३ स्वरसन्धयः

स्वरसन्धयोऽष्टविधाः । तथा हि -

१. यण्सन्धिः
२. यान्तवान्तादेशसन्धिः
} एतयोः द्वयोः सन्ध्योः पूर्वस्य एकस्यैव वर्णस्य स्थाने आदेशो भवति ।
३. गुणसन्धिः
४. वृद्धिसन्धिः
५. सवर्णदीर्घसन्धिः
६. पूर्वरूपसन्धिः
७. पररूपसन्धिः
} पञ्चस्वपि एतेषु सन्धिषु पूर्वस्य परस्य च स्थाने एकादेशो भवति ।
८. प्रकृतिभावः } अत्र आदेशाभावः ।

१. यण्सन्धिः [*] 1

यण् = य् व् र् ल्

इ/ई उ/ऊ ऋ/ॠ + असवर्णस्वरः
य् व् र् ल्

इ ई उ ऊ ऋ ॠ ऌ इत्येतेभ्यो वर्णेभ्योऽसवर्णे स्वरे परे ‘इ ई’ इत्यनयोः स्थाने यकारः, उ ऊ इत्यनयोः स्थाने वकारः, ऋ ॠ इत्यनयोः स्थाने रकारः (रेफः), ऌकारस्य स्थाने लकारश्च आदेशो भवति । यथा -

i. इ / ई + (असवर्णस्वरः) = य्
१. प्रति + एकम्
प्रत् + य् + एकम् = प्रत्येकम् । (इ = य्)
२. नदी + अत्र
नद् + य् + अत्र = नद्यत्र । (ई = य्)

[*] ‘यण्’ इति प्रत्याहारः । (१० पृष्ठं पश्यन्तु)


[[P19]]

विशेषः

१. वधू + ङस् + आगमन + स् = षष्ठी, कृत्तद्धितसमासाश्च
वधू + आगमन = सुपो धातुप्रातिपदिकयोः
वध् + व् + आगमन = इको यणचि
वध्वागमन + स् = स्वौजसमौट्…
वध्वागमन + अम् = अतोऽम्
वध्वागमनम् = अमि पूर्वः
वध् + ङस् + आगमन + स् = इत्यवस्थायां षष्ठी-समासे प्रातिपदिकसंज्ञायां सुप्प्रत्यययोर् लोपे यण्सन्धौ समुदायात् सुप्रत्यये, अमादेशे, पूर्वरूपे च वध्वागमनम् इति सिद्धं भवति । एषः ‘वध्वागमनम्’ इत्यस्य समस्तस्य पदस्य प्रक्रिया-क्रमः । एतासु प्रक्रियासु यण्सन्धिरपि प्रविष्टः । स च यण् वधू + आगमन इत्यवस्थायां प्रवर्तते, न तु वधू + आगमनम् इत्यवस्थायाम् । सन्धिप्रवृत्त्यनन्तरम् एव सुबुत्पत्तेः । समासे सर्वत्र एषा एव सरणिः शास्त्रीया ।

२. गो + य = गोपयसोर्यत्
ग् + अव् + य = एचोऽयवायावः
गव्य + स् = स्वौजसमौट्…..
गव्य + अम् = अतोऽम्
गव्यम् = अमि पूर्वः ।
गो इति प्रातिपदिकात् ‘य’-प्रत्यये अवादेशे, सुप्रत्यये, अमादेशे, पूर्वरूपे च गव्यम् इति रूपं भवति । अत्रापि गो + य इत्यवस्थायां अवादेशः प्रवर्तते, न तु गो + यम् इत्यवस्थायाम् । सन्धिप्रवृत्त्यनन्तरम् एव सुबुत्पत्तेः । प्रत्यये परे सर्वत्र एषा एव शास्त्रीया सरणिः । किन्तु ग्रन्थेऽस्मिन् एषा सरणिः न आश्रिता ।

अतः वधू + आगमनम् इत्यवस्थायां यणादेशः इति, गो यम् इत्यवस्थायाम् अवादेशः इति च निरूपणं कृतम् ।
इत्थम् एव ग्रन्थेऽस्मिन् सर्वत्र निरूपितम् । तत्र तु कारणं - प्रायः अध्यापन-परिपाटी एव । बालमनोरमादिव्याख्यानेऽपि क्रमोऽयं क्वचित् दृश्यते ।

ii. उ / ऊ + (असवर्णस्वरः) = व्
१. मनु + अन्तरम्
मन् + व् + अन्तरम् = मन्वन्तरम् । (उ = व्)


[[P20]]

२. वधू + आगमनम्
वध् + व् + आगमनम् = वध्वागमनम् । (ऊ = व्)

iii. ऋ / ॠ + (असवर्णस्वरः) = र्2
१. पितृ + इच्छा
पित् + र् + इच्छा = पित्रिच्छा । (ऋ = र्)

iv. ऌ + (असवर्णस्वरः) = ल्
१. घस्ऌ + आदेशः
घस् + ल् + आदेशः = घस्लादेशः । (ऌ = ल्)

