१ अक्षरप्रकरणम्

(अ) अक्षरम्

  • अक्षरम् - श्रवणेन्द्रियग्राह्यम् अक्षरम् । तच्च कण्ठ-ताल्व्-आद्य्-अभिघातेन अभिव्यज्यते । अक्षरस्यैव नामान्तरं ‘वर्णः’ इति ।
  • संस्कृताक्षराणि - नवपञ्चाशत् (५९)1
  • स्वराः - द्वाविंशतिः (२२)
ह्रस्वाः दीर्घाः प्लुताः
अ३
इ३
उ३
ऋ३
- ऌ३
- ए३
- ऐ३
- ओ३
- औ३
  • अयोगवाहाः - चत्वारः (४)
    • (अं, इं..) अनुस्वारः ।
      : (अः, इः…..) विसर्गः ।
      ᳵ कᳵ ख जिह्वामूलीयः ।
      ᳶ पᳶ फ उपध्मानीयः ।
  • व्यञ्जनानि - त्रयस्त्रिंशत् (२५+८ = ३३)
    i. वर्गीय-व्यञ्जनानि - पञ्चविंशतिः (२५)

    क ख ग घ ङ (कवर्गः)
    च छ ज झ ञ (चवर्गः)


[[P6]]

ट ठ ड ढ ण (टवर्गः)
त थ द ध न (तवर्गः)
प फ ब भ म (पवर्गः)

ii. अवर्गीय-व्यञ्जनानि - अष्ट (८)

य र ल व (अन्तःस्थाः)
श ष स ह (ऊष्माणः)

(आ) अक्षराणां विभागः

१. स्वराः २. अयोगवाहाः ३. व्यञ्जनानि चेति अक्षराणि त्रिविधानि भवन्ति ।

१. स्वराः - द्वाविंशतिः (२२)

स्वराः नाम स्वतन्त्रतया स्पष्टम् उच्चार्यमाणाः वर्णाः ।2 ‘स्वराश्च त्रिविधाः -
१. ह्रस्वस्वराः २. दीर्घस्वराः ३. प्लुतस्वराश् चेति ।3

१.१. हस्वस्वराः
एकमात्रा-कालेन उच्चार्यमाणाः स्वराः ह्रस्वस्वराः इत्युच्यन्ते । यथा - अ इ उ ऋ ऌ (५) एतावन्तः एव ह्रस्वाः । ए ऐ ओ औ इत्येते संस्कृते दीर्घाः एव । न कदापि ह्रस्वाः ।

१.२. दीर्घस्वराः
द्विमात्रेण कालेन उच्चार्यमाणाः स्वराः दीर्घस्वराः ।
यथा - आ ई ऊ ॠ ए ऐ ओ औ (८) दीर्घः ऌकारः नास्ति ।

१.३. प्लुतस्वराः
त्रिमात्रेण कालेन उच्चार्यमाणाः स्वराः प्लुतस्वराः ।
यथा - अ३ इ३ उ३ ऋ३ ऌ३ ए३ ऐ३ ओ३ औ३ (९)
इत्थम् आहत्य द्वाविंशतिः (२२) स्वराः सन्ति ।

  • स्वराणाम् अन्तर्भेदाः -
    i. पूर्वोक्तानां द्वाविंशतेः (२२) स्वराणाम् एकैको ऽपि १. उदात्तः4 २. अनुदात्तः5 ३. स्वरितश् चेति6 त्रिविधो भवति ।

[[P7]]

वेदोच्चारणे उदात्तादीनाम् अभिज्ञानं सुकरम् । एतान् उदात्तादीन् वेद-पुस्तकेषु इत्थं प्रदर्शयन्ति । यथा -
१. उदात्तः - अक्षराणाम् अधस्ताद् उपरिष्टाद् वा कापि रेखा न भवति ।
यथा - अ इ उ…
२. अनुदात्तः - अक्षराणाम् अधस्ताद् ‘-’ एषा रेखा भवति । यथा ॒अ ॒इ ॒उ…
३. स्वरितः - अक्षराणाम् उपरिष्टाद् ‘।’ एषा रेखा भवति ।
यथा - अ॑ इं॑ उं॑

