सोदाहरणं समासभेदाः द्वितीयप्रकरणे निरूपिताः । एकैकस्य भेदस्य एकैकम् उदाहरणं प्रदर्शितम् । आदर्शभूतानि तानि उदाहरणानि मनसि निधायैव बहुत्र समासं निश्चेतुं प्रभवामः । तथापि समासे प्राधान्येन अंशद्वयं ज्ञातव्यं भवति । तथा हि -
१. क्वचित् परिगणितैर् एव शब्दैः समासो भवति ।
यथा – चोरात् भयम् = चोरभयम् । वनं प्राप्तः = वनप्राप्तः इति भवति । किन्तु चोरात् रक्षणम् = चोररक्षणम् इति, वनं प्राप्तवान् = वनप्राप्तवान् इति वा समासः उक्तार्थे न भवति ।
२. पूर्वपदव्यवस्था -
यथा - प्रथमः पुरुषः इति पुरुषः प्रथमः इति वा विग्रहे कृते ऽपि समासे प्रथमपुरुष इत्य्-एव भवति, न तु पुरुषप्रथम इति ।
एवम् अन्ये ऽपि सूक्ष्मांशाः ज्ञातव्याः भवन्ति । अतः द्वितीयप्रकरणे उक्तानां भेदानाम् एव विस्तरेण निरूपणम् अत्र क्रियते । तावतापिसर्वो ऽपि समासविषयः उक्तो न भवति । प्रधानविषयाः केवलं निरूपिताः भवन्ति ।
४.१.१. तत्पुरुषः
४.१.१.१. प्रथमातत्पुरुषः
१. पूर्व-अपर-अधर-उत्तर-शब्दाः समांशवाची अर्धशब्दश्च अवयविवाचक-सुबन्तेन समस्यन्ते । किन्तु अवयवी एकत्वसंख्याविशिष्टो भवेत् ।
dपूर्व कायस्य = पूर्वकायःc
अपरं गृहस्य = अपरगृहम्,
a. ७ - पृष्ठं पश्यन्तु । b. ७ - पृष्ठं पश्यन्तु । c. ६२ - पृष्ठं पश्यन्तु । d. पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे - २.२.१, e. पूर्वः छात्राणां - पूर्वच्छात्रा इति न भवति । अवयवी एकवचनान्तो भवेद् इति उक्तत्वात् ।
34
[[P41]]
अधरं भवनस्य = अधरभवनम्,
उत्तरं रात्रे = उत्तररात्रःg
अर्धं पिप्पल्याः = अर्धपिप्पली
२. सर्वो ऽप्य्-एकदेशवाचकः शब्दः कालवाचकेन शब्देन समस्यते ।
hमध्यम् अह्नः = मध्याह्नः ।
hसायम् अह्नः = सायाह्नः
hपूर्वम् अह्नः = पूर्वाह्णः
hअपरम् अह्नः = अपराह्णः,
मध्यं रात्रेः = मध्यरात्रःg
पश्चिमं रात्रेः = पश्चिमरात्रःg
४.१.१.२. द्वितीयातत्पुरुषः
द्वितीयाविभक्त्यन्तं२ सुबन्तं, श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न-३गमि-३गामि-बुभुक्षु-शब्दैः समस्यते ।
कृष्णं श्रितः = कृष्णश्रितः,
दुःखम् अतीतः = दुःखातीतः
कूपं पतितः = कूपपतितः
ग्रामं गतः = ग्रामगतः,
मार्गम् अत्यस्तः = मार्गात्यस्तः
शालां प्राप्तः = शालाप्राप्तः,
संशयम् आपन्नः = संशयापन्नः
ग्रामं गमी = ग्रामगमी,
नगरं गामी = नगरगामी,
अन्नं बुभुक्षुः = अन्नबुभुक्षुः
एतेषु उत्तरपदं श्रितादिषु दशसु अन्यतमं भवेत्, नान्यत् । अत एव अन्नं भुक्तवान् = अन्नभुक्तवान् इति समासो न भवति ।
४.१.१.३. तृतीयातत्पुरुषः
१. तृतीयाविभक्त्यन्तं४ सुबन्तं, पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-५संमिश्र-श्लक्ष्ण-अवर६-शब्दैः समस्यते । (ऊनार्थः = ऊनार्थ-बोधकानि पर्यायपदानि ।)
f. ग्रामार्थः इति तु षष्ठीतत्पुरुषः । अतः ग्रामस्य अर्ध इति पुंल्लिङ्गेनार्धशब्देन विग्रहो वक्तव्यः । g. २१- पृष्ठं पश्यन्तु । h. प्रथमातत्पुरुषे ‘अहन्’ शब्दः यद्य्-उत्तरपदं भवति तदा अहन्शब्दस्य स्थाने ‘अह्न’ इत्यादेशः भवति ।, २. द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः - २.१.२४, ३. गम्यादीनाम् उपसंख्यानम् (वा), ४. पूर्वसदृशसमोऊनार्थकलहनिपुणमिश्रश्लक्ष्णैः २.१.३१, ५. मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । ‘सम्मिश्र’ इति प्रयोगप्राचुर्यात् उपात्तम् । सति प्रयोगे उपसर्गान्तरेण युक्तस्यापि ग्रहणं कर्तव्यम् । ६. अवरस्योपसंख्यानम् (वा)।
35
[[P42]]
मासेन पूर्वः = मासपूर्वः
मात्रा सदृशः = मातृसदृशः,
पित्रा समः = पितृसमः,
माषेण ऊनम् = माषोनम्,
माषेण विकलम् = माषविकलम्,
वाचा कलहः = वाक्कलहः
आचारेण निपुणः = आचारनिपुणः
गुडेन मिश्रः = गुडमिश्रः,
गुडेन संमिश्रः, = गुडसंमिश्रः,
आचारेण श्लक्ष्णः = आचारश्लक्ष्णः,
मासेन अवरः = मासावरः,
२. तृतीयाविभक्त्यन्तं७ कृदन्तेन प्रायः समस्यते (तृतीयाविभक्त्यन्तं = कर्तृ-तृतीयान्तं (हरिणा त्रातः) करणतृतीयान्तं (नखैः भिन्नः) वा भवेत् ।)
हरिणा त्रातः = हरित्रातः
तेन कृतम् = तत्कृतम्
कालिदासेन रचितम् = कालिदासरचितम्
परशुना विच्छिन्नः = परशुविच्छिन्नः
नखैः भिन्नः = नखभिन्नः
खड्ङ्गेन छिन्नः = खङ्गच्छिन्नः
प्रायः इति कथनात् दण्डेन ताडितवान् = दण्डताडितवान् इति समासो न भवति ।
३. संस्कारद्रव्यं८ दध्यादि अन्नवाचिना, ९मिश्रीकरणं गुडादि च भक्ष्यवाचिना समस्यते ।
दध्ना ओदनः = दध्योदनः
क्षीरेण ओदनः = क्षीरोदनः
गुडेन पृथुकाः = गुडपृथुकाः
गुडेन धानाः = गुडधानाः
(धानाः = भ्रष्टयवाः)
४.१.१.४. चतुर्थीतत्पुरुषः
चतुर्थीविभक्त्यन्तं१० तदर्थ-अर्थ-बलि-हित-सुख-रक्षितशब्दैः समस्यते ।
[i) तदर्थः = चतुर्थ्यन्तवाच्याय यत् तत् । प्रकृतिविकृतिभावे एव अयं (तादर्थ्येन) समासः । यथा - कुण्डलाय हिरण्यम् । चतुर्थ्यन्तवाच्यं
७. कर्तृकरणे कृता बहुलम् - २.१.३२, ८. अन्नेन व्यञ्जनम् - २.१.३४ ९. भक्ष्येण मिश्रीकरणम् - २.१.३५, १०. चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः - २.१.३६
