रमायाः पतिः = रमापतिः । अत्र विग्रहे ‘रमायाः’ इत्यत्र षष्ठीविभक्तिः, ‘पतिः’ इत्यत्र प्रथमाविभक्तिश्च श्रूयते । समासे कृते तयोः द्वयोर् अपि विभक्त्योः लोपः भवति । ततः समस्तात्पदात् पुनर् अपि प्रथमाविभक्तिः क्रियते इति प्रक्रियाक्रमः ।
यथा - रमा + ङस् + पति + सु
→ रमा + पति
→ रमापति + सु = रमापतिः
३.१. पूर्वपदस्य नियमाः1
३.१. पूर्वपदस्य नियमाः द्विधा - १. सामान्याः २. विशेषाः इति ।
३.१.१. सामान्याः
सर्वेषु समासेषु एते सामान्यनियमाः सम्भवन्ति । समासे जाते पूर्वपदस्य विभक्तेः लोपे कृते तत् पदं प्रातिपदिकरूपेण स्थितं भवति । अतः समासे कृते पूर्वपदस्य प्रातिपदिकं झटिति सदा स्मरणीयम् । तदा इमे अंशाः स्मरणीयाः -
[[P24]]
| नाम | नियमः | उदाहरणम् | प्रक्रिया |
|---|---|---|---|
| १. सन्धिः | सन्धीनाम् अवसरो ऽस्ति चेत् सन्धिः करणीय एव । | भगवतः अनुग्रहः = भगवदनुग्रहः । | भगवत् + अनुग्रह = भगवद् + अनुग्रह = भगवदनुग्रहः । |
| २. नकारस्य लोपः | नकारान्तं प्रातिपदिकं चेत् नकारस्य लोपः कर्तव्यः । | राज्ञः + पुरुषः = राजपुरुषः | राजन् + पुरुष = राज + पुरुष = राजपुरुषः । |
| ३. नञः लोपः | नञ्समासे नकारस्य (न्) लोपः करणीयः । | न + धर्मः = अधर्मः | न (न् + अ) + धर्म = अ + धर्म = अधर्मः |
| ४. नुडागमः | नञ्समासे उत्तरपदं यदि स्वरादि भवति तर्हि नलोपे जाते अकारात्परे नुड्(न्) आगमः करणीयः । | न + ईश्वरः = अनीश्वरः | न (न् + अ) + ईश्वरः । = अ + ईश्वरः = अ + न् + ईश्वरः = अनीश्वरः |
18
[[P25]]
३.१.२. विशेषाः
केषुचित् समासेष्व्-एव विशेषनियमाः सम्भवन्ति ।
| नाम | नियमः | उदाहरणम् | प्रक्रिया |
|---|---|---|---|
| १. पुंवद्भावः | कर्मधारये समानाधिकरणबहुव्रीहौ च पूर्वपदं स्त्रीलिङ्गे विद्यमानं सत् भाषितपुंस्कम् अपि यदि भवति (उभयलिङ्गकं) तर्हि पुंल्लिङ्गवद्रूपं प्राप्नोति । | i. कर्म - दीर्घा + रज्जुः = दीर्घरज्जुः । ii. बहु - स्थिता + प्रज्ञा यस्य सः = स्थितप्रज्ञः । |
दीर्घा + रज्जुः → दीर्घ + रज्जुः → दीर्घरज्जुः । स्थिता + प्रज्ञा → स्थित + प्रज्ञा → स्थितप्रज्ञः । |
| २. महतः आत्वम् | कर्मधारये समानाधिकरणबहुव्रीहौ च महतः तकारस्य आकारः भवति । | i. कर्म - महान् + देव = महादेवः । ii. बहु - महती सेना यस्य सः = महासेनः । |
महत् + देव → मह + आ + देव → महा + देव = महादेवः । महती + सेना → महत् + सेना (पुंवद्भावः) → मह + आ + सेना → महा + सेना = महासेनः । |
