३ पूर्वोत्तरपदयोः विशेषः

रमायाः पतिः = रमापतिः । अत्र विग्रहे ‘रमायाः’ इत्यत्र षष्ठीविभक्तिः, ‘पतिः’ इत्यत्र प्रथमाविभक्तिश्च श्रूयते । समासे कृते तयोः द्वयोर् अपि विभक्त्योः लोपः भवति । ततः समस्तात्पदात् पुनर् अपि प्रथमाविभक्तिः क्रियते इति प्रक्रियाक्रमः ।

यथा - रमा + ङस् + पति + सु
→ रमा + पति
→ रमापति + सु = रमापतिः

३.१. पूर्वपदस्य नियमाः1

३.१. पूर्वपदस्य नियमाः द्विधा - १. सामान्याः २. विशेषाः इति ।

३.१.१. सामान्याः

सर्वेषु समासेषु एते सामान्यनियमाः सम्भवन्ति । समासे जाते पूर्वपदस्य विभक्तेः लोपे कृते तत् पदं प्रातिपदिकरूपेण स्थितं भवति । अतः समासे कृते पूर्वपदस्य प्रातिपदिकं झटिति सदा स्मरणीयम् । तदा इमे अंशाः स्मरणीयाः -

[[P24]]

नाम नियमः उदाहरणम् प्रक्रिया
१. सन्धिः सन्धीनाम् अवसरो ऽस्ति चेत् सन्धिः करणीय एव । भगवतः अनुग्रहः = भगवदनुग्रहः । भगवत् + अनुग्रह = भगवद् + अनुग्रह = भगवदनुग्रहः ।
२. नकारस्य लोपः नकारान्तं प्रातिपदिकं चेत् नकारस्य लोपः कर्तव्यः । राज्ञः + पुरुषः = राजपुरुषः राजन् + पुरुष = राज + पुरुष = राजपुरुषः ।
३. नञः लोपः नञ्समासे नकारस्य (न्) लोपः करणीयः । न + धर्मः = अधर्मः न (न् + अ) + धर्म = अ + धर्म = अधर्मः
४. नुडागमः नञ्समासे उत्तरपदं यदि स्वरादि भवति तर्हि नलोपे जाते अकारात्परे नुड्(न्) आगमः करणीयः । न + ईश्वरः = अनीश्वरः न (न् + अ) + ईश्वरः । = अ + ईश्वरः = अ + न् + ईश्वरः = अनीश्वरः

18

[[P25]]

३.१.२. विशेषाः

केषुचित् समासेष्व्-एव विशेषनियमाः सम्भवन्ति ।

नाम नियमः उदाहरणम् प्रक्रिया
१. पुंवद्भावः कर्मधारये समानाधिकरणबहुव्रीहौ च पूर्वपदं स्त्रीलिङ्गे विद्यमानं सत् भाषितपुंस्कम् अपि यदि भवति (उभयलिङ्गकं) तर्हि पुंल्लिङ्गवद्रूपं प्राप्नोति । i. कर्म - दीर्घा + रज्जुः = दीर्घरज्जुः ।
ii. बहु - स्थिता + प्रज्ञा यस्य सः = स्थितप्रज्ञः ।
दीर्घा + रज्जुः → दीर्घ + रज्जुः → दीर्घरज्जुः ।