36
[[P43]]
कुण्डलम् । तस्मै कुण्डलाय यत्तत् हिरण्यम् । अत्र हिरण्यं प्रकृतिः । कुण्डलं विकृतिः ।
ii) अर्थः = अर्थशब्देन११ चतुर्थ्यन्तं नित्यं समस्यते । विशेष्यस्य यल्लिङ्गं तल्लिङ्गं च भवति । नित्यसमासत्वात् विग्रहवाक्ये अर्थ-शब्दस्य श्रवणं न भवति । यथा- द्विजाय अयम् = द्विजार्थः (सूपः)]
यूपाय दारु = यूपदारु
कुण्डलाय हिरण्यम् = कुण्डलहिरण्यम्
द्विजाय अयम् = द्विजार्थः (सूपः)
छात्राय इयम् – छात्रार्था (यवागूः)
शिशवे इदम् = शिश्वर्थम् (पयः)
भूतेभ्यो बलिः = भूतबलिः
गवे हितम् = गोहितम्
गवे सुखम् = गोसुखम्
गवे रक्षितम् = गोरक्षितम्
अर्थादीन् पञ्च शब्दान् विहाय चतुर्थ्यन्तम् अन्येन केना ऽपि पदेन न समस्यते । (प्रकृतिविकृतिभावे तु तदर्थसमासो भवति । तादृशानि विरलानि एव उदाहरणानि ।) अतः गुरुदक्षिणा इत्यादौ गुरवे दक्षिणा इति न विग्रहः । किन्तु गुरोः दक्षिणा इत्य्-एव विग्रहः ।
४.१.१.५. पञ्चमीतत्पुरुषः
i) पञ्चमीविभक्त्यन्तं१२ भय-भीत-भीति-भी१३-शब्दैः समस्यते ।
चोराद् भयम् = चोरभयम्
वृकात् भीतिः = वृकभीतिः
व्याघ्राद् भीतः = व्याघ्रभीतः
वृश्चिकात् भीः = वृश्चिकभीः
एतेष्वपि उत्तरपदं, भयादिषु अन्यतमं भवेत्, नान्यत् । अतः चोराद् रक्षितः = चोररक्षितः, व्याघ्रात् त्रातः = व्याघ्रत्रातः इति समासो न भवति । ग्रामात् निर्गतः = ग्रामनिर्गतः, अधर्माद् जुगुप्सुः = अधर्मजुगुप्सुः इति समासो भवतीति भाष्यकारः ।
११. अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् । (वा) १२. पञ्चमी भयेन - २.१.३७ ।. १३. भयभीतभीतिभीभिर् इति वाच्यम् । (वा)
37
[[P44]]
ii) कतिपयान्य्-एव पञ्चम्यन्तानि१४ अपेत-अपोढ-मुक्त-पतित-अपत्रस्तशब्दैः समस्यन्ते ।
सुखाद् अपेतः = सुखापेतः
कल्पनायाः अपोढः = कल्पनापोढः
चक्राद् मुक्तः = चक्रमुक्तः
स्वर्गात् पतितः = स्वर्गपतितः
तरङ्गात् अपत्रस्तः = तरङ्गापत्रस्तः
अत्रापि उत्तरपदम् अपेतादिषु पञ्चसु अन्यतमं भवेत्, नान्यत् । किन्तु एषः समासः सर्वत्र न भवति । शिष्टप्रयोगं दृष्ट्वा समासो वक्तव्यः । अतः प्रासादात् पतितः = प्रासादपतितः इति समासो न भवति ।
iii) पञ्चम्यन्तः १५शतशब्दः सहस्त्रशब्दश्च पर इति शब्देन समस्यते ।
शतात् परे = परश्शताः
सहस्त्रात् परे = परस्सहस्त्राः
राजदन्तादिगणे निपातनात् शतसहस्त्रशब्दयोः परनिपातत्वं सुडागमश्च ।
४.१.१.६. षष्ठीतत्पुरुषः
षष्ठीविभक्त्यन्तं१६ सुबन्तेन समस्यते ।
राज्ञः पुरुषः = राजपुरुषः
देवस्य पूजकः = देवपूजकः
भुवः भर्ता = भूभर्ता
अर्थस्य गौरवम्१७ = अर्थगौरवम्
बुद्धेः मान्द्यम् = बुद्धिमान्द्यम्
त्रयाणां पन्थाः२० = त्रिपथम्
तस्य उपरि१८ = तदुपरि
मद्राणां राजा१९ = मद्रराजः
कृष्णस्य सखा१९ = कृष्णसखः
विष्णोः पूः२० = विष्णुपुरम्
राज्ञः धूः२० = राजधुरा
१४. अपेतापोढमुक्तपतितापत्रस्तैरल्पशः - २.१.३८, १५. शतसहस्त्रौ परेणेति वक्तव्यम् (वा) १६. षष्ठी - २.२.८, १7. गुणार्थेन षष्ठी न समस्यते । किन्तु निषेधो ऽयं क्वाचित्कः । १८. अव्ययेन षष्ठी न समस्यते । यथा- ब्राह्मणस्य कृत्वा । किन्तु कृद्भिन्नेन अव्ययेन षष्ठी समस्यते । १९. राजाहःसखिभ्यष्टच् - ५.४.९१ । २०. ऋक्पूरब्धूः पथामानक्षे - ५.४.७४ इति अच्प्रत्ययः ।
38
[[P45]]
पुरुषस्य आयुः२१ = पुरुषायुषम्
ब्रह्मणः वर्चः२२ = ब्रह्मवर्चसम्
राज्ञः वर्चः२३ = राजवर्चसम्
पाणिनेः उपज्ञा२४ = पाणिन्युपज्ञम् (ग्रन्थः) (पाणिनिना प्रथमं ज्ञायमानः)
इक्षूणां छाया२५ = इक्षुच्छायम्
४.१.१.७. सप्तमीतत्पुरुषः
i) सप्तमीविभक्त्यन्तं शौण्ड२६-अधि-धूर्त-कितव-प्रवीण-पण्डित-कुशल-निपुण-चपल-सिद्ध-शुष्क-पक्व-२७बन्ध-शब्दैः समस्यते ।
अक्षेषु शौण्डः = अक्षशौण्डः
ईश्वरे अधि = ईश्वराधीनः
अक्षेषु धूर्तः = अक्षधूर्तः
अक्षेषु कितवः = अक्षकितवः
वीणायां प्रवीणः = वीणाप्रवीणः
वेदे पण्डितः = वेदपण्डितः
काव्ये कुशलः = काव्यकुशलः
शास्त्रेषु निपुणः = शास्त्रनिपुणः
कार्ये चपलः = कार्यचपलः
काश्यां सिद्धः = काशीसिद्धः (सिद्धः = निष्पन्नः)
आतपे शुष्कः = आतपशुष्कः
स्थाल्यां पक्वः = स्थालीपक्वः
चक्रे बन्धः = चक्रबन्धः
ii) सप्तम्यन्तं ध्वांक्षवाचिना२८ समस्यते, किन्तु निन्दायां गम्यमानायाम् ।
तीर्थे ध्वांक्ष इव = तीर्थध्वांक्षः (गुरुकुलेषु यः चिरं न वसति सः इत्य्-अर्थः ।)
तीर्थे काक इव = तीर्थकाकः
२१. अचतुर…पुरुषायुष…गोष्ठश्वाः - ५.४.७७ इति सूत्रे निपातनात् अच्प्रत्ययः । २२. ब्रह्महस्तिभ्यां वर्चसः - ५.४.७८ इति अच्प्रत्ययः । २३. पल्यराजभ्यां चेति वक्तव्यम् (वा) इति अच्प्रत्ययः । २४. उपज्ञोपक्रमं तदाद्याचिख्यासायाम् - २.४.२१ इति नपुंसकत्वम् । २५. छाया बाहुल्ये - २.४.२२ । पूर्वपदबाहुल्ये एव नपुंसकत्वम् । अतः वृक्षस्य छाया = वृक्षच्छाया इत्यत्र न नपुंसकत्वम् । २६. सप्तमी शौण्डैः - २.१.४० (शौण्डादिषु प्रसिद्धाः शब्दाः स्वीकृताः ।) २७. सिद्धशुष्कपक्वबन्धैश्च - २.१.४१ २८. ध्वांक्षेण क्षेपे - २.१.४२
