स्वरसन्धयोऽष्टविधाः । तथा हि -
| १. यण्सन्धिः २. यान्तवान्तादेशसन्धिः |
} एतयोः द्वयोः सन्ध्योः पूर्वस्य एकस्यैव वर्णस्य स्थाने आदेशो भवति । |
|---|---|
| ३. गुणसन्धिः ४. वृद्धिसन्धिः ५. सवर्णदीर्घसन्धिः ६. पूर्वरूपसन्धिः ७. पररूपसन्धिः |
} पञ्चस्वपि एतेषु सन्धिषु पूर्वस्य परस्य च स्थाने एकादेशो भवति । |
| ८. प्रकृतिभावः | } अत्र आदेशाभावः । |
१. यण्सन्धिः [*] 1
यण् = य् व् र् ल्
| इ/ई | उ/ऊ | ऋ/ॠ | ऌ | + | असवर्णस्वरः |
|---|---|---|---|---|---|
| य् | व् | र् | ल् |
इ ई उ ऊ ऋ ॠ ऌ इत्येतेभ्यो वर्णेभ्योऽसवर्णे स्वरे परे ‘इ ई’ इत्यनयोः स्थाने यकारः, उ ऊ इत्यनयोः स्थाने वकारः, ऋ ॠ इत्यनयोः स्थाने रकारः (रेफः), ऌकारस्य स्थाने लकारश्च आदेशो भवति । यथा -
i. इ / ई + (असवर्णस्वरः) = य्
१. प्रति + एकम्
प्रत् + य् + एकम् = प्रत्येकम् । (इ = य्)
२. नदी + अत्र
नद् + य् + अत्र = नद्यत्र । (ई = य्)
[*] ‘यण्’ इति प्रत्याहारः । (१० पृष्ठं पश्यन्तु)
[[P19]]
विशेषः
१. वधू + ङस् + आगमन + स् = षष्ठी, कृत्तद्धितसमासाश्च
वधू + आगमन = सुपो धातुप्रातिपदिकयोः
वध् + व् + आगमन = इको यणचि
वध्वागमन + स् = स्वौजसमौट्…
वध्वागमन + अम् = अतोऽम्
वध्वागमनम् = अमि पूर्वः
वध् + ङस् + आगमन + स् = इत्यवस्थायां षष्ठी-समासे प्रातिपदिकसंज्ञायां सुप्प्रत्यययोर् लोपे यण्सन्धौ समुदायात् सुप्रत्यये, अमादेशे, पूर्वरूपे च वध्वागमनम् इति सिद्धं भवति । एषः ‘वध्वागमनम्’ इत्यस्य समस्तस्य पदस्य प्रक्रिया-क्रमः । एतासु प्रक्रियासु यण्सन्धिरपि प्रविष्टः । स च यण् वधू + आगमन इत्यवस्थायां प्रवर्तते, न तु वधू + आगमनम् इत्यवस्थायाम् । सन्धिप्रवृत्त्यनन्तरम् एव सुबुत्पत्तेः । समासे सर्वत्र एषा एव सरणिः शास्त्रीया ।
२. गो + य = गोपयसोर्यत्
ग् + अव् + य = एचोऽयवायावः
गव्य + स् = स्वौजसमौट्…..
गव्य + अम् = अतोऽम्
गव्यम् = अमि पूर्वः ।
गो इति प्रातिपदिकात् ‘य’-प्रत्यये अवादेशे, सुप्रत्यये, अमादेशे, पूर्वरूपे च गव्यम् इति रूपं भवति । अत्रापि गो + य इत्यवस्थायां अवादेशः प्रवर्तते, न तु गो + यम् इत्यवस्थायाम् । सन्धिप्रवृत्त्यनन्तरम् एव सुबुत्पत्तेः । प्रत्यये परे सर्वत्र एषा एव शास्त्रीया सरणिः । किन्तु ग्रन्थेऽस्मिन् एषा सरणिः न आश्रिता ।
अतः वधू + आगमनम् इत्यवस्थायां यणादेशः इति, गो यम् इत्यवस्थायाम् अवादेशः इति च निरूपणं कृतम् ।
इत्थम् एव ग्रन्थेऽस्मिन् सर्वत्र निरूपितम् । तत्र तु कारणं - प्रायः अध्यापन-परिपाटी एव । बालमनोरमादिव्याख्यानेऽपि क्रमोऽयं क्वचित् दृश्यते ।
ii. उ / ऊ + (असवर्णस्वरः) = व्
१. मनु + अन्तरम्
मन् + व् + अन्तरम् = मन्वन्तरम् । (उ = व्)
[[P20]]
२. वधू + आगमनम्
वध् + व् + आगमनम् = वध्वागमनम् । (ऊ = व्)
iii. ऋ / ॠ + (असवर्णस्वरः) = र्2
१. पितृ + इच्छा
पित् + र् + इच्छा = पित्रिच्छा । (ऋ = र्)
iv. ऌ + (असवर्णस्वरः) = ल्
१. घस्ऌ + आदेशः
घस् + ल् + आदेशः = घस्लादेशः । (ऌ = ल्)
अन्यान्युदाहरणानि -
| यदि + अपि = यद्यपि । | इति + अपि = इत्यपि । |
| सुधी + उपास्यः = सुध्युपास्यः । | मधु + अरिः = मध्वरिः । |
| धातृ + अंशः = धात्रंशः । | ऌ + आकृतिः = लाकृतिः । |
| पितृ + अंशः = पित्रंशः । | जननी + आह = जनन्याह । |
| वधू + आसनम् = वध्वासनम् । | अति + उत्तमः = अत्युत्तमः । |
| इति + आचरन्ति = इत्याचरन्ति । | प्रति + अवदत् = प्रत्यवदत् । |
| इति + आक्षिप्तः = इत्याक्षिप्तः । | वस्त्राणि + उत्पादयति = वस्त्राण्युत्पादयति । |
| साधु + इदम् = साध्विदम् । | भवतु + अधुना = भवत्वधुना । |
| स्मरामि + अहम् = स्मराम्यहम् । | पार्वती + अधुना = पार्वत्यधुना । |
| इति + आधुनिकः = इत्याधुनिकः । | व्यसनेषु + असक्तम् = व्यसनेष्वसक्तम् । |
| नास्ति + असाध्यम् = नास्त्यसाध्यम् । |
२. यान्तवान्तादेशसन्धिः3
यान्तौ वान्तौ च = अय् आय् अव् आव्
२.१.
