अभ्यासः - १
अधोनिर्दिष्टानां विग्रहवाक्यानाम् आधारेण समस्तपदानि लिखन्तु ।
(अ)
१. भगवन्तं श्रितः = भगवच्छ्रितः
२. पाणिनिना लिखितम् = पाणिनिलिखितम्
३. भोजनाय अयम् = भोजनार्थः
४. तृप्तये इयम् = तृप्त्यर्था
५. क्रीडायां निपुणः = क्रीडानिपुणः
६. शास्त्रिणः पुस्तकम् = शास्त्रिपुस्तकम्
७. शर्मणः गृहम् = शर्मगृहम्
८. धनिनाम् आवासः = धन्यावासः
९. वर्मणः शौर्यम् = वर्मशौर्यम्
१०. करिणां वृन्दम् = करिवृन्दम्
११. घनपाठिनः कण्ठश्रीः = घनपाठिकण्ठश्रीः
१२. त्रिपाठिनः अध्यापनम् = त्रिपाठ्यध्यापनम्
१३. महिम्नः वर्णनम् = महिमवर्णनम्
१४. अप्सरसां गणः = अप्सरोगणः
१५. चन्द्रमसः दर्शनम् = चन्द्रमोदर्शनम्
(आ)
१. पुरुषः पुङ्गवः इव = पुरुषपुङ्गवः
२. छायाप्रधानः तरुः = छायातरुः
३. दध्ना अन्नम् = दध्यन्नम्
४. शास्त्री + महोदयः = शास्त्रिमहोदयः
५. शर्मा + महोदयः = शर्ममहोदयः
68
[[P75]]
६. वर्मा + महोदयः = वर्ममहोदयः
७. त्रिपाठी + वर्यः = त्रिपाठिवर्यः
८. दूर्वासाः + मुनिः = दूर्वासोमुनिः
९. महत् + दुःखम् = महादुःखम्
१०. महत् + पुण्यम्, तेन = महापुण्येन
(इ)
१. सर्वा + रात्रिः = सर्वरात्रः
२. शुभा + रात्रिः = शुभरात्रिः
३. पुण्या + रात्रिः = पुण्यरात्रः
४. दीर्घाः + रात्रयः = दीर्घरात्रयः
५. त्रयाणां रात्रीणां समाहारः = त्रिरात्रम्
६. पश्चिमा + रात्रिः = पश्चिमरात्रः
७. शिवा + रात्रिः = शिवरात्रिः
८. सङ्ख्याता + रात्रिः = सङ्ख्यातरात्रः
९. अतिक्रान्तः + रात्रिम् = अतिरात्रः
१०. मङ्गला + रात्रिः = मङ्गलरात्रिः
(ई)
१. अमराणां राजा = अमरराजः
२. कुत्सितः राजा = किंराजा
३. न राजा = अराजा
४. श्रेष्ठः राजा = श्रेष्ठराजः
५. चन्द्रगुप्तः इति राजा = चन्द्रगुप्तराजः
६. न + पन्थाः = अपन्थाः/अपथम्
७. कृष्णस्य सखा = कृष्णसखः
८. श्रेष्ठः + सखा = श्रेष्ठसखः
९. न + सखा = असखा
१०. अतिशयितः राजा = अतिराजा
69
[[P76]]
(उ)
१. गृहीतः वृक्षः येन सः = गृहीतवृक्षः
२. गृहीतः वृक्षः यया सा = गृहीतवृक्षा
३. गृहीता लता येन सः = गृहीतलतः
४. गृहीतं तात्पर्यं यया सा = गृहीततात्पर्या
५. गृहीता भक्तिः येन सः = गृहीतभक्तिः
६. गृहीता धेनुः येन सः = गृहीतधेनुः
७. गृहीता दासी यया सा = गृहीतदासीका
८. गृहीता श्वश्रूः यया सा = गृहीतश्वश्रूका
९. गृहीतं नाम येन सः = गृहीतनामा
१०. गृहीतं पयः येन सः = गृहीतपयाः
अभ्यासः - २
अधः कानिचन विग्रहवाक्यानि दत्तानि सन्ति । तदाधारेण समस्तपदानि लिखन्तु । समासनाम अपि लिखन्तु ।
१. सालः इति वृक्षः = सालवृक्षः (सम्भावनापूर्वपदः कर्मधारयः)
२. भोजः इति राजा = भोजराजः (सम्भावनापूर्वपदः कर्मधारयः)
३. विजयनगरस्य राजा = विजयनगरराजः (षष्ठीतत्पुरुषः)
