचिद् अपेक्ष्यन्ते
१. यवयोर् लोपः28
पदान्ते विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य वा यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपो भवति । लोपे कृते निमित्तस्य सद्भावेऽपि स्वरसन्धिः न भवति ।
- तस्याय् + इदम्
तस्या + इदम् = तस्या इदम्/तस्यायिदम् - उभाव् + अपि
उभा + अपि = उभा अपि/उभावपि
२. केषाञ्चन व्यञ्जनानां लोपः29
व्यञ्जनात् परस्य ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनस्य शषस इत्येतेषाञ्च एतेष्व् एव सवर्णेषु व्यञ्जनेषु परेषु लोपो विकल्पेन भवति ।
- कृष्ण + ऋद्धिः
कृष्ण् + अर् + द्धिः = कृष्णर्द्धिः । (गुणः) (र् द् ध् इ = र्द्धि)
कृष्ण् + अर् + धिः = कृष्णर्धिः । (लोपः) (र् ध् इ = र्धिः)
३. द्वित्वम्30
स्वरात् परस्य (हकारं वर्जयित्वा) व्यञ्जनस्य द्वित्वं विकल्पेन भवति । स्वरे परे तु द्वित्वं न ।
[[P51]]
- सुधी + उपास्यः
सुध्य् + उपास्यः = सुध्युपास्यः । (यण्)
सुध्ध्य् + उपास्यः = (धकारस्य द्वित्वम्)
सुद्ध्य् + उपास्यः = सुद्ध्युपास्यः ।31 (जश्त्वम्)
४. जश्त्वम्31
ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनानां शषसह इत्येतेषाञ्च तत्तद्-वर्गीय-तृतीय-चतुर्थ-व्यञ्जने परे तत्तद्-वर्गीय-तृतीय-व्यञ्जनम् आदेशो भवति ।
- सुधी + उपास्यः
सुध्य् + उपास्यः (यण्)
सुध्ध्य् + उपास्यः (द्वित्वम्)
सु द् ध् य् + उपास्यः (जश्त्वम्) = सुद्ध्युपास्यः
*****
[[P52]]
व्यञ्जनसन्धिसङ्ग्रहः
| विशेषः | पूर्ववर्णः | परवर्णः | परिणामः | पृष्ठम् |
|---|---|---|---|---|
| १. पूर्वस्य परस्य वा स्थाने निमित्तानुसारेण आदेशः | अ) स्तुः / श्चुः | श्चुः / स्तुः | श्चुत्वम् | ३१ |
| आ) स्तुः / ष्टुः | ष्टुः / स्तुः | ष्टुत्वम् | ३२ | |
| २. i. पूर्वस्य स्थाने आदेशः | अ) ञमङणनान् विना वर्गीय-व्यञ्जनानि षकारश्च (पदान्ते) | स्वराः, मृदु-व्यञ्जनानि | जश्त्वम् | ३४ |
| आ) ञमङणनान् विना वर्गीय-व्यञ्जनानि | कर्कश-व्यञ्जनानि | चर्त्वम् | ३६ | |
| (ञमङणनान् वर्जयित्वा वर्गीय-व्यञ्जनानां स्थाने) | इ) ञमङणनान् विना वर्गीय-व्यञ्जनानि | अनुनासिक-व्यञ्जनानि | अनुनासिकः | ३६ |
| ई) तवर्गः (नकारोऽपि) | लकारः | परसवर्णः (लकारः) | ४० | |
| ii. पूर्वस्य स्थाने आदेशः । | अ) पदान्ते मकारः | व्यञ्जनम् | अनुस्वारः | ३७ |
| आ) मकारः / नकारः | ञमङणनान् विना वर्गीय-व्यञ्जनानि, शषस | अनुस्वारः | ३८ | |
| (म्/न्/ं इत्येतेषां स्थाने) | इ) अनुस्वारः (ं) | शषसहान् विना व्यञ्जनानि | परसवर्णः (ङ् ञ् ण् न् म् यँ लँ वँ) | ३८ |
| ३. परस्य (ह् / श् / स्) | i. वर्गीय-तृतीय-व्यञ्जनानि | ह | पूर्वसवर्णः (घ्/झ्/ढ्/ध्/भ्) | ४१ |
| ii. वर्गीय-प्रथम-व्यञ्जनानि | श् | छत्वम् | ४२ | |
| उद् | स्था/स्तम्भ् | थकारः | ४२ | |
