अभ्यासः - १ १. (अ) १. भगवच्छ्रितः । २. पाणिनिलिखितम् । ३. भोजनार्थः । ४. तृप्त्यर्था । ५. क्रीडानिपुणः । ६. शास्त्रिपुस्तकम् । ७. शर्मगृहम् । ८. धन्यावासः । ९. वर्मशौर्यम् । १०. करिवृन्दम् । ११. घनपाठिकण्ठश्रीः । १२. त्रिपाठ्यध्यापनम् । १३. महिमवर्णनम् । १४. अप्सरोगणः १५. चन्द्रमोदर्शनम् । (आ) १. पुरुषपुङ्गवः । २. छायातरुः ३. दध्यन्नम् । ४. शास्त्रिमहोदयः । ५. शर्ममहोदयः । ६. वर्ममहोदयः । ७. त्रिपाठिवर्यः । ८. दूर्वासोमुनिः । ९. महादुःखम् । १०. महापुण्येन । (इ) १. सर्वरात्रः २. शुभरात्रिः । ३. पुण्यरात्रः । ४. दीर्घरात्रयः । ५. त्रिरात्रम् । ६. पश्चिमरात्रः । ७. शिवरात्रिः। ८. सङ्ख्यातरात्रः । ९. अतिरात्रः । १०. मङ्गलरात्रिः । (ई) १. अमरराजः । २. किंराजा । ३. अराजा । ४. श्रेष्ठराजः । ५. चन्द्रगुप्तराजः । ६. अपन्थाः/अपथम् । ७. कृष्णसखः ८. श्रेष्ठसखः । ९. असखा । १०. अतिराजा । (उ) १. गृहीतवृक्षः । २. गृहीतवृक्षा । ३. गृहीतलतः । ४. गृहीततात्पर्यार्था । ५. गृहीतभक्तिः । ६. गृहीतधेनुः । ७. गृहीतदासीका । ८. गृहीतश्वश्रूका । ९. गृहीतनामा । (नकारान्तः) १०. गृहीतपयाः (सकारान्तः)
अभ्यासः - २ १. सालवृक्षः - सम्भावनापूर्वपदः । २. भोजराजः - सम्भावनापूर्वपदः । ३. विजयनगरराजः - षष्ठीतत्पुरुषः । ४. चन्द्रसेनराजः - सम्भावनापूर्वपदः । ५. दशाध्यायी - समाहारद्विगुः । ६. अतिमानवः - प्रादिसमासः । ७. आभरणकारः - उपपदसमासः । ८. वीणपाणिः - व्यधिकरणबहुव्रीहिः । ९. पञ्चषाः - सख्योभयपदः बहुव्रीहिः । १०. अधनम् - नञ्समासः । (तत्पुरुषः) ११. अधनः - नञ्बहुव्रीहिः । १२. अनादरः - नञ्तत्पुरुषः । १३. श्रेष्ठभाषा - विशेषणपूर्वपदः कर्मधारयः । १४. जीवद्भाषा-विशेषणपूर्वपदः कर्मधारयः । १५. महावेदना - विशेषणपूर्वपदः कर्मधारयः । १६. महाढ्यः - विशेषणपूर्वपदः कर्मधारयः । १७. पिताभ्रातरौ - द्वन्द्वसमासः । १८. मध्यरात्रः - प्रथमातत्पुरुषः । १९. श्रुतकथः - तृतीयार्थबहुव्रीहिः । २०. कथान्तरम् - मयूरव्यंसकादिकर्मधारयः ।
अभ्यासः - ३ १. पीतं क्षीरं येन सः । तम् । २. द्वौ वा त्रयः वा । ३. पीतम् अम्बरं यस्य सः । तम् । ४. अन्यः ग्रामः । तस्मिन् । ५. ग्रामस्य समीपे । ६. आदेशम्
80
[[P87]]
अनतिक्रम्य । ७. प्रश्नम् अतीतः । ८. महान्तः ऋषयः । ९. हरिणस्य नेत्रे इव नेत्रे यस्याः सा । १०. नाग इव वेणी यस्याः सा । ११. पित्रा समः । १२. अह्नः पूर्वम् । तस्मिन् । १३. नवानां रात्रीणां समाहारः । तस्मिन् । १४. हस्तैः हस्तैः प्रहृत्य इदं युद्धं प्रवृत्तम् इति । १५. पञ्चानां वटानां समाहारः । तस्याम् । १६. दुःखम् एव अग्निः । तेन । १७. दश आननानि यस्य सः । तम् । १८. प्रगतः आचार्यः । १९. दश वा द्वादश वा । २०. पत्न्या सह वर्तते इति ।
अभ्यासः - ४ १. उपविद्यालयम् । २. उपपाठशालम् । ३. निर्वञ्चनम् । ४. अनुबुद्धि । ५. पारेनदि । ६. मध्येसरस्वति । ७. अभिगुरु । ८. आहिमगिरि । ९. आकन्याकुमारि । १०. यथाज्ञम् । ११. यथानीति । १२. प्रतिवीथि । १३. उपबन्धु । १४. उपमातृ । १५. प्रतिमहिलम् । १६. निर्दधि । १७. अनुमालति । १८. यथासूचनम् । १९. मध्येसभम् । २०. अभिशोभायात्रम् ।