| ३. आनङ् | विद्यायोनिसम्बन्धिनाम् ऋदन्तानां द्वन्द्वे आनङ् (आ) भवति । पुत्रशब्दे परे ऽपि भवति । | माता च पिता च = मातापितरौ पिता च पुत्रश्च = पितापुत्रौ |
मातृ + पितृ → माता + पितृ → मातापितरौ । |
| ४. दीर्घः | कर्मव्यतिहारबहुव्रीहौ स्वरान्तस्य पूर्वपदस्य दीर्घो भवति । | मुष्ट्या मुष्ट्या प्रहृत्य इदं युद्धं प्रवृत्तम् → मुष्टीमुष्टि | मुष्टि + मुष्टि → मुष्टी + मुष्टि → मुष्टीमुष्टि |
19
[[P26]]
३.२. उत्तरपदस्य नियमाः
३.२. उत्तरपदस्य नियमाः2 द्विधा - १. सामान्यः २. विशेषाः इति ।
३.२.१. सामान्यः
सर्वेषु समासेषु एषः नियमः सम्भवति । समासे जाते उत्तरपदस्य विभक्तेः लोपे कृते तत् पदं प्रातिपदिकरूपेण स्थितं भवति । ततः परे केचन प्रत्ययाः क्वचित् भवन्ति । ते समासान्तप्रत्ययाः इत्य्-उच्यन्ते ।
| शब्दः | नियमः | प्रत्ययः | उदाहरणम् |
|---|---|---|---|
| १. पथिन्शब्दः | पथिन् शब्दान्तस्य ‘अ’ इति प्रत्ययः भवति । [ऋक्पूरब्धूः पथामानक्षे - ५.४.७४] |
अ | दीर्घः पन्थाः = दीर्घपथः रम्यः पन्थाः यस्य सः = रम्यपथः |
३.२.२. विशेषाः
उत्तरपदसम्बन्धिनः विशेषनियमाः बहवः एकैकं समासमधिकृत्यैव प्रवृत्ताः । अतः एकैकस्यापि समासस्य नियमाः पृथग् एव लिख्यन्ते ।
20
[[P27]]
३.२.२.१. (अ) तत्पुरुषस्य नियमाः
| शब्दः | नियमः | प्रत्ययः | उदाहरणम् |
|---|---|---|---|
| १. रात्रिशब्दः | सर्व-एकदेश-संख्यात-पुण्य-संख्या-अव्ययेभ्यः परः रात्रिशब्दः अच्प्रत्ययं प्राप्नोति । सर्वादिपूर्वकः रात्रिशब्दः अकारान्तः भवतीत्य्-अर्थः ।3 [एकदेशः = प्रथमातत्पुरुषे सम्भवनीयाः पूर्व-अपर-अधर-उत्तर-मध्य-पश्चिमादिशब्दाः] 4अहः-सर्वैकदेशसंख्यात-पुण्याच्च रात्रेः - ५.४.८७] |
अच् (अ) | सर्वा रात्रिः = सर्वरात्रः5 पूर्वं रात्रेः = पूर्वरात्रः । संख्याता रात्रिः = संख्यातरात्रः पुण्या रात्रिः = पुण्यरात्रः नवानां रात्रीणां समाहारः = नवरात्रम्6 अतिक्रान्तः रात्रिम् = अतिरात्रः |
21
[[P28]]
| २. राजन्-अहन्-सखिशब्दाः | राजन्शब्दः अहन्शब्दः सखिशब्दश्च तत्पुरुषान्ते श्रूयमाणाः टच्प्रत्ययं प्राप्नुवन्ति । त्रयो ऽपि अकारान्ताः भवन्तीत्य्-अर्थः । (राजाहःसखिभ्यष्टच् - ५.४.९१) | टच् (अ) | देवानां राजा = देवराजः सप्तानाम् अह्नां समाहारः = सप्ताहः7 कृष्णस्य सखा = कृष्णसखः |
| ३. गोशब्दः | तत्पुरुषान्ते श्रूयमाणः गोशब्दः टच्प्रत्ययं प्राप्नोति । पुंल्लिङ्गे अकारान्तः, स्त्रीलिङ्गे ईकारान्तः भवतीत्य्-अर्थः । (गोरतद्धितलुकि - ५.४.९२) | टच् (अ) | उत्तमः गौः = उत्तमगवः श्रेष्ठा गौः = श्रेष्ठगवी |
