२ सोदाहरणं समासभेदाः

1

२.१. तत्पुरुषः

(प्रायः उत्तरपदार्थप्रधानः तत्पुरुषः)

२.१. तत्पुरुषः चतुर्धा - १. सामान्यः
२. कर्मधारयः
३. द्विगुः
४. नञ्प्रभृतयः इति ।

२.१.१. सामान्यः सप्तधा

नाम2 विग्रहः समासः
१. प्रथमातत्पुरुषः अर्धं ग्रामस्य अर्धग्रामः
२. द्वितीयातत्पुरुषः गृहं गतः गृहगतः
३. तृतीयातत्पुरुषः नखैः भिन्नः नखभिन्नः
४. चतुर्थीतत्पुरुषः गवे हितम् गोहितम्
५. पञ्चमीतत्पुरुषः चोरात् भयम् चोरभयम्
६. षष्ठीतत्पुरुषः वृक्षस्य मूलम् वृक्षमूलम्
७. सप्तमीतत्पुरुषः कार्ये कुशलः कार्यकुशलः

6

[[P13]]

२.१.२. कर्मधारयः नवधा

[तत्पुरुषः समानाधिकरणः कर्मधारयः - १.२.४२]

नाम विग्रहः समासः
१. विशेषणपूर्वपदः नीलो मेघः नीलमेघः
२. विशेषणोत्तरपदः वैयाकरणः खसूचिः वैयाकरणखसूचिः
३. विशेषणोभयपदः शीतम् उष्णम् शीतोष्णम्
४. उपमानपूर्वपदः3 मेघः इव श्यामः मेघश्यामः
५. उपमानोत्तरपदः नरः व्याघ्रः इव नरव्याघ्रः
६. अवधारणापूर्वपदः विद्या एव धनम् विद्याधनम्
७. सम्भावनापूर्वपदः आम्रः इति वृक्षः आम्रवृक्षः
८. मध्यमपदलोपः शाकप्रियः पार्थिवः शाकपार्थिवः
९. मयूरव्यंसकादिः अन्यो देशः देशान्तरम्

४. समानविभक्त्यन्तयोर् एव कर्मधारयः । अतः विग्रहवाक्ये पदद्वयम् अपि समानविभक्त्यन्तं (प्रथमाविभक्त्यन्तम्) भवति ।[^p13_1] ५. कर्मधारये ऽपि अन्वर्थानि नामानि । यथा - विशेषणम् उत्तरपदं यस्य सः विशेषणोत्तरपदः कर्मधारयः । ‘नीलमेघः’ इत्यत्र ‘नीलः’ इति विशेषणं पूर्वपदं च । अतः ‘नीलमेघः’ इति विशेषणपूर्वपदः कर्मधारयः । एवम् एव षट्सु भेदेषु ज्ञेयम् । मध्यमपदलोपः इत्यस्य विग्रहः मध्यमपदस्य लोपः यस्य सः इति । मयूरव्यंसकादिः इति गणस्य नाम । गणे बहवः शब्दाः सन्ति । तेषु प्रथमः शब्दः मयूरव्यंसकः । (व्यंसकः = धूर्तः) । इमानि नामानि पाणिनिना न विहितानि । छात्राणां बोधः सुकरो भवतु इति आधुनिकैः कृतानि ।[^p13_2] ६. नीलः मेघः = नीलमेघः । नीलौ मेघौ = नीलमेघौ । नीलाः मेघाः = नीलमेघाः । इति त्रिषु वचनेष्व्-अपि समासो भवति । एवं सर्वेषु समासेषु अर्थं दृष्ट्वा विग्रहः समासश्च वक्तव्यः इति ज्ञेयम् ।

7

[[P14]]

२.१.३. द्विगुः त्रिधा

[ तद्धितार्थोत्तरपदसमाहारे च - २.१.५१
संख्यापूर्वो द्विगुः - २.१.५२]

नाम विग्रहः समासः
१. समाहारद्विगुः[^p14_2] त्रयाणां लोकानां समाहारः त्रिलोकी
२. तद्धितार्थद्विगुः षण्णां मातृणाम् अपत्यम् षाण्मातुरः[^p14_3]
३. उत्तरपदद्विगुः पञ्च गावः धनं यस्य सः पञ्चगवधनः[^p14_4]