अन्यान्युदाहरणानि -

यदि + अपि = यद्यपि । इति + अपि = इत्यपि ।
सुधी + उपास्यः = सुध्युपास्यः । मधु + अरिः = मध्वरिः ।
धातृ + अंशः = धात्रंशः । ऌ + आकृतिः = लाकृतिः ।
पितृ + अंशः = पित्रंशः । जननी + आह = जनन्याह ।
वधू + आसनम् = वध्वासनम् । अति + उत्तमः = अत्युत्तमः ।
इति + आचरन्ति = इत्याचरन्ति । प्रति + अवदत् = प्रत्यवदत् ।
इति + आक्षिप्तः = इत्याक्षिप्तः । वस्त्राणि + उत्पादयति = वस्त्राण्युत्पादयति ।
साधु + इदम् = साध्विदम् । भवतु + अधुना = भवत्वधुना ।
स्मरामि + अहम् = स्मराम्यहम् । पार्वती + अधुना = पार्वत्यधुना ।
इति + आधुनिकः = इत्याधुनिकः । व्यसनेषु + असक्तम् = व्यसनेष्वसक्तम् ।
नास्ति + असाध्यम् = नास्त्यसाध्यम् ।

२. यान्तवान्तादेशसन्धिः3

यान्तौ वान्तौ च = अय् आय् अव् आव्

२.१.

+ स्वरः
अय् आय् अव् आव्

“ए ऐ ओ औ’ इत्येतेभ्यो वर्णेभ्यः स्वरे परे एकारस्य स्थाने अय्, ऐकारस्य स्थाने आय्, ओकारस्य स्थाने अव्, औकारस्य स्थाने आव् च आदेशो भवति ।


[[P21]]

i. ए + (स्वरः) = अय्

  • हरे + ए
    हर् + अय् + ए = हरये । (ए = अय्)
  • हरे + आगच्छ
    हर् + अय् + आगच्छ = *हरयागच्छ । (ए = अय्)

ii. ऐ + (स्वरः) = आय्

  • नै + अकः
    न् + आय् + अकः = नायकः । (ऐ = आय्)
  • तस्यै + इदम्
    तस्य् + आय् + इदम् = *तस्यायिदम् । (ऐ = आय्)

iii. ओ + (स्वरः) = अव्

  • विष्णो + ए
    विष्ण् + अव् + ए = विष्णवे । (ओ = अव्)
  • गुरो + आदिश
    गुर् + अव् + आदिश = *गुरावादिश । (ओ = अव्)

iv. औ + (स्वरः) = आव्

  • पौ + अकः
    प् + आव् + अकः = पावकः । (औ = आव्)
  • बालकौ + आगतौ
    बालक् + आव् + आगतौ = *बालकावागतौ । (औ = आव्)

अन्यान्युदाहरणानि -

फले + इच्छा = फलयिच्छा / फल इच्छा कटे + उपवेशनम् = कटयुपवेशनम् / कट उपवेशनम्
जने + उत्कण्ठा = जनयुत्कण्ठा / जन उत्कण्ठा वदने + औषधम् = वदनयौषधम् / वदन औषधम्
तस्मै + एतत् = तस्मायेतत् / तस्मा एतत् तस्यै + ओदनम् = तस्यायोदनम् / तस्या ओदनम्
वै + इह = वायिह / वा इह द्विषावहै + आर्तिम् = द्विषवहायार्तिम् / द्विषावहा आर्तिम्

[[P22]]

करौ + एतौ = करावेतौ / करा एतौ तौ + एकदा = तावेकदा / ता एकदा
बालौ + ओजस्विनौ = बालावोजस्विनौ / बाला ओजस्विनौ नरौ + उदारौ = नरावुदारौ / नरा उदारौ
भानो + इह = भानविह / भान इह गुरो + उत्साहः = गुरवुत्साहः / गुर उत्साहः

२.२.4

+ यादि-प्रत्ययः
अव् आव्

‘यकारादि-प्रत्यये परे ओ औ इत्येतयोः स्थाने क्रमाद् अव् आव् एतौ आदेशौ भवतः ।

i. ओ + (यादिप्रत्ययः) = अव्
गो + यम्
ग् + अव् + यम् = गव्यम् (ओ = अव्)

ii. औ + (यादिप्रत्ययः) = आव्
नौ + यम्
न् + आव् + यम् = नाव्यम् । (औ = आव्)

इदम् अवधेयम्
स्वरसन्धिषु यण्सन्धौ यान्तवान्तादेशसन्धौ च एकस्य (पूर्वस्थितस्य) वर्णस्य स्थाने आदेशो भवति । इदं सन्धिद्वयं विहाय अन्यत्र स्वरसन्धिषु पूर्वपरयोः स्थाने एकादेशो भवति ।

विशेषः - i. ‘पदान्ते* विद्यमानानाम् ‘ए ऐ ओ औ’ इत्येतेषां वर्णानां क्रमाद् अय् आय् अव् आव् एते आदेशाः यदा भवन्ति तदा यकारस्य वकारस्य च विकल्पेन लोपो भवति । लोपे कृते पुनः सन्धिः न करणीयः ।5
१. हरे + आगच्छ = हरयागच्छ / हर आगच्छ । (सवर्णदीर्घः न)


[[P23]]

२. तस्यै + इदम् = तस्यायिदम् / तस्या इदम् । (गुणसन्धिः न)
३. गुरो + आदिश = गुरवादिश / गुर आदिश । (सवर्णदीर्घः न)
४. बालकौ + आगतौ = बालकावागतौ / बालका आगतौ । (सवर्णदीर्घः न)

ii. पदान्ताद् एकाराद् ओकाराच्च अकारे परे पूर्वरूपं* भवति ।
यथा - हरे + अव = हरेऽव
विष्णो + अव = विष्णोऽव