स्थिता + प्रज्ञा → स्थित + प्रज्ञा → स्थितप्रज्ञः ।
२. महतः आत्वम् कर्मधारये समानाधिकरणबहुव्रीहौ च महतः तकारस्य आकारः भवति । i. कर्म - महान् + देव = महादेवः ।
ii. बहु - महती सेना यस्य सः = महासेनः ।
महत् + देव → मह + आ + देव → महा + देव = महादेवः ।
महती + सेना → महत् + सेना (पुंवद्भावः) → मह + आ + सेना → महा + सेना = महासेनः ।
३. आनङ् विद्यायोनिसम्बन्धिनाम् ऋदन्तानां द्वन्द्वे आनङ् (आ) भवति । पुत्रशब्दे परे ऽपि भवति । माता च पिता च = मातापितरौ
पिता च पुत्रश्च = पितापुत्रौ
मातृ + पितृ → माता + पितृ → मातापितरौ ।
४. दीर्घः कर्मव्यतिहारबहुव्रीहौ स्वरान्तस्य पूर्वपदस्य दीर्घो भवति । मुष्ट्या मुष्ट्या प्रहृत्य इदं युद्धं प्रवृत्तम् → मुष्टीमुष्टि मुष्टि + मुष्टि → मुष्टी + मुष्टि → मुष्टीमुष्टि

19

[[P26]]

३.२. उत्तरपदस्य नियमाः

३.२. उत्तरपदस्य नियमाः2 द्विधा - १. सामान्यः २. विशेषाः इति ।

३.२.१. सामान्यः

सर्वेषु समासेषु एषः नियमः सम्भवति । समासे जाते उत्तरपदस्य विभक्तेः लोपे कृते तत् पदं प्रातिपदिकरूपेण स्थितं भवति । ततः परे केचन प्रत्ययाः क्वचित् भवन्ति । ते समासान्तप्रत्ययाः इत्य्-उच्यन्ते ।

शब्दः नियमः प्रत्ययः उदाहरणम्
१. पथिन्शब्दः पथिन् शब्दान्तस्य ‘अ’ इति प्रत्ययः भवति ।
[ऋक्पूरब्धूः पथामानक्षे - ५.४.७४]
दीर्घः पन्थाः = दीर्घपथः
रम्यः पन्थाः यस्य सः = रम्यपथः

३.२.२. विशेषाः

उत्तरपदसम्बन्धिनः विशेषनियमाः बहवः एकैकं समासमधिकृत्यैव प्रवृत्ताः । अतः एकैकस्यापि समासस्य नियमाः पृथग् एव लिख्यन्ते ।

20

[[P27]]

३.२.२.१. (अ) तत्पुरुषस्य नियमाः
शब्दः नियमः प्रत्ययः उदाहरणम्
१. रात्रिशब्दः सर्व-एकदेश-संख्यात-पुण्य-संख्या-अव्ययेभ्यः परः रात्रिशब्दः अच्प्रत्ययं प्राप्नोति । सर्वादिपूर्वकः रात्रिशब्दः अकारान्तः भवतीत्य्-अर्थः ।3
[एकदेशः = प्रथमातत्पुरुषे सम्भवनीयाः पूर्व-अपर-अधर-उत्तर-मध्य-पश्चिमादिशब्दाः]
4अहः-सर्वैकदेशसंख्यात-पुण्याच्च रात्रेः - ५.४.८७]
अच् (अ) सर्वा रात्रिः = सर्वरात्रः5
पूर्वं रात्रेः = पूर्वरात्रः ।
संख्याता रात्रिः = संख्यातरात्रः
पुण्या रात्रिः = पुण्यरात्रः
नवानां रात्रीणां समाहारः = नवरात्रम्6
अतिक्रान्तः रात्रिम् = अतिरात्रः

21

[[P28]]