४. चन्द्रसेनः इति राजा = चन्द्रसेनराजः (सम्भावनापूर्वपदः कर्मधारयः)
५. दशानाम् अध्यायानां समाहारः = दशाध्यायी (समाहारद्विगुः)
६. अतिक्रान्तः मानवम् = अतिमानवः (प्रादिसमासः)
७. आभरणं करोति इति = आभरणकारः (उपपदसमासः)
८. वीणा पाणौ यस्याः सा = वीणापाणिः (व्यधिकरणबहुव्रीहिः)
९. पञ्च वा षड् वा = पञ्चषाः (सङ्ख्योभयपदः बहुव्रीहिः)
१०. न धनम् = अधनम् (नञ्तत्पुरुषः)
११. अविद्यमानं धनं यस्य सः = अधनः (नञ्बहुव्रीहिः)
१२. न आदरः = अनादरः (नञ्तत्पुरुषः)
70
[[P77]]
१३. श्रेष्ठा भाषा = श्रेष्ठभाषा (विशेषणपूर्वपदः कर्मधारयः)
१४. जीवन्ती भाषा = जीवद्भाषा (विशेषणपूर्वपदः कर्मधारयः)
१५. महती वेदना = महावेदना (विशेषणपूर्वपदः कर्मधारयः)
१६. महान् आढ्यः = महाढ्यः (विशेषणपूर्वपदः कर्मधारयः)
१७. पिता च भ्राता च = पिताभ्रातरौ (इतरेतरद्वन्द्वः)
१८. मध्यं रात्रेः = मध्यरात्रः (प्रथमातत्पुरुषः)
१९. श्रुता कथा येन सः = श्रुतकथः (तृतीयार्थबहुव्रीहिः)
२०. अन्या कथा = कथान्तरम् (मयूरव्यंसकादिकर्मधारयः)
अभ्यासः - ३
अधोनिर्दिष्टेषु वाक्येषु स्थूलाक्षरैः सूचितानां समस्तपदानाम् विग्रहवाक्यानि लिखन्तु -
१. गोपालः पीतक्षीरं वत्सं बध्नाति । (पीतं क्षीरं येन सः, तम्)
२. अष्टमकक्ष्यायां द्वित्राः छात्राः अनुत्तीर्णाः । (द्वौ वा त्रयः वा)
३. भक्ताः पीताम्बरं विष्णुं नमस्कृतवन्तः । (पीतम् अम्बरं यस्य सः, तम्)
४. एषः अस्मिन् ग्रामे निवसति । सः ग्रामान्तरे निवसति । (अन्यः ग्रामः, तस्मिन्)
५. उपग्रामम् अरण्यम् अस्ति । (ग्रामस्य समीपे)
६. सेवकः सर्वदा यथादेशं कार्यं करोति । (आदेशम् अनतिक्रम्य)
७. एषः प्रश्नातीतः विषयः । (प्रश्नम् अतीतः)
८. महर्षयः अरण्येषु निवसन्ति स्म । (महान्तः ऋषयः)
९. हरिणनेत्रा सा सुन्दरी अस्ति । (हरिणस्य नेत्रे इव नेत्रे यस्याः सा)
१०. नागवेणिः तरुणी मार्गे गच्छति । (नागः इव वेणी यस्याः सा)
११. एषः महोदयः मम पितृसमः अस्ति । (पित्रा समः)
१२. वैद्यः पूर्वाह्णे चिकित्सालये भवति । (अह्नः पूर्वम्, तस्मिन्)
१३. नवरात्रे जनाः सरस्वत्याः पूजां कुर्वन्ति । (नवानां रात्रीणां समाहारः, तस्मिन्)
१४. अद्य मार्गे हस्ताहस्ति प्रवृत्तम् । (हस्तैः हस्तैः प्रहृत्य इदं युद्धं प्रवृत्तम् इति)
71
[[P78]]
१५. रामः वनवाससमये पञ्चवट्यां निवसति स्म । (पञ्चानां वटानां समाहारः, तस्याम्)
१६. निर्धनः दुःखाग्निना दह्यमानः अस्ति । (दुःखम् एव अग्निः, तेन)
१७. दशाननं रावणं रामः संहृतवान् । (दश आननानि यस्य सः, तम्)
१८. अस्माकं प्राचार्यः अद्य न आगतवान् । (प्रगतः आचार्यः)
१९. अद्य कार्यक्रमे दशद्वादशाः जनाः आसन् । (दश वा द्वादश वा)