३. गुणसन्धिः 6 7

“गुणः = ए ओ अर् अल्

अ/आ + इ/ई अ/आ + उ/ऊ अ/आ + ऋ/ॠ अ/आ + ऌ
अर् अल्

‘अ आ इत्येताभ्यां वर्णाभ्याम् इ ई8 इत्येतयोः परयोः एकारः, उ ऊ इत्येतयोः परयोः ओकारः, ऋ ॠ इत्येतयोः परयोः अर्, ऌकारे परे अल् च पूर्वपरयोः स्थाने एकादेशो भवति ।

i. अ/आ + इ/ई = ए

  • देव + इन्द्रः
    देव् + ए + न्द्रः = देवेन्द्रः । (अ + इ = ए)
  • गण + ईशः
    गण् + ए + शः = गणेशः । (अ + ई = ए)
  • महा + इन्द्रः
    मह् + ए + न्द्रः = महेन्द्रः । (आ + इ = ए)
  • महा + ईशः
    मह् + ए + शः = महेशः । (आ + ई = ए)

[*] पूर्वरूपसन्धिं २५ पृष्ठे पश्यन्तु ।


[[P24]]

ii. अ/आ + उ/ऊ = ओ

  • सूर्य + उदयः
    सूर्य् + ओ + दयः = सूर्योदयः । (अ + उ = ओ)
  • एक + ऊनविंशतिः
    एक् + ओ + नविंशतिः = एकोनविंशतिः । (अ + ऊ = ओ)
  • महा + उत्सवः
    मह् + ओ + त्सवः = महोत्सवः । (आ + उ = ओ)
  • महा + ऊर्मिः
    मह् + ओ + र्मिः = महोर्मिः । (आ + ऊ = ओ)

iii. अ/आ + ऋ/ॠ9 = अर्

  • सप्त + ऋषयः
    सप्त् + अर् + षयः = सप्तर्षयः । (अ + ऋ = अर्)
  • महा + ऋषिः
    मह् + अर् + षिः = महर्षिः । (आ + ऋ = अर्)

iv. अ/आ + ऌ = अल्

  • तव + ऌकारः
    तव् + अल् + कारः = तवल्कारः । (अ + ऌ = अल्)
  • महा + ऌकारः
    मह् + अल् + कारः = महल्कारः । (आ + ऌ = अल्)

अन्यान्युदाहरणानि -

उप + इन्द्रः = उपेन्द्रः राम + इति = रामेति
परम + ईश्वरः = परमेश्वरः च + इति = चेति
महा + ईश्वरः = महेश्वरः न + उन्नतः = नोन्नतः
रमा + ईशः = रमेशः हित + उपदेशः = हितोपदेशः
गुण + उपेतम् = गुणोपेतम् गङ्गा + उदकम् = गङ्गोदकम्
सुलभ + उपायः = सुलभोपायः राजा + ऋषिः = राजर्षिः
सप्त + ऋषयः = सप्तर्षयः ब्रह्म + ऋषिः = ब्रह्मर्षिः
कृष्ण + ऋद्धिः = कृष्णर्द्धिः प्रश्न + उत्तरम् = प्रश्नोत्तरम्
परम + उत्कृष्टम् = परमोत्कृष्टम् पर + उपकारः = परोपकारः

[[P25]]

पुरुष + उत्तमः = पुरुषोत्तमः प्राचीना + उक्तिः = प्राचीनोक्तिः
धीर + उद्धतः = धीरोद्धतः परिचयस्य + उद्देशः = परिचयस्योद्देशः
जिह्वा + इति = जिह्वेति न + इच्छति = नेच्छति
देव + ऋषिः = देवर्षिः महा + उद्देशः = महोद्देशः

४. वृद्धिसन्धिः

वृद्धिः = ऐ, औ, आर्, आल्10

४.१.11

अ/आ + ए/ऐ अ/आ + ओ/औ

“अ आ’ इत्येताभ्यां वर्णाभ्याम् ‘ए ऐ’ इत्येतयोः परयोः ‘ऐ’कारः, ‘ओ औ’ इत्येतयोः परयोः ‘औकारः’ च, पूर्वपरयोः स्थाने एकादेशो भवति”12

i. अ/आ + ए/ऐ = ऐ

  • एक + एकम्
    एक् + ऐ + कम् = एकैकम् । (अ + ए = ऐ)
  • तव + ऐश्वर्यम्
    तव् + ऐ + श्वर्यम् = तवैश्वर्यम् । (अ + ऐ = ऐ)
  • सदा + एव
    सद् + ऐ + व = सदैव । (आ + ए = ऐ)
  • महा + ऐश्वर्यम्
    मह् + ऐ + श्वर्यम् = महैश्वर्यम् । (आ + ऐ = ऐ)

ii. अ/आ + ओ/औ = औ

  • तस्य + ओदनः
    तस्य् + औ + दनः = तस्यौदनः । (अ + ओ = औ)
  • मम + औषधम्
    मम् + औ + षधम् = ममौषधम् । (अ + औ = औ)
  • गङ्गा + ओघः
    गङ्ग् + औ + घः = गङ्गौघः । (आ + ओ = औ)

[[P26]]

  • महा + औत्सुक्यम्
    मह् + औ + त्सुक्यम् = महौत्सुक्यम् । (आ + औ = औ)

अन्यान्युदाहरणानि -

कृष्ण + एकत्वम् = कृष्णैकत्वम् देव + ऐश्वर्यम् = देवैश्वर्यम्
वन + औषधम् = वनौषधम् द्वितीया + एकवचनम् = द्वितीयैकवचनम्
अद्य + एव = अद्यैव दिव्य + औषधम् = दिव्यौषधम्
न + एव = नैव कृष्ण + औत्कण्ठ्यम् = कृष्णौत्कण्ठ्यम्
तत्र + एव = तत्रैव तत्र + एकदा = तत्रैकदा
तव + औदार्यम् = तवौदार्यम् तथा + एव = तथैव
मा + एवम् = मैवम् परम + औचित्यम् = परमौचित्यम्
यदा + एव = यदैव दृष्ट्वा + एतत् = दृष्ट्वैतत्
राष्ट्र + ऐक्यम् = राष्ट्रैक्यम् देवता + एकात्म्यम् = देवतैकात्म्यम्
परम + औदार्यम् = परमौदार्यम् रक्ता + ओषधी = रक्तौषधी

४.२.