२. राजन्-अहन्-सखिशब्दाः राजन्शब्दः अहन्शब्दः सखिशब्दश्च तत्पुरुषान्ते श्रूयमाणाः टच्प्रत्ययं प्राप्नुवन्ति । त्रयो ऽपि अकारान्ताः भवन्तीत्य्-अर्थः । (राजाहःसखिभ्यष्टच् - ५.४.९१) टच् (अ) देवानां राजा = देवराजः
सप्तानाम् अह्नां समाहारः = सप्ताहः7
कृष्णस्य सखा = कृष्णसखः
३. गोशब्दः तत्पुरुषान्ते श्रूयमाणः गोशब्दः टच्प्रत्ययं प्राप्नोति । पुंल्लिङ्गे अकारान्तः, स्त्रीलिङ्गे ईकारान्तः भवतीत्य्-अर्थः । (गोरतद्धितलुकि - ५.४.९२) टच् (अ) उत्तमः गौः = उत्तमगवः
श्रेष्ठा गौः = श्रेष्ठगवी
४. नौशब्दः द्विगुसमासस्यान्ते अर्धशब्दाच्च परं श्रूयमाणः नौशब्दः टच्प्रत्ययं प्राप्नोति । नौशब्दः अकारान्तः भवतीत्य्-अर्थः । (नावो द्विगोः - ५.४.९९ अर्धाच्च - ५.४.१००) टच् (अ) तिसृणां नावां समाहारः = त्रिनावम्
अर्धं नावः = अर्धनावम्8

22

[[P29]]

३.२.२.१. (आ) समासान्तप्रत्ययस्य अपवादाः (तत्पुरुषे)
१. सु-अति-शब्दौ यदा पूजनार्थे सु-अति-शब्दौ भवतः ताभ्यां परः शब्दः समासान्तं प्रत्ययं न प्राप्नोति ।
(न पूजनात् - ५.४.६९)
शोभनः राजा = सुराजा
अतिशयितः राजा = अतिराजा
२. किंशब्दः कुत्सायां यः किंशब्दः तस्मात्परः शब्दो ऽपि समासान्तप्रत्ययं न प्राप्नोति ।
(किमः क्षेपे - ५.४.७०)
कुत्सितः राजा = किंराजा
कुत्सिता सखा = किंसखा
कुत्सिता गौः = किंगौः
३. नञ् नञ्पूर्वपदः तत्पुरुषः समासान्तप्रत्ययं न प्राप्नोति । पथिन्शब्दस्तु विकल्पेन ।
(नञस्तत्पुरुषात् - ५.४.७१
पथो विभाषा - ५.४.७२)
न राजा = अराजा
न सखा = असखा
न पन्थाः = अपन्थाः / अपथम्9

23

[[P30]]

३.२.२.२. बहुव्रीहेः नियमाः
१. धर्मशब्दः धर्मशब्दान्तः बहुव्रीहिः अनिच्प्रत्ययं प्राप्नोति । बहुव्रीहौ धर्मशब्दः नकारान्तः भवतीत्य्-अर्थः । (धर्मादनिच्केवलात् - ५.४.१२४) अनिच् (अन्) दृष्टः धर्मः येन सः - दृष्टधर्मा ।
२. … व्यतिहारलक्षणः इच्प्रत्ययं प्राप्नोति । अव्ययं च भवति । (इच्कर्मव्यतिहारे - ५.४.१२७) इच् (इ) दण्डैः दण्डैः प्रहृत्य इदं युद्धं प्रवृत्तं - दण्डादण्डि
३. धनुःशब्दः धनुःशब्दान्तः बहुव्रीहिः अनङ्-आदेशं प्राप्नोति । धनुःशब्दः नकारान्तः भवति इत्य्-अर्थः । (धनुषश्च - ५.४.१३२) अनङ् (अन्) गाण्डीवं धनुः यस्य सः - गाण्डीवधन्वा ।
४. जायाशब्दः जायाशब्दान्तः बहुव्रीहिः निङ्-आदेशं प्राप्नोति । (जायाया निङ् - ५.४.१३४) निङ् (नि) कौसल्या जाया यस्य सः = कौसल्याजानिः
५. गन्धशब्दः i) उत्-पूति-सु-सुरभिशब्देभ्यः परः गन्धशब्दः ‘इत्’ इत्यादेशं प्राप्नोति । (गन्धस्येदुत्पूतिसुसुरभिभ्यः - ५.४.१३५)

ii) अल्पार्थे विद्यमानः गन्धशब्दः बहुव्रीहौ ‘इत्’ इत्यादेशं प्राप्नोति । (अल्पाख्यायाम् - ५.४.१३६)