२०. सपत्नीकः सः चलनचित्रं द्रष्टुं गतवान् । (पत्न्या सह वर्तते इति)
अभ्यासः -४
अधः दत्तानां विग्रहवाक्यानाम् आधारेण समस्तपदानि लिखन्तु ।
उदा - वृक्षस्य समीपे (उप) = उपवृक्षम्
१. विद्यालयस्य सपीपे (उप) = उपविद्यालयम्
२. पाठशालायाः समीपे (उप) = उपपाठशालम्
३. वञ्चनायाः अभावः (निर्) = निर्वञ्चनम्
४. बुद्धेः योग्यम् (अनु) = अनुबुद्धि
५. पारे नद्याः = पारेनदि
६. मध्ये सरस्वत्याः = मध्येसरस्वति
७. गुरुम् अभि = अभिगुरु
८. आ हिमगिरेः = आहिमगिरि
९. आ कन्याकुमार्याः = आकन्याकुमारि
१०. आज्ञाम् अनतिक्रम्य (यथा) = यथाज्ञम्
११. नीतिम् अनतिक्रम्य (यथा) = यथानीति
१२. वीथीं वीथीं प्रति = प्रतिवीथि
१३. बन्धूनां समीपे (उप) = उपबन्धु
१४. मातुः समीपे (उप) = उपमातृ
१५. महिलां महिलां प्रति = प्रतिमहिलम्
72
[[P79]]
१६. दध्नः अभावः (निर्) = निर्दधि
१७. मालत्याः योग्यम् (अनु) = अनुमालति
१८. सूचनाम् अनतिक्रम्य (यथा) = यथासूचनम्
१९. मध्ये सभायाः = मध्येसभम्
२०. शोभायात्राम् अभि = अभिशोभायात्रम्
अभ्यासः - ५
संस्कृतसम्मेलनावसरे -
१. प्रसादः धनं सङ्गृहीतवान् ।
२. प्रह्लादः वेदिकाम् अलङ्कृतवान् ।
३. माला पदकानि निर्मितवती ।
४. सुधीरः गणनां लिखितवान् ।
५. संयोजकः गोष्ठीं निरूढवान् ।
६. निर्देशकः कार्यकर्तृन् प्रेरितवान् ।
७. बालिकाः वीथीः अलङ्कृतवत्यः ।
८. वरदा पुस्तकानि विक्रीतवती ।
९. मङ्गला रङ्गवल्लीः लिखितवती ।
१०. विद्या मुरलीं वादितवती ।
११. मोहनः वीणां वादितवान् ।
१२. सुरेशः अतिथीन् अभिनन्दितवान् ।
१३. चन्द्रः (अध्यक्षाय) मालाम् अर्पितवान् ।
१४. उद्घाटकः भारतमातरम् अर्चितवान् ।
१५. वेङ्कटेशः शोभायात्रां व्यवस्थापितवान् ।
73
[[P80]]
पूर्वं निर्दिष्टानां वाक्यानाम् आधारेण कः कीदृशः इति बहुव्रीहिघटितपदेन सूचयन्तु । प्रथमं विग्रहवाक्यं लिखित्वा ततः समस्तं पदं लिखन्तु ।
उदा - १. सङ्गृहीतं धनं येन सः = सङ्गृहीतधनः (प्रसादः)
२. अलङ्कृता वेदिका येन सः = अलङ्कृतवेदिकः (प्रह्लादः)
३. निर्मितानि पदकानि यया सा = निर्मितपदका (माला)
४. लिखिता गणना येन सः = लिखितगणनः (सुधीरः)
५. निरूढा गोष्ठी येन सः = निरूढगोष्ठीकः (संयोजकः)
६. प्रेरिताः कार्यकर्तारः येन सः = प्रेरितकार्यकर्तृकः (निर्देशकः)
७. अलङ्कृताः वीथयः याभिः ताः = अलङ्कृतवीथीकाः (बालिकाः)
८. विक्रीतानि पुस्तकानि यया सा = विक्रीतपुस्तका (वरदा)
९. लिखिता रङ्गवल्ली यया सा = लिखितरङ्गवल्लीका (मङ्गला)
१०. वादिता मुरली यया सा = वादितमुरलीका (विद्या)
११. वादिता वीणा येन सः = वादितवीणः (मोहनः)
१२. अभिनन्दिताः अतिथयः येन सः = अभिनन्दितातिथिः (सुरेशः)
१३. अर्पिता माला येन सः = अर्पितमालः (चन्द्रः)
