६ समासे प्रक्रियाः

१. रमापतिः
२. राजपुरुषः
३. पात्रेसमिताः
४. मेघश्यामः
५. हरिहरौ
६. कृष्णसखः
७. महाराजः
८. अराजा
९. यथाशक्ति
१०. शाकप्रति

एतानि दश समस्तपदानि विविच्यन्ते । तथा हि -

६.१. रमापतिः । (पूर्वपदे उत्तरपदे च विभक्तिलोपः । ततः समस्तपदात् सुबुत्पत्तिः)
रमायाः पति इति लौकिकविग्रहः । रमा + ङस् + पति + सु इति अलौकिकविग्रहः । द्वयोर् अपि विभक्त्योः लोपः । ततः रमापति इति समस्तात्पदात् सुप्रत्ययः (रमापति + सु) भवति । रुत्वे विसर्गे च रमापतिः इति निष्पन्नं भवति । अत्र पूर्वपदे उत्तरपदे वा प्रक्रियासम्बन्धी को ऽपि विशेषः नास्ति, विभक्तिलोपम् अन्तरा । समासे जाते पुनः समस्तात्पदात् सुबुत्पत्तिः भवतीति सदा स्मरणीयम् ।

६.२. राजपुरुषः । (पूर्वपदे विशेषः)
राज्ञः पुरुषः इति लौकिकविग्रहः । राजन् + ङस् + पुरुष + सु इति अलौकिकविग्रहः । विभक्त्योः लोपे राजन्पुरुष इति स्थिते पूर्वपदे श्रूयमाणस्य नकारस्य लोपः । ततः सुबुत्पत्तौ राजपुरुष इति निष्पन्नं भवति । अत्र पूर्वपदे नकारलोपः जातः इति पूर्वपदे प्रक्रियासम्बन्धी विशेषो ऽस्ति । एवम् एव जगदीश इत्यादौ सन्ध्यादिकम् अपि भवति ।

६.३. पात्रेसमिताः (पूर्वपदे अलुक्)
पात्रे समिताः इति लौकिकविग्रहः । पात्र + ङि + समित + जस् इति अलौकिकविग्रहः । अत्र जस्प्रत्ययस्यैव लोपः, न तु ङिप्रत्ययस्य । अतः एषः अलुक्समासः इत्य्-उच्यते । अत्र पूर्वपदे अलुग् एव विशेषः ।

64

[[P71]]

६.४. मेघश्यामः । (समासे प्राक्प्रयोगः कस्य पदस्य ?)
मेघ इव श्यामः इति लौकिकविग्रहः । मेघ + सु + श्याम + सु इति अलौकिकविग्रहः । विभक्त्योः लोपः । मेघश्यामः इति रूपसिद्धिः । अत्र मेघ इव श्याम इत्य्-अर्थे श्याममेघ इति कुतो न भवति, यथा - व्याघ्र इव पुरुषः = पुरुषव्याघ्रः इति ? एतादृशः सन्देहः समासे बहुत्र भवति । तदा समासविधायकं सूत्रम् एव शरणम् । ‘मेघश्याम’ इत्यत्र समासविधायकं सूत्रं “उपमानानि सामान्यवचनैः - २.१.५५” इति । अत्र सूत्रे उपमानानि इति प्रथमान्तं पदम् । तत् प्राक् प्रयोज्यम् इति नियमः । एवं च समासविधायकशास्त्रे यत् प्रथमान्तम् अस्ति तत्पदबोध्यं पूर्वं प्रयोक्तव्यम् इत्य्-अर्थः । अतः मेघश्याम इत्यत्र उपमानपदबोध्यं पदं ‘मेघ’ इति, सामान्यवचनपदबोध्यं ‘श्याम’ इति । सूत्रे ‘उपमानानि’ इति प्रथमान्तम् । ‘सामान्यवचनैः’ इति तृतीयान्तम् । अतः मेघपदम् एव प्राक् प्रयोज्यम् । एवम् एव सर्वत्र समासे व्यवस्था ज्ञेया ।

६.५. हरिहरौ (द्वन्द्वे [बहुव्रीहौ च] प्राक्प्रयोगः कस्य ?)
हरिश्च हरश्च इति लौकिकविग्रहः । हरि + सु + हर् + सु इति अलौकिकविग्रहः । विभक्त्योः लोपे पुनः सुबुत्पत्तौ हरिहरौ इति । अत्र द्वयोर् अपि प्रथमान्तपदबोध्यत्वं सम्भवति । अत हरहरी इत्य्-अपि प्राप्तम् । तदा घिसंज्ञकं (घि = इकारान्तम् उकारान्तं च प्रातिपदिकम्) प्राक्प्रयोज्यम् इत्य्-अर्थ-प्रतिपादकं ‘द्वन्द्वे घि - २.२.३२’ इति सूत्रं प्रवृत्तम् । अतः द्वन्द्वे विशेषसूत्रैः पूर्वपदव्यवस्था क्वचित् ज्ञेया । एवम् एव बहुव्रीहौ अपि ।