iii) उपमानात्परः गन्धशब्दो ऽपि ‘इत्’ इत्यादेशं प्राप्नोति । (उपमानाच्च - ५.४.१३७)
इत् (इ) उद्गतः गन्धः यस्य सः = उद्गन्धिः
पूतिः गन्धः यस्य सः = पूतिगन्धिः
शोभन गन्धः यस्य सः = सुगन्धिः
सुरभिः गन्धः यस्य सः = सुरभिगन्धिः
घृतस्य गन्धः (लेशः) यस्मिन् तत् – घृतगन्धि (भोजनम्) ।
मत्स्यगन्ध इव गन्धः यस्याः सा - मत्स्यगन्धिः ।

24

[[P31]]

६. पादशब्दः संख्यापूर्वस्य सुपूर्वस्य च पादशब्दस्य अकारस्य लोपः भवति । (संख्यासुपूर्वस्य - ५.४.१४०) द्वौ पादौ यस्य सः - द्विपाद्
शोभनौ पादौ यस्य सः - सुपाद् ।
७. ईकारान्तः ऊकारान्तः ऋकारान्तः च शब्दः ईकारान्तस्त्रीलिङ्गः ऊकारान्तस्त्रीलिङ्गः ऋकारान्तश्च शब्दः बहुव्रीहौ अन्ते श्रूयमाणः ‘कप्’प्रत्ययं प्राप्नोति । (नद्यृतश्च - ५.४.१५३) कप् (क) तीर्णा नदी येन सः - तीर्णनदीकः
दृष्टा वधूः येन सः - दृष्टवधूकः
नदी माता यस्य सः - नदीमातृकः (देशः) ।
८. शिष्टाः शब्दाः10 पूर्वोक्तेभ्यः शब्देभ्यः भिन्नाः शब्दाः समानाधिकरणबहुव्रीहौ अन्ते श्रूयमाणाः विकल्पेन कप्प्रत्ययं प्राप्नुवन्ति । (शेषाद्विभाषा - ५.४.१५४) कठोरं चेतः यस्य सः = कठोरचेतस्कः / कठोरचेताः
९. आकारान्तः गोश्ब्दश्च आकारान्तस्त्रीलिङ्गः शब्दः गोशब्दश्च बहुव्रीहौ अन्ते श्रूयमाणः ह्रस्वः भवति । कप्प्रत्यये परे तु आकारान्तः स्त्रीलिङ्गः विकल्पेन ह्रस्वो भवति । (गोस्त्रियोरुपसर्जनस्य - १.२.४८ आपोऽन्यतरस्याम् - ७.४.१५) अधीता विद्या येन सः - अधीतविद्यः / अधीतविद्यकः / अधीतविद्याकः ।
चित्राः गावः यस्य सः = चित्रगुः (गोपः) ।

25

[[P32]]

३.२.२.३. द्वन्द्वसमासस्य नियमः
शब्दः नियमः प्रत्ययः उदाहरणम्
१. चवर्गाद्यन्तः समाहारद्वन्द्वे अन्ते श्रूयमाणाः चवर्गान्तः दकारान्तः षकारान्तः हकारान्तश्च ‘टच्’प्रत्ययं प्राप्नुवन्ति । [द्वन्द्वाच्चुदषहान्तात्समाहारे - ५-४-१०६] टच् (अ) वाक् च त्वक् च अनयोः समाहारः = वाक्त्वचम् ।
क्षत्रियाश्च वणिजश्च एतेषां समाहारः = क्षत्रियवणिजम्
सम्पच्च विपच्च अनयोः समाहारः = सम्पद्विपदम् ।
वाक् च त्विट् च अनयोः समाहारः = वाक्त्विषम्
छत्रं च उपानत् च अनयोः समाहरः = छत्रोपानहम् ।
३.२.२.४. अव्ययीभावस्य नियमाः
नियमः प्रत्ययः उदाहरणम्
१. अव्ययीभावे अन्ते श्रूयमाणः -
i) अकारान्तः आकारान्तो वा शब्दः अकारान्तनपुंसकस्य एकवचनम् इव ।
- कृष्णस्य समीपम् = उपकृष्णम् ।
- शालायाः समीपम् = उपशालम् ।