| ४. नौशब्दः | द्विगुसमासस्यान्ते अर्धशब्दाच्च परं श्रूयमाणः नौशब्दः टच्प्रत्ययं प्राप्नोति । नौशब्दः अकारान्तः भवतीत्य्-अर्थः । (नावो द्विगोः - ५.४.९९ अर्धाच्च - ५.४.१००) | टच् (अ) | तिसृणां नावां समाहारः = त्रिनावम् अर्धं नावः = अर्धनावम्8 |
22
[[P29]]
३.२.२.१. (आ) समासान्तप्रत्ययस्य अपवादाः (तत्पुरुषे)
| १. सु-अति-शब्दौ | यदा पूजनार्थे सु-अति-शब्दौ भवतः ताभ्यां परः शब्दः समासान्तं प्रत्ययं न प्राप्नोति । (न पूजनात् - ५.४.६९) |
शोभनः राजा = सुराजा अतिशयितः राजा = अतिराजा |
| २. किंशब्दः | कुत्सायां यः किंशब्दः तस्मात्परः शब्दो ऽपि समासान्तप्रत्ययं न प्राप्नोति । (किमः क्षेपे - ५.४.७०) |
कुत्सितः राजा = किंराजा कुत्सिता सखा = किंसखा कुत्सिता गौः = किंगौः |
| ३. नञ् | नञ्पूर्वपदः तत्पुरुषः समासान्तप्रत्ययं न प्राप्नोति । पथिन्शब्दस्तु विकल्पेन । (नञस्तत्पुरुषात् - ५.४.७१ पथो विभाषा - ५.४.७२) |
न राजा = अराजा न सखा = असखा न पन्थाः = अपन्थाः / अपथम्9 |
23
[[P30]]
३.२.२.२. बहुव्रीहेः नियमाः
| १. धर्मशब्दः | धर्मशब्दान्तः बहुव्रीहिः अनिच्प्रत्ययं प्राप्नोति । बहुव्रीहौ धर्मशब्दः नकारान्तः भवतीत्य्-अर्थः । (धर्मादनिच्केवलात् - ५.४.१२४) | अनिच् (अन्) | दृष्टः धर्मः येन सः - दृष्टधर्मा । |
| २. … | व्यतिहारलक्षणः इच्प्रत्ययं प्राप्नोति । अव्ययं च भवति । (इच्कर्मव्यतिहारे - ५.४.१२७) | इच् (इ) | दण्डैः दण्डैः प्रहृत्य इदं युद्धं प्रवृत्तं - दण्डादण्डि |
| ३. धनुःशब्दः | धनुःशब्दान्तः बहुव्रीहिः अनङ्-आदेशं प्राप्नोति । धनुःशब्दः नकारान्तः भवति इत्य्-अर्थः । (धनुषश्च - ५.४.१३२) | अनङ् (अन्) | गाण्डीवं धनुः यस्य सः - गाण्डीवधन्वा । |
| ४. जायाशब्दः | जायाशब्दान्तः बहुव्रीहिः निङ्-आदेशं प्राप्नोति । (जायाया निङ् - ५.४.१३४) | निङ् (नि) | कौसल्या जाया यस्य सः = कौसल्याजानिः |
| ५. गन्धशब्दः | i) उत्-पूति-सु-सुरभिशब्देभ्यः परः गन्धशब्दः ‘इत्’ इत्यादेशं प्राप्नोति । (गन्धस्येदुत्पूतिसुसुरभिभ्यः - ५.४.१३५) ii) अल्पार्थे विद्यमानः गन्धशब्दः बहुव्रीहौ ‘इत्’ इत्यादेशं प्राप्नोति । (अल्पाख्यायाम् - ५.४.१३६) iii) उपमानात्परः गन्धशब्दो ऽपि ‘इत्’ इत्यादेशं प्राप्नोति । (उपमानाच्च - ५.४.१३७) |
इत् (इ) | उद्गतः गन्धः यस्य सः = उद्गन्धिः पूतिः गन्धः यस्य सः = पूतिगन्धिः शोभन गन्धः यस्य सः = सुगन्धिः सुरभिः गन्धः यस्य सः = सुरभिगन्धिः घृतस्य गन्धः (लेशः) यस्मिन् तत् – घृतगन्धि (भोजनम्) । मत्स्यगन्ध इव गन्धः यस्याः सा - मत्स्यगन्धिः । |