६.६. कृष्णसखः । (उत्तरपदे विशेषः)
कृष्णस्य सखा इति लौकिकः विग्रहः । कृष्ण + ङस् + सखि + सु इति अलौकिकविग्रहः । विभक्त्योः लोपे कृष्णसखि इति भवति । ‘राजाहःसखिभ्यष्टच् - ५.४.९१’ इति सूत्रेण टच् (अ) प्रत्यये [कृष्णसखि + अ (टच्)] इकारस्य लोपे च कृते सुबुत्पत्तौ

65

[[P72]]

कृष्णसखः इति निष्पद्यते । अत्र उत्तरपदे विकारः जातः । सः समासान्तप्रत्ययनिमित्तः । अतः सर्वेषु समासेषु (तत्पुरुषे, बहुव्रीहौ, द्वन्द्वे, अव्ययीभावे च) क्वचित् उत्तरपदस्य विकारो जायते ।

६.७. महाराजः (पूर्वोत्तरपदयोः विशेषः)
महान् राजा इति लौकिकविग्रहः । महत् + सु + राजन् + सु इति अलौकिकविग्रहः । विभक्त्योः लोपे ‘महत् राजन्’ इति भवति । ‘आन्महतः समानाधिकरणजातीययोः - ६.३.४६’ इति सूत्रेण महतः तकारस्य आत्वे (मह + आ + राजन्) सवर्णदीर्घे महाराजन् इति भवति । टच्प्रत्यये च कृते सुबुत्पत्तौ महाराज इति निष्पद्यते । अत्र पूर्वोत्तरयोः द्वयोर् अपि पदयोः प्रक्रियाविशेषः विद्यते ।

६.८. अराजा (समासान्तस्य क्वचित् निषेधः)
न राजा इति लौकिकः विग्रहः । न + राजन् + सु इति अलौकिकविग्रहः । विभक्त्योः लोपे ‘नलोपो नञः - ६.३.७३’ इति सूत्रेण नकारस्य(न्) लोपे पुनः सुबुत्पत्तौ अराजा इति निष्पद्यते । अत्र ‘राजाहःसखिभ्यष्टच्’ इति सूत्रेण विधीयमानः टच् न प्रवृत्तः । ‘नञस्तत्पुरुषात् - ५.४.७१’ इति टचः निषेधात् । अतः समासान्तस्यापि क्वचित् निषेधो ऽस्ति ।

६.९. यथाशक्ति । (पूर्वपदविषये अस्वपदविग्रहः)
शक्तिम् अनतिक्रम्य इति लौकिकविग्रहः । शक्ति + अम् + यथा + इति अलौकिकविग्रहः । विभक्त्योः लोपः । यथा इत्यस्य पूर्वोपस्थितिः । पुनः सुबुत्पत्तौ यथाशक्ति + सु इति जाते ‘अव्ययादाप्सुपः - २.४.८२’ इति पुनः सुप्रत्यस्य लोपे यथाशक्ति इति निष्पद्यते । अत्र लौकिकविग्रहे अनतिक्रम्य इति श्रूयते । अलौकिकविग्रहे तु यथा इति । अतः समासः यथा इत्यस्य शक्ति इत्य्-अनेनैव, न तु अनतिक्रम्य इति पदेन सह । नित्यसमासे सर्वत्र एषा गतिर् एव । एवं च अत्र पूर्वपदविषये स्वपदविग्रहो नास्तीति तात्पर्यम् ।

66

[[P73]]

६.१०. शाकप्रति । (उत्तरपदविषये अस्वपदविग्रहः)
शाकस्य लेशः इति लौकिकविग्रहः । शाक + ङस् + प्रति + सु इति अलौकिकविग्रहः । विभक्तेः लोपः । पुनः सुबुत्पत्तिः लोपश्च । शाकप्रति इति निष्पद्यते । अत्रापि प्रति इत्य्-अनेनैव सह समासः, न तु लेशपदेन सह । एषः अपि नित्यसमासः । अतः अत्र उत्तरपदविषये स्वपदविग्रहो नास्ति ।

पूर्वोक्तानाम् एष सङ्ग्रहः

१. पूर्वोत्तरपदयोः प्रक्रियाविशेषः क्वचित् नास्ति । यथा - रमापतिः ।
२. पूर्वपदे नकारलोपादिकं, अलुक्त्वं प्राक्प्रयोज्यत्वं च सम्भवति । यथा - राजपुरुषः, पात्रेसमिताः, हरिहरौ च ।
३. उत्तरपदे समासान्तत्वं, समासान्तनिषेधश्च सम्भवतः । यथा - कृष्णसखः, अराजा ।
४. पूर्वोत्तरयोः द्वयोर् अपि प्रक्रियाविशेषः भवति । यथा - महाराजः ।
५. लौकिकविग्रहे क्वचित् पूर्वपदं, क्वचित् उत्तरपदम् अन्यत् श्रूयते । यथा - उपकृष्णम्, शाकप्रति ।


67

[[P74]]