26

[[P33]]

नियमः प्रत्ययः उदाहरणम्
ii) इकारान्तः ईकारान्तो वा शब्दः वारिशब्दस्य एकवचनम् इव । शक्तिम् अनतिक्रम्य = यथाशक्ति ।
आ कन्याकुमार्याः = आकन्याकुमारि ।
iii) उकारान्तः, ऊकारान्तः, ओकारान्तः, औकारान्तः वा शब्दः मधुशब्दस्य एकवचनम् इव । वस्तूनाम् अभावः = निर्वस्तु ।
वधूं वधूं प्रति = प्रतिवधु ।
गोः समीपम् = उपगु11
iv) ऋकारान्तशब्दः ऋकारान्तनपुंसकस्य एकवचनम् इव ।
सर्वो ऽपि अव्ययीभावः अव्ययं भवति ।
कार्यकर्तारं प्रति = प्रतिकार्यकर्तृ ।
२. अव्ययीभावे अन्ते श्रूयमाणः अन्नन्तः टच्प्रत्ययं प्राप्नोति । नपुंसकं चेत् विकल्पेन । टच् प्रत्ययान्तो ऽयम् अन्नन्तः अकारान्तनपुंसकस्य एकवचनम् इव भवति इति फलितं भवति । (टच्) अ आत्मनि इति = अध्यात्मम्
कर्माणि अनतिक्रम्य = यथाकर्मम् / यथाकर्म

27

[[P34]]

३.३. लिङ्गानुसरणम्12

नियमः उदाहरणम्
१. इतरेतरद्वन्द्वस्य तत्पुरुषस्य च उत्तरपदस्य यल्लिङ्गं तद्भवति । [परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः - २.४.२६] - वृषभश्च महिषी च = वृषभमहिष्यौ ।
- अर्धं विरामस्य = अर्धविरामः ।
२. समाहारद्वन्द्वः द्विगुश्च नपुंसकं भवति । [स नपुंसकम् - २.४.१७] - पाणी च पादौ च एतेषां समाहारः = पाणिपादम् ।
- पञ्चानां गवां समाहारः = पञ्चगवम्
३. अकारान्तोत्तरपदः द्विगुः स्त्रीलिङ्गः ईकारान्तश्च भवति ।13 [पञ्चपात्रं, त्रिभुवनम्, चतुर्युगम् इत्यत्र नायं नियमः ।] - त्रयाणां लोकानां समाहारः = त्रिलोकी
४. बहुव्रीहिः त्रिलिङ्गकः भवति । - प्राप्तम् उदकं यं सः = प्राप्तोदकः (ग्रामः)
- प्राप्तम् उदकं यां सा = प्राप्तोदका (नगरी) ।
- प्राप्तम् उदकं यत् तत् = प्राप्तोदकम् (नगरम्) ।
५. अव्ययीभावः सर्वो ऽपि अव्ययं भवति । - शक्तिम् अनतिक्रम्य = यथाशक्ति ।

28

[[P35]]

३.४. एष सङ्ग्रहः14

३.४.१. पूर्वपदे स्मरणीयाः

३.४.१.१. सामान्यनियमाः

स्मरणीयः अंशः उदाहरणम्
१. सन्धिः भगवदनुग्रहः
२. नकारलोपः राजपुरुषः
३. नञः नलोपः अधर्मः
४. नुडागमः अनीश्वरः