| ए | ऐ | ओ | औ | + | स्वरः |
|---|---|---|---|---|---|
| अय् | आय् | अव् | आव् |
“ए ऐ ओ औ’ इत्येतेभ्यो वर्णेभ्यः स्वरे परे एकारस्य स्थाने अय्, ऐकारस्य स्थाने आय्, ओकारस्य स्थाने अव्, औकारस्य स्थाने आव् च आदेशो भवति ।
[[P21]]
i. ए + (स्वरः) = अय्
- हरे + ए
हर् + अय् + ए = हरये । (ए = अय्) - हरे + आगच्छ
हर् + अय् + आगच्छ = *हरयागच्छ । (ए = अय्)
ii. ऐ + (स्वरः) = आय्
- नै + अकः
न् + आय् + अकः = नायकः । (ऐ = आय्) - तस्यै + इदम्
तस्य् + आय् + इदम् = *तस्यायिदम् । (ऐ = आय्)
iii. ओ + (स्वरः) = अव्
- विष्णो + ए
विष्ण् + अव् + ए = विष्णवे । (ओ = अव्) - गुरो + आदिश
गुर् + अव् + आदिश = *गुरावादिश । (ओ = अव्)
iv. औ + (स्वरः) = आव्
- पौ + अकः
प् + आव् + अकः = पावकः । (औ = आव्) - बालकौ + आगतौ
बालक् + आव् + आगतौ = *बालकावागतौ । (औ = आव्)
अन्यान्युदाहरणानि -
| फले + इच्छा = फलयिच्छा / फल इच्छा | कटे + उपवेशनम् = कटयुपवेशनम् / कट उपवेशनम् |
| जने + उत्कण्ठा = जनयुत्कण्ठा / जन उत्कण्ठा | वदने + औषधम् = वदनयौषधम् / वदन औषधम् |
| तस्मै + एतत् = तस्मायेतत् / तस्मा एतत् | तस्यै + ओदनम् = तस्यायोदनम् / तस्या ओदनम् |
| वै + इह = वायिह / वा इह | द्विषावहै + आर्तिम् = द्विषवहायार्तिम् / द्विषावहा आर्तिम् |
[[P22]]
| करौ + एतौ = करावेतौ / करा एतौ | तौ + एकदा = तावेकदा / ता एकदा |
| बालौ + ओजस्विनौ = बालावोजस्विनौ / बाला ओजस्विनौ | नरौ + उदारौ = नरावुदारौ / नरा उदारौ |
| भानो + इह = भानविह / भान इह | गुरो + उत्साहः = गुरवुत्साहः / गुर उत्साहः |
२.२.4
| ओ | औ | + | यादि-प्रत्ययः |
|---|---|---|---|
| अव् | आव् |
‘यकारादि-प्रत्यये परे ओ औ इत्येतयोः स्थाने क्रमाद् अव् आव् एतौ आदेशौ भवतः ।
i. ओ + (यादिप्रत्ययः) = अव्
गो + यम्
ग् + अव् + यम् = गव्यम् (ओ = अव्)
ii. औ + (यादिप्रत्ययः) = आव्
नौ + यम्
न् + आव् + यम् = नाव्यम् । (औ = आव्)
इदम् अवधेयम्
स्वरसन्धिषु यण्सन्धौ यान्तवान्तादेशसन्धौ च एकस्य (पूर्वस्थितस्य) वर्णस्य स्थाने आदेशो भवति । इदं सन्धिद्वयं विहाय अन्यत्र स्वरसन्धिषु पूर्वपरयोः स्थाने एकादेशो भवति ।
विशेषः - i. ‘पदान्ते* विद्यमानानाम् ‘ए ऐ ओ औ’ इत्येतेषां वर्णानां क्रमाद् अय् आय् अव् आव् एते आदेशाः यदा भवन्ति तदा यकारस्य वकारस्य च विकल्पेन लोपो भवति । लोपे कृते पुनः सन्धिः न करणीयः ।5
१. हरे + आगच्छ = हरयागच्छ / हर आगच्छ । (सवर्णदीर्घः न)
[[P23]]
२. तस्यै + इदम् = तस्यायिदम् / तस्या इदम् । (गुणसन्धिः न)
३. गुरो + आदिश = गुरवादिश / गुर आदिश । (सवर्णदीर्घः न)
४. बालकौ + आगतौ = बालकावागतौ / बालका आगतौ । (सवर्णदीर्घः न)
ii. पदान्ताद् एकाराद् ओकाराच्च अकारे परे पूर्वरूपं* भवति ।
यथा - हरे + अव = हरेऽव
विष्णो + अव = विष्णोऽव
३. गुणसन्धिः 6 7
“गुणः = ए ओ अर् अल्
| अ/आ + इ/ई | अ/आ + उ/ऊ | अ/आ + ऋ/ॠ | अ/आ + ऌ |
|---|---|---|---|
| ए | ओ | अर् | अल् |
‘अ आ इत्येताभ्यां वर्णाभ्याम् इ ई8 इत्येतयोः परयोः एकारः, उ ऊ इत्येतयोः परयोः ओकारः, ऋ ॠ इत्येतयोः परयोः अर्, ऌकारे परे अल् च पूर्वपरयोः स्थाने एकादेशो भवति ।
i. अ/आ + इ/ई = ए
- देव + इन्द्रः
देव् + ए + न्द्रः = देवेन्द्रः । (अ + इ = ए) - गण + ईशः
गण् + ए + शः = गणेशः । (अ + ई = ए) - महा + इन्द्रः