39
[[P46]]
४.१.२. कर्मधारयः
समानविभक्त्यन्तयोर् एव२९ कर्मधारयसमासः भवति इति सामान्य-लक्षणम् । अतः कर्मधारयस्य सर्वेषु भेदेषु इदं सामान्यलक्षणम् अनुवर्तते ।
४.१.२.१. विशेषणपूर्वपदः
विशेषणवाचि३० सुबन्तं विशेष्यवाचिना सुबन्तेन समस्यते ।
नीलम् उत्पलम्a = नीलोत्पलम्
दीर्घा रज्जुः = दीर्घरज्जुः
उन्नतः वृक्षः = उन्नतवृक्षः
अधः प्रदर्शितेषु उदाहरणेषु यानि पूर्वपदानि सन्ति तानि कर्मधारये सदा पूर्वम् एव प्रयोक्तव्यानि । यथा- प्रथमः वैयाकरणः इति, वैयाकरणः प्रथम इति वा विवक्षिते प्रथमवैयाकरण इत्य्-एव भवति, न तु वैयाकरणप्रथमः इति ।
२९. तत्पुरुषः सामानाधिकरणः कर्मधारयः - १.२.४२ ३०. विशेषणं विशेष्येण बहुलम् - २.१.५७ a. जातिशब्दः, गुणशब्दः, क्रियाशब्दः, संज्ञाशब्दश्चेति चतुर्विधः शब्दः अस्ति । १. जातिशब्दाः - वृक्षः, उत्पलम्, इत्यादयः । २. गुणशब्दाः - कुब्जः, शीतम् इत्यादयः । ३. क्रियाशब्दाः - पाचकः, पाठकः, नर्तकः इत्यादयः। ४. संज्ञाशब्दाः - अयोध्या, काशी, देवदत्तः इत्यादयः । गुणक्रियासंज्ञाशब्दसमभिव्याहारे जातिशब्दः विशेष्यसमर्पकः । यथा- दीर्घवृक्षः । पाठकब्राह्मणः । अयोध्यानगरी । गुणशब्दयोः समभिव्याहारे विशेषण-विशेष्यभावस्य नियमः नास्ति । यथा - खञ्जकुब्जः । कुब्जखञ्जः । क्रियाशब्दयोर् अपि विशेषणविशेष्यभावस्य नियमो नास्ति । यथा- पाठकनर्तकः । नर्तकपाठकः । गुणक्रियाशब्दयोर् अपि विशेषणविशेष्यभावस्य नियमो नास्ति । यथा - कुब्जपाचकः । पाचककुब्जः । जातिशब्दसमभिव्याहारे संज्ञाशब्दः विशेषणम् एव । यथा - कैलासाद्रिः । सामान्यजाति-विशेषजातिशब्दयोः समभिव्याहारे विशेषजातिर् एव विशेषणम् । यथा - आम्रवृक्षः । तत्र दीर्घवृक्षादयः विशेषण-पूर्वपदस्य, खञ्जकुब्जः, पाठकनर्तकः, कुब्जपाचकः, इत्यादयः विशेषणोभयपदस्य, कैलासाद्रिः इत्यादयः सम्भावनापूर्वपदस्य च उदाहरणानि इति विवेक्तव्यम् ।
40
[[P47]]
एकः पुरुषः३१ = एकपुरुषः ।
सर्वे देवाः = सर्वदेवाः ।
जरन्तः नौयायिकाः = जरन्नैयायिकाः ।
जरन् गौः = जरद्गवः ।
पुराणः पुरुषः = पुराणपुरुषः ।
नवाः पाठकाः = नवपाठकाः ।
केवलाः वैयाकरणाः = केवलवैयाकरणाः ।
पूर्वः पुरुषः३२ = पूर्वपुरुषः ।
अपरः मीमांसकः = अपरमीमांसकः ।
अपरः अर्धः = परार्धः ।
प्रथमः पुरुषः = प्रथमपुरुषः ।
चरमं भाषणम् = चरमभाषणम् ।
जघन्यः श्लोकः = जघन्यश्लोकः ।
समानः मन्त्रः = समानमन्त्रः ।
मध्यं गृहम् = मध्यगृहम् ।
मध्यमः मार्गः = मध्यममार्गः ।
वीरः पुरुषः = वीरपुरुषः ।
सन् वैद्यः = सद्वैद्यः ।
महान् वैयाकरणः = महावैयाकरणः ।
परमः पुरुषः = परमपुरुषः ।
उत्तमः पुरुषः = उत्तमपुरुषः ।
उत्कृष्टः वैद्यः = उत्कृष्टवैद्यः ।
सप्त ऋषयः३३ = सप्तर्षयः ।
पञ्च आम्राः = पञ्चाम्राः।
३१. पूर्वकाल-एक-सर्व-जरत्-पुराण-नव-केवलाः समानाधिकरणेन - २.१.४९ । एते शब्दाः सुबन्तेन समस्यन्ते इत्य्-अर्थः । (पूर्वकालेत्यस्योदाहरणम् - पूर्वं स्नातः पश्चाद् अनुलिप्तः = स्नातानुलिप्तः ।)
३२. पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीराश्च - २.१.५८ । एते शब्दाः सुबन्तेन समस्यन्ते इत्य्-अर्थः । अपरस्यार्धे पश्चभावो वक्तव्यः (वा) सन्-महत्-परम-उत्तम-उत्कृष्टाः पूज्यमानैः - २.१.६१, एते शब्दाः पूज्यमानैः समस्यन्ते इत्य्-अर्थः ।
३३. दिक्संख्ये संज्ञायाम् - २.१.५०. दिग्वाची सङ्ख्यावाची च सुबन्तेन समस्यते संज्ञायां गम्यमानायाम् इत्य्-अर्थः ।
संज्ञायां गम्यमानायाम् एवेति नियमार्थम् इदं सूत्रम् । अतः संख्यावाचिना सह समासः संज्ञाभिन्नस्थले न भवति । अत एव ‘षड्भिः मन्त्रैः’, ‘अष्टभिः श्लोकैः’ इत्य्-एव प्राचीनाः व्यवहरन्ति, न तु षण्मन्त्रैः अष्टश्लोकैः इति । तथापि ‘नवरसरुचिराम्’ ‘त्रिलोकनाथेन’ ‘षोडशपदार्थानाम्’ इत्यादीनां प्रयोगदर्शनात् सख्यावाची संज्ञाभिन्नस्थले ऽपि समस्यते । किन्तु अत्र नवसंख्याकाः रसाः, त्र्यवयवकः लोकः, षोडशसंख्याकाः पदार्थाः इति विग्रहः प्रदर्शनीयः, येन मध्यमपदलोपः समासः भवति । तेन च विंशतिजनाः पञ्चविंशतिश्लोकाः इत्यादयः सिद्धाः ।
41
[[P48]]
४.१.२.२. विशेषणोत्तरपदः
वैयाकरणः खसूचिः३४ = वैयाकरणखसूचिः ।
मीमांसकः दुर्दुरूढः = मीमांसकदुर्दुरूढः ।
पुरुषः प्रशस्तः३५ = पुरुषमचर्चिका ।
पण्डितः प्रशस्तः = पण्डितप्रकाण्डम् ।
गौः प्रशस्ता = गोमतल्लिका ।
विद्वान् प्रशस्तः = विद्वत्तल्लजः ।
४.१.२.३. विशेषणोभयपदः
कृतम् अकृतम्३६ = कृताकृतम् ।
कृतम् अपकृतम् = कृतापकृतम् ।
भुक्तम् अभुक्तम् = भुक्ताभुक्तम् ।
गतं प्रत्यागतम् = गतप्रत्यागतम् ।
पीतम् अपीतम् = पीतापीतम् ।
यातम् अनुयातम् = यातानुयातम् ।
उदितम् अनुदितम् = उदितानुदितम् ।
४.१.२.४. उपमानपूर्वपदः
३७उपमानवाचि सुबन्तं सामान्यवचनैः सुबन्तैः समस्यते ।
कुसुमम् इव कोमलम् = कुसुमकोमलम् ।