13अ/आ + ऋ 14ए/ऐ + ऌ
आर् आल्

“अकारान्ताद् आकारान्ताद् वा उपसर्गाद् ऋकारादौ धातौ परे पूर्वपरयोः स्थाने आर् इत्यादेशो भवति ।15 “ॠकारादौ ऌकारादौ सुब्धातौ परे तु विकल्पेन ।16 17

i. अ + ऋ = आर् अ + ऌ = आल्

  • उप + ऋच्छति
    उप् + आर् + च्छति = *उपाच्छति । (अ + ऋ = आर्)
  • प्र + ऋषभीयति
    प् + आर् + षभीयति = प्रार्षभीयति । (अ + ऋ = आर्)
    (प्रर्षभीयति - वृद्धयभावे गुणः)

[[P27]]

  • उप + ऌकारीयति
    उप् + आल् + कारीयति = उपाल्कारीयति । (अ + ऌ = आल्)
    (उपल्कारीयति - वृद्धयभावे गुणः)
विशेषः

i. अधोनिर्दिष्टेषु पूर्वपरयोः स्थाने वृद्धिः भवति -

  • “अक्ष + ऊहिनी = अक्षौहिणी ।18
  • स्व + ईरिन् = स्वैरी ।
  • “प्र + ऊहः = प्रौहः ।19
  • प्र + ऊढिः = प्रौढिः ।
  • प्र + एष्यः = प्रैष्यः ।
  • “स्व + ईरः = स्वैरः ।
  • स्व + ईरिणी = स्वैरिणी ।
  • प्र + ऊढः = प्रौढः ।
  • प्र + एषः = प्रैषः ।
  • “प्र + ऋणम् = प्रार्णम् ।20
  • वत्सतर + ऋणम् = वत्सतरार्णम् ।
  • कम्बल + ऋणम् = कम्बलार्णम् ।
  • वसन + ऋणम् = वसनार्णम् ।
  • दश + ऋणः = दशार्णः ।
  • ऋण + ऋणम् = ऋणार्णम् ।
  • दशार्णा (नदी)

ii. “‘अ आ’ इत्येताभ्यां ऋतशब्दे परे पूर्वपरयोः स्थाने आर् आदेशो भवति, एष आदेशः तृतीयासमासे एव ।21 यथा- सुख + ऋतः = सुखार्तः । अत्र सुखेन ऋतः इति विग्रहः । परम + ऋतः = परमर्तः इत्यत्र तु परमश् चासौ ऋतश् चेति विग्रहः । अतोऽत्र गुण एव, न वृद्धिः ।

५. सवर्णदीर्घसन्धिः 22

सवर्णदीर्घाः = आ ई ऊ ॠ

अ/आ इ/ई उ/ऊ ऋ/ॠ + सवर्णस्वरः

“‘अ आ’ इत्येताभ्याम् ‘अ आ’ इत्येतयोः परयोः आकारः, ‘इ ई’ इत्येताभ्याम्


[[P28]]

‘इ ई’ इत्येतयोः परयोः ईकारः, ‘उ ऊ’ इत्येताभ्याम् ‘उ ऊ’ इत्येतयोः परयोः ऊकारः, ‘ऋ’ इत्यस्मात् ‘ऋ ऌ’ इत्येतयोः परयोः ॠकारः, पूर्वपरयोः स्थाने एकादेशो भवति ।23

१. अ/आ + अ/आ = आ

  • परम + अर्थः
    परम् + आ + र्थः = परमार्थः । (अ + अ = आ)
  • देव + आलयः
    देव् + आ + लयः = देवालयः । (अ + आ = आ)
  • विद्या + अभ्यासः
    विद्य् + आ + भ्यासः = विद्याभ्यासः । (आ + अ = आ)
  • विद्या + आलयः
    विद्य् + आ + लयः = विद्यालयः । (आ + आ = आ)

२. इ/ई + इ/ई = ई

  • कवि + इन्द्रः
    कव् + ई + न्द्रः = कवीन्द्रः । (इ + इ = ई)
  • कवि + ईश्वरः
    कव् + ई + श्वरः = कवीश्वरः (इ + ई = ई)
  • पृथिवी + इन्दुः
    पृथिव् + ई + न्दुः = पृथिवीन्दुः । (ई + इ = ई)
  • मही + ईशः
    मह् + ई + शः = महीशः । (ई + ई = ई)

३. उ/ऊ + उ/ऊ = ऊ

  • भानु + उदयः
    भान् + ऊ + दयः = भानूदयः । (उ + उ = ऊ)
  • साधु + ऊचुः
    साध् + ऊ + चु = साधूचुः । (उ + ऊ = ऊ)
  • वधू + उत्साहः
    वध् + ऊ + त्साहः = वधूत्साहः । (ऊ + उ = ऊ)
  • वधू + ऊर्मिका
    वध् + ऊ + र्मिका = वधूर्मिका । (ऊ + ऊ = ऊ)