३.४.१.२. विशेषनियमाः

स्मरणीयः अंशः समासनाम उदाहरणम्
१. पुंवद्भावः कर्मधारयः समानाधिकरणबहुव्रीहिः च दीर्घरज्जुः स्थितप्रज्ञः
२. महतः आत्वम् कर्मधारयः समानाधिकरणबहुव्रीहिः च महादेवः महासेनः
३. आनङ् द्वन्द्वः मातापितरौ पितापुत्रौ
४. दीर्घः कर्मव्यतिहारबहुव्रीहिः मुष्टीमुष्टि

29

[[P36]]

३.४.२. उत्तरपदे स्मरणीयाः

३.४.२.१. सामान्यनियमाः

प्रत्ययः अन्तः समासः उदाहरणम्
१. पथिन्
अकारान्तः कर्मधारयः दीर्घपथः
" " बहुव्रीहिः रम्यपथः
" " द्वन्द्वः तीरपथौ
" " नञ्तत्पुरुषः अपथम्
नकारान्तः नञ्तत्पुरुषः अपन्थाः

३.४.२.२. विशेषनियमाः

३.४.२.२. (अ) तत्पुरुषः
प्रत्ययः अन्तः लिङ्गम् उदाहरणम्
१. रात्रि
अच् (अ) अकारान्तः पुंल्लिङ्गः सर्वरात्रः
" " " पूर्वरात्रः
" " " अपररात्रः
" " " अर्धरात्रः
" " " उत्तररात्रः
" " " मध्यरात्रः
" " " पश्चिमरात्रः
" " " संख्यातरात्रः
" " " पुण्यरात्रः
" " " अतिरात्रः
" " नपुंसकलिङ्गः नवरात्रम्

30

[[P37]]

प्रत्ययः अन्तः लिङ्गम् उदाहरणम्
२. राजन् टच् (अ) अकारान्तः पुंल्लिङ्गः देवराजः
" टच् ईकारान्तः स्त्रीलिङ्गः अतिराजी
अहन् टच् अकारान्तः पुंल्लिङ्गः सप्ताहः
सखि " " " कृष्णसखः
" " ईकारान्तः स्त्रीलिङ्गः अतिसखी
३. नौ " अकारान्तः नपुंसकलिङ्गः त्रिनावम्
" " " " अर्धनावम्
[यदा पूर्वत्र एते भवन्ति तदा समासान्त-प्रत्ययाः न भवन्ति ।] ↓
४. सु नकारान्तः पुंल्लिङ्गः सुराजा
" इकारान्तः " सुसखा
अति नकारान्तः " अतिराजा
" इकारान्तः " अतिसखा
५. किम् नकारान्तः " किंराजा
" इकारान्तः " किंसखा
" ओकारान्तः स्त्रीलिङ्गः/पुंल्लिङ्गः किंगौः
६. नञ् नकारान्तः पुंल्लिङ्गः अराजा
" इकारान्तः " असखा
" नकारान्तः " अपन्थाः
" अप् अकारान्तः नपुंसकलिङ्गः अपथम्

31

[[P38]]

३.४.२.२. (आ) बहुव्रीहिः
शब्दः प्रत्ययः अन्तः उदाहरणम्
१. धर्म अनिच् (अन्) नकारान्तः दृष्टधर्मा
२. …. इच् (इ) इकारान्तः दण्डादण्डि
३. धनुस् अनङ् (अन्) नकारान्तः गाण्डीवधन्वा
४. जाया निङ् (नि) इकारान्तः कौसल्याजानिः
५. गन्धः इत् (इ) इकारान्तः उद्गन्धिः
" " " सुगन्धिः
" " " सुरभिगन्धिः
" " " घृतगन्धिः
" " " मत्स्यगन्धिः
६. पादः (लोपः) दकारान्तः द्विपाद्
" " " सुपाद्
७. ईकारान्तः कप् (क) अकारान्तः तीर्णनदीकः
ऊकारान्तः " " दृष्टवधूकः
ऋकारान्तः " " नदीमातृकः
८. शिष्टाः कप् (क) (विकल्पेन) अकारान्तः
तत्तदन्तः
कठोरचेतस्कः
कठोरचेताः
९. आकारान्तः ह्रस्वः अकारान्तः अधीतविद्यः
कप् ह्रस्वः च (विकल्पेन ह्रस्वः) " अधीतविद्यकः
" अधीतविद्याकः
१०. गो ह्रस्वः उकारान्तः चित्रगुः