स्पष्टप्रतिपत्तये ऋगेषा प्रदर्श्यते ।

अ॒ग्निर् ईळे पुरोहि॑तम् । य॒ज्ञस्य॑ दे॒वम् ऋत्विज॑म् ।

ii. द्वाविंशतेः स्वराणाम् एकैको ऽपि उदात्तः, अनुदात्तः, स्वरितश् चेति त्रिविधो भवति इत्युक्तम् । एवञ्च सर्वे स्वराः उदात्ताः, अनुदात्ताः, स्वरिताश् चेति त्रिविधाः भवन्ति इति फलितो ऽर्थः । एते त्रिविधाः अपि प्रत्येकम् अनुनासिकाः अननुनासिकाश् चेति द्विविधाः भवन्ति । एवञ्च ह्रस्वः षोढा, दीर्घः षोढा, प्लुतश्च षोढा इति फलितम् ।

१. अनुनासिकाः7
मुख-सहित-नासिकया उच्चार्यमाणवर्णाः अनुनासिकाः ।
यथा - अँ इँ उँ… (ङ् ञ् ण् न् म्)
व्यञ्जनेषु ‘ङ् ञ् ण् न् म्’ इत्येतानि पञ्च व्यञ्जनानि नित्यम् अनुनासिकाः । यँ लँ वँ (यलव) इत्येतानि त्रीणि व्यञ्जनानि अनुनासिकान्यपि अननुनासिकान्यपि इति विशेषः ।

२. अननुनासिकाः
नासिकां विना कण्ठादिना उच्चार्यमाणाः वर्णाः अननुनासिकाः ।
यथा - अ इ उ …. (क् च्…)

पूर्वोक्तानां स्वर-विषयाणाम् एष सङ्ग्रहः ।
अ इ उ ऋ ऌ इत्येते पञ्चैव ह्रस्वस्वराः । संस्कृते ‘ए ऐ ओ औ’ इत्येते नित्यं दीर्घाः एव, कदापि ह्रस्वाः न । आ ई ऊ ॠ ए ऐ ओ औ इत्येते अष्टावेव दीर्घस्वराः । दीर्घ-ऌकारः नास्ति । अ३ इ३ उ३ ऋ३ ऌ३ ए३ ऐ३ ओ३ औ३ इत्येते नवैव प्लुतस्वराः । इत्थम् आहत्य द्वाविंशतिः स्वराः भवन्ति ।


[[P8]]

उदात्तादीनां स्पष्टप्रतिपत्तये ते इत्थं सङ्गृह्य प्रदर्श्यन्ते ।

ह्रस्वस्वराः
अ इ उ ऋ ऌ (५)
दीर्घस्वराः
आ ई ऊ ॠ
ए ऐ ओ औ (८)
प्लुतस्वराः
अ३ इ३ उ३ ऋ३
ऌ३ ए३ ऐ३ ओ३ औ३ (९)
(ह्रस्वभेदाः) (दीर्घभेदाः) (प्लुतभेदाः)
उदात्तानुनासिकः उदात्तानुनासिकः उदात्तानुनासिकः
उदात्ताननुनासिकः उदात्ताननुनासिकः उदात्ताननुनासिकः
अनुदात्तानुनासिकः अनुदात्तानुनासिकः अनुदात्तानुनासिकः
अनुदात्ताननुनासिकः अनुदात्ताननुनासिकः अनुदात्ताननुनासिकः
स्वरितानुनासिकः स्वरितानुनासिकः स्वरितानुनासिकः
स्वरिताननुनासिकः स्वरिताननुनासिकः स्वरिताननुनासिकः

एवञ्च अ इ उ ऋ इत्येतेषां प्रत्येकम् अष्टादश भेदाः । ऌकारस्य द्वादश । तस्य दीर्घाभावात् । एचाम् अपि द्वादश । तेषां ह्रस्वाभावात् ।

२. ‘अयोगवाहाः - चत्वारः (४)