[[P29]]

४. “ऋ + ऋ/ऌ = ॠ

  • पितृ + ऋणम्
    पित् + ॠ + णम् = पितॄणम् (ऋ + ऋ = ॠ)
  • होतृ + ऌकारः
    होत् + ॠ + कारः = होतॄकारः । (ऋ + ऌ = ॠ)

अन्यान्युदाहरणानि -

अल्प + अपराधः = अल्पापराधः रस + आस्वादः = रसास्वादः
विद्या + अभ्यासः = विद्याभ्यासः विद्या + आलयः = विद्यालयः
मुनि + इन्द्रः = मुनीन्द्रः कवि + ईश्वरः = कवीश्वरः
श्री + ईशः = श्रीशः गुरु + उपदेशः = गुरूपदेशः
गुरु + ऊधः = गुरूधः पितृ + ऋणम् = पितॄणम्
होतृ + ऋकारः = होतृकारः न + अन्यथा = नान्यथा
मधुर + अक्षरम् = मधुराक्षरम् तस्य + आत्मजः = तस्यात्मजः
दैत्य + अरिः = दैत्यारिः विद्या + आतुरः = विद्यातुरः
अस्ति + इदम् = अस्तीदम् दशमी + इति = दशमीति
दर्भ + आसनम् = दर्भासनम् अद्य + अपि = अद्यापि

६. पूर्वरूपसन्धिः

पूर्वरूपम् = ए ओ

+

“पदान्ताद् एकाराद् अकारे परे एकारः, पदान्ताद् ओकाराद् अकारे परे ओकारः च पूर्वपरयोः स्थाने एकादेशो भवति ।24

i. ए + अ = ए
अन्ते + अपि
अन्त् + ए + पि = अन्तेऽ*पि । (ए + अ = ए)

ii. ओ + अ = ओ
सो + अयम्
स् + ओ + यम् = सोऽयम् । (ओ + अ = ओ)


[[P30]]

अन्यान्युदाहरणानि -

ते + अत्र = तेऽत्र सो + अवदत् = सोऽवदत्
को + अपि = कोऽपि गृहे + अहम् = गृहेऽहम्
मात्रे + अर्पितम् = मात्रेऽर्पितम् रामो + अहसत् = रामोऽहसत्
हरे + अव = हरेऽव मृगो + अस्ति = मृगोऽस्ति
गोविन्दो + अतिथिः = गोविन्दोऽतिथिः मार्गे + अन्यः = मार्गेऽन्यः
दीर्घे + अहनि = दीर्घेऽहनि मे + अन्तिके = मेऽन्तिके
सुन्दरे + अम्बरे = सुन्दरेऽम्बरे रमे + अम्बिके = रमेऽम्बिके

इदम् अवधेयम् i. यान्तवान्तादेशसन्धेः अयम् अपवादः ।
ii. “समासे गोशब्दात् ह्रस्वाकारे परे प्रकृतिभावः, पूर्वरूपम्, ‘अव’ इत्यादेशः च भवति, अकारं विहाय अन्येषु स्वरेषु परेषु ओकारस्य अव इति, अव् इति च आदेशो भवति ।25 यथा -

  • गो + अग्रम् = गो अग्रम्/गोऽग्रम्/गवाग्रम् ।
  • गो + अजिनम् = गो अजिनम्/गोऽजिनम्/गवाजिनम् ।
  • गो + उष्ट्रम् = गवोष्ट्रम्/गवोष्ट्रम् ।
  • गो + ओदनम् = गवौदनम्/गवोदनम्
    गवाक्षः, गवेन्द्रः इत्यत्र तु नित्यम् अवादेशो भवति ।

७. पररूपसन्धिः 26

७.१.

+

“अवर्णान्ताद् उपसर्गाद् एकारादौ धातौ परे ‘एकारः’, ओकारादौ धातौ परे ‘ओकारः’ पूर्वपरयोः स्थाने एकादेशो भवति । वृद्धेर् अयम् अपवादः ।

i. अ + ए = ए
प्र + एजते
प्र् + ए + जते = प्रेजते । (अ + ए = ए)


[[P31]]

ii. अ + ओ = ओ
उप + ओषति
उप् + ओ + षति = उपोषति । (अ + ओ = ओ)

अस्यापवादः -
“एकारादौ इण्धातौ एध्धातौ च परे पररूपं न । किन्तु वृद्धिर् एव (ऐकारादौ तु पररूपप्राप्तिर् एव नास्ति । अतो वृद्धिः स्वयं सिद्धा) यथा -27
उप + एति = उपैति
प्र + एधते = प्रैधते ।

विशेषः

i. पूर्वोक्तनिमित्ताभावेऽपि वक्ष्यमाणेषु पररूपं प्रवर्तते इति ज्ञेयम् ।
१. शक + अन्धुः = शकन्धुः ।28 २. कर्क + अन्धुः = कर्कन्धुः (अन्धुः = कूपः) ३. कुल + अटा = कुलटा । ४. हल + ईषा = हलीषा । लाङ्गल + ईषा = लाङ्गलीषा । ६. मार्त + अण्डः = मार्तण्डः । “सीमा + अन्तः = सीमन्तः ।29 केशवेशे इत्यर्थे एव पररूपम् । सीमान्तः इत्यत्र तु सवर्णदीर्घः । मनस् + ईषा = मनीषा (अस् + ई = ई) पतत् + अञ्जलिः = पतञ्जलिः (अत् + अ = अ)

ii. “अवर्णान्तात् ओतुशब्दे ओष्ठशब्दे च परे पररूपं विकल्पेन भवति समासे एव ।30 यथा -
स्थूल + ओतुः = स्थूलोतुः/स्थूलौतुः
बिम्ब + ओष्ठः = बिम्बोष्ठः/बिम्बौष्ठः