मह् + ए + न्द्रः = महेन्द्रः । (आ + इ = ए) - महा + ईशः
मह् + ए + शः = महेशः । (आ + ई = ए)
[*] पूर्वरूपसन्धिं २५ पृष्ठे पश्यन्तु ।
[[P24]]
ii. अ/आ + उ/ऊ = ओ
- सूर्य + उदयः
सूर्य् + ओ + दयः = सूर्योदयः । (अ + उ = ओ) - एक + ऊनविंशतिः
एक् + ओ + नविंशतिः = एकोनविंशतिः । (अ + ऊ = ओ) - महा + उत्सवः
मह् + ओ + त्सवः = महोत्सवः । (आ + उ = ओ) - महा + ऊर्मिः
मह् + ओ + र्मिः = महोर्मिः । (आ + ऊ = ओ)
iii. अ/आ + ऋ/ॠ9 = अर्
- सप्त + ऋषयः
सप्त् + अर् + षयः = सप्तर्षयः । (अ + ऋ = अर्) - महा + ऋषिः
मह् + अर् + षिः = महर्षिः । (आ + ऋ = अर्)
iv. अ/आ + ऌ = अल्
- तव + ऌकारः
तव् + अल् + कारः = तवल्कारः । (अ + ऌ = अल्) - महा + ऌकारः
मह् + अल् + कारः = महल्कारः । (आ + ऌ = अल्)
अन्यान्युदाहरणानि -
| उप + इन्द्रः = उपेन्द्रः | राम + इति = रामेति |
| परम + ईश्वरः = परमेश्वरः | च + इति = चेति |
| महा + ईश्वरः = महेश्वरः | न + उन्नतः = नोन्नतः |
| रमा + ईशः = रमेशः | हित + उपदेशः = हितोपदेशः |
| गुण + उपेतम् = गुणोपेतम् | गङ्गा + उदकम् = गङ्गोदकम् |
| सुलभ + उपायः = सुलभोपायः | राजा + ऋषिः = राजर्षिः |
| सप्त + ऋषयः = सप्तर्षयः | ब्रह्म + ऋषिः = ब्रह्मर्षिः |
| कृष्ण + ऋद्धिः = कृष्णर्द्धिः | प्रश्न + उत्तरम् = प्रश्नोत्तरम् |
| परम + उत्कृष्टम् = परमोत्कृष्टम् | पर + उपकारः = परोपकारः |
[[P25]]
| पुरुष + उत्तमः = पुरुषोत्तमः | प्राचीना + उक्तिः = प्राचीनोक्तिः |
| धीर + उद्धतः = धीरोद्धतः | परिचयस्य + उद्देशः = परिचयस्योद्देशः |
| जिह्वा + इति = जिह्वेति | न + इच्छति = नेच्छति |
| देव + ऋषिः = देवर्षिः | महा + उद्देशः = महोद्देशः |
४. वृद्धिसन्धिः
वृद्धिः = ऐ, औ, आर्, आल्10
४.१.11
| अ/आ + ए/ऐ | अ/आ + ओ/औ |
|---|---|
| ऐ | औ |
“अ आ’ इत्येताभ्यां वर्णाभ्याम् ‘ए ऐ’ इत्येतयोः परयोः ‘ऐ’कारः, ‘ओ औ’ इत्येतयोः परयोः ‘औकारः’ च, पूर्वपरयोः स्थाने एकादेशो भवति”12 ।
i. अ/आ + ए/ऐ = ऐ
- एक + एकम्
एक् + ऐ + कम् = एकैकम् । (अ + ए = ऐ) - तव + ऐश्वर्यम्
तव् + ऐ + श्वर्यम् = तवैश्वर्यम् । (अ + ऐ = ऐ) - सदा + एव
सद् + ऐ + व = सदैव । (आ + ए = ऐ) - महा + ऐश्वर्यम्
मह् + ऐ + श्वर्यम् = महैश्वर्यम् । (आ + ऐ = ऐ)
ii. अ/आ + ओ/औ = औ
- तस्य + ओदनः
तस्य् + औ + दनः = तस्यौदनः । (अ + ओ = औ) - मम + औषधम्
मम् + औ + षधम् = ममौषधम् । (अ + औ = औ) - गङ्गा + ओघः
गङ्ग् + औ + घः = गङ्गौघः । (आ + ओ = औ)
[[P26]]
- महा + औत्सुक्यम्
मह् + औ + त्सुक्यम् = महौत्सुक्यम् । (आ + औ = औ)
अन्यान्युदाहरणानि -
| कृष्ण + एकत्वम् = कृष्णैकत्वम् | देव + ऐश्वर्यम् = देवैश्वर्यम् |
| वन + औषधम् = वनौषधम् | द्वितीया + एकवचनम् = द्वितीयैकवचनम् |
| अद्य + एव = अद्यैव | दिव्य + औषधम् = दिव्यौषधम् |
| न + एव = नैव | कृष्ण + औत्कण्ठ्यम् = कृष्णौत्कण्ठ्यम् |
| तत्र + एव = तत्रैव | तत्र + एकदा = तत्रैकदा |
| तव + औदार्यम् = तवौदार्यम् | तथा + एव = तथैव |
| मा + एवम् = मैवम् | परम + औचित्यम् = परमौचित्यम् |
| यदा + एव = यदैव | दृष्ट्वा + एतत् = दृष्ट्वैतत् |
| राष्ट्र + ऐक्यम् = राष्ट्रैक्यम् | देवता + एकात्म्यम् = देवतैकात्म्यम् |
| परम + औदार्यम् = परमौदार्यम् | रक्ता + ओषधी = रक्तौषधी |
४.२.