१४. अर्चिता भारतमाता येन सः = अर्चितभारतमातृकः (उद्घाटकः)
१५. व्यवस्थापिता शोभायात्रा येन सः = व्यवस्थापितशोभायात्रः (वेङ्कटेशः)
अभ्यासः - ६
रामकृष्णः कश्चन विद्यार्थी । सः समासादिकं न जानाति । किन्तु तस्य इच्छा यत् मनसि विद्यमानः भावः बहुव्रीहिसमासेन प्रकाशनीयः इति । रामकृष्णस्य अपेक्षाः अधः निर्दिष्टाः सन्ति । भवन्तः समस्तम् एकं पदं सूचयन्तः तस्य विग्रहम् अपि ज्ञापयन्तः तस्य साहाय्यं कुर्वन्तु ।
उदा - अनुजः पुस्तकं स्वीकृतवान् । अतः अनुजः = स्वीकृतपुस्तकः (स्वीकृतं पुस्तकं येन सः)
74
[[P81]]
१. रामः विद्याम् अधीतवान् । अतः रामः = अधीतविद्यः (अधीता विद्या येन सः)
२. वृक्षे बह्वयः शाखाः सन्ति । अतः वृक्षः = बहुशाखः (बह्व्यः शाखाः यस्मिन् सः)
३. रावणः सीताम् अपहृतवान् । अतः रावणः = अपहृतसीतः (अपहृता सीता येन सः)
४. बालिका मालाः धृतवती अस्ति । अतः बालिका = धृतमाला (धृता माला यया सा)
५. रामस्य पत्नी सीता । अतः रामः = सीतापत्नीकः (सीता पत्नी यस्य सः)
६. श्रीशः भगिनीम् आहूतवान् । अतः श्रीशः = आहूतभगिनीकः (आहूता भगिनी येन सः)
७. एतस्मिन् ग्रामे अनेके कार्यकर्तारः सन्ति । अतः एष ग्रामः = अनेककार्यकर्तृकः (अनेके कार्यकर्तारः यस्मिन् तत्)
८. विष्णुः लक्ष्मीं प्राप्तवान् । अतः विष्णुः = प्राप्तलक्ष्मीकः (प्राप्ता लक्ष्मीः येन सः)
९. जनाः धर्मं पालितवन्तः । अतः जनाः = पालितधर्माणः (पालितः धर्मः यैः ते)
१०. गृहे बह्वयः वध्वः सन्ति । अतः गृहम् = बहुवधूकम् (बह्व्यः वध्वः यस्मिन् तत्)
११. खाद्यस्य गन्धः दुष्टः (दुर्) अस्ति । अतः खाद्यम् = दुर्गन्धम् (दुष्टः गन्धः यस्य तत्)
१२. तैलस्य गन्धः शोभनः (सु) अस्ति । अतः तैलम् = सुगन्धि (शोभनः गन्धः यस्य तत्)
१३. गोपालः गाः पालितवान् । अतः गोपालः = पालितगुः (पालिताः गावः येन सः)
१४. जगदीशः चन्द्रमामां पठितवान् । अतः जगदीशः = पठितचन्द्रमामः (पठिता चन्द्रमामा येन सः)
१५. अरुणः कथाः कण्ठस्थीकृतवान् । अतः अरुणः = कण्ठस्थीकृतकथः (कण्ठस्थीकृताः कथाः येन सः)
अभ्यासः -७
अधः विग्रहवाक्यानि दत्तानि सन्ति । एकैकस्य विग्रहवाक्यस्य पुरतः त्रीणि रूपाणि दत्तानि सन्ति । तेषु एकम् एव शुद्धम् । तत् चित्वा रिक्तस्थाने लिखन्तु ।
१. अन्या माला = मालान्तरम्
(१. मालान्तरम्, २. मालान्तरा, ३. मालान्तरः)
२. निष्क्रान्तः वाराणस्याः = निर्वाराणसिः
(१. निर्वाराणसः, २. निर्वाराणसिः, ३. निर्वाराणसम्)
75
[[P82]]
३. त्रयः वा चत्वारः वा = त्रिचतुराः
(१. त्रिचत्वारि, २. त्रिचतुराः, ३. त्रिचतुरः)
४. मुष्टिभिः मुष्टिभिः प्रहृत्य इदं युद्धं प्रवृत्तम् इति = मुष्टीमुष्टि
