प्रस्तावना

(प्रथममुद्रणस्य)

सन्धिज्ञानम् अन्तरा संस्कृतक्षेत्रे अध्ययनं दुष्करम् एव । पद्ये गद्ये वा पदच्छेदादिकं विना कथं वा अर्थः अवगम्येत ? पदच्छेदः सन्धिज्ञानमूलः ।

‘दैनन्दिन-व्यवहारे सन्धिं विनापि व्यवहारः कर्तुं शक्यते’ इति भासते कदाचित् । किन्तु सन्धिविषये उपेक्षा प्रदर्शिता चेत् निश्चयेन वयम् अपशब्द-प्रयोक्तारः स्याम कदाचित् । समासादिषु सन्धिः नित्यः । व्यवहारे वयं सौकर्यानुगुणं समस्तपदानाम् अपि उपयोगं कुर्मः एव । तत्समये सन्धिज्ञानं विना कथं वा व्यवहारनिर्वाहः शक्येत ?

कौमुद्यादिग्रन्थेषु सन्धीनां निरूपणं प्रक्रिया-सहितम् उपलभ्यते एव । तथापि प्राप्त-स्नातकोत्तरपदवीकाः अपि अत्र व्यामोहं प्राप्नुवन्ति क्वचित् । क्वचिच्च प्रक्रियाजालं सन्देह-गर्ते पातयति अस्मान् । त्रिपाद्यां विद्यमानानां विसर्गसन्धि-सूत्राणां पौर्वापर्यज्ञानं सुलभावगम्यं नास्तीत्य् अतः विसर्गसन्धि-प्रकरणे बहूनां विभ्रमः । अयोगवाह-स्थान-प्रयत्नादिशब्दानां को वा अर्थः इति सन्देहः बाधते बहून् । यतः तादृशानां पदानाम् अर्थः कौमुद्यादीनाम् अध्ययन-मात्रेण न अवगम्यते ।

एतादृशान् सर्वान् अंशान् मनसि निधाय संस्कृताध्यापकानां जिज्ञासूनां च उपकाराय एषः ‘सन्धि’-सङ्ग्रहः आरचितः अस्ति । विस्तृतं विवरणं, शास्त्रीया टिप्पणी, असन्दिग्धः निरूपण-क्रमः च एतस्य पुस्तकस्य वैशिष्ट्यम् । एतस्मात् एव एतत् पुस्तकं छात्राणाम् अध्यापकानां च उपकाराय भवेत् ।

परिष्कारार्हान् अंशान् ज्ञापयन्तु इति उपयोक्तृषु निवेदनम् । महत्या आसक्त्या एतत् पुस्तकं सज्जीकृतवते श्रीमते महाबलेश्वर-भट्ट-महोदयाय, मुखपुट-कलाकाराय ‘अरसु’-वर्याय, मुद्रकाय, अन्येभ्यः सहकारिभ्यः च कृतज्ञतां समर्पयामः वयम् ।

बहुधान्य-सं।। मार्गशीर्ष-अमावास्या
- प्रकाशकः
१८.१२.१९९८

(षष्ठमुद्रणस्य)

षष्ठं मुद्रणं यत् प्रचलति तत् महते सन्तोषाय । पुस्तकस्य उपयोक्तृभ्यः, मुद्रणालय-बन्धुभ्यः, सहकृतवद्भ्यः सर्वेभ्यः च कृतज्ञताः [[समर्ण्यन्ते|समर्प्यन्ते]] सादरम् ।

सर्वधारि-सं।। मार्गशीर्ष-पूर्णिमा
- प्रकाशकः
१२.१२.२००८


[[P4]]

अनुक्रमणिका

१. अक्षरप्रकरणम् …. १ - ११

(अ) अक्षरम् - १
(आ) अक्षराणां विभागः - २

१. स्वराः - २
२. अयोगवाहाः - ४
३. व्यञ्जनानि - ५
(इ) स्थानानि प्रयत्नाः च - ६
(ई) माहेश्वरसूत्राणि - १०

२. सन्धिप्रकरणम् …. १२,१३

(अ) सन्धयः - १२
(आ) सन्धिभेदाः - १३

३. स्वरसन्धयः …. १४ - ३०

१. यण्सन्धिः - १४
२. यान्तवान्तादेशसन्धिः - १६
३. गुणसन्धिः - १९
४. वृद्धिसन्धिः - २१
५. सवर्णदीर्घसन्धिः - २३
६. पूर्वरूपसन्धिः - २५
७. पररूपसन्धिः - २६
८. प्रकृतिभावः - २८

४. व्यञ्जनसन्धिः …. ३१ - ४९

१. श्चुत्वसन्धिः - ३१
२. ष्टुत्वसन्धिः - ३२
३. जश्त्वसन्धिः - ३४
४. चर्त्वसन्धिः - ३६
५. अनुनासिकसन्धिः - ३६
६. अनुस्वारसन्धिः - ३७
७. परसवर्णसन्धिः - ३८
८. ङमुडागमसन्धिः - ४०
९. पूर्वसवर्णसन्धिः - ४१
१०. छत्वसन्धिः - ४२
११. …. - ४३
१२. …. - ४४
१३. तुगागमसन्धिः - ४५
व्यञ्जनसन्धिसङ्ग्रहः - ४८

५. विसर्गसन्धिः …. ५० - ५५

१. सकारः - ५०
२. जिह्वामूलीयः उपध्मानीयश्च - ५१
३. रेफः - ५२
४. लोपः - ५२
५. उकारः - ५४

इदमत्र ज्ञातव्यम्

(अ) बोधनक्रमः इत्थम् - ५६
(आ) पाणिनेः क्रमः - ५८
(इ) विसर्गस्य परिणामाः - ५९


[[P5]]

।। श्रीः ।।
श्रीमत्पाणिनि-वररुचि-पतञ्जलिभ्यो नमः ।।