७.२. अ/आ + ओम् आ(ङ्)31

अकारान्ताद् आकारान्ताद् वा शब्दाद् ओम् इति परे ओकारः, आ(ङ्) इति परे तु (आङ् इत्युपसर्ग एव भवेत् ।) (आ + इ = ए) एकारः (आ + उ = ओ) ओकारः वा, पूर्वपरयोः स्थाने एकादेशः स्यात् । अयम् अपि वृद्धेर् अपवादः ।

i. अ/आ + ओम् = ओ(म्)

  • शिवाय + ओं नमः

[[P32]]

शिवाय् + ओं + नमः = शिवायों नमः । [अ + ओ(म्) = ओ(म्)]
का + ओमिति वदति
क् + ओ + मिति वदति = कोमिति वदति । [(आ + ओ(म्) = ओ(म्)]

ii. अ/आ + आ(ङ्) = ए/ओ32

  • शिव + आ + इहि
    शिव + (ए + हि =) एहि - गुणसन्धिः
    शिव + एहि (अत्र एकारे “आत्वम् अस्तीति विभावनीयम्)
    शिव् + ए + हि = शिवेहि । [अ + ए (आङ्) = ए]
  • सदा + आ + इहि
    सदा + (ए + हि =) एहि (गुणः)
    सदा + एहि (“आत्वम् अस्ति)
    सद् + ए + हि = सदेहि । [आ + ए (आङ्) = ए]
  • अद्य + आ + ऊढा
    अद्य + (ओ + ढा =) ओढा (गुणः)
    अद्य + ओढा (“आत्वम् अस्ति)
    अद्य् + ओ + ढा = अद्योढा [अ + ओ(आङ्) = ओ]
  • कदा + आ + ऊढा
    कदा + (ओ + ढा =) ओढा (गुणः)
    कदा + ओढा (“आत्वम् अस्ति)
    कद् + ओ + ढा = कदोढा । [आ + ओ (आङ्) = ओ]

८. प्रकृतिभावः

निमित्ते सत्यपि सन्धिकार्याभावः प्रकृतिभावः । स्वभावेन अवस्थितिः प्रकृतिभावः इत्यर्थः । प्रकृत्या = स्वभावेन, भावः = अवस्थितिः । यथा - हरी एतौ इत्यत्र यणो निमित्तस्य सद्भावेऽपि यण् न प्रवर्तते ।

८.१.
i. “पदान्ते विद्यमानानाम् अ आ इ ई उ ऊ ऋ इत्येतेषाम् (अकः) ॠकारे परे प्रकृतिभावो विकल्पेन भवति, प्रकृतिभावपक्षे सति दीर्घस्वरे स ह्रस्वो भवति । समासेऽपि प्रकृतिभावोऽयं प्रवर्तते ।33
ii. “पदस्यान्ते विद्यमानस्य इकः असवर्णेऽचि परे यणादेशः विकल्पेन भवति ।34


[[P33]]

यणभावे प्रकृतिभावः, सति दीर्घे स ह्रस्वश्च भवति । समासे तु नायं प्रकृतिभावः ।

i. - राजा + ऋषिः । (इमे भिन्ने पदे)
राज + ऋषिः = राज ऋषिः ।
राजर्षिः । (गुणसन्धिः)

  • राज + ऋषिः = राज ऋषिः । (इदं समस्तं पदम्)
    राजर्षिः । (गुणः)
  • वसन्त + ऋतुः = वसन्तऋतुः (स. प.)
    वसन्तर्तुः (गुण)
  • वर्षा + ऋतुः
    वर्ष + ऋतुः = वर्षऋतुः (स. प.)
    वर्षर्तुः । (गुणः)
  • दधि + ऋते = दधि ऋते
    दध्यूते । (यण्)
  • स्त्री + ऋणम्
    स्त्रि + ऋणम् = स्त्रि ऋणम् (स. प.)
    स्त्र्यृणम् । (यण्)
  • गुरु + ऋणम् = गुरुऋणम् (स. प.)
    गुर्वृणम् । (यण्)
  • वधू + ऋणम्
    वधु + ऋणम् = वधुऋणम् (स. प.)
    वध्वृणम् । (यण्)
  • पितृ + ऋणम् = पितृ ऋणम् (स. प.)
    पितॄणम् । (सवर्णदीर्घः)

ii. - दधि + अत्र = दधि अत्र
दध्यत्र । (यण्)

  • चक्री + अत्र
    चक्रि + अत्र = चक्रि अत्र
    चक्र्यत्र (यण्)

[[P34]]

८.२. प्लुतप्रकृतिभावः ।[^34_37]
“प्लुतस्य स्वरे परे नित्यं प्रकृतिभावो भवति । प्लुतः कुत्र प्रयोक्तव्यः इति शास्त्रेणैव ज्ञातव्यम् । प्लुतविधायकानि सूत्राणि बहूनि सन्ति । तेषु एकस्यैवार्थोऽत्र दीयते । तथाहि -
“दूरात् सम्बोधने यद् वाक्यं तस्य वाक्यस्य अन्तिमः स्वरः (व्यञ्जनान्तं चेत् व्यञ्जनात् पूर्वस्थितः) प्लुतो भवति । वाक्यस्यान्ते यत्र सम्बोधनं भवति तत्रैव अयं प्लुतः । प्लुतः वाक्यसम्बन्धीति स्मरणीयम् ।