माहेश्वर-सूत्रेषु अनुच्चारिताः अपि प्रयोगं ये निर्वाहयन्ति ते अयोगवाहाः ।8 ‘अइउण्’ इत्यादीनि चतुर्दश सूत्राणि महेश्वरेण पठितानि । तत्र वक्ष्यमाणाः अनुस्वारादयः नोक्ताः । किन्तु ते प्रयोगे श्रूयन्ते । अतः माहेश्वर-सूत्रेषु अयुक्ताः सन्तः (सम्बन्धम् अप्राप्ताः) प्रयोगं निर्वाहयन्तीति अयोगवाहाः इति अन्वर्थं नाम । एते च अयोगवाहाः १. अनुस्वारः २. विसर्गः ३. जिह्वामूलीयः ४. उपध्मानीयश् चेति चतुर्विधाः सन्ति ।

२.१. अनुस्वारः
स्वरेभ्यः परः एव नासिकया अनुस्वारः उच्चार्यते । अनुस्वारस्य चिह्नं स्वरस्योपरि बिन्दुरूपेण ( ं) लिख्यते । यथा - अं इं…. ।

२.२. विसर्गः
स्वरेभ्यः पर एव तत्तत्-स्वर-स्थानेन विसर्गोऽपि उच्चार्यते । विसर्गस्य चिह्नं स्वरात् परं बिन्दुद्वयरूपेण (:) लिख्यते ।


[[P9]]

२.३. जिह्वामूलीयः
ᳵ कᳵ ख इति क-खाभ्यां प्राग्-अर्ध-विसर्ग-सदृशः जिह्वामूलीयः ।
यथा - बालःᳵ करोति । चैत्रःᳵ खनति ।

२.४. उपध्मानीयः
ᳶ पᳶ फ इति प-फाभ्यां प्राग्-अर्ध-विसर्ग-सदृशः उपध्मानीयः ।
यथा - बालःᳶ पिबति । वृक्षःᳶ फलति ।

एते चत्वारः अयोगवाहाः स्वरत्वेन व्यञ्जनत्वेनापि परिगण्यन्ते ।

३. “व्यञ्जनानि9

स्वरेण सह व्यञ्जनानि उच्चार्यन्ते । यथा- क च ट तु प इति । व्यञ्जनानां सुखोच्चारणार्थं स्पष्टप्रतिपत्तये च स्वरेण सह व्यञ्जनस्य (क् + अ = क) उच्चारणम् । अतः ‘क च ट तु प’ इत्येवम् उच्चारितेऽपि ‘क् च् ट् त् प्’ इत्येतानि स्वर-रहितान्य् एव व्यञ्जनानि इति ज्ञेयम् ।10 तस्मात् ‘यकारादेशो भवति’, ‘वकारादेशो भवति’ इत्यादेः ‘य्’ इत्यादेशः ‘व्’ इत्यादेशो भवतीत्यर्थः ।
व्यञ्जनानि च - १. वर्गीय-व्यञ्जनानि २: अवर्गीय-व्यञ्जनानि चेति द्विधा ।

३.१. वर्गीय-व्यञ्जनानि (स्पर्शाः) (२५)
ककाराद् आरभ्य मकारान्तं यावत् पञ्चविंशतिः अक्षराणि सन्ति । एतेषु क्रमात् पञ्च गणाः सन्ति । एकैको ऽपि गणः क्रमात् पञ्चाक्षरात्मकः । पञ्चाक्षरात्मकाः पञ्च गणाः एव क्रमाद् कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गश् चेति व्यवह्रियन्ते । अत एव एतानि वर्गीय-व्यञ्जनानि इत्यभिधीयन्ते । वर्गीय-व्यञ्जनानाम् एव नामान्तरं ‘स्पर्शः’ इति । एते पञ्च वर्गाः क्रमात् कु चु टु तु पु शब्दैरपि व्याकरणशास्त्रे व्यवहृताः । अतः कु = कवर्गः, चु = चवर्गः, टु = टवर्गः, तु = तवर्गः, पु = पवर्गः इति ज्ञेयम् ।