32

[[P39]]

३.४.२.२. (इ) द्वन्द्वः
शब्दः प्रत्ययः अन्तः लिङ्गम् उदाहरणम्
१. चवर्गान्तः टच् अकारान्तः नपुंसकलिङ्गः वाक्त्वचम्
दकारान्तः " " " सम्पद्विपदम्
षकारान्तः " " " वाक्त्विषम्
हकारान्तः " " " छत्रोपानहम्
३.४.२.२. (ई) अव्ययीभावः
शब्दः प्रत्ययः अन्तः लिङ्गम् उदाहरणम्
अकारान्तः अकारान्तः नपुंसकलिङ्गः उपकृष्णम्
आकारान्तः " अव्ययं वा उपशालम्
इकारान्तः इकारान्तः " यथाशक्ति
ईकारान्तः " " आकन्याकुमारि
उकारान्तः उकारान्तः " निर्वस्तु
ऊकारान्तः " " प्रतिवधु
ओकारान्तः " " उपगु
ऋकारान्तः ऋकारान्तः " प्रतिकार्यकर्तृ
अन्नन्तः टच् (अ) अकारान्तः " अध्यात्मम्

33

[[P40]]


    • पूर्वपदसम्बन्धिनः सर्वे नियमाः अत्र नोच्यन्ते । प्रतिशतं नवतिः नियमाः लिख्यन्ते ।
     ↩︎
  1. १. प्रसिद्धाः नियमाः लिखिताः । ↩︎

  2. ४. शुभरात्रिः, शिवरात्रिः इत्यादौ अस्य नियमस्य अप्रसक्त्या रात्रिशब्दः इकारान्तः स्त्रीलिङ्गश्च । ↩︎

  3. ५. अहन् शब्दस्योदाहरणम् - अहोरात्र इति । अयं द्वन्द्वसमासः । ↩︎

  4. २. समासे रात्रिशब्दः यदा अकारान्तः भवति तदा पुंल्लिङ्गः भवति । (रात्राह्नाहाः पुंसि - २.४.२९) ↩︎

  5. ३. संख्यापूर्वं रात्रं क्लीबम् । ↩︎

    • टच्प्रत्ययान्तः अहन्शब्दः पुंल्लिङ्गः । (रात्राह्नाहाः पुंसि - २.४.२९)
     ↩︎
    • नपुंसकत्वं लोकात् ।
     ↩︎
    • अपथं नपुंसकम् - २.४.३०
     ↩︎
    • पूर्वोक्ताः - बहुव्रीहौ बहुभ्यः शब्देभ्यः समासान्तप्रत्ययाः विहिताः । सर्वसमाससाधारणप्रत्यया अपि केभ्यश्चित् विहिताः । ते शब्दाः पूर्वोक्तशब्देन ग्राह्याः । न तु अत्र पूर्वोक्ता एव ।
     ↩︎
    • आयतीगवम् इत्येकं निपातनाद् अकारान्तम् ।
     ↩︎
    • प्रमुखाः नियमाः लिखिताः । अन्ये नियमाः अपि सन्ति । अपवादाः अपि सन्ति ।
     ↩︎
  6. ** ४५ - पृष्ठं पश्यन्तु । ↩︎

    • सप्तदशपृष्ठतः अष्टाविंशतिपृष्ठपर्यन्तं ये अंशाः उक्ताः ते अत्र संक्षेपेण स्मरणार्थं पुनः लिखिताः ।
     ↩︎