७. द्विगुसमासे पूर्वपदं सङ्ख्यावाचकम् एव भवति । किन्तु सङ्ख्यापूर्वः सर्वो ऽपि न द्विगुः । यथा - पञ्च गावः यस्य सः पञ्चगुः इति बहुव्रीहिः । द्वौ च दश च = द्वादश इति द्वन्द्वः । अष्टाधिका विंशतिः = अष्टाविंशतिः इति कर्मधारयो ऽप्य्-अस्ति ।[^p14_1] ८. सङ्ख्याविशेषणपूर्वपदकर्मधारयस्य स्थाने ऽसंज्ञायाम् अस्य प्रयोगः । सङ्ख्यापूर्वपद-कर्मधारयः संज्ञायाम् एव भवति । यथा - सप्त ऋषयः = सप्तर्षयः । सप्तर्षीणाम् इयं संज्ञा । विशेषणपूर्वपदः कर्मधारयः अयम् । अनेकवद्भावी द्विगुः अयम् इति क्वचित् लिख्यते । तत् तु अपाणिनीयम् । तादृशद्विगोः असम्भवात् । ९. षाण्मातुरः इति तद्धितान्तः शब्दः । तत्र षट्शब्दस्य मातृशब्दस्य चैव द्विगुसमासः । तद्धितप्रत्ययेन विना तद्धितार्थद्विगोः स्थितिः नास्ति । १०. ‘पञ्चगवधनः’ इति बहुव्रीहिः । पञ्चशब्द-गोशब्दयोर् एव द्विगुसमासः । उत्तरपद-द्विगोर् अपि बहुव्रीहिं विना स्थितिः नास्ति ।

8

[[P15]]

२.१.४. नञ्प्रभृतयः[^p15_1] पञ्च

[नञ् - २.२.६,
कुगतिप्रादयः - २.२.१८,
उपपदमतिङ् - २.२.१९]

नाम विग्रहः समासः
१. नञ्समासः न धर्मः अधर्मः
२. कुसमासः कुत्सितः पुरुषः कुपुरुषः
३. गतिसमासः अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य
४. प्रादिसमासः १. प्रगतः आचार्यः प्राचार्यः
२. अतिक्रान्तः देवम् अतिदेवः
३. निष्क्रान्तः वाराणस्याः निर्वाराणसिः
५. उपपदसमासः कुम्भं करोति इति[^p15_2] कुम्भकारः

११. ‘कर्मधारयः नवधा’ इत्य्-उक्ते कर्मधारयस्यैव नव प्रभेदाः इत्य्-अर्थः । किन्तु ‘नञ्प्रभृतयः पञ्च’ इत्य्-उक्ते नञ्समासस्यैव पञ्च प्रभेदाः इति न मन्तव्यम् । अत एव प्रभृतिशब्दः प्रयुक्तः । १२. अत्र विग्रहे एव तिङन्तं श्रूयते, न तु समासे । अतः तिङन्तेन सह समासः इति न मन्तव्यम् ।


9

[[P16]]

२.२. बहुव्रीहिः

[ अन्यपदार्थप्रधानः बहुव्रीहिः ]

२.२. बहुव्रीहिः द्विधा - १. सामान्यः २. विशेषः इति ।

२.२.१. सामान्यः4 षोढा

नाम विग्रहः समासः
१. द्वितीयार्थबहुव्रीहिः प्राप्तम् उदकं यं सः प्राप्तोदकः (ग्रामः)
२. तृतीयार्थबहुव्रीहिः पीतं क्षीरं येन सः पीतक्षीरः (बालः)
३. चतुर्थ्यर्थबहुव्रीहिः दत्तः पशुः यस्मै सः दत्तपशुः (रुद्रः)
४. पञ्चम्यर्थबहुव्रीहिः उद्भृतं जलं यस्मात् सः उद्धृतजलः (कूपः)
५. षष्ठ्यर्थबहुव्रीहिः पीतम् अम्बरं यस्य सः पीताम्बरः (हरिः)
६. सप्तम्यर्थबहुव्रीहिः बहूनि फलानि यस्मिन् सः बहुफलः (वृक्षः)

10

[[P17]]

२.२.२. विशेषः नवधा

नाम विग्रहः समासः
१. व्यधिकरणः चक्रं पाणौ यस्य सः चक्रपाणिः
२. सङ्ख्योत्तरपदः विंशतेः समीपे ये सन्ति ते उपविंशाः
३. सङ्ख्योभयपदः द्वौ वा त्रयो वा द्वित्राः
४. सहपूर्वपदः शिष्येण सह वर्तते इति सशिष्यः
५. व्यतिहारलक्षणः केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् केशाकेशि
६. दिगन्तराललक्षणः दक्षिणस्याः पूर्वस्याः दिशो यदन्तरालम् दक्षिणपूर्वा
७. नञ्बहुव्रीहिः5 अविद्यमानः पुत्रः यस्य सः अपुत्रः
८. प्रादिबहुव्रीहिः निर्गता कृपा यस्मात् सः निष्कृपः
९. उपमानपूर्वपदः गजाननम् इव आननं यस्य सः गजाननः

11

[[P18]]

२.३. द्वन्द्वः

[उभयपदार्थप्रधानः द्वन्द्वः]