३.२. अवर्गीय-व्यञ्जनानि (अन्तःस्थाः + ऊष्माणः च) (८)
य र ल व श ष स ह इत्यष्टौ व्यञ्जनानि पृथक्-पृथग् एव सन्ति । अतः कमपि वर्गं न प्रविष्टानि । अत एव एतानि अवर्गीय-व्यञ्जनानि इत्युच्यन्ते । एतेषु


[[P10]]

‘यरलव’ इत्येते चत्वारः ‘अन्तःस्थाः’ इति, ‘शषसह’ इत्येते चत्वारः ‘ऊष्माणः’ इति च व्यवह्रियन्ते ।
इत्थं पञ्चविंशतिः वर्गीय-व्यञ्जनानि, अष्टौ अवर्गीय-व्यञ्जनानि चेति आहत्य त्रयस्त्रिंशत् (३३) व्यञ्जनानि भवन्ति ।

सन्ध्यादेः नियमानां कथन-सौलभ्यार्थं १. मृदु-व्यञ्जनानि11 २. कर्कश-व्यञ्जनानि चेत्यपि व्यञ्जनानि विभज्य व्यवह्रियन्ते ।

i. मृदु-व्यञ्जनानि (हश्)12
एकैकस्यपि वर्गस्य अन्तिमास् त्रयो वर्णाः (गघङ, जझञ, डढण, दधन, बभम) य र ल व ह इति पञ्च वर्णाश्च मृदु-व्यञ्जनानि । एते वर्णा एव ‘हश्’ प्रत्याहारान्तर्गताः भवन्ति । अतः मृदु-व्यञ्जनानि नाम ‘हश्’ प्रत्याहारः एव ।

ii. कर्कश-व्यञ्जनानि (खर्)12
एकैकस्यपि वर्गस्य आद्यौ द्वौ वर्णौ (कख, चछ, टठ, तथ, पफ) शषस इति त्रयो वर्णाश्च कर्कश-व्यञ्जनानि । एते वर्णाः एव ‘खर्’ प्रत्याहारान्तर्गताः भवन्ति । अतः कर्कश-व्यञ्जनानि नाम ‘खर्’-प्रत्याहारः एव ।

तथा च द्वाविंशतिः (२२) स्वराः, चत्वारः (४) अयोगवाहाः, त्रयस्त्रिंशद् (३३) व्यञ्जनानि चेति आहत्य नवपञ्चाशत् (२२+४+३३=५९) अक्षराणि सन्ति ।

(इ) स्थानानि प्रयत्नाश्च

  • स्थानानि - अष्ट (८)
    वर्णाभिव्यक्तिप्रदेशः स्थानम् । कण्ठः, तालु, मूर्धा, दन्तः, ओष्ठौ, नासिका, जिह्वामूलम्, उरश् चेति अष्टौ स्थानानि । यदा शब्दप्रयोगेच्छा भवति तदा कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति ।13 एवं तत्तत्-स्थानेषु अभिव्यक्ताः वर्णाः कण्ठ्यः, तालव्यः इत्येवं शब्दैरपि व्यवह्रियन्ते ।
    वर्णाः, तत्तद्-वर्णानां स्थानानि, तत्तत्स्थानोत्पन्नवर्णानां नामानि च इह सङ्गृह्य प्रदर्श्यन्ते । तथाहि -

[[P11]]

वर्णाः उत्पत्तिस्थानानि स्थानजन्यवर्णनामानि
अ आ अ३ क ख ग घ ङ ह विसर्गः (:) 14 कण्ठः कण्ठ्यः
इ ई इ३ च छ ज झ ञ य श तालु तालव्यः
ऋ ॠ ऋ३ ट ठ ड ढ ण र ष मूर्धा मूर्धन्यः
ऌ ऌ३ त थ द ध न ल स दन्ताः दन्त्यः
उ ऊ उ३ प फ ब भ म उपध्मानीयः (ᳶपᳶफ) ओष्ठौ ओष्ठ्यः
ङ ञ ण न म नासिका+कण्ठादिः अनुनासिकः
ए ऐ कण्ठतालु कण्ठतालव्यः
ओ औ कण्ठोष्ठम् कण्ठोष्ठ्यः
दन्तोष्ठम् दन्तोष्ठ्यः
जिह्वामूलीयम् (ᳵकᳵख) जिह्वामूलम् जिह्वामूलीयः
अनुस्वारः नासिका -
“हृ” “हॄ” ह्र ह्म ह्य ह्ण ह्व उरः औरस्यः 15