वज्रम् इव कठोरम् = वज्रकठोरम् ।
शैलः इव उन्नतः = शैलोन्नतः ।
४.१.२.५. उपमानोत्तरपदः
३८उपमेयं उपमानवचनैः व्याघ्रादिभिः समस्यते । किन्तु साधारणधर्मस्य प्रयोगः न करणीयः । यथा - पुरुषः व्याघ्रः इव = पुरुषव्याघ्रः इति समासो भवति । यदा पुरुषः व्याघ्रः इव शूरः इति वक्तुम् इष्यते तदा पुरुषव्याघ्रः शूरः इति पुरुषव्याघ्रपदयोः समासः न करणीयः । शूरः इति साधारणधर्मस्य प्रयोगात् ।
३४. कुत्सितानि कुत्सनैः - २.१.५३ कुत्स्यमानानि कुत्सनैः समस्यन्ते । ३५. प्रशंसावचनैश्च - २.१.६६ प्रशंसावचनैः जातिः समस्यते । ३६. क्तेन नञ्विशिष्टेनानञ् - २.१.६० अनञ् क्तान्तं नञ्विशिष्टेन क्तान्तेन समस्यते । ३७. उपमानानि सामान्यवचनैः - २.१.५५ (सामान्यवचनस्य विवरणं ७ - पृष्ठे अस्ति ।) ३८. उपमितं व्याघ्रादिभिः सामान्याप्रयोगे - २.१.५६ (व्याघ्रादिगणे प्रसिद्धाः शब्दाः - व्याघ्रः, सिंहः, ऋक्षः, ऋषभः, हस्ती, पुण्डरीकः, बलाहकः । व्याघ्रादिः आकृतिगणः ।)
42
[[P49]]
पुरुषः सिंहः इव = पुरुषसिंहः ।
पुरुषः ऋषभः इव = पुरुषर्षभः ।
पण्डितः पुण्डरीकः इव = पण्डितपुण्डरीकः ।
मुखं पद्मम् इव = मुखपद्मम् ।
मुखं कमलम् इव = मुखकमलम् ।
करः किसलयम् इव = करकिसलयम् ।
पार्थिवः इन्द्रः इव = पार्थिवेन्द्रः ।
गौः वृन्दारकः इव३९ = गोवृन्दारकः ।
पुरुषः नागः इव = पुरुषनागः ।
कपिः कुञ्जरः इव = कपिकुञ्जरः ।
४.१.२.६. अवधारणापूर्वपदः
४०विशेषणं विशेष्येण समस्यते । अवधारणार्थं द्योतयितुं विग्रहवाक्ये विशेषणात् परम् एवकारः प्रयुज्यते ।
विद्या एव धनम् = विद्याधनम् ।
गुरुः एव देवः = गुरुदेवः ।
तपः एव धनम् = तपोधनम् ।
वेदः एव सम्पत् = वेदसम्पत् ।
४.१.२.७. सम्भावनापूर्वपदः
४०विशेषणं विशेष्येण समस्यते । अत्र विशेषणं संज्ञाशब्दः भवति । विग्रहवाक्ये विशेषणात् परम् ‘इति’ इति पदं प्रयुज्यते ।
अयोध्या इति नगरी = अयोध्यानगरी ।
कैलासः इति अद्रिः = कैलासाद्रिः ।
हिमालयः इति पर्वतः = हिमालयपर्वतः ।
आम्रः इति वृक्षः = आम्रवृक्षः ।
दशरथः इति राजा = दशरथराजः ।
४.१.२.८. मध्यमपदलोपः
४०विशेषणं विशेष्येण समस्यते । किन्तु अत्र विशेषणं विग्रहावस्थायां सदा समस्तं पदं भवति । ४१विशेषणीभूते समस्तपदे यदुत्तरपदं तस्योत्तरपदस्य लोपः भवति । मध्यमपदलोपव्यवहारस्तु इत्थम् - विग्रहावस्थायां तु पदत्रयं भवति । यथा - शाकप्रियः पार्थिवः इति । अत्र मध्ये स्थितस्य प्रियशब्दस्य लोपः । अतः ‘मध्यमपदलोपः समासः’ इति व्यवहारः ।
३९. वृन्दारकनागकुञ्जरैः पूज्यमानम् - २.१.६२ (सामान्यधर्मप्रयोगे ऽपि एतैः त्रिभिः शब्दैः समासो भवति । यथा- बलवान् कपिकुञ्जरः ।) ४०. विशेषणं विशेष्येण बहुलम् - २.१.५७ ४१. शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसङ्ख्यानम् (वा) ।
43
[[P50]]
शाकप्रियः पार्थिवः = शाकपार्थिवः ।
देवपूजकः ब्राह्मणः = देवब्राह्मणः
द्वयधिका विंशतिः = द्वाविंशतिः
षोडशसङ्ख्याकाः पदार्थाः = षोडशपदार्थाः
*द्विगुणितं शतम् = द्विशतम् (२०० इत्य्-अर्थ)
द्वयधिकाः दश = द्वादश
द्वयधिकं शतम् = द्विशतम् (१०२ इत्य्-अर्थः)
४.१.२.९. मयूरव्यंसकादिः
४२समासविधायकेन सामान्यनियमेन यत् सिद्धं न भवति तत् मयूरव्यंसकादिगणे पठितम् । ‘अविहितलक्षणः तत्पुरुषः मयूरव्यंसकादिषु द्रष्टव्यः’ इति काशिकायाम् अभिहितम् ।
मयूरः व्यंसकः = मयूरव्यंसकः ।
उदक् अवाक् = उच्चावचम् ।
निश्चितं प्रचितम् = निश्चप्रचम् ।
नास्ति किञ्चन यस्य सः = अकिञ्चनः ।
नास्ति कुतो भयं यस्य सः = अकुतोभयः ।
अन्यो राजा = राजान्तरम् ।
चिद् एव = चिन्मात्रम् ।
अश्नीत पिबत इत्य्-एवं सततं यत्राभिधीयते सा = अश्नीतपिबता ।
पचत भृज्जत इत्य्-एवं सततं यत्राभिधीयते सा = पचतभृज्जता ।
खादत मोदत इत्य्-एवं सततं यत्राभिधीयते सा = खादतमोदता ।
जहि जोडं जहि जोडम् इति आभीक्ष्ण्येन य आह सः = जहिजोडः ।
४.१.३. द्विगुसमासः
४३सङ्ख्यावाचकं सुबन्तेन समस्यते - i) तद्धितार्थविषये ii) उत्तरपदे परतः, iii) समाहारे वाच्ये वा । अतः द्विगुसमासः त्रिधा भवति - i) तद्धितार्थद्विगुः, ii) उत्तरपदपरद्विगुः, iii) समाहारद्विगुः चेति ।
* इदमत्र ज्ञेयम् - द्विशतम् इत्यस्य अर्थः द्व्युत्तरं शतम् (१०२) इति । ‘शतद्वयम्’ इत्य्-अर्थे द्विशती इति प्रयोक्तव्यम् । यतः ‘द्वयोः शतयोः समाहारः’ इति विवक्षिते द्विगुसमासे ईकारान्तेन भाव्यम् । त्रिशती इत्यादयः प्रसिद्धाः शब्दाः खलु । किन्तु ‘शतद्वयम्’ इत्यार्थे ‘द्विशतम्’ इति तत्र तत्र प्रयुज्यते । अतः एतादृशस्य अन्वाख्यानं ‘द्विगुणितं शतम् द्विशतम्’ इत्य्-एवंरीत्या करणीयम् । तेन त्रिशतम्, पञ्चशतम्, अष्टशतम् इत्यादयः सिद्धाः ।, ४१-पृष्ठे टिप्पणी अपि द्रष्टव्या । ४२. मयूरव्यंसकादयश्च - २.१.७२ (मयूरव्यंसकादयः शब्दाः निपात्यन्ते इति सुत्रार्थः । निपातनं नाम सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशः ।) ४३. तद्धितार्थोत्तरपदसमाहारे च - २.१.५१.