२.३. द्वन्द्वः द्विधा - १. इतरेतरः २. समाहारः इति ।

२.३.१. इतरेतरः द्विधा

नाम विग्रहः समासः
१. द्विपदद्वन्द्वः रामश्च कृष्णश्च रामकृष्णौ
२. बहुपदद्वन्द्वः हरिश्च हरश्च गुरुश्च हरिहरगुरवः

२.३.२. समाहारः द्विधा

नाम विग्रहः समासः
१. 6समाहारः संज्ञा च परिभाषा च अनयोः समाहारः संज्ञापरिभाषम्
२. 7नित्यसमाहारः पाणी च पादौ च एतेषां समाहारः पाणिपादम्

12

[[P19]]

२.४. अव्ययीभावः

[पूर्वपदार्थप्रधानः अव्ययीभावः]

२.४. अव्ययीभावः8 प्रायः त्रयस्त्रिंशद्धा । (प्रसिद्धाः केचन भेदाः प्रदर्श्यन्ते ।)

नाम विग्रहः समासः
१. समीपार्थकः कृष्णस्य समीपम् उपकृष्णम्
२. अभावार्थकः मक्षिकाणाम् अभावः निर्मक्षिकम्
३. योग्यतार्थकः रूपस्य योग्यम् अनुरूपम्
४. वीप्सार्थकः दिनं दिनं प्रति प्रतिदिनम्
५. पदार्थानतिवृत्त्यर्थकः शक्तिम् अनतिक्रम्य यथाशक्ति
६. मर्यादार्थकः आ मुक्तेः आमुक्ति (संसारः)
७. अभिविध्यर्थकः आ बालेभ्यः आबालम् (हरिभक्तिः)
८. आभिमुख्यार्थकः अग्निम् अभि अभ्यग्नि
९. मात्रार्थकः शाकस्य लेशः शाकप्रति
१०. अवधारणार्थकः यावन्तः श्लोकाः यावच्छ्लोकम् (अच्युतप्रणामाः)
११. पारेशब्दयुक्तः पारे समुद्रस्य पारेसमुद्रम्
१२. मध्येशब्दयुक्तः मध्ये गङ्गायाः मध्येगङ्गम्

13

[[P20]]

२.५. समासभेदसम्बद्धाः अन्ये केचन अंशाः

२.५.१. एकशेषः

एकशेषः समासो न । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु एकशेषः अन्यतमः । अतः समासः यथा वृत्तिः तथैव एकशेषो ऽपि पृथक् वृत्तिर् एव । अयम् एकशेषः द्वन्द्वसमासस्य अपवादः । अतः एकशेषस्यापि उदाहरणानि प्रदर्श्यन्ते ।

यथा – १. माता च पिता च = पितरौ
२. भ्राता च स्वसा च = भ्रातरौ
३. पुत्रश्च दुहिता च = पुत्रौ
४. हंसश्च हंसी च = हंसौ
५. स च रामश्च = तौ
६. स च यश्च = यौ
७. भवन्तश्च भवत्यश्च = भवन्तः
८. यूयं च वयं च = वयम्
९. रामश्च रामश्च = रामौ

२.५.२. अलुक्समासः

नायं पृथक् समासः । समासे कृते पूर्वोत्तरपदयोः विभक्त्योः लोपः भवतीति उक्तम् । क्वचित् पूर्वपदस्य विभक्तेः लोपः न भवति । तदा अलुक्समासः इति व्यवहारः ।

यथा
वनेचरः - अयम् उपपदसमासः ।
जनुषान्धः - अयं तृतीयातत्पुरुषः ।
आत्मनेपदम् - अयं चतुर्थीतत्पुरुषः ।
परस्मैपदम् - अयं चतुर्थीतत्पुरुषः ।
युधिष्ठिरः - अयं सप्तमीतत्पुरुषः ।
कण्ठेकालः - अयं व्यधिकरणबहुव्रीहिः ।
देवानांप्रियः - अयं षष्ठीतत्पुरुषः ।

14

[[P21]]

२.५.३. नित्यसमासः

अयम् अपि न पृथक् समासः । अव्ययीभावे ‘अव्ययं विभक्ति …….’ इत्यादिना सूत्रचतुष्टयेन विहितः अव्ययीभावः (आहत्य चतुर्विंशतिः अस्ति ।) नित्यसमासः । यत्र संज्ञादिषु समस्तपदेषु विग्रहस्यापेक्षया विशेषार्थस्य भानम् अस्ति तत्रापि नित्यसमास एव । अत एव नित्यसमासे अस्वपदविग्रहः । उपपदसमासादिषु यत्र अस्वपदविग्रहः प्रदर्श्यते तत्रापि नित्यसमासत्वम् एव ।

२.५.४. असमर्थसमासः

परस्परान्वितयोर् एव सुबन्तयोः समासः । किन्तु ययोः समासः इष्टः तयोः द्वयोः अन्वयः न भवति चेद् अपि क्वचित् समासः भवति ।