कण्ठतालु, कण्ठोष्ठं, दन्तोष्ठम् इति त्रीणि न पृथक् स्थानानि । अष्टसु स्थानेष्वेव अन्तर्भूतानि । किन्तु ‘ए’कारादयः द्वयोः स्थानयोः उत्पद्यन्ते ।

  • प्रयत्नाः (५+११=१६)
    यदा शब्दप्रयोगेच्छा भवति तदा कायाग्निना नाभिदेशात् प्रेरितः प्राणवायुः ऊर्ध्वम् आक्रामन् मूर्धपर्यन्तं गत्वा प्रतिनिवर्तते । प्रतिनिवृत्तः स वायुः मुखं प्राप्य कण्ठादिस्थानानि आहत्य वर्णान् अभिव्यनक्ति । ततः स एव वायुः गलविवर-विकासादीन् करोति । एवञ्च जिह्वाग्र-मध्य-मूलैः कण्ठादिस्थानाभिघातार्थं, गलविवर-विकासाद्य्-अर्थं च वायोः सहायभूता क्रिया एव ‘प्रयत्नः’ इत्युच्यन्ते । एष प्रयत्नो द्विधा - १. आभ्यन्तरः २. बाह्यश् चेति ।

१. आभ्यन्तर-प्रयत्नः
ओष्ठात् प्रभृति16 काकलकपर्यन्तम् आस्यमिति व्यवहारः । तत्र स्थितानां स्थानानाम् अभिघातकाः प्रयत्नाः आभ्यन्तराः इत्युच्यन्ते । आस्यान्तर्गतत्वात् एतेषां प्रयत्नानाम् आभ्यन्तरत्वम् । अत एव एते आभ्यन्तर-प्रयत्नाः । आभ्यन्तर-प्रयत्नश्च पञ्चधा -17


[[P12]]

१. स्पृष्टः २. ईषत्स्पृष्टः ३. ईषद्विवृतः ४. विवृतः ५. संवृतश् चेति । केषां वर्णानां के प्रयत्नाः इति इह प्रदर्श्यन्ते । यथा -

आभ्यन्तर-प्रयत्नाः स्पृष्टः ईषत्स्पृष्टः ईषद्विवृतः विवृतः संवृतः
वर्णाः वर्गीय-व्यञ्जनानि (स्पर्शाः) य र ल व (अन्तःस्था) श ष स ह (ऊष्माणः) स्वराः (अचः) अ (प्रयोगे एव)[^12_*]

इदम् अवधेयम् -
येषाम् अक्षराणां स्थानानि आभ्यन्तर-प्रयत्नाश् च समानाः तानि सवर्णानि इत्युच्यन्ते । यथा - इ ई इ३ इत्येतेषां स्थानं तालु, आभ्यन्तर-प्रयत्नश्च विवृतः इति तानि परस्परं सवर्णानि भवन्ति ।18

२. बाह्य-प्रयत्नः
ओष्ठात् प्रभृति काकलकपर्यन्तम् आस्यम् इति उच्यते इत्युक्तम् । काकलकाधस्तात् गलविवर-विकासादिकराः बाह्य-प्रयत्नाः । आस्याद् बहिर्भूतत्वात् एतेषां बाह्यत्वेन व्यवहारः । बाह्य-प्रयत्नाश्चैकादशधा - १. विवारः, २. संवारः, ३. श्वासः, ४. नादः, ५. घोषः, ६. अघोषः, ७. अल्पप्राणः, ८. महाप्राणः, ९. उदात्तः, १०. अनुदात्तः, ११. स्वरितः चेति ।
एतेषु बाह्य-प्रयत्नेषु अन्तिमास् त्रयः प्रयत्नाः केवलं स्वरसम्बद्धाः । ते च पूर्वम् उक्ताः । अवशिष्टाः अष्टौ प्रयत्नाः व्यञ्जनसम्बद्धाः । केषां व्यञ्जनानां के प्रयत्नाः इति इह प्रदर्श्यते । यथा -