| ४. आगमः | i. पदान्ते ह्रस्वस्वरपूर्वकाः ङणनाः | स्वराः | ङमुडागमः | ४० |
| ii. स्वराः | छकारः | चकारागमः | ४५ | |
| ५. | पदान्त-नकारः | चछ / टठ / तथ | श/शँ, ष/षँ, स/सँ | ४४ |
| सम् | स्कृ | स् / स् | ४५ |
[[P53]]
१. श्चुत्वसन्धौ ष्टुत्वसन्धौ च पूर्वस्य परस्य वा स्थाने आदेशस्य सम्भवोऽस्ति । (३१ तमे पृष्ठे तृतीयां टिप्पणीं पश्यन्तु ।)
२. अत्र विभागद्वयम् -
i. प्रथमभागे पूर्वत्र वर्गीय-व्यञ्जनानाम् एव प्रसक्तिः । परत्र स्वराः मृदु-व्यञ्जनानि (अश्) भवन्ति चेत् जश्त्वं, कर्कश-व्यञ्जनानि (खर्) चेत् चर्त्वं, ञमङणनाः (अम्) चेद् अनुनासिकः, (तवर्गात् लकारे लकारः) च पूर्वस्य स्थाने आदेशो भवति ।
ii. द्वितीयभागे पूर्वत्र ‘म्, न्,’ इत्येतेषाम् एव प्रसक्तिः । परत्र तु उपर्युक्तक्रमेण व्यञ्जनानां श्रवणे अनुस्वारः परसवर्णो वा भवति ।
३. i. पूर्वत्र जश्त्वसन्धिः आदाव् एव प्रवर्तते । परत्र हकारस्यैव श्रवणम् । पूर्वत्र यदि ग् ज् ड् द् ब् इति श्रूयते, तदा क्रमशः हकारस्य घ्, झ्, ढ्, ध्, भ् इत्येते आदेशाः विकल्पेन भवन्ति ।
ii. पूर्वत्र चर्त्वसन्धिः आदाव् एव प्रवर्तते । परत्र शकारस्यैव श्रवणम् । तस्य छकारादेशः विकल्पेन भवति । एवञ्च जश्त्वानन्तरं परत्र हकारस्य श्रवणं, चर्वानन्तरं परत्र शकारस्य श्रवणं च यदि भवति तर्हि अनयोः प्रसक्तिर् इति फलितम् ।
४. i. ङ् ण् न् इत्येतेषां द्विरुच्चारणं भवतीति फलति । नकारान्तस्यैव (गच्छन्, कुर्वन्…) प्राचुर्येण प्रयोगो विद्यते । ङान्तस्य णान्तस्य च विरलः प्रयोगः ।
ii. ह्रस्वस्वर-छकारयोर् मध्ये नित्यं चकारस्य श्रवणं, दीर्घपदान्त-छकारयोर् मध्ये तु विकल्पेन इति विवेकः ।
स्वरसन्धिसङ्ग्रहः
- पूर्वत्र परत्र च यथासङ्ग्रहम् अकः (अआ, इई, उऊ, ऋॠ) श्रवणम् अस्ति चेत् सवर्णदीर्घः ।
- पूर्वत्र अकारस्य आकारस्य च श्रवणे, परत्र इकः (इ, उ, ऋ) श्रवणे गुणः । एचः (ए, ऐ, ओ, औ) श्रवणे वृद्धिः ।
- पूर्वत्र इकः (इ, उ, ऋ, ऌ) श्रवणे, परत्र असवर्ण-स्वर-श्रवणे यण् ।
- पूर्वत्र एचः (ए, ऐ, ओ, औ) श्रवणे, परत्र स्वर-श्रवणे च (पूर्वरूपस्थलं विना) यान्तवान्तादेशः ।
- पूर्वत्र पदान्ते एङः (ए, ओ) श्रवणे, परत्र ह्रस्वस्य अकारस्य श्रवणे पूर्वरूपम् ।
- पदान्ते अकः (अ, इ, उ, ऋ, ऌ) श्रवणे, परत्र ॠकारस्य श्रवणे प्रकृतिभावः । पूर्वत्र प्लुतस्य श्रवणे, प्रगृह्यस्य सद्भावे वा चापि प्रकृतिभावः ।
(सङ्ग्रहेऽस्मिन् विशेषनियमाः अपवादाश्च न उक्ताः ।)
[[P54]]
-
चु - चवर्गः । अक्षरप्रकरणे पञ्चमं पृष्ठं पश्यन्तु । ↩︎
-
योगः = सम्बन्धः । अतः सकार-तवर्गाभ्यां परौ एव शकार-चवर्गौ भवेताम् इति न नियमः । चवर्गात् परोऽपि तवर्गः स्यात् । ष्टुत्वसन्धाव् अपि एवम् एव अवधेयम् । एवञ्च श्चुत्वसन्धौ ष्टुत्वसन्धौ च एताभ्याम् एतयोः परयोर् इति न चिन्तनीयम् । किन्तु द्वयोः सम्बन्धः । सम्बन्धः पूर्वत्र स्थितेऽपि भवति, परत्र स्थितेऽपि । ↩︎
