पररूपः

“६.१.९५ ओमाङोश्च” इति सूत्रेण अवर्णात् आङ्-शब्दे परे पूर्वपरयोः एकः पररूप-एकादेशः भवति । यथा —

  • “शिव + एहि” इत्यत्र “एहि” इति तिङन्ते वस्तुतः “आङ्” इति उपसर्गः अस्ति ।+++(५)+++ आ + इहि → एहि । अतः “शिव +एहि” इत्यत्र वकारोत्तरात् अकारात् अनन्तरम् यद्यपि प्रत्यक्षरूपेण एकारः अस्ति तथापि तत्र सम्मिलितम् “आङ्” उपसर्गं दृष्ट्वा ६.१.९५ ओमाङोश्च इति सूत्रं तत्र प्रवर्तते, येन अकार-एकारयोः पररूप-एकादेशः (एकारः) भवति । शिव + एहि → शिवेहि ।
  • “अद्य + ओङ्खति” इत्यत्र “ओङ्खति” इति तिङन्ते वस्तुतः “आङ्” इति उपसर्गः अस्ति । आ + उङ्खति → ओङ्खति । अतः “अद्य + ओङ्खति” इत्यत्र यकारोत्तरात् अकारात् अनन्तरम् यद्यपि प्रत्यक्षरूपेण ओकारः अस्ति तथापि तत्र सम्मिलितम् “आङ्” उपसर्गं दृष्ट्वा ६.१.९५ ओमाङोश्च इति सूत्रं तत्र प्रवर्तते, येन अकार-ओकारयोः पररूप-एकादेशः (ओकारः) भवति । अद्य + ओङ्खति → अद्योङ्खति ।
  • एवमेव, “देव + आलय” इत्यत्र “आलय” इति कृदन्ते वस्तुतः “आङ्” इति उपसर्गः अस्ति ।
    • आ + ली + घ → आलय । अतः “देव + आलय” इत्यत्र वकारोत्तरात् अकारात् अनन्तरम् प्रत्यक्षरूपेण दृश्यमानः आकारः “आङ्” उपसर्गस्य आकारः अस्ति, अतः तत्र ६.१.९५ ओमाङोश्च इति सूत्रं तत्र प्रवर्तते, येन अकार-आकारयोः पररूप-एकादेशः (आकारः) भवति । देव + आलय → देवालय । पररूपसन्धिः अयम् !
    • परन्तु “देवालय” इति शब्दः सामान्यतः तु सवर्णदीर्घस्य उदाहरणरूपेण पाठ्यते । एवमेव “हिमालय”, “कार्यालय”, “अद्यागतः” एतेषां विषये अपि ज्ञेयम् !+++(५)+++ यद्यपि शास्त्ररूपेण एतेषु सर्वेषु सवर्णदीर्घः नास्ति; तथापि सवर्णदीर्घसन्धिकार्येण, पररूपसन्धिकार्येण च अत्र समानमेव रूपं सिद्ध्यति, अतः छात्राणाम् अध्ययनसौलभ्यार्थम् अत्र पररूपसन्धेः स्थाने सवर्णदीर्घः एव पाठ्यते । सवर्णदीर्घस्य उचितानि उदाहरणानि तु “दैत्य + अरिः → दैत्यारिः”, “अद्य + आसीत् → अद्यासीत्” आदीनि ज्ञेयानि ।

बलीयस्त्वम्

वस्तुतस्तु, सूत्रक्रमेण सवर्णदीर्घस्य ६.१.१०१ अकः सवर्णे दीर्घः इति सूत्रम् ६.१.९५ ओमाङोश्च इत्यस्य अपेक्षया परसूत्रम् अस्ति । अतः “१.४.२ विप्रतिषेधे परं कार्यम्” इति परिभाषया “देव + आलय” इत्यत्र परत्वात् “६.१.१०१ अकः सवर्णे दीर्घः” इत्यनेन सवर्णदीर्घः एव प्रवर्तेत । परन्तु “६.१.९५ ओमाङोश्च” इति विधिः प्रतिपदोक्तविधिः अस्ति (आङ् इति पदं दृष्ट्वा अयं विधिः प्रवर्तते इत्याशयः) ।+++(५)+++ अतः प्रतिपदोक्तविधेः बलवत्वात् अत्र सः एव प्राधान्येन प्रवर्तते, अतः अत्र सवर्णदीर्घं बाधित्वा पररूपम् एव भवति ।

प्रतिपदविधेः बलवत्त्वात् परोऽपि सवर्णदीर्घः बाध्यते
— ६.१.९५ ओमाङोश्च इत्यत्र कैयटः ।

भाष्ये तु आ ऋश्यात् गुणः अर्श्यात्,
अद्य अर्श्यात् अद्यर्श्यात् इत्यत्र सवर्णदीर्घनिवृत्य्-अर्थम् आङ्ग्रहणम् इति स्थितम्
— इति ६.१.९५ ओमाङोश्च इत्यत्र बालमनोरमा ।