बाह्य-प्रयत्नाः वर्णाः
विवारः, श्वासः, अघोषः कख, चछ, टठ, तथ, पफ, श ष स
[कर्कश-व्यञ्जनानि (खर्)]
संवारः, नादः, घोषः गघङ, जझञ, डढण, दधन, बभम,
य र ल व ह [मृदु-व्यञ्जनानि (हश्)]

[[P13]]

अल्पप्राणः कगङ, चजञ, जडण, तदन, पबम, यरलव
[वर्गाणां प्रथम-तृतीय-पञ्चमाः अन्तःस्थाश्च (यणः)]
महाप्राणः खघ, छझ, ठढ, थध, फभ, शषसह
[वर्गाणां द्वितीय-चतुर्थौ, ऊष्माणश्च (शल्)]

पूर्व-प्रदर्शितेषु कोष्ठकेषु निर्दिष्टानाम् एष मथितार्थः -

कर्कश-व्यञ्जनानां (‘खर्’-वर्णानाम्) विवारः श्वासः अघोषश् चेति त्रयः प्रयत्नाः । मृदु-व्यञ्जनानां (‘हश्’-वर्णानाम्) संवारः, नादः, घोषश् चेति त्रयः प्रयत्नाः । पुनरपि वर्गाणां प्रथम-तृतीय-पञ्चमानां यरलवानाञ्च अल्पप्राणः । वर्गाणां द्वितीय-चतुर्थयोः शषसहां च महाप्राणः । अतः एकैकस्यापि व्यञ्जनस्य सम्बन्धिनः चत्वारो बाह्य-प्रयत्नाः भवन्ति । यथा -
‘क’कारस्य - १. विवारः २. श्वासः ३. अघोषः ४. अल्पप्राणः
‘ख’कारस्य - १. विवारः २. श्वासः ३. अघोषः ४. महाप्राणः
‘ज’कारस्य - १. संवारः २. नादः ३. घोषः ४. अल्पप्राणः
‘झ’कारस्य - १. संवारः २. नादः ३. घोषः ४. महाप्राणः

एष सङ्ग्रहः ‘स्थानानि प्रयत्नाश्च’ इति विभागे प्रदर्शितानाम् एष संक्षेपः । एतानि वाक्यानि19 कण्ठगतानि यदि भवन्ति तर्हि वर्णानां स्थान-प्रयत्न-विवेकः सुकरः । तथाहि -

१. स्थानानि -
अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । ऌतुलसानां दन्ताः । उपूपध्मानीयानाम् ओष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । पञ्चम-वर्णैर् यणा वा युक्तस्य हकारस्य उरः ।

२. प्रयत्नाः -
प्रयत्नो द्विधा - आभ्यन्तरो बाह्यश् च ।
i. आभ्यन्तरः पञ्चधा - स्पृष्ट-ईषत्स्पृष्ट-ईषद्विवृत-विवृत-संवृत-भेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टम् अन्तःस्थानाम् । ईषद्विवृतम् ऊष्मणाम् । विवृतं स्वराणाम् । ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम् ।


[[P14]]

ii. बाह्य-प्रयत्नस् त्व् एकादशधा -
विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्त अनुदात्तः स्वरितश् चेति । तत्र खरो विवाराः श्वासाः अघोषाश् च । हशः संवारा नादाः घोषाश् च । वर्गाणां प्रथम-तृतीय-पञ्चमाः यणश् चाल्पप्राणाः । वर्गाणां द्वितीय-चतुर्थौ शलश्च महाप्राणाः ।20

(ई) माहेश्वरसूत्राणि

यानि चतुर्दश सूत्राणि आश्रित्य समस्तं व्याकरणं प्रवृत्तं, तानि ‘अक्षरसमाम्नाय’ इति शब्देन व्यवह्रियन्ते । महेश्वराद् इमानि चतुर्दश सूत्राणि समधिगतानि इति कृत्वा तानि माहेश्वरसूत्राणि इति लोके प्रसिद्धिं गतानि ।