(१. मुष्टीमुष्टि, २. मुष्टामुष्टि, ३. मुष्टीमुष्टिः)
५. मतिम् अनतिक्रम्य = यथामति
(१. यथामतिः, २. यथामति, ३. यथामतिम्)
६. मध्ये कपिलायाः = मध्येकपिलम्
(१. मध्येकपिलाम्, २. मध्येकपिलः, ३. मध्येकपिलम्)
७. पिता च पितृव्यः च = पितापितृव्यौ
(१. पितृपितृव्यौ, २. पितापितृव्यौ, ३. पितः पितृव्यौ)
८. महत् ज्ञानं यस्य सः = महाज्ञानः
(१. महाज्ञानम्, २. महाज्ज्ञानः, ३. महाज्ञानः)
९. दीर्घाः केशाः यस्य सः = दीर्घकेशः
(१. दीर्घकेशी, २. दीर्घकेशः, ३. दीर्घकेशाः)
१०. पूर्वं रात्रेः = पूर्वरात्रः
(१. पूर्वरात्रिः, २. पूर्वरात्रम्, ३. पूर्वरात्रः)
अभ्यासः - ८
अधः कानिचन वाक्ययुगलानि सन्ति । युगलस्थे वाक्यद्वये अपि एकं समस्तपदम् उपयुक्तम् । तादृशानां समस्तपदानाम् अर्थं सम्यक् अवगत्य विग्रहवाक्यं लिखन्तु ।
उदा-I
(अ) संन्यासिनी सदा श्वेताम्बरं धरति । (श्वेतम् अम्बरम्)
(आ) श्वेताम्बरा बालिका अप्सराः इव शोभते । (श्वेतम् अम्बरं यस्याः सा)
II
(अ) अकार्यं किमर्थं करोति भवान् ? (न कार्यम्)
(आ) अकार्यः अलसः तूष्णीं तिष्ठति । (अविद्यमानं कार्यं यस्य सः)
76
[[P83]]
III
(अ) दीर्घहस्तः व्याधः अरण्यं गतवान् । (दीर्घः हस्तः यस्य सः)
(आ) व्याधः दीर्घहस्तं प्रसार्य शुकं गृहीतवान् । (दीर्घः हस्तः)
IV
(अ) आकर्णाटकसीमं कन्नडभाषा अस्ति । (आ कर्णाटकसीमायाः)
(आ) तमिळुभाषा आकर्णाटकसीमम् अस्ति । (आ कर्णाटकसीमायाः)
V
(अ) विद्याधनं सर्वधनप्रधानम् अस्ति । (विद्या एव धनम्)
(आ) विद्याधनः पण्डितः सर्वत्र पूज्यते । (विद्या धनं यस्य सः)
VI
(अ) लोकनाथः राजा धर्मेण राज्यं पालयति । (लोकस्य नाथः)
(आ) लोकनाथः भिक्षुकः भिक्षायाचनं करोति । (लोकः नाथः यस्य सः)
VII
(अ) शीतलच्छाया कस्य सन्तोषाय न भवति ? (शीतला छाया)
(आ) शीतलच्छायं वृक्षं सर्वे आश्रयन्ति । (शीतला छाया यस्य सः)
अभ्यासः - ९
अधोनिर्दिष्टेषु शब्देषु कश्चन समाससम्बद्धः व्याकरणविशेषः अस्ति । शब्दानां विग्रहवाक्यं लिखित्वा व्याकरणविशेषम् अपि निर्दिशन्तु ।
| समस्तपदम् | विग्रहवाक्यम् | समासनाम | व्याकरणविशेषः |
|---|---|---|---|
| उदा - पञ्चरात्रम् | पञ्चानां रात्रीणां समाहारः | द्विगुः | रात्रिशब्दः, अकारान्तः जातः, नपुंसकलिङ्गः च |
| १. महायोजना | महती योजना | कर्मधारयः | महतः आकारः । |
| २. अहोरात्रः | अहश्च रात्रिश्च | द्वन्द्वः | रात्रिशब्दः अकारान्तः पुंल्लिङ्गः च । |
| ३. यक्षराजः | यक्षाणां राजा | तत्पुरुषः | राजशब्दः अकारान्तः । |
| ४. क्रीतमालाकः | क्रीता माला येन सः | बहुव्रीहिः | अकारान्तः । |
| ५. पुष्पस्त्रजम् (द्वन्द्वः) | पुष्पं च स्रक् च | द्वन्द्वः | अकारान्तः नपुंसकलिङ्गः च । |