| 13अ/आ + ऋ | 14ए/ऐ + ऌ |
|---|---|
| आर् | आल् |
“अकारान्ताद् आकारान्ताद् वा उपसर्गाद् ऋकारादौ धातौ परे पूर्वपरयोः स्थाने आर् इत्यादेशो भवति ।15 “ॠकारादौ ऌकारादौ सुब्धातौ परे तु विकल्पेन ।16 17
i. अ + ऋ = आर् अ + ऌ = आल्
- उप + ऋच्छति
उप् + आर् + च्छति = *उपाच्छति । (अ + ऋ = आर्) - प्र + ऋषभीयति
प् + आर् + षभीयति = प्रार्षभीयति । (अ + ऋ = आर्)
(प्रर्षभीयति - वृद्धयभावे गुणः)
[[P27]]
- उप + ऌकारीयति
उप् + आल् + कारीयति = उपाल्कारीयति । (अ + ऌ = आल्)
(उपल्कारीयति - वृद्धयभावे गुणः)
विशेषः
i. अधोनिर्दिष्टेषु पूर्वपरयोः स्थाने वृद्धिः भवति -
- “अक्ष + ऊहिनी = अक्षौहिणी ।18
- स्व + ईरिन् = स्वैरी ।
- “प्र + ऊहः = प्रौहः ।19
- प्र + ऊढिः = प्रौढिः ।
- प्र + एष्यः = प्रैष्यः ।
- “स्व + ईरः = स्वैरः ।
- स्व + ईरिणी = स्वैरिणी ।
- प्र + ऊढः = प्रौढः ।
- प्र + एषः = प्रैषः ।
- “प्र + ऋणम् = प्रार्णम् ।20
- वत्सतर + ऋणम् = वत्सतरार्णम् ।
- कम्बल + ऋणम् = कम्बलार्णम् ।
- वसन + ऋणम् = वसनार्णम् ।
- दश + ऋणः = दशार्णः ।
- ऋण + ऋणम् = ऋणार्णम् ।
- दशार्णा (नदी)
ii. “‘अ आ’ इत्येताभ्यां ऋतशब्दे परे पूर्वपरयोः स्थाने आर् आदेशो भवति, एष आदेशः तृतीयासमासे एव ।21 यथा- सुख + ऋतः = सुखार्तः । अत्र सुखेन ऋतः इति विग्रहः । परम + ऋतः = परमर्तः इत्यत्र तु परमश् चासौ ऋतश् चेति विग्रहः । अतोऽत्र गुण एव, न वृद्धिः ।
५. सवर्णदीर्घसन्धिः 22
सवर्णदीर्घाः = आ ई ऊ ॠ
| अ/आ | इ/ई | उ/ऊ | ऋ/ॠ | + | सवर्णस्वरः |
|---|---|---|---|---|---|
| आ | ई | ऊ | ॠ |
“‘अ आ’ इत्येताभ्याम् ‘अ आ’ इत्येतयोः परयोः आकारः, ‘इ ई’ इत्येताभ्याम्
[[P28]]
‘इ ई’ इत्येतयोः परयोः ईकारः, ‘उ ऊ’ इत्येताभ्याम् ‘उ ऊ’ इत्येतयोः परयोः ऊकारः, ‘ऋ’ इत्यस्मात् ‘ऋ ऌ’ इत्येतयोः परयोः ॠकारः, पूर्वपरयोः स्थाने एकादेशो भवति ।23
१. अ/आ + अ/आ = आ
- परम + अर्थः
परम् + आ + र्थः = परमार्थः । (अ + अ = आ) - देव + आलयः
देव् + आ + लयः = देवालयः । (अ + आ = आ) - विद्या + अभ्यासः
विद्य् + आ + भ्यासः = विद्याभ्यासः । (आ + अ = आ) - विद्या + आलयः
विद्य् + आ + लयः = विद्यालयः । (आ + आ = आ)
२. इ/ई + इ/ई = ई
- कवि + इन्द्रः
कव् + ई + न्द्रः = कवीन्द्रः । (इ + इ = ई) - कवि + ईश्वरः
कव् + ई + श्वरः = कवीश्वरः (इ + ई = ई) - पृथिवी + इन्दुः
पृथिव् + ई + न्दुः = पृथिवीन्दुः । (ई + इ = ई) - मही + ईशः
मह् + ई + शः = महीशः । (ई + ई = ई)
३. उ/ऊ + उ/ऊ = ऊ
- भानु + उदयः