इमानि च तानि चतुर्दश माहेश्वरसूत्राणि -
१. अइउण् २. ऋऌक् ३. एओङ्
४. ऐऔच् ५. हयवरट् ६. लण्
७. ञमङणनम् ८. झभञ् ९. घढधष्
१०. जबगडदश् ११. खफछठथचटतव् १२. कपय्
१३. शषसर् १४. हल्

एतेषु चतुर्दशसु सूत्रेष्वपि स्वर-रहितम् एकैकं व्यञ्जनम् अन्ते श्रूयते । एतादृशेन अन्तिम-वर्णेन सह आदिम-वर्णः यदि उच्चार्यते तर्हि तद्-अन्तिमं व्यञ्जनं विहाय सर्वे वर्णाः गृहीताः भवन्ति । यथा - ‘अइउण्’ इति सूत्रस्थः ‘अ’कारः ‘ऐऔच्’ इति सूत्रस्थेन अन्तिम-व्यञ्जनेन ‘च’कारेण सह यद्युच्चार्यते तदा अच् इति श्रूयते । तदा ‘अच्’ इति पदात् ‘अ इ उ ऋ ऌ ए ओ ऐ औ’ इति वर्णाः उपस्थिताः भवन्ति । एवम् उपसंहृत्य व्यवहृतः शब्दः ‘प्रत्याहारः’ इति शब्देन व्याकरणे प्रथितः । स्पष्टप्रतिपत्तये केचन प्रत्याहाराः विवृत्य प्रदर्श्यन्ते । तथाहि -

  • अक् - अ इ उ ऋ ऌ
  • यण् - य् व् र् ल्
  • जश् - ज् ब् ग् ड् द्
  • चर् - च् ट् त् क् प् श् ष् स्
  • अच् - सर्वे स्वराः
  • हल् - सर्वाणि व्यञ्जनानि

[[P15]]

प्रत्याहारे द्वयम् इदं स्मरणीयम् -

१. सूत्राणाम् अन्ते विद्यमानानां स्वर-रहितानां व्यञ्जनानां ग्रहणं न भवति । यथा - अक् । अत्र अ इ उ ऋ ऌ इत्येतेषां ग्रहणं भवति, न तु णकार-ककारयोर् ग्रहणम् ।
२. आदिमः वर्णो नाम सूत्रेषु आदिमत्वेन श्रूयमाणः एव वर्णः इति न नियमः । अस्माभिः आदिमत्वेन विवक्षितः इति ज्ञेयम् ।
यथा - इक्, यण्, रल्, चर्…

*****


[[P16]]


  1. ‘त्रिषष्टिश् चतुःषष्टिर् वा वर्णाः शम्भुमते मताः’ इति पाणिनीयशिक्षानुरोधेन त्रिषष्टिः (६३) चतुःषष्टिः (६४) वा वर्णाः सन्ति । ५९ वर्णैः सह वेदे श्रूयमाणाः चत्वारो यमवर्णाः यदि योज्यन्ते तदा त्रिषष्टिः (६३) । एतैः सह यदि ‘ळ’कारोऽपि योज्यते तदा चतुःषष्टिः (६४) वर्णाः भवन्ति । अत्र अक्षर-मालायां न ते पञ्च वर्णाः प्रदर्शिताः । अत ५९ वर्णाः इति लिखितम् । ‘क्ष ज्ञ’ इत्येते न पृथग् अक्षरे । ककार-षकारयोर् योगे क्षः, जकार-ञकारयोर् योगे ज्ञः इति ज्ञेयम् । ↩︎

  2. स्वयं राजन्ते इति स्वराः । (१.२.३० सूत्रे महाभाष्ये) ↩︎

  3. ऊकालोज्झस्वदीर्घप्लुतः - १.२.२७ उश्च ऊश्च ऊ३श्च वः । वां काल इव कालो यस्य सोऽच् क्रमात् ह्रस्वदीर्घप्लुतसंज्ञः स्यात् । ↩︎

  4. उच्चैर् उदात्तः - १.२.२९ ताल्वादिषु सभागेषु ऊर्ध्वभागे निष्पन्नोऽच् उदात्तसंज्ञः स्यात् । ↩︎