24
[[P31]]
| ६. पादशब्दः | संख्यापूर्वस्य सुपूर्वस्य च पादशब्दस्य अकारस्य लोपः भवति । (संख्यासुपूर्वस्य - ५.४.१४०) | द्वौ पादौ यस्य सः - द्विपाद् शोभनौ पादौ यस्य सः - सुपाद् । |
|
| ७. ईकारान्तः ऊकारान्तः ऋकारान्तः च शब्दः | ईकारान्तस्त्रीलिङ्गः ऊकारान्तस्त्रीलिङ्गः ऋकारान्तश्च शब्दः बहुव्रीहौ अन्ते श्रूयमाणः ‘कप्’प्रत्ययं प्राप्नोति । (नद्यृतश्च - ५.४.१५३) | कप् (क) | तीर्णा नदी येन सः - तीर्णनदीकः दृष्टा वधूः येन सः - दृष्टवधूकः नदी माता यस्य सः - नदीमातृकः (देशः) । |
| ८. शिष्टाः शब्दाः10 | पूर्वोक्तेभ्यः शब्देभ्यः भिन्नाः शब्दाः समानाधिकरणबहुव्रीहौ अन्ते श्रूयमाणाः विकल्पेन कप्प्रत्ययं प्राप्नुवन्ति । (शेषाद्विभाषा - ५.४.१५४) | कठोरं चेतः यस्य सः = कठोरचेतस्कः / कठोरचेताः | |
| ९. आकारान्तः गोश्ब्दश्च | आकारान्तस्त्रीलिङ्गः शब्दः गोशब्दश्च बहुव्रीहौ अन्ते श्रूयमाणः ह्रस्वः भवति । कप्प्रत्यये परे तु आकारान्तः स्त्रीलिङ्गः विकल्पेन ह्रस्वो भवति । (गोस्त्रियोरुपसर्जनस्य - १.२.४८ आपोऽन्यतरस्याम् - ७.४.१५) | अधीता विद्या येन सः - अधीतविद्यः / अधीतविद्यकः / अधीतविद्याकः । चित्राः गावः यस्य सः = चित्रगुः (गोपः) । |
25
[[P32]]
३.२.२.३. द्वन्द्वसमासस्य नियमः
| शब्दः | नियमः | प्रत्ययः | उदाहरणम् |
|---|---|---|---|
| १. चवर्गाद्यन्तः | समाहारद्वन्द्वे अन्ते श्रूयमाणाः चवर्गान्तः दकारान्तः षकारान्तः हकारान्तश्च ‘टच्’प्रत्ययं प्राप्नुवन्ति । [द्वन्द्वाच्चुदषहान्तात्समाहारे - ५-४-१०६] | टच् (अ) | वाक् च त्वक् च अनयोः समाहारः = वाक्त्वचम् । क्षत्रियाश्च वणिजश्च एतेषां समाहारः = क्षत्रियवणिजम् सम्पच्च विपच्च अनयोः समाहारः = सम्पद्विपदम् । वाक् च त्विट् च अनयोः समाहारः = वाक्त्विषम् छत्रं च उपानत् च अनयोः समाहरः = छत्रोपानहम् । |
३.२.२.४. अव्ययीभावस्य नियमाः
| नियमः | प्रत्ययः | उदाहरणम् |
|---|---|---|
| १. अव्ययीभावे अन्ते श्रूयमाणः - i) अकारान्तः आकारान्तो वा शब्दः अकारान्तनपुंसकस्य एकवचनम् इव । |
- कृष्णस्य समीपम् = उपकृष्णम् । - शालायाः समीपम् = उपशालम् । |
26
[[P33]]
| नियमः | प्रत्ययः | उदाहरणम् |
|---|---|---|
| ii) इकारान्तः ईकारान्तो वा शब्दः वारिशब्दस्य एकवचनम् इव । | शक्तिम् अनतिक्रम्य = यथाशक्ति । आ कन्याकुमार्याः = आकन्याकुमारि । |
|