भान् + ऊ + दयः = भानूदयः । (उ + उ = ऊ) - साधु + ऊचुः
साध् + ऊ + चु = साधूचुः । (उ + ऊ = ऊ) - वधू + उत्साहः
वध् + ऊ + त्साहः = वधूत्साहः । (ऊ + उ = ऊ) - वधू + ऊर्मिका
वध् + ऊ + र्मिका = वधूर्मिका । (ऊ + ऊ = ऊ)
[[P29]]
४. “ऋ + ऋ/ऌ = ॠ
- पितृ + ऋणम्
पित् + ॠ + णम् = पितॄणम् (ऋ + ऋ = ॠ) - होतृ + ऌकारः
होत् + ॠ + कारः = होतॄकारः । (ऋ + ऌ = ॠ)
अन्यान्युदाहरणानि -
| अल्प + अपराधः = अल्पापराधः | रस + आस्वादः = रसास्वादः |
| विद्या + अभ्यासः = विद्याभ्यासः | विद्या + आलयः = विद्यालयः |
| मुनि + इन्द्रः = मुनीन्द्रः | कवि + ईश्वरः = कवीश्वरः |
| श्री + ईशः = श्रीशः | गुरु + उपदेशः = गुरूपदेशः |
| गुरु + ऊधः = गुरूधः | पितृ + ऋणम् = पितॄणम् |
| होतृ + ऋकारः = होतृकारः | न + अन्यथा = नान्यथा |
| मधुर + अक्षरम् = मधुराक्षरम् | तस्य + आत्मजः = तस्यात्मजः |
| दैत्य + अरिः = दैत्यारिः | विद्या + आतुरः = विद्यातुरः |
| अस्ति + इदम् = अस्तीदम् | दशमी + इति = दशमीति |
| दर्भ + आसनम् = दर्भासनम् | अद्य + अपि = अद्यापि |
६. पूर्वरूपसन्धिः
पूर्वरूपम् = ए ओ
| ए | ओ | + | अ |
|---|---|---|---|
| ए | ओ |
“पदान्ताद् एकाराद् अकारे परे एकारः, पदान्ताद् ओकाराद् अकारे परे ओकारः च पूर्वपरयोः स्थाने एकादेशो भवति ।24
i. ए + अ = ए
अन्ते + अपि
अन्त् + ए + पि = अन्तेऽ*पि । (ए + अ = ए)
ii. ओ + अ = ओ
सो + अयम्
स् + ओ + यम् = सोऽयम् । (ओ + अ = ओ)
[[P30]]
अन्यान्युदाहरणानि -
| ते + अत्र = तेऽत्र | सो + अवदत् = सोऽवदत् |
| को + अपि = कोऽपि | गृहे + अहम् = गृहेऽहम् |
| मात्रे + अर्पितम् = मात्रेऽर्पितम् | रामो + अहसत् = रामोऽहसत् |
| हरे + अव = हरेऽव | मृगो + अस्ति = मृगोऽस्ति |
| गोविन्दो + अतिथिः = गोविन्दोऽतिथिः | मार्गे + अन्यः = मार्गेऽन्यः |
| दीर्घे + अहनि = दीर्घेऽहनि | मे + अन्तिके = मेऽन्तिके |
| सुन्दरे + अम्बरे = सुन्दरेऽम्बरे | रमे + अम्बिके = रमेऽम्बिके |
इदम् अवधेयम्
i. यान्तवान्तादेशसन्धेः अयम् अपवादः ।
ii. “समासे गोशब्दात् ह्रस्वाकारे परे प्रकृतिभावः, पूर्वरूपम्, ‘अव’ इत्यादेशः च भवति, अकारं विहाय अन्येषु स्वरेषु परेषु ओकारस्य अव इति, अव् इति च आदेशो भवति ।25 यथा -
- गो + अग्रम् = गो अग्रम्/गोऽग्रम्/गवाग्रम् ।
- गो + अजिनम् = गो अजिनम्/गोऽजिनम्/गवाजिनम् ।
- गो + उष्ट्रम् = गवोष्ट्रम्/गवोष्ट्रम् ।
- गो + ओदनम् = गवौदनम्/गवोदनम्
गवाक्षः, गवेन्द्रः इत्यत्र तु नित्यम् अवादेशो भवति ।
७. पररूपसन्धिः 26
७.१.