  • आगच्छकृष्ण३ + अत्र गौश् चरति = आगच्छकृष्ण३ अत्र गौश् चरति ।
  • गच्छ गौरि३ + असौ तत्रास्ति = गच्छ गौरि३ असौ तत्रास्ति ।
  • तिष्ठ वधु३ + एषाप्यागच्छति = तिष्ठ वधु३ एषाप्यागच्छति ।
  • शृणु हरे३ + अत्रेयं गोपी = शृणु हरे३ अत्रेयं गोपी ।
  • पश्य गुरो३ + एष मां ताडयति = पश्य गुरो३ एष मां ताडयति ।

८.३. प्रगृह्यप्रकृतिभावः ।[^34_36]
प्रगृह्यस्य स्वरे परे नित्यं प्रकृतिभावो भवति ।
प्रगृह्यं नाम काचन संज्ञा । इदं च प्रगृह्यं कुत्र प्रवर्तते इति शास्त्रेणैव ज्ञातव्यम् । केषाञ्चन सूत्राणाम् अर्थः सङ्गृह्यते । तथाहि -
i. “ईकारान्तं ऊकारान्तं एकारान्तं च द्विवचनं प्रगृह्यं भवति ।35
ii. “‘अमी’ इत्यस्य ईकारः प्रगृह्यः भवति ।36
iii. “ओकारान्तम् अव्ययम्, आ”37 इत्यव्ययञ्च (आङ् इति, आ इति द्वे स्तः, तयोर् मध्ये ‘आ’ इत्यव्ययम् एव) प्रगृह्यं भवति ।38

  • कवी + एतौ = कवी एतौ । (नात्र यण् ।)
  • गुरू + इमौ = गुरू इमौ । (नात्र यण् ।)
  • लते + एते = लते एते । (नात्र यान्तादेशः ।)
  • पचेते + इमौ = पचेते इमौ । (नात्र यान्तादेशः ।)
  • अमी + आश्रमाः = अमी आश्रमाः । (नात्र यण् ।)
  • अहो + अत्रभवान् = अहो अत्र भवान् । (नात्र पूर्वरूपम् ।)
  • आ + एवं नु मन्यसे = आ एवं नु मन्यसे । (नात्र वृद्धिः ।)

स्वरसन्धिसङ्ग्रहार्थं ४९ तमं पृष्ठं पश्यन्तु ।


[[P35]]


  1. इको यणचि - ६.१.७७ इकः स्थाने यण् स्याद् अचि संहितायां विषये । इको यण् स्याद् असवर्णेऽचि परे इति सूत्रस्य फलितोऽर्थः इति ज्ञेयम् । ↩︎

  2. ॠकारात् परः असवर्णस्वरः दुर्लभः । तादृशोदाहरणस्य विरलत्वात् । कृ + इति = क्रिति इत्युदाहरणं कथञ्चिद् देयम् । ‘कृ’ इति कश्चन धातुः । ↩︎

  3. एचोऽयवायावः - ६.१.७८ एचः क्रमाद् अय् अव् आय् आव् एते स्युर् अचि । ↩︎

  4. वान्तो यि प्रत्यये - ६.१.७९ यकारादौ प्रत्यये परे ओदौतोर् अव् आव् एतौ स्तः । ‘गव्यूतिः’ इत्यत्र ‘अध्वपरिमाणे च’ इति वार्तिकेन अवादेशः । ओयते, औयत इत्यादौ ‘धातोस् तन्निमित्तस्यैव’ (६.१.८०) इति नियमात् न अवावौ भवतः । ↩︎

  5. लोपः शाकल्यस्य - ८.३.१९ अवर्णपूर्वयोः पदान्तयोर् यवयोर् वा लोपोऽशि परे । पूर्वत्रासिद्धम् - ८.२.१ इति लोपशास्त्रस्य असिद्धत्वात् न स्वरसन्धिः । ↩︎

  6. अदेङ्गुणः - १.१.२ अत् एङ् च गुणसंज्ञः स्यात् । ↩︎

  7. आद् गुणः - ६.१.८७ अवर्णाद् अचि परे पूर्वपरयोर् एको गुणः आदेशः स्यात् संहितायाम् । अवर्णाद् इकि परे इति सूत्रस्य फलितोऽर्थः इति ज्ञेयम् । ↩︎

  8. प्लुते इकारे (इ३) परेऽपि गुणो भवति । एवं प्लुते उकारे अपि । किन्तु तादृशस्य लक्ष्यस्य अत्यन्तं दुर्लभत्वात् निमित्तकोटौ न तौ उपात्तौ । अतः पूर्वरूपसन्धिं विहाय अन्ये सन्धयः प्रवर्तन्ते यदि परस्थाने प्लुतः श्रूयेत इति सर्वेषु स्वरसन्धिषु ज्ञेयम् । ↩︎

  9. अकाराद् आकाराद् वा परः ॠकारः दुर्लभः । सप्त + ॠकाराः = सप्तर्कारा इत्यादि कल्पनीयम् । ↩︎

