५ इदमवधेयम्

५.१. परस्परान्वितयोः एव समासः । किन्तु ….
परस्परान्वितयोः पदयोः समासः भवति । किन्तु परस्परान्वयो ऽस्तीति सर्वत्र समासो न भवति ।
यथा - ग्रामं गतवान् । अत्र परस्परान्वयः अस्ति । तथापि समासो न भवति । ग्रामगतवान् इति असाधुर् एव । समासविधायकस्य सूत्रस्य अभावः अत्र कारणम् । अतः एकैकस्यापि समासस्य समासविधायकं सूत्रं भवत्य्-एवेति ज्ञेयम् ।

५.२. ‘यत्र यत्र विग्रहः तत्र तत्र समासः’ इति न ।
यत्र यत्र विग्रहः वक्तुं शक्यते तत्र तत्र समासो भवति इति न मन्तव्यम् । यथा - राष्ट्रस्य अयं = राष्ट्रियः । अत्र राष्ट्रस्य अयम् इति विग्रहः । राष्ट्रिय इति तु तद्धितवृत्तिः । अत एव वृत्त्यर्थावबोधकं वाक्यं विग्रहः इत्य्-उक्तं, न तु समासार्थवबोधकं वाक्यं विग्रहः इति ।

५.३. कर्मधारयः द्विगुश्च तत्पुरुषभेदौ एव ।
तत्पुरुषः, द्वन्द्वः, अव्ययीभावः, बहुव्रीहिः चेति समासः चतुर्धा इत्य्-एव शास्त्रीयः क्रमः । कर्मधारयः द्विगुः च तत्पुरुषे एव अन्तर्भवतः ।

५.४. ‘यत्र यत्र पूर्वपदं सङ्ख्या तत्र तत्र द्विगुः’ इति न ।
सङ्ख्यापूर्वः द्विगुः । किन्तु सङ्ख्यापूर्वकः समासः सर्वो ऽपि न द्विगुः ।
यथा - पञ्चपुत्रः पाण्डुः । एषः बहुव्रीहिः । अनेकवद्भावी द्विगुर् इति नास्ति । सप्तर्षय इति तु कर्मधारयः ।

५.५. सुबन्तयोर् एव समासः ।
कुम्भं करोति इत्यादौ उपपदसमासस्य विग्रहे तिङन्तं श्रूयते, न तु समासे । अतः सुबन्ततिङन्तयोः न समासः ।

59

[[P66]]

५.६. प्रथमान्तेन प्रथमं विग्रहः ।
कूपपतितेन आक्रुश्यते । कूपं पतितः = कूपपतितः । तेन कूपपतितेन । इत्य्-एवं विग्रहः प्रदर्शनीयः, न तु कूपं पतितेन = कूपपतितेनेति । समासे कृते प्रथमान्तेन प्रथमम् उच्चारणीयम् । अनन्तरम् इष्टा विभक्तिः योजनीया । सर्वत्र समासे एषः क्रमः ।

५.७. कर्मधारये विग्रहः द्विप्रकारकः ।
नीलः मेघः = नीलमेघः, नीलश्चासौ मेघश्च = नीलमेघः - इति उभयथापि विग्रहः प्रदर्श्यते । अत्र प्रथमः प्रकारः आदृतः ।

५.८. अव्ययीभावे प्रायः विभक्तिश्रवणं न ।
अव्ययीभावसमासे (अकारान्तम्, टच्प्रत्ययान्तं च विहाय) यथाशक्ति, प्रतिवधु, आकन्याकुमारि, प्रतिकार्यकर्तृ - इत्यादौ विभक्तेः श्रवणं न भवति । अतः यथाशक्तिः इति, यथाशक्तिम् इति वा न प्रयोक्तव्यम् ।

५.९. विधायकसूत्रम् अस्ति चेद् एव समासः ।
गुरवे दक्षिणा = गुरुदक्षिणा इति विग्रहः न प्रदर्शनीयः । गुरोः दक्षिणा = गुरुदक्षिणा इति षष्ठीतत्पुरुषः एव । बलि-हित-सुख-रक्षित-शब्दैः सहैव चतुर्थ्यन्तं समस्यते, नान्यैः शब्दैः । (किन्तु कुण्डलाय हिरण्यं = कुण्डलहिरण्यम् इत्यादौ प्रकृतिविकृतिभावे, बालकाय अयं = बालकार्थः इत्यादौ अर्थशब्देन च समासः भवति ।)