| iii) उकारान्तः, ऊकारान्तः, ओकारान्तः, औकारान्तः वा शब्दः मधुशब्दस्य एकवचनम् इव । | वस्तूनाम् अभावः = निर्वस्तु । वधूं वधूं प्रति = प्रतिवधु । गोः समीपम् = उपगु11। |
|
| iv) ऋकारान्तशब्दः ऋकारान्तनपुंसकस्य एकवचनम् इव । सर्वो ऽपि अव्ययीभावः अव्ययं भवति । |
कार्यकर्तारं प्रति = प्रतिकार्यकर्तृ । | |
| २. अव्ययीभावे अन्ते श्रूयमाणः अन्नन्तः टच्प्रत्ययं प्राप्नोति । नपुंसकं चेत् विकल्पेन । टच् प्रत्ययान्तो ऽयम् अन्नन्तः अकारान्तनपुंसकस्य एकवचनम् इव भवति इति फलितं भवति । | (टच्) अ | आत्मनि इति = अध्यात्मम् कर्माणि अनतिक्रम्य = यथाकर्मम् / यथाकर्म |
27
[[P34]]
३.३. लिङ्गानुसरणम्12
| नियमः | उदाहरणम् |
|---|---|
| १. इतरेतरद्वन्द्वस्य तत्पुरुषस्य च उत्तरपदस्य यल्लिङ्गं तद्भवति । [परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः - २.४.२६] | - वृषभश्च महिषी च = वृषभमहिष्यौ । - अर्धं विरामस्य = अर्धविरामः । |
| २. समाहारद्वन्द्वः द्विगुश्च नपुंसकं भवति । [स नपुंसकम् - २.४.१७] | - पाणी च पादौ च एतेषां समाहारः = पाणिपादम् । - पञ्चानां गवां समाहारः = पञ्चगवम् |
| ३. अकारान्तोत्तरपदः द्विगुः स्त्रीलिङ्गः ईकारान्तश्च भवति ।13 [पञ्चपात्रं, त्रिभुवनम्, चतुर्युगम् इत्यत्र नायं नियमः ।] | - त्रयाणां लोकानां समाहारः = त्रिलोकी |
| ४. बहुव्रीहिः त्रिलिङ्गकः भवति । | - प्राप्तम् उदकं यं सः = प्राप्तोदकः (ग्रामः) - प्राप्तम् उदकं यां सा = प्राप्तोदका (नगरी) । - प्राप्तम् उदकं यत् तत् = प्राप्तोदकम् (नगरम्) । |
| ५. अव्ययीभावः सर्वो ऽपि अव्ययं भवति । | - शक्तिम् अनतिक्रम्य = यथाशक्ति । |
28
[[P35]]
३.४. एष सङ्ग्रहः14
३.४.१. पूर्वपदे स्मरणीयाः
३.४.१.१. सामान्यनियमाः
| स्मरणीयः अंशः | उदाहरणम् |
|---|---|
| १. सन्धिः | भगवदनुग्रहः |
| २. नकारलोपः | राजपुरुषः |
| ३. नञः नलोपः | अधर्मः |
| ४. नुडागमः | अनीश्वरः |
३.४.१.२. विशेषनियमाः
| स्मरणीयः अंशः | समासनाम | उदाहरणम् |
|---|---|---|
| १. पुंवद्भावः | कर्मधारयः समानाधिकरणबहुव्रीहिः च | दीर्घरज्जुः स्थितप्रज्ञः |
| २. महतः आत्वम् | कर्मधारयः समानाधिकरणबहुव्रीहिः च | महादेवः महासेनः |
| ३. आनङ् | द्वन्द्वः | मातापितरौ पितापुत्रौ |
| ४. दीर्घः | कर्मव्यतिहारबहुव्रीहिः | मुष्टीमुष्टि |
29
[[P36]]
३.४.२. उत्तरपदे स्मरणीयाः
३.४.२.१. सामान्यनियमाः
| प्रत्ययः | अन्तः | समासः | उदाहरणम् |
|---|---|---|---|
| १. पथिन् | |||
| अ | अकारान्तः | कर्मधारयः | दीर्घपथः |
| " | " | बहुव्रीहिः | रम्यपथः |