  10. वृद्धिरादैच् - १.१.१. आद्-ऐच् च वृद्धिसंज्ञः स्यात् । ↩︎

  11. वृद्धिरेचि - ६.१.८८ आद् एचि परे वृद्धिर् एकादेशः स्यात् । ↩︎

  12. पररूपसन्धौ ‘अस्यापवादः’ इत्यारभ्य लिखिताः पङ्क्तीः पश्यन्तु । (२७ पृष्ठे) ↩︎

  13. आकारान्ताद् उपसर्गात् परः ऋकारादिः ऌकारादिश् च धातुः दुर्लभः । ↩︎

  14. प्रैषः, प्रैष्यः इत्येतद्द्वयं विहाय उपाच्छति इत्यारभ्य सुखार्तः इत्यन्तं यावद् गुणः प्राप्तः । गुणापवादत्वेन वृद्धिर् विहिता । प्रैषः प्रैष्यः इत्यत्र तु पररूपं प्राप्तम् । तस्यापवादत्वेन वृद्धिर् विहिता । एषः एष्यः इत्यनयोः धातुनिष्पन्नत्वात् पररूपं प्राप्तम् । ↩︎

  15. उपसर्गाद् ऋति धातौ - ६.१.९१ अवर्णान्ताद् उपसर्गाद् ऋकारादौ धातौ परे वृद्धिर् एकादेशः स्यात् । ↩︎

  16. वा सुप्यपिशलेः - ६.१.९२ अवर्णान्ताद् उपसर्गाद् ॠकारादौ धातौ परे वृद्धिर् एकादेशो वा स्यात् । ↩︎

  17. ‘अक्षादूहिन्याम् उपसंख्यानम्’ (वा) - अक्षशब्दाद् ऊहिनीशब्दे परे वृद्धिर् एकादेशः स्यात् । ↩︎

  18. ‘स्वादीरेरिणोः’ (वा) - स्वशब्दाद् ईरशब्दे ईरिन्शब्दे च परे वृद्धिर् एकादेशः स्यात् । ↩︎

  19. ‘प्रादूहोढोढ्येषैष्येषु’ (वा) - प्र इत्युपसर्गाद् ऊह, ऊढ, ऊढि, एष, एष्य इत्येतेषु परेषु वृद्धिर् एकादेशः स्यात् । ↩︎

  20. ‘प्रवत्सतरकम्बलवसनदशार्णानाम् ऋणे’ (वा) - प्र, वत्सतर, कम्बल, वसन, दश, ऋण इत्येतेभ्यः ऋणशब्दे परे वृद्धिर् एकादेशः स्यात् । ↩︎

  21. ‘ऋते च तृतीयासमासे’ (वा) - तृतीयासमासे अकाराद् ऋतशब्दे परे वृद्धिर् एकादेशः स्यात् । ↩︎

  22. अकः सवर्णे दीर्घः - ६.१.१०१ अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । ↩︎

  23. सवर्णे परे पूर्वत्र ॠकारस्य ऌकारस्य वा प्रसक्तिः दुर्लभा । नास्त्येव वा । तथैव ॠकारात् परः ॠकारोऽपि दुर्लभः । कृ + ॠकारः इत्येवमादिकं तु कल्पनामात्रम् एव । ↩︎

  24. एङः पदान्ताद् अति - ६.१.१०९ पदान्ताद् एङोऽति परे पूर्वरूपम् एकादेशः स्यात् । ↩︎

  25. सर्वत्र विभाषा गोः - ६.१.१२२ लोके वेदे च एङन्तस्य गोर् अति वा प्रकृतिभावः स्यात् पदान्ते । अवङ् स्फोटायनस्य - ६.१.१२३ अचि परे पदान्ते गोर् अवङ् वा स्यात् । इन्द्रे च - ६.१.१२४ गोर् अवङ् स्याद् इन्द्रे । ↩︎

  26. एङि पररूपम् - ६.१.९४ अवर्णान्ताद् उपसर्गाद् एङादौ धातौ परे पररूपम् एकादेशः स्यात् । ↩︎

  27. एत्येधत्यूठ्सु - ६.१.८९ अवर्णाद् एजाद्योर् एत्येधत्योर् ऊठि च परे वृद्धिर् एकादेशः स्यात् । ↩︎

  28. शकन्ध्वादिषु पररूपं वाच्यम् (वा) । ↩︎

  29. सीमन्तः केशवेशे (वा) ↩︎

  30. ओत्वोष्ठ्योः समासे (वा) । ↩︎

  31. ओमाङोश्च - ६.१.९५ ओमि आङि च आत् परे पररूपम् एकादेशः स्यात् । ↩︎

  32. अन्तादिवच्च - ६.१.८५ योऽयम् एकादेशः स पूर्वस्यान्तवत् परस्यादिवत् स्यात् । ↩︎

  33. ऋत्यकः - ६.१.१२८ पदान्ताद् अकः ऋति परे प्रकृत्या स्युः, ह्रस्वश्च वा । समासेऽपि अयं प्रकृतिभावः । ↩︎

  34. इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च - ६.१.१२७ पदान्ताद् इकोऽसवर्णेऽचि परे प्रकृत्या स्युः ह्रस्वश्च वा । न समासे । ↩︎

  35. ईदूदेद् द्विवचनं प्रगृह्यम् - १.१.११ ईद्-ऊद्-एदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । ↩︎

  36. अदसोमात् - १.१.१२ अस्यात् पराव् ईदूतौ प्रगृह्यौ स्तः । ↩︎

  37. निपात एकाजनाङ् - १.१.१४ एकोऽच् निपातः आ-वर्ज्यः प्रगृह्यः स्यात् । ↩︎

  38. ओत् - १.१.१५ ओदन्तो निपातः प्रगृह्यः स्यात् । ↩︎