77
[[P84]]
| ६. उत्तमगवी | उत्तमा गौः | तत्पुरुषः | स्त्रीलिङ्गे ईकारान्तः । |
| ७. चतुष्पात् | चत्वारः पादाः यस्य सः | बहुव्रीहिः | अकारान्तः पुंल्लिङ्गः च । |
| ८. सप्ताहः | सप्तानाम् अह्नां समाहारः | द्वन्द्वः | अकारान्तः नपुंसकलिङ्गः च । |
| ९. अराजा | न राजा | तत्पुरुषः | अकारान्तनिषेधः । |
| १०. बहुकर्तृकम् | बहवः कर्तारः यस्मिन् तत् | बहुव्रीहिः | कप्प्रत्ययः । |
| ११. उपचन्द्रशालम् | चन्द्रशालायाः समीपे | अव्ययीभावः | अकारान्तः । |
| १2. अध्यात्मम् | आत्मनि इति | अव्ययीभावः | अकारान्तः । |
| १३. दीर्घपथः | दीर्घः पन्थाः | कर्मधारयः | अकारान्तः । |
| १४. सुगन्धिः | शोभनः गन्धः यस्य सः | बहुव्रीहिः | इकारान्तः । |
| १५. मातादुहितरौ | माता च दुहिता च | द्वन्द्वः | मातृशब्दस्य आकारन्तत्वम् । |
| १६. अतिरात्रः | रात्रिम् अतिक्रान्तः | प्रादिसमासः (तत्पुरुषः) | रात्रेः अकारान्तत्वम् । |
| १७. यथाकर्मम् | कर्माणि अनतिक्रम्य | अव्ययीभावः | अकारान्तनपुंसकलिङ्गः । |
| १८. लोकसखः | लोकस्य सखा | तत्पुरुषः | अकारान्तः । |
| १९. रमाजानिः | रमा जाया यस्य सः | बहुव्रीहिः | जायाशब्दस्य निङ् - आदेशः । |
| २०. महाबलः | महत् बलं यस्य सः | बहुव्रीहिः | महतः आत्वम् । |
अभ्यासः - १०
अधोनिर्दिष्टानां वाक्यानां समस्तपदेषु दोषाः सन्ति । दोषयुक्तं समस्तपदं स्थूलाक्षरैः निर्दिष्टम् अस्ति । तत्र युक्तं पदं लिखन्तु ।
१. एतादृशः जनः त्रिलोके अपि को ऽपि नास्ति ।
युक्तं पदम्: त्रिलोक्याम्
2. अद्यतनगोष्ठयां द्वित्रिजनाः आसन् ।
युक्तं पदम्: द्वित्राः
३. मम विद्यालये उपविंशतयः अध्यापकाः सन्ति ।
युक्तं पदम्: उपविंशाः
४. बालकः पाणिपादान् प्रक्षाल्य भोजनार्थं गतवान् ।
युक्तं पदम्: पाणिपादम्
५. कार्यसिद्ध्यर्थम् अहं यथाशक्तिः प्रयत्नं करोमि ।
युक्तं पदम्: यथाशक्ति
78
[[P85]]
६. स्वामीविवेकानन्देन उक्तम् - ‘उत्तिष्ठत, जाग्रत’ इति ।
७. गुप्तराज्ञां शासनकालः स्वर्णयुगम् इति उच्यते ।
८. कर्णाटकस्थे कोलारप्रदेशे महत्परिमाणेन सुवर्णं लभ्यते ।
युक्तं पदम्: महापरिमाणेन
९. त्रिविक्रमः मध्यरात्रौ अपि विना भीतिं गतवान् ।
युक्तं पदम्: मध्यरात्रे
१०. नवरात्र्युत्सवे जनाः सन्तोषेण भवन्ति ।
युक्तं पदम्: नवरात्रोत्सवे
११. भवत्सखा कृष्णः अद्य मिलितः आसीत् ।
युक्तं पदम्: भवत्सखः
१२. एषा उत्तमगौः भवता कुत्र क्रीता ?
युक्तं पदम्: उत्तमगवी
१३. प्रजानां हितम् अचिन्तयन् एषः अराजः एव ।
युक्तं पदम्: अराजा
१४. ज्ञातधर्मः अपि दुर्योधनः धर्ममार्गं न अनुसरति स्म ।
१५. कक्ष्यायाम् उपमङ्गलाम् उमा उपविशति ।
युक्तं पदम्: उपमङ्गलम्
* * *
79
[[P86]]