| अ | + | ए | ओ |
|---|---|---|---|
| ए | ओ |
“अवर्णान्ताद् उपसर्गाद् एकारादौ धातौ परे ‘एकारः’, ओकारादौ धातौ परे ‘ओकारः’ पूर्वपरयोः स्थाने एकादेशो भवति । वृद्धेर् अयम् अपवादः ।
i. अ + ए = ए
प्र + एजते
प्र् + ए + जते = प्रेजते । (अ + ए = ए)
[[P31]]
ii. अ + ओ = ओ
उप + ओषति
उप् + ओ + षति = उपोषति । (अ + ओ = ओ)
अस्यापवादः -
“एकारादौ इण्धातौ एध्धातौ च परे पररूपं न । किन्तु वृद्धिर् एव (ऐकारादौ तु पररूपप्राप्तिर् एव नास्ति । अतो वृद्धिः स्वयं सिद्धा) यथा -27
उप + एति = उपैति
प्र + एधते = प्रैधते ।
विशेषः
i. पूर्वोक्तनिमित्ताभावेऽपि वक्ष्यमाणेषु पररूपं प्रवर्तते इति ज्ञेयम् ।
१. शक + अन्धुः = शकन्धुः ।28 २. कर्क + अन्धुः = कर्कन्धुः (अन्धुः = कूपः) ३. कुल + अटा = कुलटा । ४. हल + ईषा = हलीषा । लाङ्गल + ईषा = लाङ्गलीषा । ६. मार्त + अण्डः = मार्तण्डः । “सीमा + अन्तः = सीमन्तः ।29 केशवेशे इत्यर्थे एव पररूपम् । सीमान्तः इत्यत्र तु सवर्णदीर्घः । मनस् + ईषा = मनीषा (अस् + ई = ई) पतत् + अञ्जलिः = पतञ्जलिः (अत् + अ = अ)
ii. “अवर्णान्तात् ओतुशब्दे ओष्ठशब्दे च परे पररूपं विकल्पेन भवति समासे एव ।30 यथा -
स्थूल + ओतुः = स्थूलोतुः/स्थूलौतुः
बिम्ब + ओष्ठः = बिम्बोष्ठः/बिम्बौष्ठः
७.२. अ/आ + ओम् आ(ङ्)31
अकारान्ताद् आकारान्ताद् वा शब्दाद् ओम् इति परे ओकारः, आ(ङ्) इति परे तु (आङ् इत्युपसर्ग एव भवेत् ।) (आ + इ = ए) एकारः (आ + उ = ओ) ओकारः वा, पूर्वपरयोः स्थाने एकादेशः स्यात् । अयम् अपि वृद्धेर् अपवादः ।
i. अ/आ + ओम् = ओ(म्)
- शिवाय + ओं नमः
[[P32]]
शिवाय् + ओं + नमः = शिवायों नमः । [अ + ओ(म्) = ओ(म्)]
का + ओमिति वदति
क् + ओ + मिति वदति = कोमिति वदति । [(आ + ओ(म्) = ओ(म्)]
ii. अ/आ + आ(ङ्) = ए/ओ32
- शिव + आ + इहि
शिव + (ए + हि =) एहि - गुणसन्धिः
शिव + एहि (अत्र एकारे “आत्वम् अस्तीति विभावनीयम्)
शिव् + ए + हि = शिवेहि । [अ + ए (आङ्) = ए] - सदा + आ + इहि
सदा + (ए + हि =) एहि (गुणः)
सदा + एहि (“आत्वम् अस्ति)
सद् + ए + हि = सदेहि । [आ + ए (आङ्) = ए] - अद्य + आ + ऊढा
अद्य + (ओ + ढा =) ओढा (गुणः)
अद्य + ओढा (“आत्वम् अस्ति)
अद्य् + ओ + ढा = अद्योढा [अ + ओ(आङ्) = ओ] - कदा + आ + ऊढा
कदा + (ओ + ढा =) ओढा (गुणः)
कदा + ओढा (“आत्वम् अस्ति)
कद् + ओ + ढा = कदोढा । [आ + ओ (आङ्) = ओ]
८. प्रकृतिभावः
निमित्ते सत्यपि सन्धिकार्याभावः प्रकृतिभावः । स्वभावेन अवस्थितिः प्रकृतिभावः इत्यर्थः । प्रकृत्या = स्वभावेन, भावः = अवस्थितिः । यथा - हरी एतौ इत्यत्र यणो निमित्तस्य सद्भावेऽपि यण् न प्रवर्तते ।
८.१.
i. “पदान्ते विद्यमानानाम् अ आ इ ई उ ऊ ऋ इत्येतेषाम् (अकः) ॠकारे परे प्रकृतिभावो विकल्पेन भवति, प्रकृतिभावपक्षे सति दीर्घस्वरे स ह्रस्वो भवति । समासेऽपि प्रकृतिभावोऽयं प्रवर्तते ।33
ii. “पदस्यान्ते विद्यमानस्य इकः असवर्णेऽचि परे यणादेशः विकल्पेन भवति ।34
[[P33]]
यणभावे प्रकृतिभावः, सति दीर्घे स ह्रस्वश्च भवति । समासे तु नायं प्रकृतिभावः ।
i. - राजा + ऋषिः । (इमे भिन्ने पदे)
राज + ऋषिः = राज ऋषिः ।
राजर्षिः । (गुणसन्धिः)
- राज + ऋषिः = राज ऋषिः । (इदं समस्तं पदम्)
राजर्षिः । (गुणः) - वसन्त + ऋतुः = वसन्तऋतुः (स. प.)
वसन्तर्तुः (गुण) - वर्षा + ऋतुः
वर्ष + ऋतुः = वर्षऋतुः (स. प.)
वर्षर्तुः । (गुणः) - दधि + ऋते = दधि ऋते
दध्यूते । (यण्) - स्त्री + ऋणम्
स्त्रि + ऋणम् = स्त्रि ऋणम् (स. प.)
स्त्र्यृणम् । (यण्) - गुरु + ऋणम् = गुरुऋणम् (स. प.)
गुर्वृणम् । (यण्) - वधू + ऋणम्
वधु + ऋणम् = वधुऋणम् (स. प.)
वध्वृणम् । (यण्) - पितृ + ऋणम् = पितृ ऋणम् (स. प.)