५.१०. एकशेषः न समासः ।
(माता च पिता च) = पितरौ, (भ्राता च स्वसा च) = भ्रातरौ इत्यादौ कः समासः इति प्रश्नः नोचितः । यतः एकशेषः न समासः, अपि तु पृथक्वृत्तिर् एव । किन्तु विग्रहः कथम् इति प्रश्नः युक्तः एव । वृत्त्यर्थावबोधकं वाक्यं खलु विग्रहः ।

60

[[P67]]

५.११. क्रियाविशेषणस्थले…..
‘निर्दयं कथयति’ इत्यादौ निर्दयम् इति क्रियाविशेषणम् । अस्य विग्रहः व्याख्यानादिषु इत्थं प्रदर्श्यते । यथा - निर्गता दया यस्मिन् कर्मणि तद् यथा भवति तथा = निर्दयम् इति । एतादृशं बहुव्रीहाव्-एव अन्तर्भवति ।

५.१२. एकया वृत्त्या इष्टार्थे सिद्धे वृत्तिद्वयस्य कल्पनम्….
‘लक्ष्मीनारायणस्वरूपौ वधूवरौ’ इति ‘लक्ष्मीनारायणस्वरूपिणौ वधूवरौ’ इति च प्रयुज्येते । अनयोर् द्वयोर् अपि साधुत्वम् अस्ति ।
यथा - i) लक्ष्मीनारायणयोः स्वरूपम् इव स्वरूपं ययोः तौ लक्ष्मीनारायणस्वरूपौ इति प्रथमवाक्ये बहुव्रीहिः ।
ii) लक्ष्मीनारायणयोः स्वरूपं = लक्ष्मीनारायणस्वरूपम् । लक्ष्मीनारायणस्वरूपम् अनयोः अस्ति इति लक्ष्मीनारायणस्वरूपिणौ इति द्वितीयवाक्ये विग्रहः । अत्र तत्पुरुषात् मतुबर्थे इन्प्रत्ययः कृतः ।

इत्थम् एव दीर्घकेशः (दीर्घाः केशाः यस्य सः) दीर्घकेशी (दीर्घाः केशाः = दीर्घकेशाः, दीर्घकेशाः अस्य सन्तीति = दीर्घकेशी) इत्यादयः प्रयोगाः व्याख्यातव्याः ।

इदमत्र ज्ञेयम् - प्रथमवाक्ये एका एव वृत्तिः (समासः) अस्ति । द्वितीयवाक्ये वृत्तिद्वयम् (समासवृत्तिः + तद्धितवृत्तिः) आश्रितम् । अर्थस्तु न भिद्यते । किन्तु प्रथमवाक्ये प्रयुक्ते समस्तपदे लाघवम् अस्ति । अतः तादृशः प्रयोगः औचित्यम् आवहति । अत एव वैयाकरणानां समयः अस्ति ‘न कर्मधारयात् मत्वर्थीयः बहुव्रीहिश्चेद् अर्थप्रतिपत्तिकरः’1 इति । एकया वृत्त्या इष्टार्थः लब्धश्चेत् तत्र वृत्तिद्वयं न कल्पनीयम् इति वाक्यस्याभिप्रायः । किन्तु अस्य समयस्य अनित्यत्वाङ्गीकारात् पूर्वोक्तप्रयोगद्वयम् अपि समर्थ्यते ।

61

[[P68]]

५.१३. अर्थवत् समासः
अर्थम् अनुसृत्य विग्रहवाक्यं वक्तव्यं, समासश्च निश्चेतव्यः । ‘लोकनाथः’ इत्यादौ द्वयोर् अर्थयोः प्रतीतिः सम्भवति । यथा -
i) लोकस्य नाथः = लोकनाथः (षष्ठीतत्पुरुषः) = राजा इत्य्-अर्थः ।
ii) लोकः नाथः यस्य सः = लोकनाथः (बहुव्रीहिः) भिक्षुकः इत्य्-अर्थः ।

एतादृशस्थले प्रकरणं विशेष्यं वा परिशील्य विग्रहो वक्तव्यः । समस्तं पदं वाक्यस्य अवयवभूतं सद् एव अभिप्रेतम् अर्थं बोधयति, न तु स्वतन्त्रतयेति तु न विस्मर्तव्यम् ।