अभ्यासः - ५ १. सङ्गृहीतधनः । २. अलङ्कृतवेदिकः । ३. निर्मितपदका । ४. लिखितगणनः । ५. निरूढगोष्ठीकः । ६. प्रेरितकार्यकर्तृकः । ७. अलङ्कृतवीथीकाः । ८. विक्रीतपुस्तका । ९. लिखितरङ्गवल्लीका । १०. वादितमुरलीका । ११. वादितवीणः । १२. अभिनन्दितातिथिः । १३. अर्पितमालः । १४. अर्चितभारतमातृकः । १५. व्यवस्थापितशोभायात्रः ।
अभ्यासः - ६ १. अधीतविद्यः । अधीता विद्या येन सः । २. बहुशाखः । बह्वयः शाखाः यस्मिन् सः । ३. अपहृतसीतः । अपहृता सीता येन सः । ४. धृतमाला । धृता माला यया सा । ५. सीतापत्नीकः । सीता पत्नी यस्य सः । ६. आहूतभगिनीकः । आहूता भगिनी येन सः । ७. अनेककार्यकर्तृकः । अनेके कार्यकर्तारः यस्मिन् तत् । ८. प्राप्तलक्ष्मीकः । प्राप्ता लक्ष्मीः येन सः । ९. पालितधर्माणः । पालितः धर्मः यैः ते । १०. बहुवधूकं गृहम् । बह्वयः वध्वः यस्मिन् तत् । ११. दुर्गन्धम् । दुष्टः (दुर्) गन्धः यस्य तत् । १२. सुगन्धि । शोभनः (सु) गन्धः यस्य तत् । १३. पालितगुः । पालिताः गावः येन सः । १४. पठितचन्द्रमामः । पठिता चन्द्रमामा येन सः । १५. कण्ठस्थीकृतकथः । कण्ठस्थीकृताः कथाः येन सः ।
अभ्यासः – ७ १. मालान्तरम् । २. निर्वाराणसिः । ३. त्रिचतुराः । ४. मुष्टीमुष्टि । ५. यथामति । ६. मध्येकपिलम् । ७. पितृपितृव्यौ । ८. महाज्ञानः । ९. दीर्घकेशः । १०. पूर्वरात्रः ।
अभ्यासः - ८
II (अ) न कार्यम् । (आ) अविद्यमानं कार्यं यस्य सः ।
III (अ) दीर्घः हस्तः यस्य सः । (आ) दीर्घः हस्तः ।
81
[[P88]]
IV (अ) आ कर्णाटकसीमायाः । (अभिविध्यर्थे)
(आ) आ कर्णाटकसीमायाः (मर्यादार्थे)
V (अ) विद्या एव धनम् । (आ) विद्या धनं यस्य सः ।
VI (अ) लोकस्य नाथः । (आ) लोकः नाथः यस्य सः ।
VII (अ) शीतला छाया । (आ) शीतला छाया यस्य सः ।
अभ्यासः - ९ १. महती योजना । कर्मधारयः । महतः आकारः । २. अहश्च रात्रिश्च । द्वन्द्वः । रात्रिशब्दः अकारान्तः पुंल्लिङ्गः च । ३. यक्षाणां राजा । तत्पुरुषः । राजशब्दः अकारान्तः । ४. क्रीता माला येन सः । बहुव्रीहिः । अकारान्तः । ५. पुष्पं च स्रक् च । द्वन्द्वः । अकारान्तः नपुंसकलिङ्गः च । ६. उत्तमा गौः । तत्पुरुषः । स्त्रीलिङ्गे ईकारान्तः । ७. चत्वारः पादाः यस्य सः । बहुव्रीहिः । अकारान्तः पुंल्लिङ्गः च । ८. सप्तानाम् अह्नां समाहारः । द्वन्द्वः । अकारान्तः नपुंसकलिङ्गः च । ९. न राजा । तत्पुरुषः । अकारान्तनिषेधः । १०. बहवः कर्तारः यस्मिन् तत् । बहुव्रीहिः । कप्प्रत्ययः । ११. चन्द्रशालायाः समीपे । अव्ययीभावः । अकारान्तः । १२. आत्मनि इति । अव्ययीभावः । अकारान्तः । १३. दीर्घः पन्थाः । कर्मधारयः । अकारान्तः । १४. शोभनः गन्धः यस्य सः। बहुव्रीहि । इकारान्तः । १५. माता च दुहिता च । द्वन्द्वः । मातृशब्दस्य आकारन्तत्वम् । १६. रात्रिम् अतिक्रान्तः । प्रादिसमासः (तत्पुरुषः) । रात्रेः अकारान्तत्वम् । १७. कर्माणि अनतिक्रम्य । अव्ययीभावः । अकारान्तनपुंसकलिङ्गः । १८. लोकस्य सखा । तत्पुरुषः । अकारान्तः । १९. रमा जाया यस्य सः । बहुव्रीहिः । जायाशब्दस्य निङ् - आदेशः । २०. महत् बलं यस्य सः । बहुव्रीहिः । महतः आत्वम् ।
अभ्यासः - १० १. त्रिलोक्याम् । २. द्वित्रजनाः । ३. उपविंशाः ४. पाणिपादम् । ५. यथाशक्ति । ६. स्वामिविवेकानन्देन । ७. गुप्तराजानाम् । ८. महापरिमाणेन । ९. मध्यरात्रे । १०. नवरात्रोत्सवे । ११. भवत्सखः । १२. उत्तमगवी । १३. अराजा । १४. ज्ञातधर्मा । १५. उपमङ्गलम् ।
82