२ सन्धिप्रकरणम्

(अ) सन्धयः

वर्णानाम् अतिशयितः सन्निधिः सन्धिः । एकस्य वर्णस्य उच्चारणानन्तरम् अपरस्य वर्णस्य उच्चारणम्, ततः तृतीयस्य, ततः चतुर्थस्य इत्येवं क्रमेण शब्दोच्चारणं भवति । द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्राकालात् अपि अधिक-कालेन व्यवधानं यथा न भवेत् (द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्राकालः सह्यते इत्यर्थः) तथा उच्चारणम् एव सन्धिः । एवं सन्धौ सति कदाचिद् वर्णस्य आदेशादिकं भवति । इत्थम् आदेशादिकम् एव सन्धिकार्यम् इत्युच्यते । इदं च सन्धिकार्यं पदस्य मध्ये पदयोर् मध्ये वा सम्भवेत् ।
यथा - १. हरे + ए = हरये । २. इति + अपि = इत्यपि

अत्र आद्ये पदस्य मध्ये, द्वितीये पदयोर् मध्ये सन्धिकार्यं प्रवृत्तम् । लोके तु सन्धिकार्यम् इत्यर्थे सन्धिरिति व्यवहारः क्रियते । अतः सन्धिप्रकरणम् इत्यस्य सन्धिकार्य-प्रकरणम् इत्यर्थः । यण्सन्धिरित्यस्य यण्रूप-सन्धिकार्यम् इत्यर्थः । इत्थञ्च सन्धि-प्रकरणे सन्धिशब्दः सन्धिकार्यपरः इति ज्ञेयम् । आदेशादिकं चतुर्धा सम्भवति - १. आदेशरूपेण २. आगमरूपेण ३. लोपरूपेण ४. प्रकृतिभावरूपेण ।

१. आदेशः
‘योऽभूत्वा भवति सः आदेशः’ इति भाष्यकारेण उक्तम् । पूर्वस्थितम् अक्षरं निरस्य नूतनस्य अक्षरस्य उदयः एव आदेशः । अतः एव शत्रुवद् आदेशः इति वृद्धाः व्यवहरन्ति । अयम् आदेशः पूर्वस्य स्थाने परस्य वा स्थाने स्यात्, पूर्वपरयोः स्थानेऽपि स्यात् । पूर्वपरयोः स्थाने प्रवर्तमानः आदेशः ‘एकादेशः’ इति शब्देन व्यवह्रियते ।
यथा - १. यदि + अपि = यद्यपि । अत्र इकारस्य स्थाने यकारादेशः ।
२. गण + ईशः = गणेशः । अत्र पूर्वपरयोः अकारैकारयोः स्थाने (अ + इ) एकाररूपः एकादेशः ।

२. आगमः
स्थितस्य वर्णस्य पार्श्वेऽपूर्वतया अपरस्य वर्णस्य उत्पत्तिः आगमः ।
मित्रवद् आगमः इति फलितार्थः ।
यथा - पठन् + अस्ति = पठन्नस्ति । अत्र अकारात् पूर्वं अपूर्वः (नूतनः) अपरो नकारः उत्पन्नः ।


[[P17]]

३. लोपः
वर्णस्य अदर्शनं लोपः ।
यथा - १. उभाव् + अपि = उभा अपि । अत्र वकारस्य लोपः ।

४. प्रकृतिभावः
निमित्ते सत्यपि आदेशाभावो विधीयते । सः एव प्रकृतिभावः ।
यथा - हरी + एतौ = हरी एतौ । अत्र यणो निमित्तस्य सद्भावेऽपि यण् न प्रवृत्तः । यणभावोऽत्रास्ति ।

(आ) सन्धिभेदाः

सन्धयस् त्रिविधाः1 - १. स्वर (अच्)-सन्धिः २. व्यञ्जन (हल्)-सन्धिः ३. विसर्गसन्धिश् चेति ।

१. स्वरसन्धिः - स्वरस्य स्थाने आदेशः स्वरसन्धिः ।
यथा - अनु + एषणम् = अन्वेषणम् । अत्र उकारस्य स्थाने आदेशः ।

२. व्यञ्जनसन्धिः - व्यञ्जनस्य स्थाने आदेशः, लोपः, व्यञ्जननिमित्तकागमश् च व्यञ्जनसन्धिः ।
यथा -
जगत् + ईशः = जगदीशः - अत्र तकारस्य स्थाने आदेशः ।
उभाव् + अपि = उभा अपि - अत्र वकारस्य लोपः ।
पचन् + अस्ति = पचन्नस्ति - अत्र व्यञ्जननिमित्तकः आगमः ।

३. विसर्गसन्धिः - विसर्गस्य स्थाने आदेशः ‘लोपश्च विसर्गसन्धिः ।2
यथा -
बालः + तत्र = बालस्तत्र - अत्र विसर्गस्य स्थाने आदेशः ।
वृक्षाः + अत्र = वृक्षा अत्र - अत्र विसर्गस्य लोपः ।

प्रकृतिभावः स्वरसन्धौ, स्वादिसन्धिः विसर्गसन्धौ च अन्तर्भावितः अत्र इति ज्ञेयम् ।


[[P18]]


  1. वैयाकरणाः सन्धीन् पञ्चभिः प्रकारैः विभजन्ते । अच्-सन्धिः, प्रकृतिभावः, व्यञ्जन-सन्धिः, विसर्ग-सन्धिः, स्वादिसन्धिश् चेति । पुस्तकेऽस्मिन् बोधन-सौकर्याय ‘त्रिविधाः सन्धयः’ इति विभागो दर्शितः । अयं पाणिनीयपरिधाव् एवेति ज्ञेयम् । ↩︎

  2. अष्टाध्याय्यां साक्षात् विसर्गस्य लोपो न विहितः । अस्मिन् पुस्तके बोधन-सौकर्याय विसर्गस्य लोपरूपः उपायोऽप्याश्रितः । न तावता पाणिनीयेन विरोधः । लक्ष्यस्य उभयथापि सिद्धेः । अतोऽस्मिन् पुस्तके क्वचिद् उपायान्तराश्रयणं पाणिनीयपरिधाव् एव इति ज्ञेयम् । ↩︎