| " | " | द्वन्द्वः | तीरपथौ |
| " | " | नञ्तत्पुरुषः | अपथम् |
| — | नकारान्तः | नञ्तत्पुरुषः | अपन्थाः |
३.४.२.२. विशेषनियमाः
३.४.२.२. (अ) तत्पुरुषः
| प्रत्ययः | अन्तः | लिङ्गम् | उदाहरणम् |
|---|---|---|---|
| १. रात्रि | |||
| अच् (अ) | अकारान्तः | पुंल्लिङ्गः | सर्वरात्रः |
| " | " | " | पूर्वरात्रः |
| " | " | " | अपररात्रः |
| " | " | " | अर्धरात्रः |
| " | " | " | उत्तररात्रः |
| " | " | " | मध्यरात्रः |
| " | " | " | पश्चिमरात्रः |
| " | " | " | संख्यातरात्रः |
| " | " | " | पुण्यरात्रः |
| " | " | " | अतिरात्रः |
| " | " | नपुंसकलिङ्गः | नवरात्रम् |
30
[[P37]]
| प्रत्ययः | अन्तः | लिङ्गम् | उदाहरणम् | |
|---|---|---|---|---|
| २. राजन् | टच् (अ) | अकारान्तः | पुंल्लिङ्गः | देवराजः |
| " | टच् | ईकारान्तः | स्त्रीलिङ्गः | अतिराजी |
| अहन् | टच् | अकारान्तः | पुंल्लिङ्गः | सप्ताहः |
| सखि | " | " | " | कृष्णसखः |
| " | " | ईकारान्तः | स्त्रीलिङ्गः | अतिसखी |
| ३. नौ | " | अकारान्तः | नपुंसकलिङ्गः | त्रिनावम् |
| " | " | " | " | अर्धनावम् |
| [यदा पूर्वत्र एते भवन्ति तदा समासान्त-प्रत्ययाः न भवन्ति ।] ↓ | ||||
| ४. सु | — | नकारान्तः | पुंल्लिङ्गः | सुराजा |
| " | — | इकारान्तः | " | सुसखा |
| अति | — | नकारान्तः | " | अतिराजा |
| " | — | इकारान्तः | " | अतिसखा |
| ५. किम् | — | नकारान्तः | " | किंराजा |
| " | — | इकारान्तः | " | किंसखा |
| " | — | ओकारान्तः | स्त्रीलिङ्गः/पुंल्लिङ्गः | किंगौः |
| ६. नञ् | — | नकारान्तः | पुंल्लिङ्गः | अराजा |
| " | — | इकारान्तः | " | असखा |
| " | — | नकारान्तः | " | अपन्थाः |
| " | अप् | अकारान्तः | नपुंसकलिङ्गः | अपथम् |
31
[[P38]]
३.४.२.२. (आ) बहुव्रीहिः
| शब्दः | प्रत्ययः | अन्तः | उदाहरणम् |
|---|---|---|---|
| १. धर्म | अनिच् (अन्) | नकारान्तः | दृष्टधर्मा |
| २. …. | इच् (इ) | इकारान्तः | दण्डादण्डि |
| ३. धनुस् | अनङ् (अन्) | नकारान्तः | गाण्डीवधन्वा |
| ४. जाया | निङ् (नि) | इकारान्तः | कौसल्याजानिः |
| ५. गन्धः | इत् (इ) | इकारान्तः | उद्गन्धिः |
| " | " | " | सुगन्धिः |
| " | " | " | सुरभिगन्धिः |
| " | " | " | घृतगन्धिः |
| " | " | " | मत्स्यगन्धिः |
| ६. पादः | (लोपः) | दकारान्तः | द्विपाद् |
| " | " | " | सुपाद् |
| ७. ईकारान्तः | कप् (क) | अकारान्तः | तीर्णनदीकः |
| ऊकारान्तः | " | " | दृष्टवधूकः |