44
[[P51]]
४.१.३.१. तद्धितार्थद्विगुः
४४षण्णां मातृणाम् अपत्यम् = षाण्मातुरः
द्वयोः मात्रोः अपत्यम् = द्वैमातुरः
पञ्चसु कपालेषु संस्कृतः = पञ्चकपालः (पुरोडाशः)
४.१.३.२. उत्तरपदद्विगुः
४५पञ्च गावः धनं यस्य सः = पञ्चगवधनः
दश गावः धनं यस्य सः = दशगवधनः
द्वे अहनी प्रिये यस्य सः = द्व्यह्नप्रियः
पञ्च सखायः प्रियाः यस्य सः = पञ्चसखप्रियः
४.१.३.३. समाहारद्विगुः
४६पञ्चानां गवां समाहारः = पञ्चगवम्४७
पञ्चानां पात्राणां समाहारः = पञ्चपात्रम्
त्रयाणां भुवनानां समाहारः = त्रिभुवनम्
चतुर्णां युगानां समाहारः = चतुर्युगम्
सप्तानाम् अह्नां समाहारः = सप्ताहः४८
४४. ८-पृष्ठे टिप्पणीं पश्यन्तु । ४५. ८-पृष्ठे टिप्पणीं पश्यन्तु । ४६. समाहारद्विगुः एकवचनान्तः भवति । (द्विगुरेकवचनम् - २.४.१) ४७. २२- पृष्ठे समासान्तप्रत्ययनियमं पश्यन्तु । समाहारद्विगौ लिङ्गव्यवस्था - i) स नपुंसकम् - २.४.१७ ‘समाहारे द्विगुः द्वन्द्वः च नपुंसकलिङ्गं स्यात्’ इत्य्-अर्थः । अतः नपुंसकता सर्वत्र प्राप्ता । ii) किन्तु अहश्शब्दः द्विगौ पुंल्लिङ्गः स्यात् । रात्राह्नाहाः पुंसि - २.४.२९ इति सूत्रम् अत्र प्रमाणम्, iii) अकारान्तशब्दान्तः द्विगुः ईकारान्तस्त्रीलिङ्गः भवति । अत्र ‘अकारान्तोत्तरपदो द्विगुः स्त्रियाम् इष्टः’ इति वार्तिकं, द्विगोः - ४.१.२१ इति सूत्रं च प्रमाणम् । किन्तु अयं नियमः पात्रादिगणे प्रविष्टाः ये शब्दाः (पात्रम्, भुवनम्, युगम् इत्यादयः) तदन्तस्य विषये नास्ति । ‘पात्राद्यन्तस्य न’ इति वार्तिकम् अत्र प्रमाणम् । iv) रात्रिशब्देन सह द्विगुसमासे जाते रात्रिशब्दः अकारान्तः भवति । तथापि स्त्रीलिङ्गता नास्ति । किन्तु नपुंसकता एव । ‘सङ्ख्यापूर्वं रात्रं क्लीबम्’ इति गणसूत्रम् अत्र प्रमाणम् । ४८. २२- पृष्ठे समासान्तप्रत्ययनियमं पश्यन्तु ।
45
[[P52]]
द्वयोः अह्नोः समाहारः = द्व्यहः
तिसृणां रात्रीणां समाहारः = त्रिरात्रम्४९
पञ्चानां रात्रीणां समाहारः = पञ्चरात्रम्
नवानां रात्रीणां समाहारः = नवरात्रम्
त्रयाणां लोकानां समाहारः = त्रिलोकी
पञ्चानां वटानां समाहारः = पञ्चवटी
४.१.४. नञ्प्रभृतयः
४.१.४.१. नञ्समासः५०
नञ् (न) सुबन्तेन समस्यते ।
न सन्देहः = असन्देहः५१
न विघ्नः = अविघ्नः
न अश्वः = अनश्वः
न आगमनम् = अनागमनम्
न विवादः = अविवादः
न पटुः = अपटुः
न उपलब्धिः = अनुपलब्धिः
५२न पन्थाः = अपन्थाः / अपथम्
‘अविघ्नम् अस्तु’ इत्यादौ ‘विघ्नानाम् अभावः’ इति विग्रहः । अर्थाभावे अव्ययीभावसमासो ऽयम् ।
४.१.४.२. कुसमासः
५३कुशब्दः सुबन्तेन नित्यं समस्ते । अतः अस्वपदविग्रहः ।
४९. २१- पृष्ठे समासान्तप्रत्ययनियमं पश्यन्तु ।
५०. नञ् - २.२.६।
५१. १८ - पृष्ठे नियमं पश्यन्तु ।
५२. पथो विभाषा - ५.४.७२ इति सूत्रेण विकल्पेन समासान्तप्रत्ययः भवति । प्रत्ययाभावे अपन्थाः । प्रत्यये सति अपथम् । अव्ययात्परः पथश्ब्दः नपुंसकं भवति । ‘पथः सङ्ख्याव्ययादे’ इति वार्तिकम् अत्र प्रमाणम् ।
इदमत्र ज्ञेयम् - न एकधा = नैकधा, न आन्तरीयकम् = नान्तरीयकम् इत्यादौ ‘न’ शब्देन समासः, न तु ‘नञ्’ इति शब्देन । ‘नञ्’ इति, ‘न’ इति च अव्ययद्वयम् । द्वयोर् अप्य्-अर्थः समानः एव । किन्तु नञा समासे नकारस्य (न्) लोपः भवति । नशब्देन समासे लोपो न भवति ।
५३. कुगतिप्रादयः २.२.१८
46
[[P53]]
कुत्सितः पुरुषः = कुपुरुषः / कापुरुषः५४
कुत्सितम् अन्नम् = कदन्नम्५५
कुत्सितः अश्वः = कदश्वः
४.१.४.३. गतिसमासः
गतिसंज्ञायुक्तं शब्दान्तरेण नित्यं समस्यते । गतिर् नाम काचन संज्ञा । केषाञ्चित् शब्दानां पाणिनिना गतिसंज्ञा विहिता । गतिसंज्ञाविधायकानि सूत्राणि बहूनि सन्ति । अतः अत्र तानि न उल्लिख्यन्ते । गतिसमासे सर्वम् अपि पूर्वपदं गतिसंज्ञायुक्तं भवत्य्-एव इति ज्ञेयम् । गतिसमासो ऽयं नित्यः । अतः अस्वपदविग्रहः प्रदर्शनीयः ।
अङ्गीकारं कृत्वा = ऊरीकृत्य
अङ्गीकारं कृत्वा = उररीकृत्य
अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य
पटपटा इति शब्दं कृत्वा = पटपटाकृत्य
खाट् इति शब्दं कृत्वा = खाट्कृत्य
आदरं कृत्वा = सत्कृत्य
अनादरं कृत्वा = असत्कृत्य
परिष्कारं कृत्वा = अलङ्कृत्य
अभिलाषातिशयं निहत्य = मनोहत्य५६
पुरस्कारं कृत्वा = पुरस्कृत्य
तिरोधानं प्राप्य = अस्तंगत्य
व्यवहितो भूत्वा = तिरोभूय
हस्तं गृहीत्वा = हस्तेकृत्य (परिणीय)
पाणिं गृहीत्वा = पाणौकृत्य (परिणीय)
तिरस्कृत्वा५७ = तिरस्कृत्य
उपाजेकृत्वा = उपाजेकृत्य (दुर्बलस्य बलम् आधाय)
साक्षात्कृत्वा = साक्षात्कृत्य (अप्रत्यक्षं प्रत्यक्षं कृत्वा)
उरसिकृत्वा = उरसिकृत्य (अभ्युपगम्य)
मनसिकृत्वा = मनसिकृत्य (निश्चित्य)
५४. पुरुषशब्दे परे ‘कु’ इत्यस्य विकल्पेन ‘का’ इत्यादेशः भवति । विभाषा पुरुषे - ६.३.१०६) ५५. अजादौ उत्तरपदे ‘कद्’ इत्यादेशः भवति । (कोः कत्तत्पुरुषे ऽचि - ६.३.१०१) ५६. ‘मनोहत्य पयः पिबति’ इति रमणीयः प्राचीनप्रयोगः । अभिलाषनिवृत्तिपर्यन्तं पयः पिबति इत्य्-अर्थः । अत्र मनःशब्दः अभिलाषातिशये वर्तते । ५७. तिरस्कृत्य, उपाजेकृत्य, साक्षात्कृत्य, उरसिकृत्य, मनसिकृत्य इत्य्-एतेषु स्वपदविग्रहःदर्शितः । एषु विकल्पेन गतिसंज्ञाविधानात् उभयथापि प्रयोगः साधुः । तिरस्कृत्वा इत्यादिकं व्यस्तं, तिरस्कृत्य इत्यादिकं समस्तम् इति ज्ञेयम् ।
47
[[P54]]
जीविकाम् इव कृत्वा = जीविकाकृत्य (जीविकाम् इव अवश्यं कृत्वा)
उपनिषदम् इव कृत्वा = उपनिषत्कृत्य (उपनिषदम् इव रहसि ग्राह्यत्वेन कृत्वा)
४.१.४.४. प्रादिसमासः
५८प्रादयः शब्दान्तरेण नित्यं समास्यन्ते । प्रादयः - प्र, परा, अप, सम्, इत्यादयः द्वाविंशतिः । नित्यसमासत्वात् अस्वपदविग्रहः ।
५९शोभनः पुरुषः = सुपुरुषः
शोभनः जनः = सुजनः
दुराचारः पुरुषः = दुष्पुरुषः
प्र६० - गतः आचार्यः = प्राचार्यः