-
स्तोः श्चुना श्चुः - ८.४.४० सकार-तवर्गयोः शकार-चवर्गाभ्यां योगे शकार-चवर्गौ स्तः । ↩︎
-
शात् - ८.४.४४ शात् परस्य तवर्गस्य चुत्वं न स्यात् । ↩︎
-
ष्टुना ष्टुः - ८.४.४१ स्तोः ष्टुना योगे ष्टुः स्यात् । ↩︎
-
तोः षि - ८.४.४३ तवर्गस्य षकारे परे न ष्टुत्वम् । ↩︎
-
न पदान्ताट् टोर् अनाम् - ८.४.४२ पदान्ताट्-टवर्गात् परस्यानाम्नः स्तोः ष्टुर् न स्यात् । ↩︎
-
झल्-प्रत्याहारे श स ह इति वर्णाः अपि प्रविष्टाः । उपर्युक्तनियमे एते वर्णाः नान्तर्भूताः । कुतः ? पदान्ते स्थितस्य शकारस्य सकारस्य हकारस्य च क्रमात् षकारस्य रुकारस्य ढकारस्य च ‘व्रश्च…’ इति, ‘ससजुषो रुः’ इति, ‘हो ढः’ इति च सूत्रैः विधानात् साक्षात् जश्त्वप्रसक्तिः नास्ति । अतः ते वर्णाः नियमे त्यक्ताः । प्रत्याहारघटकाः सर्वे वर्णाः यदि नियमे न स्युः तदा इत्थम् एव चिन्तितम् इति विभावनीयम् । ↩︎
-
झलां जशोऽन्ते - ८.२.३९ पदान्ते झलां जशः स्युः । ↩︎
-
वाऽवसाने - ८.४.५६ अवसाने झलां चरो वा स्युः । ↩︎
-
खरि च - ८.४.५५ खरि परे झलां चरः स्युः । ↩︎
-
यरोऽनुनासिकेऽनुनासिको वा - ८.४.४५ यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । ↩︎
-
प्रत्यये भाषायां नित्यम् (वा) । ↩︎
-
मोऽनुस्वारः - ८.३.२३ मान्तस्य पदस्य अनुस्वारः स्याद् हलि । ↩︎
-
नश्चापदान्तस्य झलि - ८.३.२४ नस्य मस्य चापदान्तस्य झल्यनुस्वारः स्यात् । ↩︎
-
अनुस्वारस्य ययि परसवर्णः - ८.४.५८ अनुस्वारस्य ययि परे परसवर्णः स्यात् । ↩︎
-
वा पदान्तस्य - ८.४.५९ पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । ↩︎
-
तोर्लि - ८.४.६० तवर्गस्य लकारे परे परसवर्णः स्यात् । ↩︎
-
ङमो ह्रस्वादचि ङमुण् नित्यम् - ८.३.३२ ह्रस्वात् परो यो ङम् तदन्तं यत् पदं तस्मात् परस्य अचो नित्यं ङमुडागमः स्यात् । ↩︎
-
झयो होऽन्यतरस्याम् - ८.४.६२ झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । ↩︎
-
उदः स्थास्तम्भोः पूर्वस्य - ८.४.६१ उदः परयोः स्था-स्तम्भ्वोः पूर्वसवर्णः स्यात् । ↩︎
-
शश्छोऽटि - ८.४.६३ पदान्ताज् झयः परस्य शस्य छो वा स्याद् अटि । ↩︎
-
नश्चव्यप्रशान् - ८.३.७ अम्परे छवि नकारान्तस्य पदस्य रुः स्यात् । ↩︎
-
समः सुटि - ८.३.५. समो रुः स्यात् सुटि । ↩︎
-
समो वा लोपम् एके (भा) ↩︎
-
छे च - ६.१.७३ ह्रस्वस्य छे परे तुगागमः स्यात् । ↩︎
-
पदान्ताद् वा - ६.१.७६ दीर्घात् पदान्तात् छे परे तुग् वा स्यात् । ↩︎
-
लोपः शाकल्यस्य - ८.३.१९ अवर्णपूर्वयोः पदान्तयोः यवयोः लोपो वा स्याद् अशि परे । ↩︎
-
झरो झरि सवर्णे - ८.४.६५ हलः परस्य झरो लोपः स्यात् सवर्णे झरि । ↩︎
-
अनचि च - ८.४.४७ अचः परस्य यरो द्वे वा स्तः न त्वचि । ↩︎
-
झलां जश् झशि - ८.४.५३ झलां स्थाने जश् स्यात् झशि परे । ↩︎ ↩︎