५.१४. दीर्घे समस्तपदे विग्रहः
दीर्घे समस्तपदे त्रिचतुराणि, पञ्चषाणि, ततो ऽप्य्-अधिकानि अपि पदानि अन्तर्भूतानि भवन्ति । तत्र विग्रहः इत्थं प्रदर्शनीयः । यथा -
वागर्थप्रतिपत्तये = वाक् च अर्थः च = वागर्थौ
वागर्थयोः प्रतिपत्तिः = वागर्थप्रतिपत्तिः
तस्यै वागर्थप्रतिपत्तये ।

यथा वा -
प्रथमकक्ष्यापाठ्यपुस्तकम् = प्रथमा कक्ष्या = प्रथमकक्ष्या
पाठ्यं च तत् पुस्तकं च = पाठ्यपुस्तकम्
प्रथमकक्ष्यायाः पाठ्यपुस्तकं = प्रथमकक्ष्यापाठ्यपुस्तकम् ।

अतः युगपद् एव सर्वैः पदैः समासो न वक्तव्यः, द्वन्द्वसमासं विना । (प्रथमपृष्ठे द्वितीया टिप्पणी अपि द्रष्टव्या ।)

५.१५. प्रादिसमासः तत्पुरुषः बहुव्रीहिश्चापि
प्रादिसमासः तत्पुरुषो ऽप्य्-अस्ति, बहुव्रीहिर् अपि ।
यथा - i) प्रादितत्पुरुषः - शोभनः जनः = सुजनः
प्रगतः आचार्यः = प्राचार्यः
मान्यम् अतिक्रान्तः = अतिमान्यः

62

[[P69]]

ii) प्रादिबहुव्रीहिः - शोभनः गन्धः यस्य सः = सुगन्धिः
दुर्गता मेघा यस्य सः = दुर्मेघाः
निर्गता करुणा यस्मात् सः = निष्करुणः ।
अतः अर्थं परिशील्य सुक्ष्मेक्षिकया भेदो ऽवगन्तव्यः ।

५.१६. नञ्समासो ऽपि द्विधा
नञ्समासो ऽपि द्विधा - नञ्तत्पुरुषः नञ्बहुव्रीहिश्चेति ।
यथा - i) नञ्तत्पुरुषः - न सन्देहः = असन्देहः
न विवादः = अविवादः
ii) नञ्बहुव्रीहिः - अविद्यमानः पुत्रः यस्य सः = अपुत्रः
अविद्यमानं धनं यस्य सः = अधनः
अतः अत्रापि अर्थम् अवगम्य विग्रहः वक्तव्यः ।

५.१७. समासः सर्वो ऽपि विकल्पेन
समासः सर्वो ऽपि विकल्पेन प्रवर्तते । (केचन नित्यसमासाः सन्ति । १५ पृष्ठे - २.५.३. पश्यन्तु ।) अतः ‘रामः कृष्णश्च गच्छतः’ इति, ‘रामकृष्णौ गच्छतः’ इति वा प्रयोक्तुं शक्यम् । एवम् एव ‘राज्ञः दूतः तिष्ठति’ इति, ‘राजदूतस् तिष्ठति’ इति वा प्रयोक्तुं शक्यम् ।

५.१८. सन्धिसमासयोः भेदः

सन्धिः समासः
◇ वर्णनिमित्तकः । ◇ पदनिमित्तकः ।
◇ वर्णानां संहिता* स्याद् एव । संहितायां सत्यां सन्धिः नित्यः । ◇ समासे पदयोः पदानां वा परस्परान्वयः स्याद् एव ।
◇ सन्धिः पदे पदमध्ये समासे च भवति । ◇ सुबन्तयोः समासः ।
◇ क्वचिद् एव पदम् अपि निमित्तत्वेन आश्रीयते । यथा - हरे + ए = हरये ◇ समासः विकल्पेन प्रवर्तते । (नित्यसमासस्थलात् ऋते)

(* संहितैकपदे नित्या, नित्या धातूपसर्गयोः । नित्या समासे, वाक्ये तु सा विवक्षाम् अपेक्षते ।।)


63

[[P70]]


    • कर्मधारयपदं वृत्तेः उपलक्षणम् ।
     ↩︎