  5. नीचैर् अनुदात्तः - १.२.३० ताल्वादिषु सभागेषु अधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यात् । ↩︎

  6. समाहारः स्वरितः - १.२.३१ उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन् सोऽच् स्वरितसंज्ञः स्यात् । ↩︎

  7. मुखनासिकावचनो ऽनुनासिकः - १.१.८ मुख-सहित-नासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । ↩︎

  8. न विद्यते योगः (योगः=सम्बन्धः) येषां (माहेश्वर-सूत्रेषु) ते अयोगाः । वहन्तीति-वाहाः । अयोगाश् च ते वाहाश् च-अयोगवाहाः । ↩︎

  9. अन्वग् भवतीति व्यञ्जनम् । (१.२.३. सूत्रे महाभाष्ये) (अन्वग्भवति=अनुगच्छति अज्गुणम्) कैयटोक्तयस् तु - गतिरपि व्यञ्जेरर्थः । विविधम् उदात्तत्वादिनानाप्रकारं, गच्छति अजुपरागवशाद् इति व्यञ्जनमिति - लिखितम् । ↩︎

  10. न पुनरन्तरेणाच्-अं व्यञ्जनस्योच्चारणमपि भवति । (१.२.३० सूत्रे महाभाष्ये) ↩︎

  11. अष्टाध्याय्यां मृदु-व्यञ्जनानि कर्कश-व्यञ्जनानि इति शब्दाभ्यां व्यवहारो न कृतः । कन्नडादिभाषासु अधुनातनैर् व्यवहारः कृतः । एतावपि संस्कृतशब्दाव् एव इति कृत्वा अत्र उपात्तौ । ↩︎

  12. दशमं (१०) पृष्ठं पश्यन्तु । ↩︎ ↩︎

  13. ‘अयोगवाहा विज्ञेया आश्रय-स्थान-भागिनः’ इति पाणिनीयशिक्षानुरोधेन यदि विसर्गः इकारादेः परो भवति तदा विसर्गस्य तत्तत्-स्वराणाम् एव स्थानमिति लघुशब्देन्दुशेखरे उक्तम् । ↩︎

  14.  ↩︎
  15. ‘हृ हॄ’ एतौ पदावयवत्वेन किं श्रूयेते ? इति विद्वद्भिः चिन्तनीयम् । ↩︎

  16. काकलको नाम चुबुकस्य अधस्ताद् ग्रीवायाम् उन्नतप्रदेशः । ↩︎

  17. सावर्ण्यचिन्तनप्रसङ्गे तु अकारस्य विवृतः एव प्रयत्नः । ↩︎

  18. सर्वेषां स्वराणां स्व-स्व-भेदैः ह्रस्व-दीर्घ-प्लुतैः सह परस्परं सावर्ण्यं भवति । अकारस्य इकारस्य, इकारस्य उकारस्य वा परस्परं सावर्ण्यं न भवति । सर्वेषां विजातीयानां स्वराणां स्थानभेदात् । वर्गीय-व्यञ्जनेषु स्व-स्व-वर्ग-वर्णैः सह परस्परं सावर्ण्यं भवति । यथा - क ख ग घ ङ इत्येतेषां परस्परं सावर्ण्यम् अस्ति - इति फलितोऽर्थः । ऋ-ऌ-वर्णयोः स्थानभेदे सत्यपि परस्परं सावर्ण्यम् अस्ति । ‘ऋ-ऌ-वर्णयोर् मिथः सावर्ण्यं वाच्यम्’ इति वार्तिकम् अत्र प्रमाणम् । ↩︎

  19. कौमुद्याः पङ्क्तयः एव प्रायोऽत्र लिखिताः । ↩︎

  20. पाणिनीयशिक्षायाम् अक्षराणि, तेषां भेदाः, अक्षराणां स्थानानि, प्रयत्नाश् चेत्येवमादयः विषयाः उक्ताः । अक्षराणाम् उच्चारण-प्रक्रियापि दर्शिता । अहो ! भाषाविषये अस्मदीयानां सूक्ष्मेक्षिका !! ↩︎