६१अति - क्रान्तं मालाम् = अतिमालः
अभि = गतः मुखम् = अभिमुखः
प्रति - गतः अक्षम् (इन्द्रियम्) = प्रत्यक्षः
अति - क्रान्ता श्वानम् = *अतिश्वी (सेवा)
६२अव - क्रुष्टः कोकिलया = अवकोकिलः (कोकिलया आहूतः)
६३परि - ग्लानः अध्ययनाय = पर्यध्ययनः (परिग्लानः)
६४निर् - क्रान्तः कौशाम्ब्याः = निष्कौशाम्बिः
उत् - क्रान्तः कुलात् = उत्कुलः
५८. कुगतिप्रादयः - २.२.१८. ५९. प्रादयो गत्याद्यर्थे प्रथमया (वा) ६०. ‘प्र’ इत्यस्य विवरणं ‘गतः’ इति । अतः न स्वपदेन विग्रहः । ‘अभिगतः’ इत्यादौ अपि एवम् एव । ६१. अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वा) ६२. अवादयः क्रुष्टाद्यर्थे तृतीयया (वा) ६३. पर्यादयः ग्लानाद्यर्थे चतुर्थ्या (वा) ६४. निरादयः क्रान्ताद्यर्थे पञ्चम्या (वा) * अतेः शुनः - ५.४.९६ ‘अति’ इति अव्ययात् परो यः ‘श्वन्’ शब्दः तदन्तात् तत्पुरुषात् टच् स्यात् । स्त्रीलिङ्गे टित्वात् ङीप् ।
48
[[P55]]
४.१.४.५. उपपदसमासः
६५उपपदं सुबन्तं शब्दान्तरेण नित्यं समस्यते । उपपदं नाम काचन संज्ञा । उपपदसमासे सर्वम् अपि पूर्वपदं उपपदसंज्ञायुक्तं भवति । नित्यसमासत्वात् अस्वपदविग्रहः ।
६६कुम्भं करोति इति = कुम्भकारः
निशां करोति इति = निशाकरः
तुन्दं परिमार्टि इति = तुन्दपरिमृजः
उष्णं भुङ्क्ते इति = उष्णभोजी
सोमेन इष्टवान् इति = सोमयाजी
शास्त्रं करोति इति = शास्त्रकृत् / शास्त्रकारः
भाष्यं करोति इति = भाष्यकृत् / भाष्यकारः
६७प्रियं वदति इति = प्रियंवदः
भयं करोति इति = भयङ्करः
वशं वदति इति = वशंवदः
अभयं करोति इति = अभयङ्करः
पण्डितम् (आत्मानम्) मन्यते इति = पण्डितंमन्यः / पण्डितंमानी
६८शय्यायाः उत्थायम् = शय्योत्थायम्६९
उच्चैः कृत्वा = उच्चैःकृत्य
विना कृत्वा = विनाकृत्य
नानाकृत्वा = नानाकृत्य
एकधा भूत्वा = एकधाभूय
तूष्णीं भूत्वा = तूष्णीम्भूय
६५. उपपदमतिङ् - २.२.१९. ६६. कुम्भं करोति इति अस्वपदविग्रहः, उपपदसमासस्य नित्यत्वात् । अतः तिङन्तेन समासः इति न मन्तव्यम् । ६७. प्रियंवदः इत्यादौ मुमागमः, न तु द्वितीयायाः अलुक् । ६८. शय्यायाः उत्थायम् इत्यारभ्य तूष्णीं भूत्वा पर्यन्तं स्वपदविग्रहः दर्शितः । तेषां विकल्पेन उपपदसमासस्य विधानात् । अतः उच्चैः कृत्वा इत्यादिकं व्यस्तम्, उच्चैःकृत्य इत्यादिकं समस्तम् इति ज्ञेयम् । ६९. शय्योत्थायं धावति इति प्राचीनः प्रयोगः । ‘एवं नाम त्वरते यद् अवश्यकर्तव्यम् अपि नापेक्षते, शय्योत्थानमात्रम् अपेक्षते’ इति अस्य वाक्यस्य अर्थः ।
49
[[P56]]
४.२. बहुव्रीहिः
अन्यस्य पदस्य अर्थे वर्तमानम् अनेकं सुबन्तं समस्यते । लिङ्गत्रये ऽपि बहुव्रीहिः सम्भवति ।
४.२.१. सामान्यबहुव्रीहिः (समानाधिकरणबहुव्रीहिः)
बहुव्रीहिः सामान्यः विशेषश्चेति द्विधा इति पूर्वम् उक्तम् । समानाधिकरणबहुव्रीहिर् एव अत्र सामान्यशब्देन व्यवहृतः । सामान्यः षोढा इत्य्-उक्तम् । तेषां षण्णाम् अपि पृथक् पृथक् उदाहरणानि अत्र न उल्लिख्यन्ते । षट्सु भेदेषु कुत्र अन्तर्भवतीति स्वयम् ऊहनीयम् ।
ऊढः रथः येन सः = ऊढरथः
कृतं भोजनं येन सः = कृतभोजनः
अधीतं काव्यं यया सा = अधीतकाव्या
धृतानि पुष्पाणि यया सा = धृतपुष्पा
उद्धृतः ओदनः यस्याः सा = उद्धृतौदना (स्थाली)
पतितानि पर्णानि यस्मात् सः = पतितपर्णः (वृक्षः)
गलितानि पुष्पाणि यस्याः सा = गलितपुष्पा (लता)
चित्राः गावः यस्य सः = चित्रगुः
१रूपवती भार्या यस्य सः = रूपवद्भार्यः
२गङ्गा भार्या यस्य सः = गङ्गाभार्यः
३पाचिका भार्या यस्य सः = पाचिकाभार्यः
वैयाकरणी भार्या यस्य सः = वैयाकरणभार्यः
४सुकेशी भार्या यस्य सः = सुकेशीभार्यः
पट्वी भार्या यस्य सः = पटुभार्यः
आरूढं यानं येन सः = आरूढयानः
प्रविष्टा शाला येन सः = प्रविष्टशालः
सर्वा प्रिया यस्य सः = सर्वप्रियः
१. पूर्वपदे पुंवद्भावः । १९ - पृष्ठे नियमं पश्यन्तु । २. गङ्गाशब्दः भाषितपुंस्कः न । अतः न पुंवद्भावः । ३. न कोपधायाः ७.३.३७ - कोपधायाः स्त्रिया न पुंवत् । ४. स्वङ्गाच्चेतः ६.३.४० - स्वाङ्गाद् य ईकारः तदन्ता स्त्री न पुंवत् ।
50
[[P57]]
दृढा भक्तिः यस्य सः = दृढभक्तिः*
विशाले अक्षिणी यस्य सः = विशालाक्षः
निर्गतः वृत्तेः = निवृत्तिः, निवृत्तिः धर्मः यस्य सः = निवृत्तिधर्मा
वीराः पुरुषाः यस्मिन् सः = वीरपुरुषः (ग्रामः)
४.२.२. व्यधिकरणबहुव्रीहिः
समानविभक्त्यन्तयोः समासे समानाधिकरणबहुव्रीहिः इति उच्यते । विभिन्नविभक्त्यन्तयोः समासे व्यधिकरणबहुव्रीहिः इति कथ्यते ।
गदा पाणौ यस्य सः = गदापाणिः
गड्डुः कण्ठे यस्य सः = गड्डुकण्ठः (गड्डुः = ग्रीवादिगतः दुर्मांसागोलः)
भाले चन्द्रः यस्य सः = भालचन्द्रः
चन्द्रः मौलौ यस्य सः = चन्द्रमौलिः
विषं कण्ठे यस्य सः = विषकण्ठः
५कण्ठे कालः यस्य सः = कण्ठेकालः
४.२.३. सङ्ख्योत्तरपदः
६अव्यय-आसन्न-अदूर-अधिकशब्दाः सङ्ख्येयार्थकेन सङ्ख्याशब्देन समस्यन्ते ।
दशानां समीपे ये सन्ति ते = उपदशाः७
विंशतेः समीपे ये सन्ति ते = उपविंशाः
त्रिंशतः समीपे ये सन्ति ते = उपत्रिंशाः
चत्वारिंशतः समीपे ये सन्ति ते = उपचत्वारिंशाः
पञ्चाशतः समीपे ये सन्ति ते = उपपञ्चाशाः
षष्टेः समीपे ये सन्ति ते = उपषष्टाः
सप्ततेः समीपे ये सन्ति ते = उपसप्तताः
अशीतेः समीपे ये सन्ति ते = उपाशीताः
नवतेः समीपे ये सन्ति ते = उपनवताः
* अत्र न पुंवद्भावः । दृढभक्तिः इति तु सामान्ये नपुंसकम् आश्रित्य दृढं भक्तिः यस्य सः इति व्युत्पाद्यः । ५. अलुक्समासः अयम् । ६. सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः * सङ्ख्येये-२.२.२५ (*सङ्ख्योभयपदे उदाहारणं द्रष्टव्यम् ।) ७. सङ्ख्योत्तरपदसमासे सर्वे बहुवचनान्ताः भवन्ति ।
51
[[P58]]
शतस्य समीपे ये सन्ति ते = उपशताः
पञ्चविंशतेः आसन्नाः = आसन्नपञ्चविंशाः
त्रिंशतः अदूराः = अदूरत्रिंशाः
पञ्चाशतः अधिकाः = अधिकपञ्चाशाः