यथा - अपुनर्गेयाः श्लोकाः । पुनः न गेयाः इति विग्रहः । अत्र नञ्-शब्दस्य पुनः शब्दस्य च (अपुनः) समासः जातः । किन्तु नञः अन्वयः गेयपदेनैव, न तु पुनः शब्देन । तथापि समासः कृतः । अत एव एषः असमर्थसमासः इत्य्-उच्यते । एवम् एव सूर्यं न पश्यन्ति इति = असूर्यम्पश्याः इत्यादाव्-अपि ।

२.५.५. वृत्तिः9

विग्रहवाक्यावयवपदार्थेभ्यः परः = अन्यः यो ऽयं विशिष्टैकार्थः, तत्प्रतिपादिका वृत्तिः । प्रथमविगृहीतानां पदानां प्रत्येकम् अर्थवत्त्वेन, समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिः इति फलितम् ।

वृत्तयः पञ्च ।

कृत्-तद्धित-समास-एकशेष-सनाद्यन्तधातुरूपाः पञ्च वृत्तयः ।

15

[[P22]]

यथा -

नाम विग्रहः उदाहरणम्
१. कृद्वृत्तिः पचति इति पाचकः
२. तद्धितवृत्तिः दशरथस्य अपत्यम् दाशरथिः
३. समासवृत्तिः राज्ञः पुरुषः राजपुरुषः
४. एकशेषवृत्तिः माता च पिता च पितरौ
५. सनाद्यन्तधातुवृत्तिः १. पठितुम् इच्छति पिपठिषति
२. पुत्रम् आत्मन इच्छति पुत्रकाम्यति
३. पुनः पुनः/ अतिशयेन वा नृत्यति नरीनृत्यते
…………………. ………………….
…………………. ………………….
…………………. ………………….

16

[[P23]]


    • समासभेदानां विस्तरः चतुर्थप्रकरणे (पृ ३४) द्रष्टव्यः ।
     ↩︎
  1. ३. समासे श्रूयमाणं पूर्वपदं विग्रहावस्थायां यद्विभक्त्यन्तं भवति तद्विभक्तिनाम्ना व्यवहारः ।
    यथा - ग्रामं गतः = ग्रामगतः । अयं द्वितीयातत्पुरुषः । ↩︎

    • उपमानानि सामान्यवचनैर् एव समस्यन्ते । उपमानोपमेययोः साधारणः धर्मः सामान्यम् । तद्विशिष्टोपमेयवचनैः समासः इत्य्-अर्थः । ‘मेघश्यामः’ इत्यत्र श्यामशब्दः सामान्यवचनः । तेन ‘मेघ इव रामः = मेघरामः’ इति न भवति ।
     ↩︎
  2. १३. समानाधिकरणबहुव्रीहिर् एव सामान्यशब्देन अत्र व्यवहृतः । षट्स्व्-अपि भेदेषु विग्रहे पदद्वयम् अपि प्रथमाविभक्त्यन्तं भवति । किन्तु अन्यपदार्थस्य बोधकं यद् इति पदं विग्रहे यादृशविभक्त्यन्तं भवति तद्विभक्त्यर्थनाम्ना व्यवहारः क्रियते । यथा - पीतम् अम्बरं यस्य सः = पीताम्बरः । पीतम् अम्बरं चेति विग्रहे पदद्वयम् अपि प्रथमान्तम् । अन्यपदार्थस्य बोधकं ‘यद्’ इति पदं षष्ठ्यन्तम् । अतः अयं षष्ठ्यर्थबहुव्रीहिः इत्य्-उच्यते । बहुपदबहुव्रीहिः सामान्ये एव अन्तर्भवति । ↩︎

  3. १४. नञ्बहुव्रीहिः, प्रादिबहुव्रीहिः, उपमानपूर्वपदबहुव्रीहिश्च समानाधिकरण-बहुव्रीहौ एव अन्तर्भवन्ति । तत्तन्नाम्ना व्याख्यानादिषु व्यवह्रियते इति ज्ञापनार्थं केवलं विशेषे योजिताः । ↩︎

  4. १५. समाहारद्वन्द्वः सर्वत्र भवति । अतः घटपटम् इति, घटपटौ इति च भवति । ↩︎

  5. १६. प्राणितूर्यसेनाङ्गानां समाहारः एव । इतरेतरः न भवति । ‘पाणिपादाः’ इति अपशब्दः एव । ↩︎

  6. १७. अव्ययीभावस्य गणनायां सूक्ष्मः क्लेशः अस्ति । अतः प्रायः इत्य्-उक्तम् । ↩︎

    • वृत्तिज्ञानं क्वचिदपेक्षितं भवति इत्यतः वृत्तिः सङ्क्षेपेण निरूपिता अत्र ।
     ↩︎