पितॄणम् । (सवर्णदीर्घः)
ii. - दधि + अत्र = दधि अत्र
दध्यत्र । (यण्)
- चक्री + अत्र
चक्रि + अत्र = चक्रि अत्र
चक्र्यत्र (यण्)
[[P34]]
८.२. प्लुतप्रकृतिभावः ।[^34_37]
“प्लुतस्य स्वरे परे नित्यं प्रकृतिभावो भवति । प्लुतः कुत्र प्रयोक्तव्यः इति शास्त्रेणैव ज्ञातव्यम् । प्लुतविधायकानि सूत्राणि बहूनि सन्ति । तेषु एकस्यैवार्थोऽत्र दीयते । तथाहि -
“दूरात् सम्बोधने यद् वाक्यं तस्य वाक्यस्य अन्तिमः स्वरः (व्यञ्जनान्तं चेत् व्यञ्जनात् पूर्वस्थितः) प्लुतो भवति । वाक्यस्यान्ते यत्र सम्बोधनं भवति तत्रैव अयं प्लुतः । प्लुतः वाक्यसम्बन्धीति स्मरणीयम् ।
- आगच्छकृष्ण३ + अत्र गौश् चरति = आगच्छकृष्ण३ अत्र गौश् चरति ।
- गच्छ गौरि३ + असौ तत्रास्ति = गच्छ गौरि३ असौ तत्रास्ति ।
- तिष्ठ वधु३ + एषाप्यागच्छति = तिष्ठ वधु३ एषाप्यागच्छति ।
- शृणु हरे३ + अत्रेयं गोपी = शृणु हरे३ अत्रेयं गोपी ।
- पश्य गुरो३ + एष मां ताडयति = पश्य गुरो३ एष मां ताडयति ।
८.३. प्रगृह्यप्रकृतिभावः ।[^34_36]
प्रगृह्यस्य स्वरे परे नित्यं प्रकृतिभावो भवति ।
प्रगृह्यं नाम काचन संज्ञा । इदं च प्रगृह्यं कुत्र प्रवर्तते इति शास्त्रेणैव ज्ञातव्यम् । केषाञ्चन सूत्राणाम् अर्थः सङ्गृह्यते । तथाहि -
i. “ईकारान्तं ऊकारान्तं एकारान्तं च द्विवचनं प्रगृह्यं भवति ।35
ii. “‘अमी’ इत्यस्य ईकारः प्रगृह्यः भवति ।36
iii. “ओकारान्तम् अव्ययम्, आ”37 इत्यव्ययञ्च (आङ् इति, आ इति द्वे स्तः, तयोर् मध्ये ‘आ’ इत्यव्ययम् एव) प्रगृह्यं भवति ।38
- कवी + एतौ = कवी एतौ । (नात्र यण् ।)
- गुरू + इमौ = गुरू इमौ । (नात्र यण् ।)
- लते + एते = लते एते । (नात्र यान्तादेशः ।)
- पचेते + इमौ = पचेते इमौ । (नात्र यान्तादेशः ।)
- अमी + आश्रमाः = अमी आश्रमाः । (नात्र यण् ।)
- अहो + अत्रभवान् = अहो अत्र भवान् । (नात्र पूर्वरूपम् ।)
- आ + एवं नु मन्यसे = आ एवं नु मन्यसे । (नात्र वृद्धिः ।)
स्वरसन्धिसङ्ग्रहार्थं ४९ तमं पृष्ठं पश्यन्तु ।
[[P35]]
-
इको यणचि - ६.१.७७ इकः स्थाने यण् स्याद् अचि संहितायां विषये । इको यण् स्याद् असवर्णेऽचि परे इति सूत्रस्य फलितोऽर्थः इति ज्ञेयम् । ↩︎
-
ॠकारात् परः असवर्णस्वरः दुर्लभः । तादृशोदाहरणस्य विरलत्वात् । कृ + इति = क्रिति इत्युदाहरणं कथञ्चिद् देयम् । ‘कृ’ इति कश्चन धातुः । ↩︎
-
एचोऽयवायावः - ६.१.७८ एचः क्रमाद् अय् अव् आय् आव् एते स्युर् अचि । ↩︎
-
वान्तो यि प्रत्यये - ६.१.७९ यकारादौ प्रत्यये परे ओदौतोर् अव् आव् एतौ स्तः । ‘गव्यूतिः’ इत्यत्र ‘अध्वपरिमाणे च’ इति वार्तिकेन अवादेशः । ओयते, औयत इत्यादौ ‘धातोस् तन्निमित्तस्यैव’ (६.१.८०) इति नियमात् न अवावौ भवतः । ↩︎
-
लोपः शाकल्यस्य - ८.३.१९ अवर्णपूर्वयोः पदान्तयोर् यवयोर् वा लोपोऽशि परे । पूर्वत्रासिद्धम् - ८.२.१ इति लोपशास्त्रस्य असिद्धत्वात् न स्वरसन्धिः । ↩︎
-
अदेङ्गुणः - १.१.२ अत् एङ् च गुणसंज्ञः स्यात् । ↩︎
-
आद् गुणः - ६.१.८७ अवर्णाद् अचि परे पूर्वपरयोर् एको गुणः आदेशः स्यात् संहितायाम् । अवर्णाद् इकि परे इति सूत्रस्य फलितोऽर्थः इति ज्ञेयम् । ↩︎
-
प्लुते इकारे (इ३) परेऽपि गुणो भवति । एवं प्लुते उकारे अपि । किन्तु तादृशस्य लक्ष्यस्य अत्यन्तं दुर्लभत्वात् निमित्तकोटौ न तौ उपात्तौ । अतः पूर्वरूपसन्धिं विहाय अन्ये सन्धयः प्रवर्तन्ते यदि परस्थाने प्लुतः श्रूयेत इति सर्वेषु स्वरसन्धिषु ज्ञेयम् । ↩︎
-