सहस्त्रात् अधिकाः = अधिकसहस्त्राः*
४.२.४. सङ्ख्योभयपदः
सङ्ख्येयार्थकं सङ्ख्येयपदं सङ्ख्येयार्थकेन सङ्ख्यापदेन समस्यते ।
द्वौ वा त्रयः वा = द्वित्राः
त्रयः वा चत्वारः वा = त्रिचतुराः
पञ्च वा षड् वा = पञ्चषाः
४.२.५. सहपूर्वपदः
८‘सह’ इत्य्-एतत् तृतीयान्तेन समस्यते ।
पुत्रेण सह वर्तते इति = सपुत्रः/सहपुत्रः९
कुटुम्बेन सह वर्तते इति = सकुटुम्बः/सहकुटुम्बः
कर्मणा सह वर्तते इति = सकर्मकः
लोम्ना सह वर्तते इति = सलोमकः
४.२.६. व्यतिहारलक्षणः१०
केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् = केशाकेशि११
दण्डैः दण्डैः प्रहृत्य इदं युद्धं प्रवृत्तम् = दण्डादण्डि
मुष्टिभिः मुष्टिभिः प्रहृत्य इदं युद्धं प्रवृत्तम् = मुष्टीमुष्टि
बाहौ बाहौ गृहीत्वा इदं युद्धं प्रवृत्तम् = बाहूबाहवि
* ‘उपदशाः’ इत्यादिषु डच् प्रत्ययो भवति । तेन टेर्लोपः । यद्य्-अन्ते ‘विंशति’ भवति, तदा ‘ति’ इत्यस्यैव लोपः । ८. तेन सहेति तुल्ययोगे - २.२.२८ ९. वोपसर्जनस्य - ६.३.८२ बहुव्रीहेः अवयवस्य सहस्य सः स्यात् विकल्पेन । १०. तत्र तेनेदम् इति सरूपे - २.२.२७ सप्तम्यन्ते ग्रहणविषये सरूपे पदे, तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तम् इत्य्-अर्थे समस्यते कर्मव्यतिहारे द्योत्ये । ११. व्यतिहारलक्षणस्य सर्वाणि उदाहरणानि अव्ययानि भवन्ति ।
52
[[P59]]
४.२.७. दिगन्तराललक्षणः
दिङ्नामानि१२ सुबन्तानि अन्तराले वाच्ये परस्परं समस्यन्ते । (दिशां नामानि = दिङ्नामानि ।)
दक्षिणस्याः पूर्वस्याश्च दिशो यदन्तरालम् = दक्षिणपूर्वा (आग्नेयी दिक्)
पूर्वस्याः उत्तरस्याः च दिशो यदन्तरालम् = पूर्वोत्तरा (ऐशानी दिक्)
उत्तरस्याः पश्चिमायाः च दिशो यदन्तरालम् = उत्तरपश्चिमा (वायवी दिक्)
पश्चिमायाः दक्षिणस्याः च दिशो यदन्तरालम् = पश्चिमदक्षिणा (नैर्ऋती दिक्)
४.२.८. नञ्बहुब्रीहिः
१३‘अविद्यमानम्’ इति पदं सुबन्तेन समस्यते । समासे जाते विद्यमानपदस्य लोपो भवति ।
अविद्यमानः पुत्रः यस्य सः = अपुत्रः
अविद्यमानम् अपत्यं यस्य सः = अनपत्यः१४
अविद्यमाना पुत्री यस्य सः = अपुत्रीकः१५
अविद्यमानः प्रजा यस्य सः = अप्रजाः१६ (सकारान्तः शब्दः)
अविद्यमाना मेधा यस्य सः = अमेधाः१६ (सकारान्तः शब्दः)
४.२.९. प्रादिबहुव्रीहिः१७
प्रादिभ्यः परं धातुजप्रकृतिकप्रथमान्तं अन्येन प्रथमान्तेन समस्यते । परस्य धातुजस्य लोपश्च भवति ।
निर्गता दया यस्मात् सः = निर्दयः
निर्गतम् अपत्यं यस्मात् सः = निरपत्यः
निर्गता करुणा यस्मात् सः = निष्करुणः
दुर्गता मेधा यस्य सः = दुर्मेधाः१६
शोभना मेधा यस्य सः = सुमेधाः१६
१२. दिङ्नामान्यन्तराले - २.२.२६ १३. नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (वा) - नञः परेषाम् अस्त्यर्थवाचिनां समासः इति वार्तिकार्थः । तथापि ‘अविद्यमानम्’ इति पदेनैव प्रायः विग्रहः उच्यते इति उपरि अविद्यमानम् इति लिखितम् । १४. १८- पृष्ठं पश्यन्तु, १५. २५ - पृष्ठं पश्यन्तु । १६. नित्यम् असिच् प्रजामेधयोः - ५.४.१२२ - नञ्, दुर्, सु इत्य्-एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्याम् असिच्प्रत्ययः भवति । १७. प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (वा)
53
[[P60]]
उद्गतः गन्धः यस्य सः = उद्गन्धिः१७
शोभनः गन्धः यस्य सः = सुगन्धिः१७
शोभनौ पादौ यस्य सः = सुपाद्१८
शोभनाः दन्ताः यस्याः सा = सुदती१९
शोभनाः दन्ताः यस्य सः = सुदन्१९
उन्नता नासिका यस्य सः = उन्नसः२०
४.२.१०. उपमानपूर्वपदः
i) २१सप्तम्यन्तसहितम् उपमानसहितं च समस्तपदं पदान्तरेण समस्यते । अस्मिन् समासे विग्रहावस्थायां पूर्वपदं समस्तम् एव भवति । तस्मिन् पदे यत् उत्तरपदं तस्य लोपश्च भवति ।
ii) २२केवलम् उपमानवाचकम् अपि अन्येन सुबन्तेन समस्यते ।
कण्ठेस्थः कालः यस्य सः = कण्ठेकालः
गजाननम् इव आननं यस्य सः = गजाननः
उष्ट्रमुखम् इव मुखं यस्यः सः = उष्ट्रमुखः
खरमुखम् इव मुखं यस्य सः = खरमुखः
पुण्डरीके इव अक्षिणी यस्य सः = पुण्डरीकाक्षः२३
जलजे इव अक्षिणी यस्याः सा = जलजाक्षी२३
कुण्डम् इव ऊधः यस्याः सा = कुण्डोघ्नी (गौः)२४
घटः इव ऊधः यस्याः सा = घटोघ्नी (गौः)२४
१७. २४-पृष्ठं पश्यन्तु । १८. २५-पृष्ठं पश्यन्तु । १९. वयसि दन्तस्य दतृ - ५.४.१४१ - सङ्ख्या-सु-पूर्वस्य दन्तस्य दतृ (दत्) इत्यादेशः भवति वयसि गम्यमाने । २०. उपसर्गाच्च - ५.४.११९ - प्रादेर्यो नासिकाशब्दः तदन्ताद् बहुव्रीहेः अच्, नासिकायाः नसादेशश्च । २१. सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च (वा) २२. अनेकमन्यपदार्थे - २.२.२४ २३. बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् - ५.४.११३ - स्वाङ्गवाचि-सक्थि-अक्षि-अन्तात् बहुव्रीहेः षच्(अ)प्रत्ययो भवति । [ स्त्रीलिङ्गे षित्वात् ङीष् (इ) ] २४. ऊधसोऽनङ् - ५.४.१३१ ऊधोन्तस्य बहुव्रीहेः ‘अनङ्’-आदेशः भवति स्त्रीलिङ्गे । बहुव्रीहेरूधसो ङीष् - ४.१.२५ इति ङीष् (ई) ।
54
[[P61]]
४.३. द्वन्द्वसमासः
२५इतरेतरयोगे समाहारे च अर्थे वर्तमानम् अनेकं सुबन्तं समस्यते । (इतरेतरयोगो नाम = मिलितानाम् एकस्मिन् क्रियापदे ऽन्वयः । समाहारो नाम = समूहः ।) अतः द्वन्द्वः इतरेतरः समाहारश्चेति द्विधा । इतरेतरः द्वयोर् अपि पदयोः भवति, बहूनाम् अपि पदानां भवति । समाहारे ऽपि तथैव । किन्तु समाहारद्वन्द्वः क्वचिन् नित्यः ।
४.३.१. इतरेतरद्वन्द्वः
२६हरिश्च हरश्च = हरिहरौ
२७हरिश्च गुरुश्च हरश्च = हरिहरगुरवः / हरिगुरुहराः
२८ईशश्च कृष्णश्च = ईशकृष्णौ
२९अश्वश्च रथश्च इन्द्रश्च = अश्वरथेन्द्राः / इन्द्राश्वरथाः
३०इन्द्रश्च अग्निश्च = इन्द्राग्नी
३१शिवश्च केशवश्च = शिवकेशवौ
धवश्च खदिरश्च = धवखदिरौ
ग्रीष्मश्च वसन्तश्च = ग्रीष्मवసन्तौ
३२हेमन्तश्च शिशिरश्च वसन्तश्च = हेमन्तशिशिरवसन्ताः