सवर्णदीर्घताप्रापणम्

देवस्य आलयः = देव + आलयः →‌ देवालयः इत्यत्र यद्यपि “सवर्णदीर्घसन्धिं कृत्वा रूपं सिद्ध्यति” इति सर्वत्र पाठ्यते, तथापि शास्त्रदृष्ट्या अत्र “६.१.९५ ओमाङोश्च” इत्यनेन सवर्णदीर्घस्य बाधं कृत्वा वस्तुतः पररूपसन्धिः प्रवर्तते । उभयोः सन्ध्योः प्रयोगेण अन्तिमं रूपं समानमेव, अतः छात्राणां अध्ययनसौलभ्यार्थम् तु अत्र सवर्णदीर्घः एव उच्यते । पदमञ्जर्याम् अपि ६.१.९५ ओमाङोश्च इत्यत्र “अद्य आगत इत्यादौ तत्र सवर्णदीर्घत्वेन सिद्धं रूपम्” इत्युक्त्वा सवर्णदीर्घस्यैव समर्थनं कृतं दृश्यते ।+++(४)+++ अतश्च अत्र वैयाकरणैः अपि सवर्णदीर्घस्यैव साधुत्वं प्रतिपादयितुम् कश्चन यत्नः कृतः अस्ति । तत्र प्रामुख्येण द्वे समाधाने दीयेते —

  • शुद्धे आङि सवर्णदीर्घः, सम्प्रमुग्धे आङि पररूपम् —‌ इति प्रथमं समाधानम् ।
  • स्वरभेदे पररूपम्, अन्यत्र सवर्णदीर्घः — इति द्वितीयं समाधानम् ।

प्रथमं समाधानम् — शुद्धे आङि सवर्णदीर्घः, सम्प्रमुग्धे आङि पररूपम् ।

“६.१.९५ ओमाङोश्च” सूत्रस्य प्रयोगः तत्र एव भवति यत्र आङ् इत्यस्य आदौ अन्यत् परिवर्तनम् कृतं दृश्यते । यथा, “शिव + एहि” इत्यत्र आङ् इत्यस्य आदौ एकारादेशः कृतः अस्ति । एतादृशं परिवर्तनं कृतं दृश्यते चेदेव तदनन्तरम् ६.१.९५ ओमाङोश्च इति सूत्रं प्रयोक्तव्यम् । यदि आङ् इति शब्दः अविकृतः (शुद्धरूपेण / परिवर्तनं विना) निर्दिष्टः अस्ति, तर्हि सवर्णदीर्घः एव करणीयः ।
किमर्थम् इति चेत्, यदि शुद्धे आङ्-शब्दे परे अपि सवर्णदीर्घं बाधित्वा पररूपं स्यात् तर्हि तादृशः निर्देशः कस्मिंश्चित् ग्रन्थे तु अवश्यं स्यात् । अथवा, प्राथम्येन तादृशमेव उदाहरणम् आदौ उक्तं स्यात् । परन्तु कस्मिन्नपि ग्रन्थे शुद्धस्य आङ्-शब्दस्य विषये “६.१.९५ ओमाङोश्च” इति सूत्रम् नैव उदाहृतं दृश्यते ।
अतः सम्प्रमुग्धः (परिवर्तितः / आनुपूर्वीरूपेण अश्रूयमाणः) आङ्-शब्दः यत्र विद्यते, तत्रैव ६.१.९५ ओमाङोश्च इति सूत्रस्य प्रसक्तिः भवेत्, अन्यत्र (यत्र शुद्धः आङ्-शब्दः अस्ति तत्र) सवर्णदीर्घः एव भवेत् — इति प्रथमं समाधानम् ।

द्वितीयं समाधानम् — स्वरभेदे पररूपम्, अन्यत्र सवर्णदीर्घः ।
यत्र “६.१.१०१ अकः सवर्णे दीर्घः” तथा “६.१.९५ ओमाङोश्च” एतयोः युगपत् प्राप्तिः अस्ति, तत्र द्वयोः प्रयोगेण प्राप्तस्य अन्तिमरूपस्य उदात्तादिस्वरे भेदः अस्ति चेदेव “६.१.९५ ओमाङोश्च” इति पररूपं प्रवर्तते, अन्यथा “६.१.१०१ अकः सवर्णे दीर्घः” इति सवर्णदीर्घः एव भवति । यथा,
“आ +ऋश्यात् → अर्श्यात्”, ततः “अद्य + अर्श्यात्” इत्यत्र सवर्णदीर्घे कृते एकादेशस्य उदात्तस्वरः सिद्ध्यति ; पररूपे कृते च अनुदात्तस्वरः ।
अनेन प्रकारेण अत्र स्वरभेदः जायते अतः अत्र ६.१.९५ ओमाङोश्च इति सूत्रम् ६.१.१०१ अकः सवर्णे दीर्घः इत्येतं बाधित्वा प्रवर्तते ।

परन्तु असम्प्रमुग्धे (अ-परिवर्तिते) आङ्-शब्दे परे तादृशः स्वरभेदः नास्ति, अतः तत्र ६.१.९५ ओमाङोश्च इत्यस्य अपेक्षया ६.१.१०१ अकः सवर्णे दीर्घः इत्येव प्रवर्तते ।

एताभ्यां द्वाभ्यां प्रकाराभ्यां देवालयः इत्यादिषु शब्देषु सवर्णदीर्घः कथञ्चित् समाधातुं शक्यः ।