| ऋकारान्तः | " | " | नदीमातृकः |
| ८. शिष्टाः | कप् (क) (विकल्पेन) | अकारान्तः तत्तदन्तः |
कठोरचेतस्कः कठोरचेताः |
| ९. आकारान्तः | ह्रस्वः | अकारान्तः | अधीतविद्यः |
| कप् ह्रस्वः च (विकल्पेन ह्रस्वः) | " | अधीतविद्यकः | |
| " | अधीतविद्याकः | ||
| १०. गो | ह्रस्वः | उकारान्तः | चित्रगुः |
32
[[P39]]
३.४.२.२. (इ) द्वन्द्वः
| शब्दः | प्रत्ययः | अन्तः | लिङ्गम् | उदाहरणम् |
|---|---|---|---|---|
| १. चवर्गान्तः | टच् | अकारान्तः | नपुंसकलिङ्गः | वाक्त्वचम् |
| दकारान्तः | " | " | " | सम्पद्विपदम् |
| षकारान्तः | " | " | " | वाक्त्विषम् |
| हकारान्तः | " | " | " | छत्रोपानहम् |
३.४.२.२. (ई) अव्ययीभावः
| शब्दः | प्रत्ययः | अन्तः | लिङ्गम् | उदाहरणम् |
|---|---|---|---|---|
| अकारान्तः | — | अकारान्तः | नपुंसकलिङ्गः | उपकृष्णम् |
| आकारान्तः | — | " | अव्ययं वा | उपशालम् |
| इकारान्तः | — | इकारान्तः | " | यथाशक्ति |
| ईकारान्तः | — | " | " | आकन्याकुमारि |
| उकारान्तः | — | उकारान्तः | " | निर्वस्तु |
| ऊकारान्तः | — | " | " | प्रतिवधु |
| ओकारान्तः | — | " | " | उपगु |
| ऋकारान्तः | — | ऋकारान्तः | " | प्रतिकार्यकर्तृ |
| अन्नन्तः | टच् (अ) | अकारान्तः | " | अध्यात्मम् |
33
[[P40]]
-
- पूर्वपदसम्बन्धिनः सर्वे नियमाः अत्र नोच्यन्ते । प्रतिशतं नवतिः नियमाः लिख्यन्ते ।
-
१. प्रसिद्धाः नियमाः लिखिताः । ↩︎
-
४. शुभरात्रिः, शिवरात्रिः इत्यादौ अस्य नियमस्य अप्रसक्त्या रात्रिशब्दः इकारान्तः स्त्रीलिङ्गश्च । ↩︎
-
५. अहन् शब्दस्योदाहरणम् - अहोरात्र इति । अयं द्वन्द्वसमासः । ↩︎
-
२. समासे रात्रिशब्दः यदा अकारान्तः भवति तदा पुंल्लिङ्गः भवति । (रात्राह्नाहाः पुंसि - २.४.२९) ↩︎
-
३. संख्यापूर्वं रात्रं क्लीबम् । ↩︎
-
- टच्प्रत्ययान्तः अहन्शब्दः पुंल्लिङ्गः । (रात्राह्नाहाः पुंसि - २.४.२९)
-
- नपुंसकत्वं लोकात् ।
-
- अपथं नपुंसकम् - २.४.३०
-
- पूर्वोक्ताः - बहुव्रीहौ बहुभ्यः शब्देभ्यः समासान्तप्रत्ययाः विहिताः । सर्वसमाससाधारणप्रत्यया अपि केभ्यश्चित् विहिताः । ते शब्दाः पूर्वोक्तशब्देन ग्राह्याः । न तु अत्र पूर्वोक्ता एव ।
-
- आयतीगवम् इत्येकं निपातनाद् अकारान्तम् ।
-
- प्रमुखाः नियमाः लिखिताः । अन्ये नियमाः अपि सन्ति । अपवादाः अपि सन्ति ।
-
** ४५ - पृष्ठं पश्यन्तु । ↩︎
-
- सप्तदशपृष्ठतः अष्टाविंशतिपृष्ठपर्यन्तं ये अंशाः उक्ताः ते अत्र संक्षेपेण स्मरणार्थं पुनः लिखिताः ।