कृत्तिका च रोहिणी च = कृत्तिकारोहिण्यौ
३३माता च पिता च = मातापितरौ
युधिष्ठिरश्च अर्जुनश्च = युधिष्ठिरार्जुनौ
२५. चार्थे द्वन्द्वः - २.२.२९ २६. द्वन्द्वे घि - २.२.३२ हस्वेकारान्तं ह्रस्वोकारान्तं च पूर्वं प्रयोज्यम् । किन्तु सखिशब्दविषये नायं नियमः । २७. अनेकप्राप्तौ एकत्र नियमोऽनियमः शेषे (वा) २८. अजाद्यदन्तम् - २.२.३३ अजादित्वे सति अदन्तं यत् तत्पूर्वं प्रयोज्यम् । २९. बहुष्व्-अनियमः (वा) ३०. घ्यन्तादजाद्यदन्तं विप्रतिषेधेन (वा) ‘द्वन्द्वे घि’ इति नियमस्य ‘अजाद्यदन्तम्’ इति नियमस्य च एकत्र प्राप्तौ अजाद्यदन्तम् एव प्रवर्तते । ३१. अल्पाच्तरम् - २.२.३४ - अल्पसङ्ख्याकाच्पदं पूर्वं प्रयोज्यम् । ३२. ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण (वा) - पूर्वं प्रयोज्यम् इत्य्-अर्थः । ३३. अभ्यर्हितं च (वा) ‘श्रेष्ठः पूर्वं प्रयोज्यः’ इत्य्-अर्थः ।
55
[[P62]]
४.३.२. समाहारद्वन्द्वः
३४संज्ञाश्च परिभाषाश्च एतासां समाहारः = संज्ञापरिभाषम् ।
घटश्च पटश्च अनयोः समाहारः = घटपटम्
४.३.३. नित्यसमाहारद्वन्द्वः
३५पाणी च पादौ च एतेषां समाहारः = पाणिपादम्
मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारः = मार्दङ्गिकपाणविकम्
३६रथिकाश्च अश्वारोहाश्च एतेषां समाहारः = रथिकाश्वारोहम्
३७धानाश्च शष्कुल्यश्च एतासां समाहारः = धानाशष्कुलि
३८यूकाश्च लिक्षाश्च एतासां समाहारः = यूकालिक्षम्
३९अहिश्च नकुलश्च अनयोः समाहारः = अहिनकुलम्
गौश्च व्याघ्रश्च अनयोः समाहारः = गोव्याघ्रम्
काकश्च उलूकश्च अनयोः समाहारः = काकोलूकम्
४०गावश्च अश्वाश्च एतेषां समाहारः = गवाश्वम्
पुत्रश्च पौत्रश्च अनयोः समाहारः = पुत्रपौत्रम्
दासी च दासश्च अनयोः समाहारः = दासीदासम्
३४. संज्ञाश्च परिभाषाश्च - संज्ञापरिभाषाः इति इतरेतरो ऽपि भवति । एवं घटपटौ । ३५. } द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् २.४.२ - प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानां च द्वन्द्वः नित्यम् एकवत्स्यात् । ३६. ३७. जातिरप्राणिनाम् २.४.६ - प्राणिवर्ज्यद्रव्यजातिवाचिनां द्वन्द्वः नित्यम् एकवत्स्यात् । ३८. क्षुद्रजन्तवः- २.४.८ - क्षुद्रजन्तूनां समाहारे द्वन्द्वः नित्यम् एकवत्स्यात् । (आ नकुलात् क्षुद्रजन्तवः ।) ३९. येषां च विरोधः शाश्वतिकः २.५.९ - समाहारे द्वन्द्वः नित्यम् एकवत्स्यात् । ४०. गवाश्वप्रभृतीनि च - २.४.११ - यथोच्यारितानि साधूनि स्युः ।
56
[[P63]]
४.४. अव्ययीभावः
४१विभक्त्यर्थादिषु वर्तमानम् अव्ययं सुबन्तेन समस्यते । एषः अव्ययीभावः त्रिधा - i) अव्ययपूर्वपदः, ii) अव्ययोत्तरपदः, iii) अव्ययोत्तरपदरहितश्चेति । अत्र ‘अधिहरि’ इत्यारभ्य यावन्नामम् इति पर्यन्तं नित्यसमासः । शाकप्रति इत्य्-अपि नित्यसमास । अतः एषु अस्वपदविग्रहः प्रदर्शितः । अन्ये तु विकल्पेन भवन्ति ।
४.४.१. अव्ययपूर्वपदः
१. विभक्त्यर्थे - हरौ इति = अधिहरि
२. समीपार्थे - कृष्णस्य समीपम् = उपकृष्णम्
३. समृद्ध्यर्थे - मद्राणां समृद्धिः = सुमद्रम्
४. व्यृद्ध्यर्थे - यवनानां व्यृद्धिः = दुर्यवनम् (व्यृद्धिः = विगता ऋद्धिः)
५. अर्थाभावार्थे - मक्षिकाणाम् अभावः = निर्मक्षिकम्
६. अत्ययार्थे - हिमस्य अत्ययः = अतिहिमम् (अत्ययः = ध्वंसः)
७. असम्प्रत्यर्थे - निद्रा सम्प्रति न युज्यते इति = अतिनिद्रम्
८. शब्दप्रादुर्भावार्थे - हरिशब्दस्य प्रकाशः = इतिहरि
९. पश्चादार्थे = विष्णोः पश्चात् = अनुविष्णु
१०. यथार्थश्चतुर्धा -
i) योग्यतार्थे - रूपस्य योग्यम् = अनुरूपम्
ii) वीप्सार्थे४२ - अर्थम् अर्थं प्रति = प्रत्यर्थम्
iii) पदार्थानतिवृत्त्यर्थे - शक्तिम् अनतिक्रम्य = यथाशक्ति
iv) सादृश्यार्थे - हरेः सादृश्यम् = सहरि
११. आनुपूर्व्यार्थे - ज्येष्ठस्य आनुपूर्व्येण = अनुज्येष्ठम्
१२. यौगपद्यार्थे - चक्रेण युगपत् = सचक्रम्
१३. सादृश्यार्थे४३ - सख्या सदृशः = ससखि
४१. अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्य्-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु -२.१.६, ४२. स्वपदविग्रहो ऽयम् । ४३. अत्र ‘सदृश’ इत्य्-अर्थः विवक्षितः ।
57
[[P64]]
१४. सम्पत्त्यर्थे४४ - क्षत्राणां सम्पत्तिः = सक्षत्रम्
१५. साकल्यार्थे - तृणम् अपि अपरित्यज्य = सतृणम् (अत्ति)
१६. अन्तार्थे - अग्निग्रन्थपर्यन्तम् (अधीते) = साग्नि
१७. अवधारणार्थे४५ – यावन्ति नामानि (तावन्तो ऽच्युतप्रणामाः) = यावन्नामम् ।
१८. मर्यादार्थे४६ - आ हिमालयात् = आहिमालयम् (चीनादेशः) (मर्यादा = तेन विना)
१९. अभिविध्यर्थे - आ हिमालयात् = आहिमालयम् (भारतदेशः) (अभिविधिः = तेन सह)
२०. आभिमुख्यार्थे४७ - अग्निं प्रति = प्रत्यग्नि
४.४.२. अव्ययोत्तरपदः अव्ययीभावः
२१. मात्रार्थे४८ - शाकस्य लेशः = शाकप्रति
४.४.३. अव्ययपदरहितः अव्ययीभावः
२२. तिष्ठद्गुप्रभृतयः४९ - तिष्ठन्ति गावः यस्मिन् काले = तिष्ठद्गु
आयत्यः गावः यस्मिन् काले = आयतीगवम्
२३. पारेशब्दयुक्तः - ५०गङ्गायाः पारे = पारेगङ्गम्
२४. मध्येशब्दयुक्तः - समुद्रस्य मध्ये = मध्येसमुद्रम् ।
४४. अनुरूपः आत्मभावः सम्पत्तिः । ऋद्धेः आधिक्यं समृद्धिः । अतः सम्पत्ति-समृद्ध्योः अत्र न पर्यायार्थता । ४५. यावदवधारणे - २.१.८ - इयत्ता परिच्छेदे गम्ये यावद् इत्ययं समस्यते । ४६. आङ्मर्यादाभिविध्योः २.१.१३ - एतयोर् आङ् पञ्चम्यन्तेन वा समस्यते । ४७. लक्षणेनाभिप्रती आभिमुख्ये - २.१.१४ - आभिमुख्यद्योतकौ अभिप्रती चिह्नवाचिना सह वा समस्येते । ४८. सुप्प्रतिनामात्रार्थे - २.१.९ - लेशार्थे विद्यमानेन प्रतिना सुबन्तं समस्यते । ४९. तिष्ठद्गुप्रभृतीनि च - २.१.१७ - एतानि निपात्यन्ते । ५०. पारे मध्ये षष्ठ्या वा - २.२.१८ - पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते ।
58
[[P65]]