अकाराद् आकाराद् वा परः ॠकारः दुर्लभः । सप्त + ॠकाराः = सप्तर्कारा इत्यादि कल्पनीयम् । ↩︎
-
वृद्धिरादैच् - १.१.१. आद्-ऐच् च वृद्धिसंज्ञः स्यात् । ↩︎
-
वृद्धिरेचि - ६.१.८८ आद् एचि परे वृद्धिर् एकादेशः स्यात् । ↩︎
-
पररूपसन्धौ ‘अस्यापवादः’ इत्यारभ्य लिखिताः पङ्क्तीः पश्यन्तु । (२७ पृष्ठे) ↩︎
-
आकारान्ताद् उपसर्गात् परः ऋकारादिः ऌकारादिश् च धातुः दुर्लभः । ↩︎
-
प्रैषः, प्रैष्यः इत्येतद्द्वयं विहाय उपाच्छति इत्यारभ्य सुखार्तः इत्यन्तं यावद् गुणः प्राप्तः । गुणापवादत्वेन वृद्धिर् विहिता । प्रैषः प्रैष्यः इत्यत्र तु पररूपं प्राप्तम् । तस्यापवादत्वेन वृद्धिर् विहिता । एषः एष्यः इत्यनयोः धातुनिष्पन्नत्वात् पररूपं प्राप्तम् । ↩︎
-
उपसर्गाद् ऋति धातौ - ६.१.९१ अवर्णान्ताद् उपसर्गाद् ऋकारादौ धातौ परे वृद्धिर् एकादेशः स्यात् । ↩︎
-
वा सुप्यपिशलेः - ६.१.९२ अवर्णान्ताद् उपसर्गाद् ॠकारादौ धातौ परे वृद्धिर् एकादेशो वा स्यात् । ↩︎
-
‘अक्षादूहिन्याम् उपसंख्यानम्’ (वा) - अक्षशब्दाद् ऊहिनीशब्दे परे वृद्धिर् एकादेशः स्यात् । ↩︎
-
‘स्वादीरेरिणोः’ (वा) - स्वशब्दाद् ईरशब्दे ईरिन्शब्दे च परे वृद्धिर् एकादेशः स्यात् । ↩︎
-
‘प्रादूहोढोढ्येषैष्येषु’ (वा) - प्र इत्युपसर्गाद् ऊह, ऊढ, ऊढि, एष, एष्य इत्येतेषु परेषु वृद्धिर् एकादेशः स्यात् । ↩︎
-
‘प्रवत्सतरकम्बलवसनदशार्णानाम् ऋणे’ (वा) - प्र, वत्सतर, कम्बल, वसन, दश, ऋण इत्येतेभ्यः ऋणशब्दे परे वृद्धिर् एकादेशः स्यात् । ↩︎
-
‘ऋते च तृतीयासमासे’ (वा) - तृतीयासमासे अकाराद् ऋतशब्दे परे वृद्धिर् एकादेशः स्यात् । ↩︎
-
अकः सवर्णे दीर्घः - ६.१.१०१ अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । ↩︎
-
सवर्णे परे पूर्वत्र ॠकारस्य ऌकारस्य वा प्रसक्तिः दुर्लभा । नास्त्येव वा । तथैव ॠकारात् परः ॠकारोऽपि दुर्लभः । कृ + ॠकारः इत्येवमादिकं तु कल्पनामात्रम् एव । ↩︎
-
एङः पदान्ताद् अति - ६.१.१०९ पदान्ताद् एङोऽति परे पूर्वरूपम् एकादेशः स्यात् । ↩︎
-
सर्वत्र विभाषा गोः - ६.१.१२२ लोके वेदे च एङन्तस्य गोर् अति वा प्रकृतिभावः स्यात् पदान्ते । अवङ् स्फोटायनस्य - ६.१.१२३ अचि परे पदान्ते गोर् अवङ् वा स्यात् । इन्द्रे च - ६.१.१२४ गोर् अवङ् स्याद् इन्द्रे । ↩︎
-
एङि पररूपम् - ६.१.९४ अवर्णान्ताद् उपसर्गाद् एङादौ धातौ परे पररूपम् एकादेशः स्यात् । ↩︎
-
एत्येधत्यूठ्सु - ६.१.८९ अवर्णाद् एजाद्योर् एत्येधत्योर् ऊठि च परे वृद्धिर् एकादेशः स्यात् । ↩︎
-
शकन्ध्वादिषु पररूपं वाच्यम् (वा) । ↩︎
-
सीमन्तः केशवेशे (वा) ↩︎
-
ओत्वोष्ठ्योः समासे (वा) । ↩︎
-
ओमाङोश्च - ६.१.९५ ओमि आङि च आत् परे पररूपम् एकादेशः स्यात् । ↩︎
-
अन्तादिवच्च - ६.१.८५ योऽयम् एकादेशः स पूर्वस्यान्तवत् परस्यादिवत् स्यात् । ↩︎
-
ऋत्यकः - ६.१.१२८ पदान्ताद् अकः ऋति परे प्रकृत्या स्युः, ह्रस्वश्च वा । समासेऽपि अयं प्रकृतिभावः । ↩︎
-
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च - ६.१.१२७ पदान्ताद् इकोऽसवर्णेऽचि परे प्रकृत्या स्युः ह्रस्वश्च वा । न समासे । ↩︎
-
ईदूदेद् द्विवचनं प्रगृह्यम् - १.१.११ ईद्-ऊद्-एदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । ↩︎
-
अदसोमात् - १.१.१२ अस्यात् पराव् ईदूतौ प्रगृह्यौ स्तः । ↩︎
-
निपात एकाजनाङ् - १.१.१४ एकोऽच् निपातः आ-वर्ज्यः प्रगृह्यः स्यात् । ↩︎
-
ओत् - १.१.१५ ओदन्तो निपातः प्रगृह्यः स्यात् । ↩︎